१०८ अनुचरणानुञा-नियोगाश् च

[अष्टाधिकशततमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. श्रीरामचन्द्रजीका भाइयों, सुग्रीव आदि वानरों तथा रीछोंके साथ परमधाम
    जानेका निश्चय और विभीषण, हनुमान्, जाम्बवान्, मैन्द एवं द्विविदको इस भूतलपर ही रहनेका आदेश देना
विश्वास-प्रस्तुतिः

ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।
प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥ १ ॥

सर्वाष् टीकाः
मूलम्

ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।
प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥ १ ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजीकी आज्ञा पाकर शीघ्रगामी दूत शीघ्र ही मधुरापुरीको चल दिये । उन्होंने मार्गमें कहीं भी पड़ाव नहीं डाला ॥ १ ॥

अनुवाद (कन्नड)

श्रीरामचन्द्रन आज्ञॆ पडॆदु शीघ्रगामि दूतरु, दारियल्लि ऎल्लियू तङ्गदे शीघ्रवागि मधुरापट्टणक्कॆ होदरु.॥1॥

विश्वास-प्रस्तुतिः

ततस्त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ ।
शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

ततस्त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ ।
शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ॥ २ ॥

अनुवाद (हिन्दी)

लगातार तीन दिन और तीन रात चलकर वे मधुरा पहुँचे और अयोध्याकी सारी बातें उन्होंने शत्रुघ्नसे यथार्थतः कह सुनायीं ॥ २ ॥

अनुवाद (कन्नड)

ऒन्दे समने मूरु हगलू, मूरु रात्रि प्रयाण माडि, मधुरापुरिगॆ होगि, अयोध्यॆय ऎल्ल समाचारवन्नु शत्रुघ्ननिगॆ यथावत्तागि तिळिसिदरु.॥2॥

विश्वास-प्रस्तुतिः

लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।
पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ ३ ॥
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।
कुशावतीति नाम्ना सा कृता रामेण धीमता ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।
पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ ३ ॥
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।
कुशावतीति नाम्ना सा कृता रामेण धीमता ॥ ४ ॥


लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।
पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ कुशस्य नगरी रम्या विन्द्यपर्वतरोधसि ।
कुशावतीति नाम्ना सा कृता रामेण धीमता ॥

अनुवाद (हिन्दी)

श्रीरामकी प्रतिज्ञा, लक्ष्मणका परित्याग, श्रीरामके दोनों पुत्रोंका राज्याभिषेक और पुरवासियोंका श्रीरामके साथ जानेका निश्चय आदि सब बातें बताकर दूतोंने यह भी कहा कि ‘परम बुद्धिमान् भगवान् श्रीरामने कुशके लिये विन्ध्यपर्वतके किनारे कुशावती नामक रमणीय नगरीका निर्माण कराया है ॥ ३-४ ॥

अनुवाद (कन्नड)

श्रीरामन प्रतिज्ञॆ, लक्ष्मणन परित्याग, श्रीरामन इब्बरू मक्कळ राज्याभिषेक, पुरवासिगळु श्रीराम नॊन्दिगॆ होगुव निश्चय, मॊदलाद ऎल्ल सङ्गतिगळन्नु तिळिसिदरु. परम बुद्धिवन्त भगवान् श्रीरामनु कुशनिगागि विन्ध्यपर्वतद तप्पलल्लि कुशावती ऎम्ब रमणीय नगरवन्नु निर्मिसिदनु.॥3-4॥

विश्वास-प्रस्तुतिः

श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ।
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ॥ ५ ॥
स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ॥ ६ ॥
विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।

सर्वाष् टीकाः
मूलम्

श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ।
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ॥ ५ ॥
स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ॥ ६ ॥
विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।

अनुवाद (हिन्दी)

‘इसी तरह लवके लिये श्रावस्ती नामसे प्रसिद्ध सुन्दर पुरी बसायी है । श्रीरघुनाथजी और भरतजी दोनों महारथी वीर अयोध्याको सूनी करके साकेतधामको जानेके लिये उद्योग कर रहे हैं ।’ इस प्रकार महात्मा शत्रुघ्नको शीघ्रतापूर्वक सब बातें बताकर दूतोंने कहा—‘राजन्! शीघ्रता कीजिये’ इतना कहकर वे चुप हो गये ॥ ५-६ १/२ ॥

