०९१ सिद्धता

[एकनवतितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. श्रीरामके आदेशसे अश्वमेध-यज्ञकी तैयारी
विश्वास-प्रस्तुतिः

एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ १ ॥

सर्वाष् टीकाः
मूलम्

एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ १ ॥

अनुवाद (हिन्दी)

अपने दोनों भाइयोंको यह कथा सुनाकर अमित तेजस्वी श्रीरामचन्द्रजीने लक्ष्मणसे पुनः यह धर्मयुक्त बात कही— ॥ १ ॥

अनुवाद (कन्नड)

इब्बरू सहोदररिगॆ ई कथॆ हेळि अमित तेजस्वी श्रीरामचन्द्रनु लक्ष्मणनल्लि पुनः हीगॆ धर्मयुक्त मातन्नु हेळिदनु.॥1॥

विश्वास-प्रस्तुतिः

वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् ।
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ २ ॥
एतान् सर्वान् समानीय मन्त्रयित्वा च लक्ष्मण ।
हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् ।
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ २ ॥
एतान् सर्वान् समानीय मन्त्रयित्वा च लक्ष्मण ।
हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ॥ ३ ॥


वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् ।
द्विजांश्च सर्वप्रवरानश्चमेधपुरस्कृतान् ॥ एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण ।
हयं लक्षणसम्पन्नंविमोक्ष्यामि समाधिना ॥

अनुवाद (हिन्दी)

‘लक्ष्मण! मैं अश्वमेध-यज्ञ करानेवाले ब्राह्मणोंमें अग्रगण्य एवं सर्वश्रेष्ठ वसिष्ठ, वामदेव, जाबालि और काश्यप आदि सभी द्विजोंको बुलाकर और उनसे सलाह लेकर पूरी सावधानीके साथ शुभ लक्षणोंसे सम्पन्न घोड़ा छोड़ूँगा’ ॥ २-३ ॥

अनुवाद (कन्नड)

लक्ष्मण! अश्वमेध यज्ञ माडुव ब्राह्मणरल्लि अग्रगण्यराद सर्वश्रेष्ठ वसिष्ठ, वामदेव, जाबालि, काश्यप मॊदलाद ऎल्ल द्विजरन्नु करॆसि, नानु अवरिन्द सलहॆ पडॆदु पूर्ण ऎच्चरिकॆ यॊन्दिगॆ शुभलक्षणगळिन्द कूडिद कुदुरॆयन्नु बिडुवॆनु.॥2-3॥

विश्वास-प्रस्तुतिः

तद् वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।
द्विजान् सर्वान् समाहूय दर्शयामास राघवम् ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

तद् वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।
द्विजान् सर्वान् समाहूय दर्शयामास राघवम् ॥ ४ ॥

अनुवाद (हिन्दी)

रघुनाथजीके कहे हुए इस वचनको सुनकर शीघ्रगामी लक्ष्मणने समस्त ब्राह्मणोंको बुलाकर उन्हें श्रीरामचन्द्रजीसे मिलाया ॥ ४ ॥

अनुवाद (कन्नड)

रघुनाथनु हेळिद मातन्नु केळि शीघ्रगामि लक्ष्मणनु समस्त ब्राह्मणरन्नु करॆसि श्रीरामनिगॆ भॆट्टि माडिसिदनु.॥4॥

विश्वास-प्रस्तुतिः

ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।
राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।
राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ५ ॥

अनुवाद (हिन्दी)

उन ब्राह्मणोंने देखा, देवतुल्य तेजस्वी और अत्यन्त दुर्जय श्रीराघवेन्द्र हमारे चरणोंमें प्रणाम करके खड़े हैं, तब उन्होंने शुभ-आशीर्वादोंद्वारा उनका सत्कार किया ॥ ५ ॥

अनुवाद (कन्नड)

देवतुल्य तेजस्वी, अत्यन्त दुर्जय श्रीराघवेन्द्रनु तम्म चरणगळिगॆ वन्दिसुत्तिरुवुदन्नु नोडिद ब्राह्मणरु शुभाशीर्वादगळिन्द अवन सत्कार माडिदरु.॥5॥

विश्वास-प्रस्तुतिः

प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।
उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।
उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः ॥ ६ ॥

