०८५ वृत्र-वधः

[पञ्चाशीतितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. भगवान् विष्णुके तेजका इन्द्र और वज्र आदिमें प्रवेश, इन्द्रके वज्रसे वृत्रासुरका वध तथा ब्रह्महत्याग्रस्त इन्द्रका अन्धकारमय प्रदेशमें जाना
विश्वास-प्रस्तुतिः

लक्ष्मणस्य तु तद् वाक्यं श्रुत्वा शत्रुनिबर्हणः ।
वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥

सर्वाष् टीकाः
मूलम्

लक्ष्मणस्य तु तद् वाक्यं श्रुत्वा शत्रुनिबर्हणः ।
वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥


लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।
वृत्रघातमशेषेण कथयेत्याह सुव्रतः ॥

अनुवाद (हिन्दी)

लक्ष्मणका यह कथन सुनकर शत्रुओंका संहार करनेवाले श्रीरामचन्द्रजीने कहा—‘उत्तम व्रतका पालन करनेवाले सुमित्राकुमार! वृत्रासुरके वधकी पूरी कथा कह सुनाओ’ ॥ १ ॥

अनुवाद (कन्नड)

लक्ष्मणन मातन्नु केळि शत्रुसंहार माडुव श्रीरामनु हेळिदनु - सुव्रत सुमित्राकुमार! वृत्रासुरन वधॆय कथॆयन्नु पूर्णवागि हेळु.॥1॥

विश्वास-प्रस्तुतिः

राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।
भूय एव कथां दिव्यां कथयामास सुव्रतः ॥ २ ॥

सर्वाष् टीकाः
मूलम्

राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।
भूय एव कथां दिव्यां कथयामास सुव्रतः ॥ २ ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजीके इस प्रकार आदेश देनेपर उत्तम व्रतके पालक सुमित्रानन्दन लक्ष्मणने पुनः उस दिव्य कथाको सुनाना आरम्भ किया— ॥ २ ॥

अनुवाद (कन्नड)

श्रीरामन आदेश पडॆद सुव्रत सुमित्रा नन्दन लक्ष्मणनु पुनः आ दिव्य कथॆयन्नु मुन्दुवरिसिदनु.॥2॥

विश्वास-प्रस्तुतिः

सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥

अनुवाद (हिन्दी)

‘‘प्रभो! सहस्रनेत्रधारी इन्द्र तथा सम्पूर्ण देवताओंकी वह प्रार्थना सुनकर भगवान् विष्णुने इन्द्र आदि सब देवताओंसे इस प्रकार कहा— ॥ ३ ॥

अनुवाद (कन्नड)

प्रभो! सहस्राक्ष इन्द्रन हागू समस्त देवतॆगळ प्रार्थनॆयन्नु केळि भगवान् विष्णु इन्द्रादि ऎल्ल देवतॆगळल्लि इन्तॆन्दनु.॥3॥

विश्वास-प्रस्तुतिः

पूर्वं सौहृदबद्धोऽस्मि वृत्रस्येह महात्मनः ।
तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

पूर्वं सौहृदबद्धोऽस्मि वृत्रस्येह महात्मनः ।
तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ४ ॥

अनुवाद (हिन्दी)

‘‘देवताओ! तुम्हारी इस प्रार्थनाके पहलेसे ही मैं महामना वृत्रासुरके स्नेह-बन्धनमें बँधा हुआ हूँ । इसलिये तुम्हारा प्रिय करनेके उद्देश्यसे मैं उस महान् असुरका वध नहीं करूँगा ॥ ४ ॥

अनुवाद (कन्नड)

देवतॆगळे! निम्म ई प्रार्थनॆय मॊदले नानु महात्मा वृत्रासुरन स्नेहबन्धनदल्लि बन्धितनागिद्देनॆ. अदक्कागि निम्म प्रियमाडुव उद्देशदिन्द नानु आ महा असुरन वधॆ माडलारॆनु.॥4॥

विश्वास-प्रस्तुतिः

अवश्यं करणीयं च भवतां सुखमुत्तमम् ।
तस्मादुपायमाख्यास्ये सहस्राक्षो वधिष्यति ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

अवश्यं करणीयं च भवतां सुखमुत्तमम् ।
तस्मादुपायमाख्यास्ये सहस्राक्षो वधिष्यति ॥ ५ ॥

