१. सर्वापूर्वमियं येषामासीत् कृत्स्ना वसुन्धरा ।
२. प्रजापतिमुपादाय नृपाणां जयशालिनाम् ।
३. येषां स सगरो नाम सागरो येन खानितः ।
४. षष्ठिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ।
५. इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
६. महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥
७. तदिदं वर्तयिष्यामि सर्वं निखिलमादितः ।
८. धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥
९. कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
१०. निविष्टः सरयू तीरे प्रभूतधनधान्यवान् ॥
११. अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
१२. मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥
१३. कपाटतोरणवतीं सुविभक्तान्तरापणाम् ।
१४. सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ।
१५. सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।
१६. उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ।
१७. वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
१८. उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ।
१९. दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् ।
२०. वाजिवारणसंपूर्णां गोभिरुष्ट्रैः खरैस्तथा ।
२१. सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
२२. नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ।
२३. प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम् ।
२४. चित्रामष्टापदाकारां वरनारीगणायुताम् ।
२५. सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ।
२६. गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
२७. शालितण्डुलसंपूर्णामिक्षुकाण्डरसोदकाम् ।
२८. दुन्दुभीभिर् मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
२९. नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ।
३०. पुरीमावासयामास राजा दशरथस्तदा ॥
३१. तस्यां पुर्यामयोध्यायां वेदवित् सर्वसङ्ग्रहः ।
३२. दीर्घदर्शी महातेजाः पौरजानपदप्रियः ।
३३. महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ।
३४. बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः ।
३५. यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
३६. तथा दशरथो राजा लोकस्य परिरक्षिता ॥
३७. तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
३८. नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥
३९. सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।
४०. उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ।
४१. नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।
४२. नामृष्टो न नलिप्ताङ्गो नाप्यनङ्गदनिष्कधृक् ॥
४३. नामृष्टभोजी नादाता नासुगन्धश्च विद्यते ।
४४. नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥
४५. नास्तिको नानृतो वापि न कश्चिदबहुश्रुतः ।
४६. नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥
४७. कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् ।
४८. द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥
४९. दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।
५०. कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥
५१. तां पुरीं स महातेजा राजा दशरथो महान् ।
५२. शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥
५३. अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
५४. मन्त्रज्ञाश्चेंगितज्ञाश्च नित्यं प्रियहिते रताः ॥
५५. ऋत्विजौ द्वावभिमतौ तस्यास्तां ऋषिसत्तमौ ।
५६. वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ।
५७. विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
५८. श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ॥
५९. कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ।
६०. तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ॥
६१. क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ।
६२. तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा ।
६३. क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥
६४. कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
६५. प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि ॥
६६. कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
६७. अहितं वापि पुरुषं न विहिंस्युरदूषकम् ॥
६८. वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
६९. सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥
७०. विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ।
७१. सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या संपदान्विताः ।
७२. मन्त्रसंवरणे शक्ताः श्लक्ष्णाः सूक्ष्मासु बुद्धिषु ॥
७३. ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ।
७४. उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥
७५. तस्य चैवम्प्रभावस्य धर्मज्ञस्य महात्मनः ।
७६. सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः ॥
७७. चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
७८. सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥
७९. स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
८०. पुरोहितं वसिष्ठं च येऽथान्ये द्विजसत्तमाः ।
८१. तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
८२. इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत् ॥
८३. मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
८४. तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥
८५. तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
८६. कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥
८७. ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
८८. वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ॥
८९. ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।
९०. सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥
९१. सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
९२. शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥
९३. सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ।
९४. यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥
९५. ततः प्रीतोऽभवद्राजा श्रुत्वा तु द्विजभाषितम् ।
९६. अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
९७. अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥
९८. भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
९९. वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥
१००. तथेति च स राजानमब्रवीद् द्विजसत्तमः ।
१०१. करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥
१०२. ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् ।
१०३. यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥
१०४. इष्टकाः बहुसाहस्रीः शीघ्रमानीयतामिति ।
१०५. औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ॥
१०६. ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
१०७. भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥
१०८. तथा पौरजनस्यापि कर्त्तव्या बहुविस्तराः ।
१०९. आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।
११०. तथा जानपदस्यापि जनस्य बहुशोभनम् ॥
१११. दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।
११२. अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ॥
११३. सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ।
११४. न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ॥
११५. यज्ञकर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ।
११६. तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ॥
