[त्र्यशीतितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- भरतके कहनेसे श्रीरामका राजसूय-यज्ञ करनेके विचारसे निवृत्त होना
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः ।
द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः ।
द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ ॥
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।
अपाक्रामत्सरः पुण्यमप्सरोगणसेवितम् ॥
अनुवाद (हिन्दी)
क्लेशरहित कर्म करनेवाले श्रीरामका यह कथन सुनकर द्वारपालने कुमार भरत और लक्ष्मणको बुलाकर श्रीरघुनाथजीकी सेवामें उपस्थित कर दिया ॥ १ ॥
अनुवाद (कन्नड)
ऋषिगळ आदेश पडॆदु श्रीरामचन्द्रनु सन्ध्योपासनॆ माडलु अप्सरॆयरिन्द सेवित आ पवित्र सरोवरद बळिगॆ होदनु.॥1॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तु राघवः प्राप्तावुभौ भरतलक्ष्मणौ ।
परिष्वज्य ततो रामो वाक्यमेतदुवाच ह ॥ २ ॥
सर्वाष् टीकाः
मूलम्
दृष्ट्वा तु राघवः प्राप्तावुभौ भरतलक्ष्मणौ ।
परिष्वज्य ततो रामो वाक्यमेतदुवाच ह ॥ २ ॥
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिताम् ।
आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥
अनुवाद (हिन्दी)
भरत और लक्ष्मणको आया देख रघुकुलतिलक श्रीरामने उन्हें हृदयसे लगा लिया और यह बात कही—
अनुवाद (कन्नड)
अल्लि आचमन, सायंसन्ध्योपासनॆ माडि, श्रीरामनु पुनः महात्मा कुम्भजर आश्रमवन्नु प्रवेशिसिदनु.॥2॥
विश्वास-प्रस्तुतिः
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।
धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।
धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥ ३ ॥
तस्यागस्त्त्यो बहुगुणं कन्दमूलं तथौषधम् ।
शाल्यादीनि पवित्राणिभोजनार्थमकल्पयत् ॥
अनुवाद (हिन्दी)
‘रघुवंशी राजकुमारो! मैंने ब्राह्मणका वह परम उत्तम कार्य यथावत् रूपसे सिद्ध कर दिया । अब मैं पुनः राजधर्मकी चरम सीमारूपराजसूय यज्ञका अनुष्ठान करना चाहता हूँ ॥ ३ ॥
अनुवाद (कन्नड)
अगस्त्यरु रामन भोजनक्कागि बहुगुण युक्त कन्द-मूलगळन्नु, जरावस्थॆयन्नु होग लाडिसुव दिव्य औषधि, पवित्र अन्न मॊदलाद वस्तुगळन्नु अर्पिसिदरु.॥3॥
विश्वास-प्रस्तुतिः
अक्षयश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
धर्मप्रवचनं चैव सर्वपापप्रणाशनम् ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
अक्षयश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
धर्मप्रवचनं चैव सर्वपापप्रणाशनम् ॥ ४ ॥
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥
अनुवाद (हिन्दी)
‘मेरी रायमें धर्मसेतु (राजसूय) अक्षय एवं अविनाशी फल देनेवाला है तथा वह धर्मका पोषक एवं समस्त पापोंका नाश करनेवाला है ॥ ४ ॥
अनुवाद (कन्नड)
नरश्रेष्ठ श्रीरामनु आ अमृततुल्य रुचिकर भोजन माडि परम तृप्तनागि, प्रसन्नतॆयिन्द आ रात्रियन्नु सन्तोषवागि अल्लि कळॆदनु.॥4॥
विश्वास-प्रस्तुतिः
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।
सहितो यष्टुमिच्छामि तत्र धर्मस्तु शाश्वतः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।
सहितो यष्टुमिच्छामि तत्र धर्मस्तु शाश्वतः ॥ ५ ॥
प्रभाते काल्यमुत्थाय कृत्वाऽऽह्निकमरिन्दमः ।
ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥
अनुवाद (हिन्दी)
‘तुम दोनों मेरे आत्मा ही हो, अतः मेरी इच्छा तुम्हारे साथ इस उत्तम राजसूय-यज्ञका अनुष्ठान करनेकी है; क्योंकि उसमें राजाका शाश्वत धर्म प्रतिष्ठित है ॥
अनुवाद (कन्नड)
बॆळिग्गॆ ऎद्दु शत्रुदमन रघुकुलभूषण श्रीरामनु नित्यकर्मवन्नु पूरैसि, अल्लिन्द हॊरडलु महर्षिगळ बळिगॆ होदनु.॥5॥
विश्वास-प्रस्तुतिः