अनुवाद (हिन्दी)

‘‘परंतु तुम सबके उत्तम सुखकी व्यवस्था करना मेरा आवश्यक कर्तव्य है; इसलिये मैं ऐसा उपाय बताऊँगा, जिससे देवराज इन्द्र उसका वध कर सकेंगे ॥ ५ ॥

अनुवाद (कन्नड)

आदरू निम्मॆल्लर उत्तम सुखद व्यवस्थॆ माडुवुदु नन्न अवश्य कर्तव्यवागिदॆ. इदक्कागि देवेन्द्रनु अवन वधॆ माडुवन्तह उपाय नानु हेळुत्तेनॆ.॥5॥

विश्वास-प्रस्तुतिः

त्रेधाभूतं करिष्यामि आत्मानं सुरसत्तमाः ।
तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

त्रेधाभूतं करिष्यामि आत्मानं सुरसत्तमाः ।
तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ६ ॥


त्रेधाभूतं करिष्यामि आत्मानं सुरसत्तमाः ।
तेववृत्रं सहस्राक्षो वधिष्यति न संशयः ॥

अनुवाद (हिन्दी)

‘‘सुरश्रेष्ठगण! मैं अपने स्वरूपभूत तेजको तीन भागोंमें विभक्त करूँगा, जिससे इन्द्र निस्संदेह वृत्रासुरका वध कर डालेंगे ॥ ६ ॥

अनुवाद (कन्नड)

सुरश्रेष्ठरे! नानु नन्न स्वरूपभूत तेजवन्नु मूरु भागवागि माडुवॆनु. अदरिन्द इन्द्रनु निःसन्देहवागि वृत्रासुरन वधॆ माडुवनु.॥6॥

विश्वास-प्रस्तुतिः

एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।
तृतीयो भूतलं यातु तदा वृत्रं हनिष्यति ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।
तृतीयो भूतलं यातु तदा वृत्रं हनिष्यति ॥ ७ ॥


एकांशो वासवं यातु द्वितीयोवज्रमेव तु ।
तृतीयो भूतलं यातु तदावत्रं हनिष्यति ॥

अनुवाद (हिन्दी)

‘‘मेरे तेजका एक अंश इन्द्रमें प्रवेश करे, दूसरा वज्रमें व्याप्त हो जाय और तीसरा भूतलको चला जाय’* तब इन्द्र वृत्रासुरका वध कर सकेंगे’ ॥ ७ ॥

\* वृत्र-वधके पश्चात् इन्द्रको लगी हुई ब्रह्महत्याकी निवृत्तिके समयतक इस भूतलकी रक्षा करनेके लिये तथा वृत्रके धराशायी होनेपर उसके भारी शरीरको धारण करनेकी शक्ति देनेके लिये भगवान् के तेजके तीसरे अंशका भूतलपर आना आवश्यक था; इसलिये ऐसा हुआ ।

अनुवाद (कन्नड)

नन्न तेजद ऒन्दु अंशवु इन्द्रनल्लि प्रवेशिसलि, इन्नॊन्दु वज्रदल्लि व्याप्तवागली, मूरनॆय अंश भूतळक्कॆ होगलि.* आग इन्द्रनु वृत्रासुरन वधॆ माडबल्लनु.॥.॥

विश्वास-प्रस्तुतिः

तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।
एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ८ ॥
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।
भजस्व परमोदार वासवं स्वेन तेजसा ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।
एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ८ ॥
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।
भजस्व परमोदार वासवं स्वेन तेजसा ॥ ९ ॥

अनुवाद (हिन्दी)

‘देवेश्वर भगवान् विष्णुके ऐसा कहनेपर देवता बोले—‘दैत्यविनाशन! आप जो कहते हैं, ठीक ऐसी ही बात है, इसमें संदेह नहीं । आपका कल्याण हो । हमलोग वृत्रासुरके वधकी इच्छा मनमें लिये यहाँसे लौट जायँगे । परम उदार प्रभो! आप अपने तेजके द्वारा देवराज इन्द्रको अनुगृहीत करें’ ॥ ८-९ ॥

अनुवाद (कन्नड)