११७. यथा सर्वं सुविहितं न किञ्चित् परिहीयते ।
११८. तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ॥
११९. ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ।
१२०. निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥
१२१. ब्राह्मणान् क्षत्रियान्वैश्यान् शूद्रान्श्चैव सहस्रशः ।
१२२. समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ॥
१२३. वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।
१२४. व्यादिशत् पुरुषान्स्तत्र राज्ञामानयने शुभान् ॥
१२५. ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ।
१२६. बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ॥
१२७. ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ।
१२८. उपयाता नरव्याघ्र राजानस्तव शासनात् ॥
१२९. मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः ।
१३०. यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ॥
१३१. तथा वसिष्ठवचनात् यज्ञायतनमन्तिकात् ।
१३२. शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥
१३३. ततो वसिष्ठप्रमुखाः यज्ञकर्मारभन्स्तदा ।
१३४. यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि ॥
१३५. अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ।
१३६. कर्म कुर्वन्ति विधिवद्याजकाः वेदपारगाः ।
१३७. यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥
१३८. न चाहुतमभूत्तत्र स्खलितं वापि किञ्चन ।
१३९. दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥
१४०. न तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते ।
१४१. नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥
१४२. ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।
१४३. तापसा भुञ्जते चापि श्रमणा भुञ्जते तदा ॥
१४४. वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।
१४५. अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥
१४६. दीयतां दीयतामन्नं वासांसि विविधानि च ।
१४७. इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥
१४८. नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।
१४९. अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनाम् ॥
१५०. अन्नं हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः ।
१५१. अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥
१५२. कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।
१५३. प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ॥
१५४. ततो वै यजमानस्य पावकादतुलप्रभम् ।
१५५. प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥
१५६. कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् ।
१५७. शुभलक्षणसंपन्नं दिव्याभरणभूषितम् ।
१५८. दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम् ।
१५९. प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ।
१६०. समवेक्ष्याब्रवीत् वाक्यमिदं दशरथं नृपम् ॥
१६१. प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥
१६२. इदं तु नृपशार्दूल पायसं देवनिर्मितम् ।
१६३. भार्याणामनुरूपाणां अश्नीतेति प्रयच्छ वै ।
१६४. तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥
१६५. तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।
१६६. पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् ।
१६७. कौसल्यायै नरपतिः पायसार्धं ददौ तदा ॥
१६८. अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ।
१६९. कैकैय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ॥
१७०. प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ।
१७१. अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ॥
१७२. ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।
१७३. संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥
१७४. क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।
१७५. ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः ॥
१७६. ऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम् ।
१७७. मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।
१७८. तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ।
१७९. एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।
१८०. गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।
१८१. दशकोटीः सुवर्णस्य रजतस्य चतुर्गुणम् ॥
१८२. दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ।
१८३. कस्मैचिद् याचमानाय ददौ राघवनन्दनः ॥
१८४. ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।
१८५. प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥
१८६. तस्याशिषोऽथ विधिवद् ब्राह्मणैः समुदाहृताः ।
१८७. उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥
१८८. निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
१८९. समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
१९०. प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥
१९१. ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।
१९२. ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ।
१९३. कौसल्याजनयद्रामं सर्वलक्षणसंयुतम् ॥
१९४. कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।
१९५. यथा वरेण देवानामदितिर्वज्रपाणिना ॥
१९६. भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।
१९७. अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ ॥
१९८. पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ।
१९९. सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ ॥
२००. राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।
२०१. गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥
२०२. जगुः कलं च गन्धर्वा ननृतुश्चाप्सरो गणाः ।
२०३. देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥
२०४. उत्सवश्च महानासीदयोध्यायां जनाकुलः ।
२०५. रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः ॥
२०६. गायनैश्च विराविण्यो वादनैश्च तथापरैः ॥
२०७. प्रदेयान्श्च ददौ राजा सूतमागधवन्दिनाम् ।
२०८. ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥
२०९. अतीत्यैकादशाहं तु नामकर्म तदाकरोत् ॥
२१०. ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ।
२११. सौमित्रिं लक्ष्मण इति शत्रुघ्नमपरं तथा ॥
२१२. वसिष्ठः परमप्रीतो नामानि कृतवान्स्तदा ॥
२१३. तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥
२१४. तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ।
२१५. बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः ॥
२१६. सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ।
२१७. सर्वे ज्ञानोपपन्नाश्च सर्वे समुदिता गुणैः ॥
२१८. तेषामपि महातेजा रामः सत्यपराक्रमः ।
२१९. इष्टः सर्वस्य लोकस्य शशांक इव निर्मलः ॥
२२०. गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ।
२२१. धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ॥
२२२. बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ।
२२३. रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ॥
२२४. सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ।
२२५. लक्ष्मणो लक्ष्मिसंपन्नो बहिः प्राण इवापरः ॥
२२६. न च तेन विना निद्रां लभते पुरुषोत्तमः ।
२२७. मृष्टमन्नमुपानीतमश्नाति न हि तं विना ॥
२२८. यदा हि हयमारूढो मृगयां याति राघवः ।
२२९. तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ॥
२३०. भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ।
२३१. प्राणैः प्रियतरो नित्यं तस्य चासीत्तथाप्रियः ॥
२३२. स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ।
२३३. बभूव परमप्रीतो देवैरिव पितामहः ॥