अनुवाद (कन्नड)

इदे रीति लवनिगागि श्रावस्ती ऎम्ब प्रसिद्ध सुन्दरपुरियन्नु स्थापिसिदनु. श्रीरघुनाथ मत्तु भरत इब्बरू महारथि वीररु अयोध्यॆयन्नु बरिदागिसि साकेतधामक्कॆ होगलु हॊरटिरुवरु. हीगॆ शत्रुघ्ननिगॆ अवसरवागि ऎल्ल मातुगळन्नु तिळिसि दूतरु हेळिदरु - राजने! त्वरॆमाडि ऎन्दु हेळि अवरु सुम्मनादरु.॥5-6½॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् ॥ ७ ॥
प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।
तेषां सर्वं यथावृत्तमब्रवीद् रघुनन्दनः ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् ॥ ७ ॥
प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।
तेषां सर्वं यथावृत्तमब्रवीद् रघुनन्दनः ॥ ८ ॥

अनुवाद (हिन्दी)

अपने कुलका भयंकर संहार उपस्थित हुआ सुनकर रघुनन्दन शत्रुघ्नने समस्त प्रजा तथा काञ्चन नामक पुरोहितको बुलाया और उनसे सब बातें यथावत् कह सुनायीं ॥ ७-८ ॥

अनुवाद (कन्नड)

तन्न कुलद भयङ्कर संहार उपस्थितवादुदन्नु केळि रघुनन्दन शत्रुघ्ननु समस्त प्रजॆगळन्नु हागू काञ्चननॆम्ब पुरोहितरन्नु करॆसि, अवरल्लि ऎल्ल सङ्गतिगळन्नु यथावत्तागि तिळिसिदनु.॥7-8॥

विश्वास-प्रस्तुतिः

आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।
ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।
ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः ॥ ९ ॥

अनुवाद (हिन्दी)

उन्होंने यह भी बताया कि भाइयोंके साथ मेरे शरीरका भी वियोग होनेवाला है । इसके बाद वीर राजा शत्रुघ्नने अपने दोनों पुत्रोंका राज्याभिषेक किया ॥ ९ ॥

अनुवाद (कन्नड)

अण्णन्दिर जॊतॆगॆ नन्न शरीरवियोगवू आगुवुदु ऎन्दू तिळिसिदनु. बळिक वीर राजा शत्रुघ्ननु तन्न इब्बरु पुत्ररिगॆ पट्टाभिषेक माडिदनु.॥9॥

विश्वास-प्रस्तुतिः

सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।
धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ॥ १० ॥

सर्वाष् टीकाः
मूलम्

सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।
धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ॥ १० ॥

अनुवाद (हिन्दी)

सुबाहुने मधुराका राज्य पाया और शत्रुघातीने विदिशाका । मधुराकी सेनाके दो भाग करके राजा शत्रुघ्नने दोनों पुत्रोंको बाँट दिये तथा बाँटनेके योग्य धनका भी विभाजन करके उन दोनोंको दे दिया और उन्हें अपनी-अपनी राजधानीमें स्थापित कर दिया ॥ १० ॥

अनुवाद (कन्नड)

सुबाहु मधुराजनन्नु पडॆदनु मत्तु शत्रुघातियु विदिशा पडॆदुकॊण्डनु. मधुरॆय सैन्यवन्नु ऎरडु भाग माडि शत्रुघ्ननु इब्बरू पुत्ररिगॆ हञ्चिदनु हागू पालु माडलु योग्यवाद धनवन्नु विभाजिसि इब्बरिगू कॊट्टनु मत्तु अवरन्नु तम्म- तम्म राजधानिगळल्लि स्थापिसिदनु.॥10॥

विश्वास-प्रस्तुतिः

सुबाहुं मधुरायां च वैदिशे शत्रुघातिनम् ।
ययौ स्थाप्य तदायोध्यां रथेनैकेन राघवः ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

सुबाहुं मधुरायां च वैदिशे शत्रुघातिनम् ।
ययौ स्थाप्य तदायोध्यां रथेनैकेन राघवः ॥ ११ ॥

अनुवाद (हिन्दी)