अनुवाद (हिन्दी)

उस समय रघुकुलभूषण श्रीराम हाथ जोड़कर उन श्रेष्ठ ब्राह्मणोंसे अश्वमेध-यज्ञके विषयमें धर्मयुक्त श्रेष्ठ वचन बोले— ॥ ६ ॥

अनुवाद (कन्नड)

आग रघुकुलभूषण श्रीरामनु कैमुगिदु आ श्रेष्ठब्राह्मणरल्लि अश्वमेध यज्ञद विषयदल्लि धर्मयुक्त श्रेष्ठ मातुगळन्नाडिदनु.॥6॥

विश्वास-प्रस्तुतिः

तेऽपि रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।
अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

तेऽपि रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।
अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७ ॥

अनुवाद (हिन्दी)

वे सब ब्राह्मण भी श्रीरामकी वह बात सुनकर भगवान् शंकरको प्रणाम करके सब प्रकारसे अश्वमेध-यज्ञकी सराहना करने लगे ॥ ७ ॥

अनुवाद (कन्नड)

आ ऎल्ल ब्राह्मणरू श्रीरामन मातन्नु केळि भगवान् शङ्करनिगॆ प्रणामगैदु ऎल्ल विधदिन्द अश्वमेध यज्ञवन्नु हॊगळिदरु.॥7॥

विश्वास-प्रस्तुतिः

स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत् तदा ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत् तदा ॥ ८ ॥

अनुवाद (हिन्दी)

अश्वमेध-यज्ञके विषयमें उन श्रेष्ठ ब्राह्मणोंका अद्भुत ज्ञानसे युक्त वचन सुनकर श्रीरामचन्द्रजीको बड़ी प्रसन्नता हुई ॥ ८ ॥

अनुवाद (कन्नड)

अश्वमेध यज्ञद विषयदल्लि आ श्रेष्ठ ब्राह्मणर अद्भुत ज्ञानदिन्द कूडिद मातन्नु केळि श्रीरामचन्द्रनिगॆ बहळ सन्तोषवायितु.॥8॥

विश्वास-प्रस्तुतिः

विज्ञाय कर्म तत् तेषां रामो लक्ष्मणमब्रवीत् ।
प्रेषयस्व महाबाहो सुग्रीवाय महात्मने ॥ ९ ॥
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।
सार्धमागच्छ भद्रं ते अनुभोक्तुं महोत्सवम् ॥ १० ॥

सर्वाष् टीकाः
मूलम्

विज्ञाय कर्म तत् तेषां रामो लक्ष्मणमब्रवीत् ।
प्रेषयस्व महाबाहो सुग्रीवाय महात्मने ॥ ९ ॥
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।
सार्धमागच्छ भद्रं ते अनुभोक्तुं महोत्सवम् ॥ १० ॥

अनुवाद (हिन्दी)

उस कर्मके लिये उन ब्राह्मणोंकी स्वीकृति जानकर श्रीराम लक्ष्मणसे बोले—‘महाबाहो! तुम महात्मा वानरराज सुग्रीवके पास यह संदेश भेजो कि ‘कपिश्रेष्ठ! तुम बहुत-से विशालकाय वनवासी वानरोंके साथ यहाँ यज्ञ-महोत्सवका आनन्द लेनेके लिये आओ । तुम्हारा कल्याण हो’ ॥ ९-१० ॥

अनुवाद (कन्नड)

आ कर्मक्कागि आ ब्राह्मणर स्वीकृति तिळिदु श्रीरामनु लक्ष्मणनल्लि हेळिदनु- महाबाहो! नीनु महात्मा वानरराज सुग्रीवनिगॆ ई सन्देश कळिसु - कपिश्रेष्ठने! नीनु बहळष्टु विशालकाय वनवासी वानररॊन्दिगॆ यज्ञ महोत्सवद आनन्द पडॆयलु इल्लिगॆ बन्दुबिडु. निनगॆ मङ्गळवागलि.॥9-10॥

विश्वास-प्रस्तुतिः

विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।
अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।
अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥ ११ ॥

अनुवाद (हिन्दी)

