०१ ०१ वाल्मीकिना आदिकाव्यप्रणयनम्

१. तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
२. नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥
३. कोऽन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
४. धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥
५. चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
६. विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥
७. आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।
८. कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥
९. एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
१०. महर्षे त्वं समर्थोऽसि ज्ञातुमेवं विधं नरम् ॥
११. श्रुत्वाचैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
१२. श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥
१३. बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
१४. मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥
१५. इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
१६. नियतात्मा महावीर्यो श्रुतिमान् धृतिमान् वशी ॥
१७. बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः ।
१८. पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥
१९. धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
२०. यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ।
२१. रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता ।
२२. रक्षिता स्वस्य धर्मस्य धनुर्वेदे च निष्ठितः ॥
२३. सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।
२४. स च सर्वगुणोपेतः स्मृतिमान् प्रतिभानवान् ।
२५. समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।
२६. विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ॥
२७. कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।
२८. धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
२९. तमेवं गुणसंपन्नं प्रियं दशरथः सुतम् ।
३०. ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रकृतिप्रियकाम्यया ।
३१. यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः ॥
३२. तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ।
३३. पूर्वं दत्तवरा देवी वरमेनमयाचत ॥
३४. विवासनं च रामस्य भरतस्याभिषेचनम् ।
३५. स सत्यवचनाद् राजा धर्मपाशेन संयतः ।
३६. विवासयामास सुतं रामं दशरथः प्रियम् ॥
३७. स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ॥
३८. तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ॥
३९. रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।
४०. सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥
४१. ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।
४२. चित्रकूटमनुप्राप्य तत्र ते न्यवसन् सुखम् ॥
४३. चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ।
४४. राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ॥
४५. गते तु तस्मिन् भरतो वसिष्टप्रमुखैर्द्विजैः ।
४६. नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः ॥
४७. स जगाम वनं वीरो रामपादप्रसादकः ।
४८. अयाचद् भ्रातरं गत्वा रामं सत्यपराक्रमम् ॥
४९. त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
५०. रामोऽपि परमोदारः सुमुखः सुमहायशाः ।
५१. पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।
५२. निवर्तयामास ततो भरतं भरताग्रजः ॥
५३. गते तु भरते (रामो) दण्डकान् प्रविवेश ह ॥
५४. वसतस्तस्य रामस्य वने वनचरैः सह ।
५५. ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ॥
५६. स तेषां प्रतिशुश्राव राक्षसानां तदा वने ।
५७. प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ॥
५८. तेन तत्रैव वसता जनस्थाननिवासिनी ।
५९. विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥
६०. ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
६१. खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ।
६२. निजघान रणे रामस्तेषां चैव पदानुगान् ॥
६३. ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।
६४. जगाम सहमारीचस्तस्याश्रमपदं तदा ॥
६५. तेन मायाविना दूरमपवाह्य नृपात्मजौ ।
६६. जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥
६७. गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।
६८. राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ॥
६९. मार्गमाणो वने सीतां रामो दशरथात्मजः ।
७०. पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥
७१. हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
७२. सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ।
७३. चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ॥
७४. प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥
७५. ततः सुग्रीववचनात् हत्वा वालिनमाहवे ।
७६. सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥
७७. स च सर्वान् समानीय वानरान् वानरर्षभः ।
७८. दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥
७९. ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
८०. शतयोजनविस्तीर्णं पुप्लुवे गगनार्णवम् ॥
८१. तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
८२. ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥
८३. निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
८४. समाश्वास्य च वैदेहीं पुनरायान् महाकपिः ॥
८५. न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥
८६. (रामः) सुग्रीवसहितो गत्वा तीरं महोदधेः ।
८७. समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥
८८. तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
८९. रामः सीतामनुप्राप्य पूजितः सर्वदेवतैः ।
९०. अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
९१. कृतकृत्यस्तदा रामो भ्रातृभिः सहितोऽनघः ।
९२. रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥
९३. प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
९४. निरामयो निरोगश्च दुर्भिक्षभयवर्जितः ॥
९६. नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।
९७. पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥
९८. यथावत् पूजितस्तेन देवर्षिर्नारदस्तथा ।
९९. आपृच्छ्यैवाभ्यनुज्ञातः स जगाम विहायसम् ॥
१००. स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा ।
१०१. जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥
१०२. स तु तीरं समासाद्य तमसाया मुनिस्तदा ।
१०३. शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥
१०४. अकर्दममिदं तीर्थं भरद्वाज निशामय ।
१०५. रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥
१०६. इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ।
१०७. एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।
१०८. प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥
१०९. स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।
११०. विचचार ह पश्यन्स्तत् सर्वतो विपुलं वनम् ॥
१११. तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।
११२. ददर्श भगवान्स्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥
११३. तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।
११४. जघान वैरनिलयो निषादस्तस्य पश्यतः ॥
११५. तं शोणितपरीताङ्गं चेष्टमानं महीतले ।
११६. भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥
११७. तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् ।
११८. ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥
११९. ततः करुणवेदित्वादधर्मोऽयमिति द्विजः ।
१२०. निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥
१२१. मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
१२२. यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥
१२३. तस्येत्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।
१२४. शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥
१२५. चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् ।
१२६. शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः ॥
१२७. पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
१२८. शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥
१२९. शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।
१३०. प्रतिजग्राह सन्तुष्टस्तस्य तुष्टोऽभवन्मुनिः ॥
१३१. सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
१३२. तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥
१३३. तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ।
१३४. मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥
१३५. समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।
१३६. सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥
१३७. तस्य बुद्धिरियं जाता महर्षेर्भावितात्मनः ।
१३८. रामस्य चरितं कृत्स्नमीदृशैः करवाण्यहम् ॥
१३९. उदारवृत्तार्थपदैर्मनोरमै-
१४०. स्तदास्य रामस्य चकार कीर्तिमान् ।
१४१. समाक्षरैः श्लोकशतैर्यशस्विनो
१४२. यशस्करं काव्यमुदारदर्शनः ॥
१४३. तदुपगतसमाससन्धियोगम्
१४४. सममधुरोपनतार्थवाक्यबद्धम् ।
१४५. रघुवरचरितं मुनिप्रणीतम्
१४६. दशशिरसश्च वधं निशामयध्वम् ॥