इस प्रकार सुबाहुको मधुरामें तथा शत्रुघातीको विदिशामें स्थापित करके रघुकुलनन्दन शत्रुघ्न एकमात्र रथके द्वारा अयोध्याके लिये प्रस्थित हुए ॥ ११ ॥

अनुवाद (कन्नड)

हीगॆ सुबाहुवन्नु मधुरादल्लि हागू शत्रुघातियन्नु विदिशादल्लि स्थापिसि, शत्रुघ्ननु एकमात्र रथद मूलक अयोध्यॆगॆ प्रयाणिसिदनु.॥11॥

विश्वास-प्रस्तुतिः

स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।
सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।
सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥ १२ ॥


स ददर्श महात्मानं ज्वलन्तविम पावकम् ।
सूक्ष्म क्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥

अनुवाद (हिन्दी)

वहाँ पहुँचकर उन्होंने देखा महात्मा श्रीराम अपने तेजसे प्रज्वलित अग्निके समान उद्दीप्त हो रहे हैं । उनके शरीरपर महीन रेशमी वस्त्र शोभा पा रहा है तथा वे अविनाशी महर्षियोंके साथ विराजमान हैं ॥ १२ ॥

अनुवाद (कन्नड)

अल्लिगॆ होगि महात्मा श्रीरामनु तन्न तेजदिन्द प्रज्वलित अग्नियन्तॆ बॆळगुत्तिरुवुदन्नु शत्रुघ्ननु नोडिदनु. अवन शरीरदल्लि नयवाद रेश्मॆवस्त्र शोभिसुत्तित्तु हागू अवनु अविनाशी महर्षिगळॊन्दिगॆ विराजिसुत्तिद्दनु.॥12॥

विश्वास-प्रस्तुतिः

सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।
उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।
उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥ १३ ॥

अनुवाद (हिन्दी)

निकट जा हाथ जोड़कर उन्होंने श्रीरघुनाथजीको प्रणाम किया और धर्मका चिन्तन करते हुए इन्द्रियोंको काबूमें करके वे धर्मके ज्ञाता श्रीरामसे बोले— ॥ १३ ॥

अनुवाद (कन्नड)

बळिगॆ होगि कैमुगिदु श्रीरामनिगॆ प्रणाम माडि, धर्मवन्नु चिन्तिसुत्ता इन्द्रियगळन्नु हतोटियल्लिट्टुकॊण्डु अवनु धर्मज्ञनाद श्रीरघुनाथनल्लि हेळिदनु.॥13॥

विश्वास-प्रस्तुतिः

कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन ।
तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन ।
तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ॥ १४ ॥

अनुवाद (हिन्दी)

‘रघुकुलनन्दन! मैं अपने दोनों पुत्रोंका राज्याभिषेक करके आया हूँ । राजन्! आप मुझे भी अपने साथ चलनेके दृढ़ निश्चयसे युक्त समझें ॥ १४ ॥

अनुवाद (कन्नड)

रघुकुलनन्दन! नानु नन्न ऎरडू पुत्रर पट्टाभिषेक माडि बन्दिरुवॆनु. नीनु नन्नन्नु निन्न जॊतॆगॆ करॆदुकॊण्डु होगलु निश्चयिसु.॥14॥

विश्वास-प्रस्तुतिः

न चान्यदद्य वक्तव्यमतो वीर न शासनम् ।
विहन्यमानमिच्छामि मद्विधेन विशेषतः ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

न चान्यदद्य वक्तव्यमतो वीर न शासनम् ।
विहन्यमानमिच्छामि मद्विधेन विशेषतः ॥ १५ ॥

अनुवाद (हिन्दी)

‘वीर! आज इसके विपरीत आप मुझसे और कुछ न कहियेगा; क्योंकि उससे बढ़कर मेरे लिये दूसरा कोई दण्ड न होगा । मैं नहीं चाहता कि किसीके विशेषतः मुझ-जैसे सेवकके द्वारा आपकी आज्ञाका उल्लङ्घन हो’ ॥

अनुवाद (कन्नड)

वीरने! इन्दु इदक्कॆ विपरीतवागि एनू हेळबेड; एकॆन्दरॆ इदक्किन्त मिगिलागि ननगॆ दण्डनॆ बेरॆनिल्ल. विशेषवागि नन्नन्तह सेवकनिन्द निन्न आज्ञॆय उल्लङ्घनॆ आगदिरलि.॥15॥