‘साथ ही अतुल-पराक्रमी विभीषणको भी यह सूचना दो कि ‘वे इच्छानुसार चलनेवाले बहुत-से राक्षसोंके साथ हमारे महान् अश्वमेध-यज्ञमें पधारें’ ॥ ११ ॥

अनुवाद (कन्नड)

जॊतॆगॆ अतुल पराक्रमि विभीषणनू कामरूपिगळाद अनेक राक्षसरॊन्दिगॆ नम्म महा अश्वमेधयज्ञक्कॆ आगमिसबेकु ऎम्ब ई सूचनॆयन्नु कॊडु.॥11॥

विश्वास-प्रस्तुतिः

राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।
सानुगाः क्षिप्रमायान्तु यज्ञं भूमिनिरीक्षकाः ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।
सानुगाः क्षिप्रमायान्तु यज्ञं भूमिनिरीक्षकाः ॥ १२ ॥

अनुवाद (हिन्दी)

‘इनके सिवा मेरा प्रिय करनेकी इच्छावाले जो महाभाग राजा हैं, वे भी यज्ञभूमि देखनेके लिये सेवकोंसहित शीघ्र यहाँ आवें ॥ १२ ॥

अनुवाद (कन्नड)

इदल्लदॆ नन्न प्रियवन्नु माडलु इच्छिसुव महाराजरू कूड यज्ञवन्नु नोडलु सैन्य सेवकरॊन्दिगॆ बरलि.॥12॥

विश्वास-प्रस्तुतिः

देशान्तरगता ये च द्विजा धर्मसमाहिताः ।
आमन्त्रयस्व तान् सर्वानश्वमेधाय लक्ष्मण ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

देशान्तरगता ये च द्विजा धर्मसमाहिताः ।
आमन्त्रयस्व तान् सर्वानश्वमेधाय लक्ष्मण ॥ १३ ॥


देशान्तरगता ये च द्विजाधर्मसमाहिताः ।
आमन्त्रयस्व तान् सर्वानश्चमेधाय लक्ष्मण ॥

अनुवाद (हिन्दी)

‘लक्ष्मण! जो धर्मनिष्ठ ब्राह्मण कार्यवश दूसरे-दूसरे देशोंमें चले गये हैं, उन सबको अपने अश्वमेध-यज्ञके लिये आमन्त्रित करो ॥ १३ ॥

अनुवाद (कन्नड)

लक्ष्मण! कार्यवश बेरॆ-बेरॆ देशगळिगॆ होगिरुव धर्मनिष्ठ ब्राह्मणरॆल्लरन्नु नम्म अश्वमेध यज्ञक्कागि आमन्त्रिसु.॥13॥

विश्वास-प्रस्तुतिः

ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।
देशान्तरगताः सर्वे सदाराश्च द्विजातयः ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।
देशान्तरगताः सर्वे सदाराश्च द्विजातयः ॥ १४ ॥

अनुवाद (हिन्दी)

‘महाबाहो! तपोधन ऋषियोंको तथा अन्य राज्यमें रहनेवाले स्त्रियोंसहित समस्त ब्रह्मर्षियोंको भी बुला लो ॥

अनुवाद (कन्नड)

महाबाहो! तपोधन ऋषिगळन्नु, बेरॆ राज्यगळल्लि वासिसुव ऋषिगळन्नु पत्नियरॊन्दिगॆ करॆदुकॊण्डु बा.॥14॥

विश्वास-प्रस्तुतिः

तथैव तालावचरास्तथैव नटनर्तकाः ।
यज्ञवाटश्च सुमहान् गोमत्या नैमिषे वने ॥ १५ ॥
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।

सर्वाष् टीकाः
मूलम्

तथैव तालावचरास्तथैव नटनर्तकाः ।
यज्ञवाटश्च सुमहान् गोमत्या नैमिषे वने ॥ १५ ॥
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।

अनुवाद (हिन्दी)

‘महाबाहो! ताल लेकर रंगभूमिमें संचरण करनेवाले सूत्रधार तथा नट और नर्तक भी बुला लिये जायँ । नैमिषारण्यमें गोमतीके तटपर विशाल यज्ञमण्डप बनानेकी आज्ञा दो; क्योंकि वह वन बहुत ही उत्तम और पवित्र स्थान है ॥ १५ १/२ ॥

अनुवाद (कन्नड)

