०९० इलाश्व-मेधः

[नवतितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. अश्वमेधके अनुष्ठानसे इलाको पुरुषत्वकी प्राप्ति
विश्वास-प्रस्तुतिः

तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥

सर्वाष् टीकाः
मूलम्

तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥


तथोक्तवति रामे तु तस्य जन्मतद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजी जब पुरूरवाके जन्मकी अद्भुत कथा कह गये, तब लक्ष्मण तथा महायशस्वी भरतने पुनः पूछा— ॥ १ ॥

अनुवाद (कन्नड)

श्रीरामचन्द्रनु पुरूरवन जन्मद अद्भुत कथॆ हेळिदाग लक्ष्मण मत्तु महायशस्वी भरतनु पुनः केळिदरु.॥1॥

विश्वास-प्रस्तुतिः

इला सा सोमपुत्रस्य संवत्सरमथोषिता ।
अकरोत् किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥

सर्वाष् टीकाः
मूलम्

इला सा सोमपुत्रस्य संवत्सरमथोषिता ।
अकरोत् किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ! सोमपुत्र बुधके यहाँ एक वर्षतक निवास करनेके पश्चात् इलाने क्या किया, यह ठीक-ठीक बतानेकी कृपा करें’ ॥ २ ॥

अनुवाद (कन्नड)

नरश्रेष्ठने ! सोमपुत्र बुधन बळि ऒन्दु वर्ष वासिसिद बळिक इलनु एनु माडिदनु? इदन्नु तिळिसलु कृपॆ माडिरि.॥2॥

विश्वास-प्रस्तुतिः

तयोस्तद् वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

तयोस्तद् वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ३ ॥

अनुवाद (हिन्दी)

प्रश्न करते समय उन दोनों भाइयोंकी वाणीमें बड़ा माधुर्य था । उसे सुनकर श्रीरामने प्रजापतिपुत्र इलके विषयमें फिर इस प्रकार कथा आरम्भ की— ॥ ३ ॥

अनुवाद (कन्नड)

सहोदररु मधुरवाणियिन्द हेळिदुदन्नु केळि श्रीरामनु प्रजापति पुत्र इलन विषयदल्लि मत्तॆ मुन्दिन कथॆ प्रारम्भिसिदनु.॥3॥

विश्वास-प्रस्तुतिः

पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ॥ ४ ॥

अनुवाद (हिन्दी)

‘शूरवीर! इल जब एक मासके लिये पुरुषभावको प्राप्त हुए, तब परम बुद्धिमान् महायशस्वी बुधने परम उदार महात्मा संवर्तको बुलाया ॥ ४ ॥

अनुवाद (कन्नड)

शूरवीररे ! इलनु ऒन्दु तिङ्गळिगागि पुरुषभाव पडॆदाग परम बुद्धिवन्त महायशस्वी बुधनु परमोदार महात्मा संवर्तकनन्नु करॆसिदनु.॥4॥

विश्वास-प्रस्तुतिः

च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ५ ॥

अनुवाद (हिन्दी)

‘भृगुपुत्र च्यवन मुनि, अरिष्टनेमि, प्रमोदन, मोदकर और दुर्वासा मुनिको भी आमन्त्रित किया ॥ ५ ॥

अनुवाद (कन्नड)

भृगुपुत्र च्यवनमुनि, अरिष्टनेम, प्रमोदन, मोदकर मत्तु दुर्वास मुनियन्नु आमन्त्रिसिदनु.॥5॥

विश्वास-प्रस्तुतिः

एतान् सर्वान् समानीय वाक्यज्ञस्तत्त्वदर्शनः ।
उवाच सर्वान् सुहृदो धैर्येण सुसमाहितान् ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

एतान् सर्वान् समानीय वाक्यज्ञस्तत्त्वदर्शनः ।
उवाच सर्वान् सुहृदो धैर्येण सुसमाहितान् ॥ ६ ॥

अनुवाद (हिन्दी)

‘इन सबको बुलाकर बातचीतकी कला जाननेवाले तत्त्वदर्शी बुधने धैर्यसे एकाग्रचित्त रहनेवाले इन सभी सुहृदोंसे कहा— ॥ ६ ॥

अनुवाद (कन्नड)

इवरॆल्लरन्नु करॆसि वाक्यविशारदनाद तत्त्वदर्शि बुधनु, धैर्यदिन्द एकाग्रचित्तराद आ ऎल्ल सुहृदरल्लि हेळिदनु.॥6॥