विश्वास-प्रस्तुतिः

तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।
बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।
बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥ १६ ॥

अनुवाद (हिन्दी)

शत्रुघ्नका यह दृढ़ विचार जानकर श्रीरघुनाथजीने उनसे कहा—‘बहुत अच्छा’ ॥ १६ ॥

अनुवाद (कन्नड)

शत्रुघ्नन ई दृढ विचार तिळिदु रघुनन्दननु अवनल्लि सरि, हागॆये आगलि ऎन्दु हेळिदनु.॥16॥

विश्वास-प्रस्तुतिः

तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।
ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।
ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ॥ १७ ॥

अनुवाद (हिन्दी)

उनकी यह बात समाप्त होते ही इच्छानुसार रूप धारण करनेवाले वानर, रीछ और राक्षसोंके समुदाय बहुत बड़ी संख्यामें वहाँ आ पहुँचे ॥ १७ ॥

अनुवाद (कन्नड)

अवन मातु मुगियुवष्टरल्लि कामरूपिगळाद वानररु, करडिगळु, राक्षस समुदाय बहळ सङ्ख्यॆयल्लि अल्लिगॆ आगमिसिदरु.॥17॥

विश्वास-प्रस्तुतिः

सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।
तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।
तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ॥ १८ ॥

अनुवाद (हिन्दी)

साकेत-धामको जानेके लिये उद्यत हुए श्रीरामके दर्शनकी इच्छा मनमें लिये वे सभी वानर सुग्रीवको आगे करके वहाँ पधारे थे ॥ १८ ॥

अनुवाद (कन्नड)

साकेत धामक्कॆ होगलु उद्युक्तराद श्रीरामन दर्शनद इच्छॆयिन्द ऎल्ल वानररु सुग्रीवनन्नु मुन्दाळागिसि अल्लिगॆ बन्दिद्दरु.॥18॥

विश्वास-प्रस्तुतिः

देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।
रामक्षयं विदित्वा ते सर्व एव समागताः ॥ १९ ॥
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।

सर्वाष् टीकाः
मूलम्

देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।
रामक्षयं विदित्वा ते सर्व एव समागताः ॥ १९ ॥
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।

अनुवाद (हिन्दी)

उनमेंसे कितने ही देवताओंके पुत्र थे, कितने ही ऋषियोंके बालक थे और कितने ही गन्धर्वोंसे उत्पन्न हुए थे । श्रीरघुनाथजीके लीलासंवरणका समय जानकर वे सब-के-सब वहाँ आये थे । उक्त सभी वानर और राक्षस श्रीरामको प्रणाम करके बोले— ॥ १९ १/२ ॥

अनुवाद (कन्नड)

अवरल्लि ऎष्टो मन्दि देवतॆगळ पुत्ररागिद्दरु, कॆलवरु ऋषिगळ बालकरागिद्दरु, कॆलवरु गन्धर्वरिन्द उत्पन्नरागिद्दरु. श्रीरघुनाथन लीला संवरणद समयवन्नु अरितु अवरॆल्लरू अल्लिगॆ बन्दिद्दरु. ऎल्ल वानररु, राक्षसरु श्रीरामनन्नु वन्दिसि हेळिदरु .॥19½॥

विश्वास-प्रस्तुतिः

तवानुगमने राजन् सम्प्राप्ताः स्म समागताः ॥ २० ॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

तवानुगमने राजन् सम्प्राप्ताः स्म समागताः ॥ २० ॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥ २१ ॥

अनुवाद (हिन्दी)

‘राजन्! हम भी आपके साथ चलनेका निश्चय लेकर यहाँ आये हैं । पुरुषोत्तम श्रीराम! यदि आप हमें साथ लिये बिना ही चले जायँगे तो हम यह समझेंगे कि आपने यमदण्ड उठाकर हमें मार गिराया है’ ॥ २०-२१ ॥

अनुवाद (कन्नड)

