[चतुरशीतितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- लक्ष्मणका अश्वमेध-यज्ञका प्रस्ताव करते हुए इन्द्र और वृत्रासुरकी कथा सुनाना, वृत्रासुरकी तपस्या और इन्द्रका भगवान् विष्णुसे उसके वधके लिये अनुरोध
विश्वास-प्रस्तुतिः
तथोक्तवति रामे तु भरते च महात्मनि ।
लक्ष्मणोऽथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
तथोक्तवति रामे तु भरते च महात्मनि ।
लक्ष्मणोऽथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ १ ॥
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः ।
द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ॥
अनुवाद (हिन्दी)
श्रीराम और महात्मा भरतके इस प्रकार बातचीत करनेपर लक्ष्मणने रघुकुलनन्दन श्रीरामसे यह शुभ बात कही— ॥ १ ॥
अनुवाद (कन्नड)
क्लेशरहित कर्ममाडुव श्रीरामन मातन्नु केळि द्वारपालकनु भरत - लक्ष्मणरन्नु करॆतन्दु, अवरु आगमिसिद वार्तॆयन्नु श्रीरामनिगॆ निवेदिसिकॊण्डनु.॥1॥
विश्वास-प्रस्तुतिः
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।
पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ २ ॥
सर्वाष् टीकाः
मूलम्
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।
पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ २ ॥
दृष्ट्वा तु राघवः प्राप्तावुभौ भरतलक्ष्मणौ ।
परिष्वज्य ततो रामो वाक्यमेतदुवाच ह ॥
अनुवाद (हिन्दी)
‘रघुनन्दन! अश्वमेध नामक महान् यज्ञ समस्त पापोंको दूर करनेवाला, परमपावन और दुष्कर है । अतः इसका अनुष्ठान आप पसंद करें ॥ २ ॥
अनुवाद (कन्नड)
भरत मत्तु लक्ष्मणरु बन्दिरुवुदन्नु नोडि रघुकुलतिलक श्रीरामनु अवरन्नु बिगिदप्पिकॊण्डु इन्तॆन्दनु.॥2॥
विश्वास-प्रस्तुतिः
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ३ ॥
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।
धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥
अनुवाद (हिन्दी)
‘महात्मा इन्द्रके विषयमें यह प्राचीन वृत्तान्त सुननेमें आता है कि इन्द्रको जब ब्रह्महत्या लगी थी, तब वे अश्वमेधयज्ञका अनुष्ठान करके ही पवित्र हुए थे ॥ ३ ॥
अनुवाद (कन्नड)
रघुवंशी राजकुमाररे! ब्राह्मणन कार्यवन्नु नानु यथावत्तागि पूरैसिदॆ. ईग नानु राजधर्मद चरमसीमॆयाद राजसूय यज्ञवन्नु माडलु बयसुत्तिरुवॆनु.॥3॥
विश्वास-प्रस्तुतिः
पुरा किल महाबाहो देवासुरसमागमे ।
वृत्रो नाम महानासीद् दैतेयो लोकसम्मतः ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
पुरा किल महाबाहो देवासुरसमागमे ।
वृत्रो नाम महानासीद् दैतेयो लोकसम्मतः ॥ ४ ॥
अक्षयश्चाव्ययश्चैव धर्मसेतुर्मतोमम ।
धर्मप्रवचनं चैव सर्वपापप्रणाशनम् ॥
अनुवाद (हिन्दी)
‘महाबाहो! पहलेकी बात है, जब देवता और असुर परस्पर मिलकर रहते थे, उन दिनों वृत्रनामसे प्रसिद्ध एक बहुत बड़ा असुर रहता था । लोकमें उसका बड़ा आदर था ॥ ४ ॥
अनुवाद (कन्नड)
धर्मसेतु (राजसूय याग) अक्षय, अविनाशि फलवन्नु कॊडुवन्तहुदु मत्तु अदु धर्मद पोषक हागू समस्त पापगळन्नु नाशमाडुवन्तहुदु ऎम्बुदु नन्न अनिसिकॆ.॥4॥
विश्वास-प्रस्तुतिः
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।
अनुरागेण लोकांस्त्रीन् स्नेहात् पश्यति सर्वतः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।
अनुरागेण लोकांस्त्रीन् स्नेहात् पश्यति सर्वतः ॥ ५ ॥