विश्वास-प्रस्तुतिः

अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।
जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।
जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥ ७ ॥

अनुवाद (हिन्दी)

‘‘ये महाबाहु राजा इल प्रजापति कर्दमके पुत्र हैं । इनकी जैसी स्थिति है, इसे आप सब लोग जानते हैं । अतः इस विषयमें ऐसा कोई उपाय कीजिये, जिससे इनका कल्याण हो’ ॥ ७ ॥

अनुवाद (कन्नड)

ई महाबाहु राजा इलनु प्रजापति कर्दमर पुत्रनागिद्दानॆ. इवन स्थितियन्नु नीवॆल्ल तिळिदे इरुविरि. आद्दरिन्द इवन श्रेयस्सागुव यावुदादरू उपाय माडिरि.॥7॥

विश्वास-प्रस्तुतिः

तेषां संवदतामेव द्विजैः सह महात्मभिः ।
कर्दमस्तु महातेजास्तदाश्रममुपागमत् ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

तेषां संवदतामेव द्विजैः सह महात्मभिः ।
कर्दमस्तु महातेजास्तदाश्रममुपागमत् ॥ ८ ॥


तेषां संवदतामेव द्विजैः सह महात्मभिः ।
कर्दमस्तु महातेजास्तद्राश्रममुपागमत् ॥

अनुवाद (हिन्दी)

‘वे सब इस प्रकार बातचीत कर ही रहे थे कि महात्मा द्विजोंके साथ महातेजस्वी प्रजापति कर्दम भी उस आश्रमपर आ पहुँचे ॥ ८ ॥

विश्वास-प्रस्तुतिः

पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ओङ्कारश्च महातेजास्तमाश्रममुपागमन् ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ओङ्कारश्च महातेजास्तमाश्रममुपागमन् ॥ ९ ॥


पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ॐकारश्च महातेजास्तदाश्रममुपागमन् ॥

अनुवाद (हिन्दी)

‘साथ ही पुलस्त्य, क्रतु, वषट्कार तथा महातेजस्वी ओंकार भी उस आश्रमपर पधारे ॥ ९ ॥

अनुवाद (कन्नड)

जॊतॆग पुलस्त्य, क्रतु, वषट्कार हागू महातेजस्वी ॐकाररू आ आश्रमक्कॆ बन्दरु.॥9॥

अनुवाद (कन्नड)

इवरॆल्लरू हीगॆ मातुकतॆयाडुत्तिरुवागले महात्मा द्विजरॊन्दिगॆ महातेजस्वी प्रजापति कर्दमरू आ आश्रमक्कॆ बन्दरु.॥9॥

विश्वास-प्रस्तुतिः

ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाह्लिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ १० ॥

सर्वाष् टीकाः
मूलम्

ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाह्लिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ १० ॥


ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो ब्राह्लिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥

अनुवाद (हिन्दी)

‘परस्पर मिलनेपर वे सभी महर्षि प्रसन्नचित्त हो बाह्लिकदेशके स्वामी राजा इलका हित चाहते हुए भिन्न-भिन्न प्रकारकी राय देने लगे ॥ १० ॥

अनुवाद (कन्नड)

परस्पर भेटियागि ऎल्ल महर्षिगळु सन्तोषचित्तरागि बाह्लिकदेशद ऒडॆय राजा इलन हितवन्नु बयसुत्ता बेरॆ- बेरॆ रीतिय अभिप्राय व्यक्तपडिसिदरु.॥10॥

विश्वास-प्रस्तुतिः

कर्दमस्त्वब्रवीद् वाक्यं सुतार्थं परमं हितम् ।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

कर्दमस्त्वब्रवीद् वाक्यं सुतार्थं परमं हितम् ।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥

अनुवाद (हिन्दी)

‘तब कर्दमने पुत्रके लिये अत्यन्त हितकर बात कही—‘ब्राह्मणो! आपलोग मेरी बात सुनें, जो इस राजाके लिये कल्याणकारिणी होगी ॥ ११ ॥

अनुवाद (कन्नड)

आग कर्दमरु पुत्रन कुरितु अत्यन्त हितकर मातन्नु हेळिदरु - ब्राह्मणरे! ई राजनिगॆ श्रेयस्करवाद नन्न मातन्नु केळिरि.॥11॥

विश्वास-प्रस्तुतिः

नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।
नाश्वमेधात् परो यज्ञः प्रियश्चैव महात्मनः ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।
नाश्वमेधात् परो यज्ञः प्रियश्चैव महात्मनः ॥ १२ ॥