राजा! नावू निम्मॊन्दिगॆ होगलु निश्चय माडिये इल्लिगॆ बन्दिरुवॆवु. पुरुषोत्तमनु श्रीरामा! नीवु नम्मन्नु जॊतॆगॆ करॆदुकॊण्डु होगदिद्दरॆ, नीवु यमदण्डवन्नॆत्ति नम्मन्नु हॊडॆदुरुळिसिदॆ ऎन्दे नावु तिळियुवॆवु.॥20-21॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः ।
प्रणम्य विधिवद् वीरं विज्ञापयितुमुद्यतः ॥ २२ ॥

सर्वाष् टीकाः
मूलम्

एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः ।
प्रणम्य विधिवद् वीरं विज्ञापयितुमुद्यतः ॥ २२ ॥

अनुवाद (हिन्दी)

इसी बीचमें महाबली सुग्रीव भी वीर श्रीरामको विधिपूर्वक प्रणाम करके अपना अभिप्राय निवेदन करनेके लिये उद्यत हो बोले— ॥ २२ ॥

अनुवाद (कन्नड)

अष्टरल्लि महाबली सुग्रीवनू वीर श्रीरामनिगॆ विधिवत्तागि नमस्करिसि, तन्न अभिप्रायवन्नु निवेदिसलु तॊडगिदनु.॥22॥

विश्वास-प्रस्तुतिः

अभिषिच्याङ्गदं वीरमागतोऽस्मि नरेश्वर ।
तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ॥ २३ ॥

सर्वाष् टीकाः
मूलम्

अभिषिच्याङ्गदं वीरमागतोऽस्मि नरेश्वर ।
तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ॥ २३ ॥

अनुवाद (हिन्दी)

‘नरेश्वर! मैं वीर अङ्गदका राज्याभिषेक करके आया हूँ । आप समझ लें कि मेरा भी आपके साथ चलनेका दृढ़ निश्चय है’ ॥ २३ ॥

अनुवाद (कन्नड)

नरेश्वर! नानु वीर अङ्गदनिगॆ पट्टाभिषेक माडि बन्दिरुवॆनु. निम्मॊन्दिगॆ बरलु नन्न दृढनिश्चयवॆन्दु तिळियिरि.॥23॥

विश्वास-प्रस्तुतिः

तस्य तद् वचनं श्रुत्वा रामो रमयतां वरः ।
वानरेन्द्रमथोवाच मैत्रं तस्यानुचिन्तयन् ॥ २४ ॥

सर्वाष् टीकाः
मूलम्

तस्य तद् वचनं श्रुत्वा रामो रमयतां वरः ।
वानरेन्द्रमथोवाच मैत्रं तस्यानुचिन्तयन् ॥ २४ ॥

अनुवाद (हिन्दी)

उनकी यह बात सुनकर मनको रमानेवाले पुरुषोंमें श्रेष्ठ श्रीरामने वानरराज सुग्रीवकी मित्रताका विचार करके उनसे कहा— ॥ २४ ॥

अनुवाद (कन्नड)

अवन मातन्नु केळि मनस्सन्नु रमिसुव पुरुषश्रेष्ठ श्रीरामनु वानरराज सुग्रीवन मित्रतॆय बग्गॆ विचारमाडि अवनल्लि हेळिदनु .॥24॥

विश्वास-प्रस्तुतिः

सखे शृणुष्व सुग्रीव न त्वयाहं विनाकृतः ।
गच्छेयं देवलोकं वा परमं वा पदं महत् ॥ २५ ॥

सर्वाष् टीकाः
मूलम्

सखे शृणुष्व सुग्रीव न त्वयाहं विनाकृतः ।
गच्छेयं देवलोकं वा परमं वा पदं महत् ॥ २५ ॥

अनुवाद (हिन्दी)

‘सखे सुग्रीव! मेरी बात सुनो । मैं तुम्हारे बिना देवलोकमें और महान् परमपद या परमधाममें भी नहीं जा सकता’ ॥ २५ ॥

अनुवाद (कन्नड)

सखनाद सुग्रीवने! नन्न मातन्नु केळिरि. नानु निन्नन्नु बिट्टु देवलोकक्कॆ, महान् परम पदक्कॆ अथवा परमधामक्कॆ होगलारॆनु.॥25॥

विश्वास-प्रस्तुतिः

तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।
विभीषणमथोवाच राक्षसेन्द्रं महायशाः ॥ २६ ॥

सर्वाष् टीकाः
मूलम्

तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।
विभीषणमथोवाच राक्षसेन्द्रं महायशाः ॥ २६ ॥