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।
सहितो यष्टुमिच्छामि तत्र धर्मस्तु शाश्वतः ॥
अनुवाद (हिन्दी)
‘वह सौ योजन चौड़ा और तीन सौ योजन ऊँचा था । वह तीनों लोकोंको आत्मीय समझकर प्यार करता था और सबको स्नेहभरी दृष्टिसे देखता था ॥ ५ ॥
अनुवाद (कन्नड)
नीविब्बरू नन्न आत्मस्वरूपी आगिद्दीरि. आद्दरिन्द निम्मॊन्दिगॆ ई उत्तम राजसूय यज्ञवन्नु माडलु इच्छिसुत्तेनॆ; एकॆन्दरॆ अदरल्लि राजन शाश्वतधर्म प्रतिष्ठितवागिदॆ.॥5॥
विश्वास-प्रस्तुतिः
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।
शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः ।
शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ६ ॥
इष्ट्वातु राजसूयेन मित्रःशत्रुनिर्बर्हणः ।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥
अनुवाद (हिन्दी)
‘उसे धर्मका यथार्थ ज्ञान था । वह कृतज्ञ और स्थिरप्रज्ञ था तथा पूर्णतः सावधान रहकर धन-धान्यसे भरी-पूरी पृथ्वीका धर्मपूर्वक शासन करता था ॥ ६ ॥
अनुवाद (कन्नड)
शत्रुसूदन मित्रदेवतॆयु उत्तम आहुतिगळिन्द कूडिद राजसूय ऎम्ब श्रेष्ठयज्ञदिन्द परमात्मनन्नु पूजिसि वरुणपदवियन्नु पडॆदुकॊण्डिद्दनु.॥6॥
विश्वास-प्रस्तुतिः
तस्मिन् प्रशासति तदा सर्वकामदुघा मही ।
रसवन्ति प्रसूनानि मूलानि च फलानि च ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
तस्मिन् प्रशासति तदा सर्वकामदुघा मही ।
रसवन्ति प्रसूनानि मूलानि च फलानि च ॥ ७ ॥
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।
प्राप्तश्च सर्वलोकेषु कीर्तिं स्थानं च शाश्वतम् ॥
अनुवाद (हिन्दी)
‘उसके शासनकालमें पृथ्वी सम्पूर्ण कामनाओंको देनेवाली थी । यहाँ फल, फूल और मूल सभी सरस होते थे ॥ ७ ॥
अनुवाद (कन्नड)
धर्मज्ञ सोमदेवनु धर्मपूर्वक राजसूय यज्ञद अनुष्ठान माडि समस्त लोकगळल्लि कीर्ति हागू शाश्वत स्थानवन्नु प्राप्तमाडिकॊण्डनु.॥7॥
विश्वास-प्रस्तुतिः
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः ।
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ ८ ॥
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।
हितं चायतियुक्तं च प्रयतौवक्तुमर्हथः ॥
अनुवाद (हिन्दी)
‘महात्मा वृत्रासुरके राज्यमें यह भूमि बिना जोते-बोये ही अन्न उत्पन्न करती तथा धन-धान्यसे भलीभाँति सम्पन्न रहती थी । इस प्रकार वह असुर समृद्धिशाली एवं अद्भुत राज्यका उपभोग करता था ॥ ८ ॥
अनुवाद (कन्नड)
अदक्कागि इन्दु नन्नॊन्दिगॆ कुळितु, नमगागि ई लोक मत्तु परलोकदल्लि श्रेयस्कर कर्मयावुदु ऎन्दु एकाग्रचित्तरागि नीविब्बरु विचारमाडि, ननगॆ सलहॆ नीडिरि.॥8॥
विश्वास-प्रस्तुतिः
तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ।
तपो हि परमं श्रेयः सम्मोहमितरत् सुखम् ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ।
तपो हि परमं श्रेयः सम्मोहमितरत् सुखम् ॥ ९ ॥
श्रुत्वा तु राघवस्यैतद् वाक्यं वाक्यविशारदः ।
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाचह ॥
अनुवाद (हिन्दी)
‘एक समय वृत्रासुरके मनमें यह विचार उत्पन्न हुआ कि मैं परम उत्तम तप करूँ; क्योंकि तप ही परम कल्याणका साधन है । दूसरा सारा सुख तो मोहमात्र ही है ॥ ९ ॥
अनुवाद (कन्नड)
श्रीरघुनाथन मातन्नु केळि वाक्यविशारद भरतनु कैमुगिदुकॊण्डु हीगॆ हेळिदनु.॥9॥