अनुवाद (हिन्दी)

‘‘मैं भगवान् शङ्करके सिवा दूसरे किसीको ऐसा नहीं देखता, जो इस रोगकी दवा कर सके तथा अश्वमेध-यज्ञसे बढ़कर दूसरा कोई ऐसा यज्ञ नहीं है, जो महात्मा महादेवजीको प्रिय हो ॥ १२ ॥

अनुवाद (कन्नड)

ई रोगद औषधि माडबल्लवनु भगवान् शङ्करनल्लदॆ बेरॆ यारन्नु नानु नोडुवुदिल्ल हागू महात्मा महादेवनिगॆ प्रियवाद अश्वमेध यज्ञक्किन्त मिगिलाद याव यज्ञवू इल्ल.॥12॥

विश्वास-प्रस्तुतिः

तस्माद् यजामहे सर्वे पार्थिवार्थे दुरासदम् ।
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ॥ १३ ॥
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।

सर्वाष् टीकाः
मूलम्

तस्माद् यजामहे सर्वे पार्थिवार्थे दुरासदम् ।
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ॥ १३ ॥
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।

अनुवाद (हिन्दी)

‘‘अतः हम सब लोग राजा इलके हितके लिये उस दुष्कर यज्ञका अनुष्ठान करें ।’ कर्दमके ऐसा कहनेपर उन सभी श्रेष्ठ ब्राह्मणोंने भगवान् रुद्रकी आराधनाके लिये उस यज्ञका अनुष्ठान ही अच्छा समझा ॥ १३ १/२ ॥

अनुवाद (कन्नड)

आद्दरिन्द नावॆल्लरू राजा इलन हितक्कागि आ दुष्कर यज्ञानुष्ठान माडुवा. कर्दमरु हीगॆ हेळिदाग ऎल्ल श्रेष्ठ ब्राह्मणरु भगवान् रुद्रन आराधनॆगागि आ यज्ञद अनुष्ठानवे ऒळ्ळॆयदॆन्दु तिळिदरु.॥13½॥

विश्वास-प्रस्तुतिः

संवर्तस्य तु राजर्षिः शिष्यः परपुरञ्जयः ॥ १४ ॥
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।

सर्वाष् टीकाः
मूलम्

संवर्तस्य तु राजर्षिः शिष्यः परपुरञ्जयः ॥ १४ ॥
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।

अनुवाद (हिन्दी)

‘संवर्तके शिष्य तथा शत्रुनगरीपर विजय पानेवाले सुप्रसिद्ध राजर्षि मरुत्तने उस यज्ञका आयोजन किया ॥ १४ १/२ ॥

अनुवाद (कन्नड)

संवर्तकन शिष्य हागू शत्रुनगरवन्नु जयिसुव सुप्रसिद्ध राजर्षि मरुत्तनु आ यज्ञद आयोजन माडिदनु.॥14½॥

विश्वास-प्रस्तुतिः

ततो यज्ञो महानासीद् बुधाश्रमसमीपतः ॥ १५ ॥
रुद्रश्च परमं तोषमाजगाम महायशाः ।

सर्वाष् टीकाः
मूलम्

ततो यज्ञो महानासीद् बुधाश्रमसमीपतः ॥ १५ ॥
रुद्रश्च परमं तोषमाजगाम महायशाः ।

अनुवाद (हिन्दी)

‘फिर तो बुधके आश्रमके निकट वह महान् यज्ञ सम्पन्न हुआ तथा उससे महायशस्वी रुद्रदेवको बड़ा संतोष प्राप्त हुआ ॥ १५ १/२ ॥

अनुवाद (कन्नड)

मत्तॆ बुधन आश्रमद बळियल्ले आ महायज्ञवु नॆरवेरितु. अदरिन्द महायशस्वी रुद्रदेवरिगॆ बहळ सन्तोषवायितु.॥15½॥

विश्वास-प्रस्तुतिः

अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ॥ १६ ॥
उमापतिर्द्विजान् सर्वानुवाच इलसन्निधौ ।

सर्वाष् टीकाः
मूलम्

अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ॥ १६ ॥
उमापतिर्द्विजान् सर्वानुवाच इलसन्निधौ ।

अनुवाद (हिन्दी)

‘यज्ञ समाप्त होनेपर परमानन्दसे परिपूर्णचित्त हुए भगवान् उमापतिने इलके पास ही उन सब ब्राह्मणोंसे कहा— ॥ १६ १/२ ॥

अनुवाद (कन्नड)