अनुवाद (हिन्दी)

पूर्वोक्त वानरों और राक्षसोंकी भी बात सुनकर महायशस्वी श्रीरघुनाथजी ‘बहुत अच्छा’ कहकर मुसकराये और राक्षसराज विभीषणसे बोले— ॥ २६ ॥

अनुवाद (कन्नड)

वानरर मत्तु राक्षसर मातन्नु केळि महा यशस्वी श्रीरघुनाथनु ‘हागॆये आगलि’ ऎन्दु हेळि मुगुळ्नक्कु राक्षसराजा विभीषणनल्लि हेळिदनु.॥26॥

विश्वास-प्रस्तुतिः

यावत् प्रजा धरिष्यन्ति तावत् त्वं वै विभीषण ।
राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि ॥ २७ ॥

सर्वाष् टीकाः
मूलम्

यावत् प्रजा धरिष्यन्ति तावत् त्वं वै विभीषण ।
राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि ॥ २७ ॥

अनुवाद (हिन्दी)

‘महापराक्रमी राक्षसराज विभीषण! जबतक संसारकी प्रजा जीवन धारण करेगी, तबतक तुम भी लङ्कामें रहकर अपने शरीरको धारण करोगे ॥ २७ ॥

अनुवाद (कन्नड)

महापराक्रमि राक्षसराज विभीषणने! जगत्तिन प्रजॆ जीविसि इरुववरॆगॆ, नीनू लङ्कॆयल्लि इद्दु तन्न शरीरवन्नु धरिसि इरु.॥27॥

विश्वास-प्रस्तुतिः

यावच्चन्द्रश्च सूर्यश्च यावत् तिष्ठति मेदिनी ।
यावच्च मत्कथा लोके तावद् राज्यं तवास्त्विह ॥ २८ ॥

सर्वाष् टीकाः
मूलम्

यावच्चन्द्रश्च सूर्यश्च यावत् तिष्ठति मेदिनी ।
यावच्च मत्कथा लोके तावद् राज्यं तवास्त्विह ॥ २८ ॥

अनुवाद (हिन्दी)

‘जबतक चन्द्रमा और सूर्य रहेंगे, जबतक पृथ्वी रहेगी और जबतक संसारमें मेरी कथा प्रचलित रहेगी, तबतक इस भूतलपर तुम्हारा राज्य बना रहेगा’ ॥ २८ ॥

अनुवाद (कन्नड)

चन्द्र-सूर्यरु इरुवतनक, पृथिवि इरुव तनक, प्रपञ्चदल्लि नन्न कथॆ प्रचलित इरुववरॆगॆ ई भूतळदल्लि निन्न राज्य इरुवुदु.॥28॥

विश्वास-प्रस्तुतिः

शासितश्च सखित्वेन कार्यं ते मम शासनम् ।
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ २९ ॥

सर्वाष् टीकाः
मूलम्

शासितश्च सखित्वेन कार्यं ते मम शासनम् ।
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ २९ ॥

अनुवाद (हिन्दी)

‘मैंने मित्रभावसे ये बातें तुमसे कही हैं । तुम्हें मेरी आज्ञाका पालन करना चाहिये । तुम धर्मपूर्वक प्रजाकी रक्षा करो । इस समय मैंने जो कुछ कहा है, तुम्हें उसका प्रतिवाद नहीं करना चाहिये ॥ २९ ॥

अनुवाद (कन्नड)

नानु मित्रभावदिन्द इदन्नु निन्नल्लि हेळिद्देनॆ. नीनु नन्न आज्ञॆयन्नु पालिसबेकु. नीनु धर्मपूर्वक प्रजॆयन्नु रक्षिसु. ईग नानु हेळिदुदन्नु विरोधिसबारदु.॥29॥

विश्वास-प्रस्तुतिः

किञ्चान्यद् वक्तुमिच्छामि राक्षसेन्द्र महाबल ।
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् ॥ ३० ॥
आराधनीयमनिशं देवैरपि सवासवैः ।

सर्वाष् टीकाः
मूलम्

किञ्चान्यद् वक्तुमिच्छामि राक्षसेन्द्र महाबल ।
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् ॥ ३० ॥
आराधनीयमनिशं देवैरपि सवासवैः ।