महाबाहो! ताळ बारिसुत्ता रङ्गभूमियल्लि सञ्चरिसुव सूत्रधाररन्नु, नट- नर्तकरन्नु करॆसु. नैमिषारण्यद गोमतीनदिय तीरदल्लि विशालवाद यज्ञमण्टपवन्नु रचिसुवन्तॆ आज्ञापिसु; एकॆन्दरॆ आ वनवु बहळ उत्तम मत्तु पवित्र स्थानवागिदॆ.॥15½॥

विश्वास-प्रस्तुतिः

शान्तयश्च महाबाहो प्रवर्तन्तां समन्ततः ॥ १६ ॥
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।
अनुभूय महायज्ञं नैमिषे रघुनन्दन ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

शान्तयश्च महाबाहो प्रवर्तन्तां समन्ततः ॥ १६ ॥
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।
अनुभूय महायज्ञं नैमिषे रघुनन्दन ॥ १७ ॥

अनुवाद (हिन्दी)

‘महाबाहु रघुनन्दन! वहाँ यज्ञकी निर्विघ्न-समाप्तिके लिये सर्वत्र शान्ति-विधान प्रारम्भ करा दो । नैमिषारण्यमें सैकड़ों धर्मज्ञ पुरुष उस परम उत्तम और श्रेष्ठ महायज्ञको देखकर कृतार्थ हों ॥ १६-१७ ॥

अनुवाद (कन्नड)

महाबाहु रघुनन्दन! अल्लि यज्ञवु निर्विघ्नवागि नॆरवेरलु ऎल्लॆडॆ शान्ति विधान प्रारम्भ माडिसु. नैमिषारण्यदल्लि नूरारु धर्मज्ञ पुरुषरु परमोत्तम महायज्ञवन्नु नोडि कृतार्थरागलि.॥16-17॥

विश्वास-प्रस्तुतिः

तुष्टः पुष्टश्च सर्वोऽसौ मानितश्च यथाविधि ।
प्रतियास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

तुष्टः पुष्टश्च सर्वोऽसौ मानितश्च यथाविधि ।
प्रतियास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥ १८ ॥

अनुवाद (हिन्दी)

‘धर्मज्ञ लक्ष्मण! शीघ्र लोगोंको आमन्त्रित करो और जो लोग आवें, वे सब विधिपूर्वक तुष्ट, पुष्ट एवं सम्मानित होकर लौटें ॥ १८ ॥

अनुवाद (कन्नड)

धर्मज्ञ लक्ष्मण- शीघ्रवागि जनरन्नु आमन्त्रिसु मत्तु बरुववरॆल्लरू विधिवत्तागि तुष्ट, पुष्ट हागू सम्मानितरागि मरळि होगलि.॥18॥

विश्वास-प्रस्तुतिः

शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।
अयुतं तिलमुद‍्गस्य प्रयात्वग्रे महाबल ॥ १९ ॥
चणकानां कुलित्थानां माषाणां लवणस्य च ।

सर्वाष् टीकाः
मूलम्

शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।
अयुतं तिलमुद‍्गस्य प्रयात्वग्रे महाबल ॥ १९ ॥
चणकानां कुलित्थानां माषाणां लवणस्य च ।

अनुवाद (हिन्दी)

‘महाबली सुमित्राकुमार! लाखों बोझ ढोनेवाले पशु खड़े दानेवाले चावल लेकर और दस हजार पशु तिल, मूँग, चना, कुल्थी, उड़द और नमकके बोझ लेकर आगे चलें ॥ १९ १/२ ॥

अनुवाद (कन्नड)

महाबली सुमित्राकुमार! ऒन्दु लक्ष आनॆ, कुदुरॆ, ऎत्तुगळु अक्किय मूटॆगळन्नु हॊत्तुकॊण्डु होगलि, हत्तुसाविर पशुगळु, ऎळ्ळु, कडलॆ, हुरुळि, उद्दु मत्तु उप्पिन मूटॆगळन्नु ऎत्तिकॊण्डु होगलि.॥19½॥

विश्वास-प्रस्तुतिः

अतोऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ॥ २० ॥
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

अतोऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ॥ २० ॥
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ २१ ॥

अनुवाद (हिन्दी)