यज्ञ समाप्तवादाग परमानन्द परिपूर्णचित्तनाद भगवान् उमापतियु इलन बळियल्ले आ ऎल्ल ब्राह्मणरल्लि हेळिदनु.॥16½॥

विश्वास-प्रस्तुतिः

प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ॥ १७ ॥
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।

सर्वाष् टीकाः
मूलम्

प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ॥ १७ ॥
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।


प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ॥
अस्य बाह्लिपतेश्चैव कं करोमि प्रियं शुभम् ।

अनुवाद (हिन्दी)

‘‘द्विजश्रेष्ठगण! मैं तुम्हारी भक्ति तथा इस अश्वमेध-यज्ञके अनुष्ठानसे बहुत प्रसन्न हूँ । बताओ, मैं बाह्लिकनरेश इलका कौन-सा शुभ एवं प्रिय कार्य करूँ?’ ॥ १७ १/२ ॥

अनुवाद (कन्नड)

द्विजश्रेष्ठरे! नानु निम्म भक्तियिन्द मत्तु अश्वमेध यज्ञानुष्ठानदिन्द बहळ प्रसन्ननागिद्देनॆ. नानु बाह्लिक नरेश इलन याव शुभ-प्रिय कार्य माडलि हेळिरि.॥17½॥

विश्वास-प्रस्तुतिः

तथा वदति देवेशे द्विजास्ते सुसमाहिताः ॥ १८ ॥
प्रसादयन्ति देवेशं यथा स्यात् पुरुषस्त्विला ।

सर्वाष् टीकाः
मूलम्

तथा वदति देवेशे द्विजास्ते सुसमाहिताः ॥ १८ ॥
प्रसादयन्ति देवेशं यथा स्यात् पुरुषस्त्विला ।

अनुवाद (हिन्दी)

‘देवेश्वर शिवके ऐसा कहनेपर वे सब ब्राह्मण एकाग्रचित्त हो उन देवाधिदेवको इस तरह प्रसन्न करनेकी चेष्टा करने लगे, जिससे नारी इला सदाके लिये पुरुष इल हो जाय ॥ १८ १/२ ॥

अनुवाद (कन्नड)

देवेश्वर शिवनु हीगॆ हेळिदाग आ ऎल्ल ब्राह्मणरु एकाग्रचित्तरागि, आ देवाधिदेवनन्नु नारी इला सदाकाल पुरुष इलनागुवन्तॆ माडबेकॆन्दु प्रार्थिसिदरु.॥18½॥

विश्वास-प्रस्तुतिः

ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ॥ १९ ॥
इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।

सर्वाष् टीकाः
मूलम्

ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ॥ १९ ॥
इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।

अनुवाद (हिन्दी)

‘तब प्रसन्न हुए महातेजस्वी महादेवजीने इलाको सदाके लिये पुरुषत्व प्रदान कर दिया और ऐसा करके वे वहीं अन्तर्धान हो गये ॥ १९ १/२ ॥

अनुवाद (कन्नड)

आग प्रसन्ननाद महातेजस्वी महादेवनु इलनिगॆ सदा पुरुषत्व प्रदान माडिदनु हागू हीगॆ माडि अवनु अन्तर्धाननादनु.॥19½॥

विश्वास-प्रस्तुतिः

निवृत्ते हयमेधे च गते चादर्शनं हरे ॥ २० ॥
यथागतं द्विजाः सर्वे तेऽगच्छन् दीर्घदर्शिनः ।

सर्वाष् टीकाः
मूलम्

निवृत्ते हयमेधे च गते चादर्शनं हरे ॥ २० ॥
यथागतं द्विजाः सर्वे तेऽगच्छन् दीर्घदर्शिनः ।


निर्वृत्ते हयमेधे चगतेचादर्शनं हरे ॥
यथागतं द्विजाः सर्वे ह्यगच्छन्दिर्घदर्शिनः ।

अनुवाद (हिन्दी)

‘अश्वमेध-यज्ञ समाप्त होनेपर जब महादेवजी दर्शन देकर अदृश्य हो गये, तब वे सब दीर्घदर्शी ब्राह्मण जैसे आये थे, वैसे लौट गये ॥ २० १/२ ॥

अनुवाद (कन्नड)

अश्वमेध यज्ञ समाप्तवादाग महादेवनु दर्शन कॊट्टु अदृश्यनादनु. आग आ ऎल्ल दीर्घदर्शि ब्राह्मणरु तम्म-तम्म स्थानगळिगॆ तॆरळिदरु.॥20½॥