विश्वास-प्रस्तुतिः
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।
तप उग्रं समातिष्ठत् तापयन् सर्वदेवताः ॥ १० ॥
सर्वाष् टीकाः
मूलम्
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।
तप उग्रं समातिष्ठत् तापयन् सर्वदेवताः ॥ १० ॥
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥
अनुवाद (हिन्दी)
‘उसने अपने ज्येष्ठ पुत्र मधुरेश्वरको* राजा बना पुरवासियोंको सौंप दिया और सम्पूर्ण देवताओंको ताप देता हुआ वह कठोर तपस्या करने लगा ॥ १० ॥
\* मधुरेश्वरका अर्थ तिलककारने मधुर नामक राजा किया है । रामायणशिरोमणिकारने मधुर वक्ताओंका ईश्वर किया है तथा रामायणभूषणकारने ‘मधुर—सौम्य स्वभावका राजा अथवा मधुरा नगरीका स्वामी किया है ।
अनुवाद (कन्नड)
अमित पराक्रमि महाबाहो! निन्नल्लि उत्तम धर्म प्रतिष्ठितवागिदॆ. इडी पृथिवियु निन्नन्ने आधरिसि कॊण्डिदॆ हागू निन्नल्ले यशद प्रतिष्ठॆ इदॆ.॥10॥
विश्वास-प्रस्तुतिः
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।
विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।
विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥ ११ ॥
महीपालाश्च सर्वे त्वाम्प्रजापतिमिवामराः ।
निरीक्षन्ते महात्मानं लोकनाथं यथा वयम् ॥
अनुवाद (हिन्दी)
‘वृत्रासुरके तपस्यामें लग जानेपर इन्द्र बड़े दुःखी-से होकर भगवान् विष्णुके पास गये और इस प्रकार बोले— ॥ ११ ॥
अनुवाद (कन्नड)
देवतॆगळु प्रजापति ब्रह्मनन्ने महात्मा, लोकनाथनॆन्दु तिळियुवन्तॆये नावु हागू समस्त लोकनाथरु निन्नन्ने महापुरुष, समस्त लोकगळ स्वामि ऎन्दे नोडुत्तारॆ.॥11॥
विश्वास-प्रस्तुतिः
तपस्यता महाबाहो लोकाः सर्वे विनिर्जिताः ।
बलवान् स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
तपस्यता महाबाहो लोकाः सर्वे विनिर्जिताः ।
बलवान् स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ॥ १२ ॥
प्रजाश्च पितृवद्राजन् पश्यन्ति त्वां महाबल ।
पृथिव्या गतिभूतोऽसि प्राणिनामपि राघव ॥
अनुवाद (हिन्दी)
‘‘महाबाहो! तपस्या करते हुए वृत्रासुरने समस्त लोक जीत लिये । वह धर्मात्मा असुर बलवान् हो गया है; अतः अब उसपर मैं शासन नहीं कर सकता ॥ १२ ॥
अनुवाद (कन्नड)
महाबली रघुनन्दन! मक्कळु तन्दॆयन्नु नोडिदन्तॆये निन्न कुरितु ऎल्ल राजर भावनॆ इदॆ. नीने समस्त पृथिवी मत्तु सम्पूर्ण प्राणिगळ आश्रयनागिरुवॆ.॥12॥
विश्वास-प्रस्तुतिः
यद्यसौ तप आतिष्ठेद् भूय एव सुरेश्वर ।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
यद्यसौ तप आतिष्ठेद् भूय एव सुरेश्वर ।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ १३ ॥
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥
अनुवाद (हिन्दी)
‘‘सुरेश्वर! यदि वह फिर इसी प्रकार तपस्या करता रहा तो जबतक ये तीनों लोक रहेंगे, तबतक हम सब देवताओंको उसके अधीन रहना पड़ेगा ॥ १३ ॥
अनुवाद (कन्नड)
नरेश्व! हागिरुवाग भूमण्डलद समस्त राजवंशगळ विनाश कण्डुबरुवन्तह इन्तह यज्ञवन्नु नीनु हेगॆ माडबल्लॆ.॥13॥
विश्वास-प्रस्तुतिः
तं चैनं परमोदारमुपेक्षसि महाबल ।
क्षणं हि न भवेद् वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
तं चैनं परमोदारमुपेक्षसि महाबल ।
क्षणं हि न भवेद् वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ १४ ॥
पृथिव्यां ये च पुरुषा राजन् पौरुषमागताः ।
सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ॥
अनुवाद (हिन्दी)
महाबली देवेश्वर! उस परम उदार असुरकी आप उपेक्षा कर रहे हैं (इसीलिये वह शक्तिशाली होता जा रहा है) । यदि आप कुपित हो जायँ तो वह क्षणभर भी जीवित नहीं रह सकता ॥ १४ ॥
अनुवाद (कन्नड)
राजने! पृथिवियल्लिरुव पुरुषार्थिगळॆल्ल राजन विनाशक्कु, समस्तरिगॆ कोपवन्नुण्टुमाडुव ई यज्ञवु कारणवागुत्तदॆ.॥14॥
विश्वास-प्रस्तुतिः
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।
तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।
तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ १५ ॥
सर्वं पुरुषशार्दूल गुणैरतुलविक्रम ।
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥
अनुवाद (हिन्दी)
‘‘विष्णो! जबसे आपके साथ उसका प्रेम हो गया है, तभीसे उसने सम्पूर्ण लोकोंका आधिपत्य प्राप्त कर लिया है ॥ १५ ॥
अनुवाद (कन्नड)
पुरुषसिंह! अतुल पराक्रमी वीरने! निन्न सद्गुणगळिन्द इडी जगत्तु निन्न वशदल्लिदॆ. निनगॆ ई भूतळद निवासिगळ विनाश माडुवुदु उचितवागलारदु.॥15॥
विश्वास-प्रस्तुतिः
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।
त्वत्कृतेन हि सर्वं स्यात् प्रशान्तमरुजं जगत् ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः ।
त्वत्कृतेन हि सर्वं स्यात् प्रशान्तमरुजं जगत् ॥ १६ ॥
भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा ।
प्रहर्षमतुलंलेभे रामः सत्यपराक्रमः ॥
अनुवाद (हिन्दी)
‘‘अतः आप अच्छी तरह ध्यान देकर सम्पूर्ण लोकोंपर कृपा कीजिये । आपके रक्षा करनेसे ही सारा जगत् शान्त एवं नीरोग हो सकता है ॥ १६ ॥
अनुवाद (कन्नड)
भरतन ई अमृतमय मातन्नु केळि सत्यपराक्रमि श्रीरामनिगॆ अनुपम हर्षवायितु.॥16॥
विश्वास-प्रस्तुतिः
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।
वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।
वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ॥ १७ ॥
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।
प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेनघ ॥
अनुवाद (हिन्दी)
‘‘विष्णो! ये सब देवता आपकी ओर देख रहे हैं । वृत्रासुरका वध एक महान् कार्य है । उसे करके आप उन देवताओंका उपकार कीजिये ॥ १७ ॥
अनुवाद (कन्नड)
अवनु कैकेयिनन्दन भरतनल्लि हेळिदनु - ऎलै निष्पाप भरतने! इन्दु निन्न मातन्नु केळि नानु बहळ प्रसन्न हागू सन्तुष्टनागिद्देनॆ.॥17॥
विश्वास-प्रस्तुतिः
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।
असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।
असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ १८ ॥
इदं वचनमक्लीबं त्वयाधर्मसमागतम् ।
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥
अनुवाद (हिन्दी)
‘‘प्रभो! आपने सदा ही इन महात्मा देवताओंकी सहायता की है । यह असुर दूसरोंके लिये अजेय है; अतः आप हम निराश्रित देवताओंके आश्रयदाता हों’ ॥
अनुवाद (कन्नड)
पुरुषसिंहने! नीनु आडिद ई उदार मत्तु धर्मसम्मत मातु इडी पृथिवियन्नु रक्षिसुवुदागिदॆ.॥18॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें चौरासीवाँ सर्ग पूरा हुआ ॥ ८४ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎम्भत्तमूरनॆय सर्ग पूर्णवायितु.॥83॥