देवेश्वर विष्णुवु हीगॆ हेळिदाग देवतॆगळु नुडिदरु - दैत्यविनाशकने! नीनु हेळिदुदु सरिये आगिदॆ, इदरल्लि सन्देहवे इल्ल. निनगॆ मङ्गळवागलि. नावु वृत्रासुरन वधॆय इच्छॆयन्नु मनस्सिनल्लिरिसिकॊण्डु इल्लिन्द मरळुवॆवु. परमोदार प्रभुवे! नीनु निन्न तेजदिन्दागि देवेन्द्रनन्नु अनुग्रहितनन्नागिसु.॥8-9॥

विश्वास-प्रस्तुतिः

ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।
तदरण्यमुपाक्रामन् यत्र वृत्रो महासुरः ॥ १० ॥

सर्वाष् टीकाः
मूलम्

ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।
तदरण्यमुपाक्रामन् यत्र वृत्रो महासुरः ॥ १० ॥

अनुवाद (हिन्दी)

‘तत्पश्चात् इन्द्र आदि सभी महामनस्वी देवता उस वनमें गये, जहाँ महान् असुर वृत्र तपस्या करता था ॥

अनुवाद (कन्नड)

अनन्तर इन्द्रादि ऎल्ल महात्मा देवतॆगळु महाअसुर वृत्रासुरनु तपस्सु माडुत्तिद्द वनक्कॆ होदरु.॥10॥

विश्वास-प्रस्तुतिः

तेऽपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।
पिबन्तमिव लोकांस्त्रीन् निर्दहन्तमिवाम्बरम् ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

तेऽपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।
पिबन्तमिव लोकांस्त्रीन् निर्दहन्तमिवाम्बरम् ॥ ११ ॥


तेपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।
पिबन्तमिव लोकांसीन्निर्दहन्तमिवाम्बरम् ॥

अनुवाद (हिन्दी)

‘उन्होंने देखा, असुरश्रेष्ठ वृत्रासुर अपने तेजसे सब ओर व्याप्त हो रहा है और ऐसी तपस्या कर रहा है, मानो उसके द्वारा तीनों लोकोंको पी जायगा और आकाशको भी दग्ध कर डालेगा ॥ ११ ॥

अनुवाद (कन्नड)

असुर श्रेष्ठ वृत्रासुरनु तन्न तेजदिन्द ऎल्लॆडॆ व्याप्तनागिरुवु दन्नु अवरु नोडिदरु. अवनु मूरुलोकगळन्नु कुडिदुबिडुवनो, आकाशवन्नु सुट्टु बिडुवनो ऎम्बन्तॆ तपस्सु माडुत्तिद्दनु.॥11॥

विश्वास-प्रस्तुतिः

दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।
कथमेनं वधिष्यामः कथं न स्यात् पराजयः ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।
कथमेनं वधिष्यामः कथं न स्यात् पराजयः ॥ १२ ॥

अनुवाद (हिन्दी)

‘उस असुरश्रेष्ठ वृत्रको देखते ही देवतालोग घबरा गये और सोचने लगे—‘हम कैसे इसका वध करेंगे? और किस उपायसे हमारी पराजय नहीं होने पायेगी?’ ॥

अनुवाद (कन्नड)

आ असुरश्रेष्ठ वृत्रनन्नु नोडुत्तले देवतॆगळु गाबरिगॊण्डु, नावु हेगॆ इवनन्नु वधिसबल्लॆवु? याव उपायदिन्द नम्म पराजय आगदिरुवुदु ऎन्दु योचिसतॊडगिदरु.॥12॥

विश्वास-प्रस्तुतिः

तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।
वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद् वृत्रमूर्धनि ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।
वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद् वृत्रमूर्धनि ॥ १३ ॥


तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।
वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्व्रत्रमूर्धनि ॥

अनुवाद (हिन्दी)

‘वे लोग वहाँ इस प्रकार सोच ही रहे थे कि सहस्रनेत्रधारी इन्द्रने दोनों हाथोंसे वज्र उठाकर उसे वृत्रासुरके मस्तकपर दे मारा ॥ १३ ॥

अनुवाद (कन्नड)