‘इसीके अनुरूप घी, तेल, दूध, दही तथा बिना घिसे हुए चन्दन और बिना पिसे हुए सुगन्धित पदार्थ भी भेजे जाने चाहिये । भरत सौ करोड़से भी अधिक सोने-चाँदीके सिक्के साथ लेकर पहले ही जायँ और बड़ी सावधानीके साथ यात्रा करें ॥ २०-२१ ॥

अनुवाद (कन्नड)

ई धान्यगळिगनुरूपवागि ऎण्णॆ, तुप्प, मॊसरु, चन्दन कट्टिगॆ, सुगन्धित पदार्थगळन्नु कळिसबेकु. भरतनु नूरु कोटिगिन्तलू हॆच्चाद स्वर्णमुद्रॆगळन्नु, बॆळ्ळिय नाण्यगळन्नु जॊतॆगॆ तॆगॆदुकॊण्डु एकाग्रचित्तनागि मॊदले प्रयाण माडलि.॥20-21॥

विश्वास-प्रस्तुतिः

अन्तरापणवीथ्यश्च सर्वे च नटनर्तकाः ।
सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ २२ ॥

सर्वाष् टीकाः
मूलम्

अन्तरापणवीथ्यश्च सर्वे च नटनर्तकाः ।
सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ २२ ॥

अनुवाद (हिन्दी)

‘मार्गमें आवश्यक वस्तुओंके क्रय-विक्रयके लिये जगह-जगह बाजारें भी लगनी चाहिये; अतः इसके प्रवर्तक वणिक् एवं व्यवसायी लोग भी यात्रा करें । समस्त नट और नर्तक भी जायँ । बहुत-से रसोइये तथा सदा युवावस्थासे सुशोभित होनेवाली स्त्रियाँ भी यात्रा करें ॥ २२ ॥

अनुवाद (कन्नड)

दारियल्लि आवश्यक वस्तुगळ क्रय- विक्रयक्कागि अल्लल्लि अङ्गडिगळु इरलि, आद्दरिन्द वैद्यरु मत्तु व्यवसायी जनरु प्रयाण माडलि. ऎल्ल नट-नर्तकरू होगलि. अनेक अडिगॆयवरु हागू सुन्दर युवतियरू प्रयाण माडलि.॥22॥

विश्वास-प्रस्तुतिः

भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।
नैगमान् बालवृद्धांश्च द्विजांश्च सुसमाहितान् ॥ २३ ॥
कर्मान्तिकान् वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।
मम मातॄस्तथा सर्वाः कुमारान्तःपुराणि च ॥ २४ ॥
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥ २५ ॥

सर्वाष् टीकाः
मूलम्

भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।
नैगमान् बालवृद्धांश्च द्विजांश्च सुसमाहितान् ॥ २३ ॥
कर्मान्तिकान् वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।
मम मातॄस्तथा सर्वाः कुमारान्तःपुराणि च ॥ २४ ॥
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥ २५ ॥


भरतेन तु सार्धं ते यान्तु सैन्यानि जाग्रतः ।
नैगमान्बालवृद्धांश्च द्विजांश्च सुसमाहितान् ॥ कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश नैगमान् ।
मम मातृस्तथा सर्वाः कुमारान्तःपुराणि च ॥ काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥

अनुवाद (हिन्दी)

‘भरतके साथ आगे-आगे सेनाएँ भी जायँ । महायशस्वी भरत शास्त्रवेत्ता विद्वानों, बालकों, वृद्धों, एकाग्र चित्तवाले ब्राह्मणों, काम करनेवाले नौकरों, बढ़इयों, कोषाध्यक्षों, वैदिकों, मेरी सब माताओं, कुमारोंके अन्तःपुरों (भरत आदिकी स्त्रियों), मेरी पत्नीकी सुवर्णमयी प्रतिमा तथा यज्ञकर्मकी दीक्षाके जानकार ब्राह्मणोंको आगे करके पहले ही यात्रा करें’ ॥ २३—२५ ॥

अनुवाद (कन्नड)