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ६ ॥
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् ।
आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥
अनुवाद (हिन्दी)
‘शत्रुओंका संहार करनेवाले मित्रदेवताने उत्तम आहुतिसे युक्त राजसूय नामक श्रेष्ठ यज्ञद्वारा परमात्माका यजन करके वरुणका पद प्राप्त किया था ॥ ६ ॥
अनुवाद (कन्नड)
अल्लि महर्षि कुम्भजरिगॆ प्रणाम माडि श्रीरामनु हेळिदनु - महर्षिगळे ! ईग नानु नन्न पुरिगॆ होगलु निम्म आज्ञॆयन्नु बयसुत्तेनॆ. दयमाडि ननगॆ अप्पणॆ कॊडिरि.॥6॥
विश्वास-प्रस्तुतिः
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।
प्राप्तश्च सर्वलोकेषु कीर्तिं स्थानं च शाश्वतम् ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।
प्राप्तश्च सर्वलोकेषु कीर्तिं स्थानं च शाश्वतम् ॥ ७ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः ।
द्रष्टुञ्चैवागमिष्यामि पावनार्थमिहात्मनः ॥
अनुवाद (हिन्दी)
‘धर्मज्ञ सोम देवताने धर्मपूर्वक राजसूय-यज्ञका अनुष्ठान करके सम्पूर्ण लोकोंमें कीर्ति तथा शाश्वत स्थानको प्राप्त कर लिया ॥ ७ ॥
अनुवाद (कन्नड)
महात्मराद निम्म दर्शनदिन्द नानु धन्य हागू अनुग्रहितनागिद्देनॆ. मुन्दॆ ऎन्दादरू नन्नन्नु पवित्रनागिसिकॊळ्ळलु, निम्म दर्शनद इच्छॆ यिन्द इल्लिगॆ बरुवॆनु.॥7॥
विश्वास-प्रस्तुतिः
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।
हितं चायतियुक्तं च प्रयतौ वक्तुमर्हथः ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।
हितं चायतियुक्तं च प्रयतौ वक्तुमर्हथः ॥ ८ ॥
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥
अनुवाद (हिन्दी)
‘इसलिये आजके दिन मेरे साथ बैठकर तुमलोग यह विचार करो कि हमारे लिये कौन-सा कर्म लोक और परलोकमें कल्याणकारी होगा तथा संयतचित्त होकर तुम दोनों इस विषयमें मुझे सलाह दो’ ॥ ८ ॥
अनुवाद (कन्नड)
श्रीरामचन्द्रनु इन्तह अद्भुत वचनवन्नाडिदाग, धर्मचक्षु तपोधन अगस्त्यरु बहळ सन्तोषगॊण्डु अवनल्लि हेळिदरु.॥8॥
विश्वास-प्रस्तुतिः
श्रुत्वा तु राघवस्यैतद् वाक्यं वाक्यविशारदः ।
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
श्रुत्वा तु राघवस्यैतद् वाक्यं वाक्यविशारदः ।
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ९ ॥
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।
पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥
अनुवाद (हिन्दी)
श्रीरघुनाथजीके ये वचन सुनकर वाक्यविशारद भरतजीने हाथ जोड़कर यह बात कही— ॥ ९ ॥
अनुवाद (कन्नड)
श्रीरामा! निन्न सुन्दर वचन अद्भुतवागिदॆ. रघुनन्दन! समस्त प्राणिगळन्नु पवित्र माडुववनु नीने आगिरुवॆ.॥9॥
विश्वास-प्रस्तुतिः
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥ १० ॥
सर्वाष् टीकाः
मूलम्
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥ १० ॥
मुहूर्तमपि राम त्वां येऽनुपश्यन्तिकेचन ।
पाविताःस्वर्गभूताश्च पूज्यास्ते त्रिदिवेश्वरैः ॥
अनुवाद (हिन्दी)
‘साधो! अमित पराक्रमी महाबाहो! आपमें उत्तम धर्म प्रतिष्ठित है । यह सारी पृथ्वी भी आपपर ही आधारित है तथा आपमें ही यशकी प्रतिष्ठा है ॥ १० ॥
अनुवाद (कन्नड)
श्रीराम! यारादरू ऒन्दु मुहूर्तवादरू निन्न दर्शन माडुववनु पवित्रनागि स्वर्गक्कॆ अधिकारियागि, देवतॆगळिगू पूजनीयनागुत्तानॆ.॥10॥
विश्वास-प्रस्तुतिः
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।
निरीक्षन्ते महात्मानं लोकनाथं यथा वयम् ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।
निरीक्षन्ते महात्मानं लोकनाथं यथा वयम् ॥ ११ ॥
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।
हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥
अनुवाद (हिन्दी)
‘देवतालोग जैसे प्रजापति ब्रह्माको ही महात्मा एवं लोकनाथ समझते हैं, उसी प्रकार हमलोग और समस्त भूपाल आपको ही महापुरुष तथा समस्त लोकोंका स्वामी मानते हैं—उसी दृष्टिसे आपको देखते हैं ॥ ११ ॥
अनुवाद (कन्नड)
ई भूतळदल्लि निन्नन्नु क्रूरदृष्टियिन्द नोडुववनु यमदण्डदिन्द हॊडॆयल्पट्टु तत्काल नरकक्कॆ बीळुवनु.॥11॥
विश्वास-प्रस्तुतिः
पुत्राश्च पितृवद् राजन् पश्यन्ति त्वां महाबल ।
पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
पुत्राश्च पितृवद् राजन् पश्यन्ति त्वां महाबल ।
पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव ॥ १२ ॥
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।
भुवि त्वां कथयन्तो हि सिद्धिमेष्यन्ति राघव ॥
अनुवाद (हिन्दी)
‘राजन्! महाबली रघुनन्दन! पुत्र जैसे पिताको देखते हैं, उसी प्रकार आपके प्रति सब राजाओंका भाव है । आप ही समस्त पृथ्वी और सम्पूर्ण प्राणियोंके भी आश्रय हैं ॥
अनुवाद (कन्नड)
रघुश्रेष्ठने! इन्तह ऐश्वर्यशालि नीनु समस्त देहधारिगळन्नु पवित्र माडु ववनागिरुवॆ. रघुनन्दन! पृथिवियल्लि निन्न कथॆ हेळुववरु सिद्धियन्नु पडॆयुत्तारॆ.॥12॥
विश्वास-प्रस्तुतिः
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ १३ ॥
त्वं गच्छारिष्टमव्यग्रः पन्थानमकुतोभयम् ।
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥
अनुवाद (हिन्दी)
‘नरेश्वर! फिर आप ऐसा यज्ञ कैसे कर सकते हैं, जिसमें भूमण्डलके समस्त राजवंशोंका विनाश दिखायी देता है ॥ १३ ॥
अनुवाद (कन्नड)
नीनु निश्चिन्तनागि क्षेमवागि तॆरळु. निन्न मार्गदल्लि ऎल्लियू भय इल्लदिरलि. नीनु धर्मपूर्वक राज्यवाळु; एकॆन्दरॆ नीने जगत्तिन परमाश्रयनागिरुवॆ.॥13॥
विश्वास-प्रस्तुतिः
पृथिव्यां ये च पुरुषा राजन् पौरुषमागताः ।
सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
पृथिव्यां ये च पुरुषा राजन् पौरुषमागताः ।
सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ॥ १४ ॥
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।
अभ्यवादयत प्राज्ञस्तमृषिं सत्यशीलिनम् ॥
अनुवाद (हिन्दी)
‘राजन्! पृथ्वीपर जो पुरुषार्थी पुरुष हैं, उन सबका सभीके कोपसे उस यज्ञमें संहार हो जायगा ॥ १४ ॥
अनुवाद (कन्नड)
मुनियु हीगॆ हेळिदाग प्राज्ञनाद राज श्रीरामनु भुजगळन्नॆत्ति कैमुगिदु आ सत्यशील महर्षिगळिगॆ प्रणाममाडिदनु.॥14॥
विश्वास-प्रस्तुतिः
सर्वं पुरुषशार्दूल गुणैरतुलविक्रम ।
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
सर्वं पुरुषशार्दूल गुणैरतुलविक्रम ।
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ १५ ॥
अभिवाद्य ऋषिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।
अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥
अनुवाद (हिन्दी)
‘पुरुषसिंह! अतुल पराक्रमी वीर! आपके सद्गुणोंके कारण सारा जगत् आपके वशमें है । आपके लिये इस भूतलके निवासियोंका विनाश करना उचित न होगा’ ॥ १५ ॥
अनुवाद (कन्नड)
हीगॆ मुनिवर अगस्त्यरिगॆ हागू इतर ऎल्ल तपोवन ऋषिगळिगॆ यथोचित अभिवादन माडि अव्यग्रनागि सुवर्णभूषित पुष्पक विमानवन्नु एरिदनु.॥15॥
विश्वास-प्रस्तुतिः
भरतस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा ।
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
भरतस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा ।
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ १६ ॥
तं प्रयान्तं मुनिगणा आशीर्वादैःसमन्ततः ।
अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥
अनुवाद (हिन्दी)
भरतका यह अमृतमय वचन सुनकर सत्यपराक्रमी श्रीरामको अनुपम हर्ष प्राप्त हुआ ॥ १६ ॥