विश्वास-प्रस्तुतिः

राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ॥ २१ ॥
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।

सर्वाष् टीकाः
मूलम्

राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ॥ २१ ॥
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।

अनुवाद (हिन्दी)

‘राजा इलने बाह्लिकदेशको छोड़कर मध्य-देशमें (गङ्गा-यमुनाके संगमके निकट) एक परम उत्तम एवं यशस्वी नगर बसाया, जिसका नाम था प्रतिष्ठानपुर* ॥ २१ १/२ ॥

\* प्रयागसे पूर्व गङ्गाके तटपर बसा हुआ वर्तमान झूँसी नामक स्थान ही प्राचीनकालका प्रतिष्ठानपुर है ।

अनुवाद (कन्नड)

राजा इलनु बाह्लिक देशवन्नु बिट्टु गङ्गा-यमुना सङ्गमद हत्तिर, मध्यदेशदल्लि ऒन्दु परमोत्तम यशस्वी प्रतिष्ठानपुरवन्नु नॆलॆगॊळिसिदनु.॥21½॥

विश्वास-प्रस्तुतिः

शशबिन्दुश्च राजर्षिर्बाह्लिं परपुरञ्जयः ॥ २२ ॥
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।

सर्वाष् टीकाः
मूलम्

शशबिन्दुश्च राजर्षिर्बाह्लिं परपुरञ्जयः ॥ २२ ॥
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।

अनुवाद (हिन्दी)

‘शत्रुनगरीपर विजय पानेवाले राजर्षि शशबिन्दुने बाह्लिकदेशका राज्य ग्रहण किया और प्रजापति कर्दमके पुत्र बलवान् राजा इल प्रतिष्ठानपुरके शासक हुए ॥

अनुवाद (कन्नड)

शत्रुनगर विजयी राजर्षि शशबिन्दुवु बाह्लिक देशद राज्यवन्नु स्वीकरिसिदनु मत्तु प्रजापति कर्दम पुत्र बलवन्त राजा इलनु प्रतिष्ठानपुरद शासकनादनु.॥22½॥

विश्वास-प्रस्तुतिः

स काले प्राप्तवाल्ँ लोकमिलो ब्राह्ममनुत्तमम् ॥ २३ ॥
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।

सर्वाष् टीकाः
मूलम्

स काले प्राप्तवाल्ँ लोकमिलो ब्राह्ममनुत्तमम् ॥ २३ ॥
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।


स काले प्राप्तवान्ल्लोकमिलो ब्राह्ममनुत्तमम् ॥
ऐलः पुरूरवो राजा प्रतिष्ठानमवाप्तवान् ।

अनुवाद (हिन्दी)

‘समय आनेपर राजा इल शरीर छोड़कर परम उत्तम ब्रह्मलोकको प्राप्त हुए और इलाके पुत्र राजा पुरूरवाने प्रतिष्ठानपुरका राज्य प्राप्त किया ॥ २३ १/२ ॥

अनुवाद (कन्नड)

समय बन्दाग राजा इलवु शरीर त्यजिसि परमोत्तम ब्रह्मलोकवन्नु हॊन्दिदनु. इलाळ पुत्र राजा पुरूरवनु प्रतिष्ठान पुरद राज्यवन्नु पडॆदुकॊण्डनु.॥23½॥

विश्वास-प्रस्तुतिः

ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ २४ ॥

सर्वाष् टीकाः
मूलम्

ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ २४ ॥

अनुवाद (हिन्दी)

‘पुरुषश्रेष्ठ भरत और लक्ष्मण! अश्वमेध-यज्ञका ऐसा ही प्रभाव है । जो स्त्रीरूप हो गये थे, उन राजा इलने इस यज्ञके प्रभावसे पुरुषत्व प्राप्त कर लिया तथा और भी दुर्लभ वस्तुएँ हस्तगत कर लीं’ ॥ २४ ॥

अनुवाद (कन्नड)

पुरुषश्रेष्ठ भरत-लक्ष्मणरे! अश्वमेध यज्ञद प्रभाव हीगिदॆ. स्त्रीरूपियागिद्द इलनु ई यज्ञद प्रभावदिन्द पुरुषत्व प्राप्तिमाडिकॊण्डनु हागू इन्नू दुर्लभ वस्तुगळन्नु करगत माडिकॊण्डनु.॥24॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवतितमः सर्गः ॥ ९० ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें नब्बेवाँ सर्ग पूरा हुआ ॥ ९० ॥