अवरु अल्लि हीगॆ योचिसुत्तिरुवागले सहस्राक्ष इन्द्रनु ऎरडू कैगळिन्द वज्रवन्नु ऎत्ति अदन्नु वृत्रासुरन तलॆय मेलॆ हॊडॆदनु.॥13॥

विश्वास-प्रस्तुतिः

कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा ।
पतता वृत्रशिरसा जगत् त्रासमुपागमत् ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा ।
पतता वृत्रशिरसा जगत् त्रासमुपागमत् ॥ १४ ॥

अनुवाद (हिन्दी)

‘इन्द्रका वह वज्र प्रलयकालकी अग्निके समान भयंकर और दीप्तिमान् था । उससे बड़ी भारी लपटें उठ रही थीं । उसकी चोटसे कटकर जब वृत्रासुरका मस्तक गिरा, तब सारा संसार भयभीत हो उठा ॥ १४ ॥

अनुवाद (कन्नड)

इन्द्रन वज्रायुधवु प्रळयाग्नियन्तॆ भयङ्कर प्रकाशमानवागित्तु. अदरिन्द महाज्वालॆगळु एळुत्तिद्दवु. अदर एटिनिन्द वृत्रासुरन मस्तकवु तुण्डागि बिद्दाग इडी जगत्तु भयभीतवायितु.॥14॥

विश्वास-प्रस्तुतिः

असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ १५ ॥


असम्भाव्य वधं तस्य वृत्रस्य विबुधाधिपः ।
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥

अनुवाद (हिन्दी)

‘निरपराध वृत्रासुरका वध करना उचित नहीं था, अतः उसके कारण महायशस्वी देवराज इन्द्र बहुत चिन्तित हुए और तुरंत ही सब लोकोंके अन्तमें लोकालोक पर्वतसे परवर्ती अन्धकारमय प्रदेशमें चले गये ॥ १५ ॥

अनुवाद (कन्नड)

निरपराधी वृत्रासुरनन्नु वधिसुवुदु अनुचितवागित्तु, आदरिन्द महायशस्वी देवेन्द्रनु बहळ चिन्तितनागि कूडले ऎल्ल लोकगळ कॊनॆगिरुव लोकालोक पर्वतदिन्द आचॆय अन्धकारमय प्रदेशक्कॆ हॊरटु होदनु.॥15॥

विश्वास-प्रस्तुतिः

तमिन्द्रं ब्रह्महत्याऽऽशु गच्छन्तमनुगच्छति ।
अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

तमिन्द्रं ब्रह्महत्याऽऽशु गच्छन्तमनुगच्छति ।
अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥

अनुवाद (हिन्दी)

‘जानेके समय ब्रह्महत्या तत्काल उनके पीछे लग गयी और उनके अङ्गोंपर टूट पड़ी । इससे इन्द्रके मनमें बड़ा दुःख हुआ ॥ १६ ॥

अनुवाद (कन्नड)

होगुवाग ब्रह्महत्यॆय तत्काल अवन बॆन्नु बिद्दु, अवनन्नु आक्रमिसितु. इदरिन्द इन्द्रन मनस्सिनल्लि भारी दुःखवायितु.॥16॥

विश्वास-प्रस्तुतिः

हतारयः प्रणष्टेन्द्रा देवाः साग्निपुरोगमाः ।
विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

हतारयः प्रणष्टेन्द्रा देवाः साग्निपुरोगमाः ।
विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ १७ ॥

अनुवाद (हिन्दी)

‘देवताओंका शत्रु मारा गया । इसलिये अग्नि आदि सब देवता त्रिभुवनके स्वामी भगवान् विष्णुकी बार-बार स्तुति-पूजा करने लगे । परंतु उनके इन्द्र अदृश्य हो गये थे (इसके कारण उन्हें बड़ा दुःख हो रहा था) ॥ १७ ॥

अनुवाद (कन्नड)

देवतॆगळ शत्रु हतनादनु. इदरिन्द अग्निये आदि ऎल्ल देवतॆगळु त्रिभुवनस्वामि विष्णुवन्नु पदे-पदे स्तुतिसुत्ता पूजिसतॊडगिदरु. आदरॆ अवर इन्द्रनु कण्मरॆयागिद्दनु. इदरिन्द अवरिगॆ बहळ दुःखवागुत्तित्तु.॥17॥