अनुवाद (हिन्दी)

‘महाबली राक्षसराज! इसके सिवा मैं तुमसे एक बात और कहना चाहता हूँ । हमारे इक्ष्वाकुकुलके देवता हैं भगवान् जगन्नाथ (श्रीशेषशायी भगवान् विष्णु) । इन्द्र आदि देवता भी उनकी निरन्तर आराधना करते रहते हैं । तुम भी सदा उनकी पूजा करते रहना’ ॥ ३० १/२ ॥

अनुवाद (कन्नड)

महाबली राक्षसराजने! इदल्लदॆ नानु निनगॆ इन्नॊन्दु मातु हेळलु बयसुवॆनु. नम्म इक्ष्वाकुकुलद देवतॆ भगवान् जगन्नाथनु. (श्रीशेषशायि भगवान् विष्णु). इन्द्रादि देवतॆगळू अवनन्नु निरन्तर आराधनॆ माडुत्तारॆ. नीनू सदा अवर पूजॆ माडुत्ता इरु.॥30½॥

विश्वास-प्रस्तुतिः

तथेति प्रतिजग्राह रामवाक्यं विभीषणः ॥ ३१ ॥
राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।

सर्वाष् टीकाः
मूलम्

तथेति प्रतिजग्राह रामवाक्यं विभीषणः ॥ ३१ ॥
राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।

अनुवाद (हिन्दी)

राक्षसराज विभीषणने श्रीरघुनाथजीकी इस आज्ञाको अपने हृदयमें धारण किया और ‘बहुत अच्छा’ कहकर उसका पालन स्वीकार किया ॥ ३१ १/२ ॥

अनुवाद (कन्नड)

राक्षसराज विभीषणनु रघुनाथन ई आज्ञॆयन्नु शिरसा वहिसिकॊण्डु ‘हागॆये आगलि’ ऎन्दु हेळि स्वीकरिसिदनु.॥31½॥

विश्वास-प्रस्तुतिः

तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ ३२ ॥
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां वृथा कृथाः ।

सर्वाष् टीकाः
मूलम्

तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ ३२ ॥
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां वृथा कृथाः ।

अनुवाद (हिन्दी)

विभीषणसे ऐसा कहकर श्रीरामचन्द्रजी हनुमान् जी से बोले—‘तुमने दीर्घकालतक जीवित रहनेका निश्चय किया है । अपनी इस प्रतिज्ञाको व्यर्थ न करो ॥ ३२ १/२ ॥

अनुवाद (कन्नड)

विभीषणनल्लि हीगॆ हेळि श्रीरामनु हनुमन्तनल्लि हेळिदनु- नीनु दीर्घकाल जीविसि इरलु निश्चयिसिरुवॆ. निन्न ई प्रतिज्ञॆयन्नु व्यर्थगॊळिसबेड.॥32½॥

विश्वास-प्रस्तुतिः

मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ॥ ३३ ॥
तावद् रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।

सर्वाष् टीकाः
मूलम्

मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ॥ ३३ ॥
तावद् रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।

अनुवाद (हिन्दी)

‘हरीश्वर! जबतक संसारमें मेरी कथाओंका प्रचार रहे, तबतक तुम भी मेरी आज्ञाका पालन करते हुए प्रसन्नतापूर्वक विचरते रहो’ ॥ ३३ १/२ ॥

अनुवाद (कन्नड)

हरीश्वर! जगत्तिनल्लि नन्न कथॆगळु प्रचार इरुवतनक नीनू नन्न आज्ञॆयन्नु पालिसुत्ता सन्तोषवागि सञ्चरिसुत्ता इरु.॥33½॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु हनुमान् राघवेण महात्मना ॥ ३४ ॥
वाक्यं विज्ञापयामास परं हर्षमवाप च ।

सर्वाष् टीकाः
मूलम्

एवमुक्तस्तु हनुमान् राघवेण महात्मना ॥ ३४ ॥
वाक्यं विज्ञापयामास परं हर्षमवाप च ।

अनुवाद (हिन्दी)

महात्मा श्रीरघुनाथजीके ऐसा कहनेपर हनुमान् जी को बड़ा हर्ष हुआ और वे इस प्रकार बोले— ॥ ३४ १/२ ॥