अनुवाद (कन्नड)
देवतॆगळु इन्द्रनन्नु पूजिसुवन्तॆये हॊरटु निन्त महेन्द्रतुल्य तेजस्वी श्रीरामनन्नु पूजिसि, ऋषिगळॆल्लरू आशीर्वदिसिदरु.॥16॥
विश्वास-प्रस्तुतिः
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।
प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेऽनघ ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।
प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेऽनघ ॥ १७ ॥
स्वस्थ स ददृशे रामः पुष्पके हेमभूषिते ।
शशी मेघसमीपस्थो यथा जलधरागमे ॥
अनुवाद (हिन्दी)
उन्होंने कैकेयीनन्दन भरतसे यह शुभ बात कही—‘निष्पाप भरत! आज तुम्हारी बात सुनकर मैं बहुत प्रसन्न एवं संतुष्ट हुआ हूँ ॥ १७ ॥
अनुवाद (कन्नड)
आ स्वर्णभूषित पुष्पकविमानदल्लि आकाशदल्लि स्थितनाद श्रीरामनु वर्षाकालद मेघगळ बळि इरुव चन्द्रनन्तॆ कण्डुबरुत्तिद्दनु.॥17॥
विश्वास-प्रस्तुतिः
इदं वचनमक्लीबं त्वया धर्मसमागतम् ।
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
इदं वचनमक्लीबं त्वया धर्मसमागतम् ।
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ १८ ॥
ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।
अयोध्यां प्राप्य काकुत्स्थो मध्यकक्षामवातरत् ॥
अनुवाद (हिन्दी)
‘पुरुषसिंह! तुम्हारे मुखसे निकला हुआ यह उदार एवं धर्मसंगत वचन सारी पृथ्वीकी रक्षा करनेवाला है ॥
अनुवाद (कन्नड)
अनन्तर अल्लल्लि सम्मान पडॆयुत्ता श्रीरघुरामनु मध्याह्न समयक्कॆ अयोध्यॆगॆ तलुपि नडु अङ्गळदल्लि इळिदनु.॥18॥
विश्वास-प्रस्तुतिः
एष्यदस्मदभिप्रायाद् राजसूयात् क्रतूत्तमात् ।
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
एष्यदस्मदभिप्रायाद् राजसूयात् क्रतूत्तमात् ।
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ १९ ॥
ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् ।
विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः ॥
अनुवाद (हिन्दी)
‘धर्मज्ञ! मेरे हृदयमें राजसूय-यज्ञका संकल्प उठ रहा था; किंतु आज तुम्हारे इस सुन्दर भाषणको सुनकर मैं उस उत्तम यज्ञकी ओरसे अपने मनको हटाये लेता हूँ ॥ १९ ॥
अनुवाद (कन्नड)
बळिक इच्छानुसार चलिसुव आ सुन्दर पुष्पक विमानवन्नु अल्ले बिट्टु प्रभु श्रीरामनु अदर बळि हेळिदनु-ईग नीनु होगु, निनगॆ मङ्गळवागलि.॥19॥
विश्वास-प्रस्तुतिः
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।
बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज ।
तस्माच्छृणोमि ते वाक्यं साधु युक्तं महाबल ॥ २० ॥
सर्वाष् टीकाः
मूलम्
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।
बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज ।
तस्माच्छृणोमि ते वाक्यं साधु युक्तं महाबल ॥ २० ॥
कक्षान्तरस्थितं क्षिप्रं द्वास्स्थं रामोऽब्रवीद्वचः ।
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रवौ ।
ममागमनमाख्याय शब्दापयत मा चिरम् ॥
अनुवाद (हिन्दी)
‘लक्ष्मणके बड़े भाई! बुद्धिमान् पुरुषोंको ऐसा कर्म नहीं करना चाहिये जो सम्पूर्ण जगत् को पीड़ा देनेवाला हो । बालकोंकी कही हुई बात भी यदि अच्छी हो तो उसे ग्रहण करना ही उचित है; अतः महाबली वीर! मैंने तुम्हारे उत्तम एवं युक्तिसंगत बातको बड़े ध्यानसे सुना है’ ॥ २० ॥
अनुवाद (कन्नड)
मत्तॆ श्रीरामनु अल्ले निन्तिद्द द्वारपालकरल्लि हेळिदनु - नीनु ईगले होगि शीघ्रपराक्रमि भरत मत्तु लक्ष्मणरिगॆ नानु बन्द सूचनॆ कॊट्टु, अवरन्नु बेगनॆ करॆदु ता.॥20॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें तिरासीवाँ सर्ग पूरा हुआ ॥ ८३ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎम्भत्तॆरडनॆय सर्ग पूर्णवायितु. ॥82॥