विश्वास-प्रस्तुतिः

त्वं गतिः परमेशान पूर्वजो जगतः पिता ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

त्वं गतिः परमेशान पूर्वजो जगतः पिता ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥

अनुवाद (हिन्दी)

(देवता बोले—) ‘परमेश्वर! आप ही जगत् के आश्रय और आदि पिता हैं । आपने सम्पूर्ण प्राणियोंकी रक्षाके लिये विष्णुरूप धारण किया है ॥ १८ ॥

अनुवाद (कन्नड)

(देवतॆगळु हेळिदरु-) परमेश्वर ! नीने जगत्तिन आश्रय मत्तु आदिपिता आगिद्दीयॆ. नीनु समस्त प्राणिगळ रक्षणॆगागि विष्णुरूपवन्नु धरिसिरुवॆ.॥18॥

विश्वास-प्रस्तुतिः

हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।
बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।
बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश ॥ १९ ॥

अनुवाद (हिन्दी)

‘आपने ही इस वृत्रासुरका वध किया है । परंतु ब्रह्महत्या इन्द्रको कष्ट दे रही है; अतः सुरश्रेष्ठ! आप उनके उद्धारका कोई उपाय बताइये’ ॥ १९ ॥

अनुवाद (कन्नड)

नीने ई वृत्रासुरनन्नु वधिसिरुवॆ. आदरॆ ब्रह्महत्यॆयु इन्द्रनिगॆ कष्ट कॊडुत्तिदॆ. आद्दरिन्द सुरश्रेष्ठ! नीनु अवन उद्धारद यावुदादरू उपाय तिळिसु.॥19॥

विश्वास-प्रस्तुतिः

तेषां तद् वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ २० ॥

सर्वाष् टीकाः
मूलम्

तेषां तद् वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ २० ॥

अनुवाद (हिन्दी)

‘देवताओंकी यह बात सुनकर भगवान् विष्णु बोले—‘इन्द्र मेरा ही यजन करें । मैं उन वज्रधारी देवराज इन्द्रको पवित्र कर दूँगा ॥ २० ॥

अनुवाद (कन्नड)

देवतॆगळ मातन्नु केळि भगवान् विष्णु हेळिदनु - इन्द्रनु नन्न सलुवागि यज्ञ माडलि, नानु आ वज्रधारी देवेन्द्रनन्नु पवित्रगॊळिसुवॆनु.॥20॥

विश्वास-प्रस्तुतिः

पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ॥ २१ ॥

अनुवाद (हिन्दी)

‘‘पवित्र अश्वमेध-यज्ञके द्वारा मुझ यज्ञपुरुषकी आराधना करके पाकशासन इन्द्र पुनः देवेन्द्रपदको प्राप्त कर लेंगे और फिर उन्हें किसीसे भय नहीं रहेगा’ ॥ २१ ॥

अनुवाद (कन्नड)

पवित्र अश्वमेध यज्ञद मूलक यज्ञ पुरुषन आराधनॆ माडि पाकशासन इन्द्रनु पुनः देवेन्द्रन पदवियन्नु पडॆदुकॊण्डनु. मत्तॆ अवनिगॆ याव भयवू इरलिल्ल.॥21॥

विश्वास-प्रस्तुतिः

एवं सन्दिश्य तां वाणीं देवानां चामृतोपमाम् ।
जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ २२ ॥

सर्वाष् टीकाः
मूलम्

एवं सन्दिश्य तां वाणीं देवानां चामृतोपमाम् ।
जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ २२ ॥

अनुवाद (हिन्दी)

‘देवताओंके समक्ष अमृतमयी वाणीद्वारा उक्त संदेश देकर देवेश्वर भगवान् विष्णु अपनी स्तुति सुनते हुए परम धामको चले गये ॥ २२ ॥

अनुवाद (कन्नड)

देवतॆगळ मुन्दॆ अमृतमयि वाणियिन्द हीगॆ सन्देश कॊट्टु देवेश्वर भगवान् विष्णु तन्न स्तुतियन्नु केळुत्ता परमधामक्कॆ बिजयङ्गैदनु.॥22॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें पचासीवाँ सर्ग पूरा हुआ ॥ ८५ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎम्भत्तैदनॆय सर्ग पूर्णवायितु.॥85॥