अनुवाद (कन्नड)

महात्मा श्रीरघुनाथनु हीगॆ हेळिदाग हनुमन्तनिगॆ बहळ हर्षवागि हीगॆ हेळिदनु.॥34½॥

विश्वास-प्रस्तुतिः

यावत् तव कथा लोके विचरिष्यति पावनी ॥ ३५ ॥
तावत् स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।

सर्वाष् टीकाः
मूलम्

यावत् तव कथा लोके विचरिष्यति पावनी ॥ ३५ ॥
तावत् स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।

अनुवाद (हिन्दी)

‘भगवन्! संसारमें जबतक आपकी पावन कथाका प्रचार रहेगा, तबतक आपके आदेशका पालन करता हुआ मैं इस पृथ्वीपर ही रहूँगा’ ॥ ३५ १/२ ॥

अनुवाद (कन्नड)

भगवन्ता! प्रपञ्चदल्लि निन्न पावन कथॆय प्रचार इरुवतनक, निन्न आदेशवन्नु पालिसुत्ता नानु ई भूमण्डलदल्लि इरुवॆनु.॥35½॥

विश्वास-प्रस्तुतिः

जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तदा ॥ ३६ ॥
मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।
यावत् कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ॥ ३७ ॥

सर्वाष् टीकाः
मूलम्

जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तदा ॥ ३६ ॥
मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।
यावत् कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ॥ ३७ ॥

अनुवाद (हिन्दी)

इसके बाद भगवान् ने ब्रह्माजीके पुत्र बूढ़े जाम्बवान् तथा मैन्द और द्विविदसे भी कहा—‘जाम्बवान् सहित तुम पाँचों व्यक्ति (जाम्बवान्, विभीषण, हनुमान्, मैन्द और द्विविद) तबतक जीवित रहो, जबतक कि प्रलय एवं कलियुग न आ जाय’ (इनमेंसे हनुमान् और विभीषण तो प्रलयकालतक रहनेवाले हैं और शेष तीन व्यक्ति कलि और द्वापरकी संधिमें श्रीकृष्णावतारके समय मारे गये या मर गये) ॥ ३६-३७ ॥

अनुवाद (कन्नड)

बळिक श्रीरामनु ब्रह्मदेवर पुत्र वृद्ध जाम्बवन्त हागू मैन्द - द्विविदरल्लि हेळिदनु-जाम्बवन्त सहित नीवु ऐदु मन्दिगळू (जाम्बवन्त, विभीषण, हनुमन्त, मैन्द, द्विविद) प्रळय मत्तु कलियुग बरुववरॆगॆ जीवितरागिरि. इवरल्लि हनुमन्त मत्तु विभीषणरादरो प्रळयकालदवरॆगॆ उळियुवरु. उळिद मूवरु कलि मत्तु द्वापरद सन्धिकालदल्लि श्रीकृष्णावतारद समय हतरादरु.॥36-37॥

विश्वास-प्रस्तुतिः

तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।
उवाच बाढं गच्छध्वं मया सार्धं यथोदितम् ॥ ३८ ॥

सर्वाष् टीकाः
मूलम्

तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।
उवाच बाढं गच्छध्वं मया सार्धं यथोदितम् ॥ ३८ ॥

अनुवाद (हिन्दी)

उन सबसे ऐसा कहकर श्रीरघुनाथजीने शेष सभी रीछों और वानरोंसे कहा—‘बहुत अच्छा’ तुमलोगोंकी बातें मुझे स्वीकार हैं । तुम सब अपने कथनानुसार मेरे साथ चलो’ ॥ ३८ ॥

अनुवाद (कन्नड)

अवरॆल्लरल्लि हीगॆ हेळि श्रीरघुनाथनु उळिद ऎल्ल करडि-वानररिगॆ हेळिदनु. बहळ ऒळ्ळॆयदु, निम्म मातु ननगॆ स्वीकारार्हवागिदॆ. नीवॆल्लरू नीवु हेळिदन्तॆ नन्नॊन्दिगॆ नडॆयिरि.॥38॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डेऽष्टाधिकशततमः सर्गः ॥ १०८ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें एक सौ आठवाँ सर्ग पूरा हुआ ॥ १०८ ॥