भरतन हिन्दॆ-हिन्दॆ सैन्यवू होगलि. महायशस्वी भरतनु शास्त्रगळन्नु तिळिद विद्वांसरन्नु, बालकरन्नु, वृद्धरन्नु, एकाग्रचित्तराद ब्राह्मणरन्नु, कॆलसगाररन्नु बडगिगळन्नू, कोशाध्यक्षरन्नु, वैदिकरन्नु, नम्म तायन्दिरन्नु, कुमाररन्नु, भरतने मॊदलादवर अन्तःपुरदल्लिरुव राणीवासदवरन्नु, नन्न पत्निय स्वर्णप्रतिमॆयन्नु हागू यज्ञकर्मद दीक्षॆयन्नु तिळिद ब्राह्मणरन्नु करॆदुकॊण्डु मुन्दॆ होगलि.॥23-25॥

विश्वास-प्रस्तुतिः

उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ २६ ॥
अन्नपानानि वस्त्राणि अनुगानां महात्मनाम् ।

सर्वाष् टीकाः
मूलम्

उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ २६ ॥
अन्नपानानि वस्त्राणि अनुगानां महात्मनाम् ।

अनुवाद (हिन्दी)

तत्पश्चात् महाबली नरश्रेष्ठ श्रीरामने सेवकोंसहित महातेजस्वी नरेशोंके ठहरनेके लिये बहुमूल्य वासस्थान बनाने (खेमे आदि लगाने)-के लिये आदेश दिया तथा सेवकोंसहित उन महात्मा नरेशोंके लिये अन्न-पान एवं वस्त्र आदिकी भी व्यवस्था करायी ॥ २६ १/२ ॥

अनुवाद (कन्नड)

बळिक महाबली नरश्रेष्ठ श्रीरामनु सेवकर सहित महातेजस्वी राजरुगळु उळिदुकॊळ्ळलु बहुमूल्य वासस्थान रचिसलु आदेश कॊट्टनु हागू सेवकरसहित आ महात्मा राजरिगागि ऊट-तिण्डि मत्तु वसादिगळ व्यवस्थॆ माडिसिदनु.॥26½॥

विश्वास-प्रस्तुतिः

भरतः स तदा यातः शत्रुघ्नसहितस्तदा ॥ २७ ॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
विप्राणां प्रवराः सर्वे चक्रुश्च परिवेषणम् ॥ २८ ॥

सर्वाष् टीकाः
मूलम्

भरतः स तदा यातः शत्रुघ्नसहितस्तदा ॥ २७ ॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
विप्राणां प्रवराः सर्वे चक्रुश्च परिवेषणम् ॥ २८ ॥

अनुवाद (हिन्दी)

तदनन्तर शत्रुघ्नसहित भरतने नैमिषारण्यको प्रस्थान किया । उस समय वहाँ सुग्रीवसहित महात्मा वानर जितने भी श्रेष्ठ ब्राह्मण वहाँ उपस्थित थे, उन सबको रसोई परोसनेका काम करते थे ॥ २७-२८ ॥

अनुवाद (कन्नड)

अनन्तर शत्रुघ्नसहित भरतनु नैमिषारण्यक्कॆ प्रयाण माडिदनु. आग अल्लि वानररॊन्दिगॆ सुग्रीवनु श्रेष्ठ ब्राह्मणरिगॆल्लरिगॆ बडिसुव कार्य माडुत्तिद्दनु.॥27-28॥

विश्वास-प्रस्तुतिः

विभीषणश्च रक्षोभिः स्त्रीभिश्च बहुभिर्वृतः ।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ २९ ॥

सर्वाष् टीकाः
मूलम्

विभीषणश्च रक्षोभिः स्त्रीभिश्च बहुभिर्वृतः ।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ २९ ॥

अनुवाद (हिन्दी)

स्त्रियों तथा बहुत-से राक्षसोंके साथ विभीषण उग्र तपस्वी महात्मा मुनियोंके स्वागत-सत्कारका काम सँभालते थे ॥ २९ ॥

अनुवाद (कन्नड)

पत्नियरु हागू अनेक राक्षसरॊन्दिगॆ विभीषणनु उग्रतपस्वी महात्मा मुनिगळु स्वागत सत्कारद कार्यवन्नु नॆरवेरि सुत्तिद्दनु.॥29॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें इक्यानबेवाँ सर्ग पूरा हुआ ॥ ९१ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि तॊम्भत्तॊन्दनॆय सर्ग पूर्णवायितु.॥91॥