[द्व्यशीतितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- श्रीरामका अगस्त्य-आश्रमसे अयोध्यापुरीको लौटना
विश्वास-प्रस्तुतिः
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।
उपाक्रमत् सरः पुण्यमप्सरोगणसेवितम् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।
उपाक्रमत् सरः पुण्यमप्सरोगणसेवितम् ॥ १ ॥
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥
अनुवाद (हिन्दी)
ऋषिका यह आदेश पाकर श्रीरामचन्द्रजी संध्योपासना करनेके लिये अप्सराओंसे सेवित उस पवित्र सरोवरके तटपर गये ॥ १ ॥
अनुवाद (कन्नड)
मुहूर्तकाल कळॆद बळिक शिष्यनॊब्बन बायिन्द अरजॆयॊडनॆ दण्डराजन बलात्कारद मातन्नु केळि, अमित तेजस्वी महर्षिगळु हसिविनिन्द पीडितराद शुक्राचार्यरु शिष्यरॊडनॆ आश्रमक्कॆ मरळिदरु.॥1॥
विश्वास-प्रस्तुतिः
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।
आश्रमं प्राविशद् रामः कुम्भयोनेर्महात्मनः ॥ २ ॥
सर्वाष् टीकाः
मूलम्
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।
आश्रमं प्राविशद् रामः कुम्भयोनेर्महात्मनः ॥ २ ॥
सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ॥
अनुवाद (हिन्दी)
वहाँ आचमन और सायंकालकी संध्योपासना करके श्रीरामने पुनः महात्मा कुम्भजके आश्रममें प्रवेश किया ॥ २ ॥
अनुवाद (कन्नड)
अरजा दुःखितॆयागि अळुत्तिरुवळु, आकॆय शरीरक्कॆ धूळु मॆत्तिकॊण्डित्तु हागू अवळु प्रातःकालद चन्द्रनन्तॆ, राहुग्रस्त चन्द्रन शोभाहीन बॆळदिङ्गळिनन्तॆ इरुववळन्नु नोडिदरु.॥2॥
विश्वास-प्रस्तुतिः
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधम् ।
शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधम् ।
शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥
तस्य रोषः समभवत् क्षुधार्तस्य विशेषतः ।
निर्दहन्निव लोकांस्त्रीन् शिष्यांश्चैतदुवाच ह ॥
अनुवाद (हिन्दी)
अगस्त्यजीने उनके भोजनके लिये अनेक गुणोंसे युक्त कन्द, मूल, जरावस्थाको निवारण करनेवाली दिव्य ओषधि, पवित्र भात आदि वस्तुएँ अर्पित कीं ॥ ३ ॥
अनुवाद (कन्नड)
इदन्नु नोडि, विशेषवागि हसिविनिन्द पीडितराद्दरिन्द शुक्राचार्यर कोप हॆच्चायितु. मूरु लोकगळन्नु सुट्टुबिडुवरो ऎम्बन्तॆ काणुत्तिद्द अवरु शिष्यरल्लि हेळिदरु.॥3॥
विश्वास-प्रस्तुतिः
स भुक्तवान् नरश्रेष्ठस्तदन्नममृतोपमम् ।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
स भुक्तवान् नरश्रेष्ठस्तदन्नममृतोपमम् ।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ४ ॥
पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः ।
विपत्तिं घोरसङ्काशां क्रुद्धादग्निशिखामिव ॥
अनुवाद (हिन्दी)
नरश्रेष्ठ श्रीराम वह अमृततुल्य स्वादिष्ट भोजन करके परम तृप्त और प्रसन्न हुए तथा वह रात्रि उन्होंने बड़े संतोषसे बितायी ॥ ४ ॥
अनुवाद (कन्नड)
शिष्यरे! शास्त्रविधिगॆ विपरीतवागि आचरिसुव अज्ञानि राज दण्डनिगॆ, कुपितनाद नन्निन्दागि अग्निशिखॆयन्तॆ हेगॆ घोर विपत्तु उण्टादीतो नोडिरि.॥4॥
विश्वास-प्रस्तुतिः
प्रभाते काल्यमुत्थाय कृत्वाऽऽह्निकमरिन्दमः ।
ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
प्रभाते काल्यमुत्थाय कृत्वाऽऽह्निकमरिन्दमः ।
ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ ५ ॥
क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमर्हति ॥
अनुवाद (हिन्दी)
सबेरे उठकर शत्रुओंका दमन करनेवाले रघुकुलभूषण श्रीराम नित्यकर्म करके वहाँसे जानेकी इच्छासे महर्षिके पास गये ॥ ५ ॥
अनुवाद (कन्नड)
सेवकर सहित ई दुर्बुद्धि, दुरात्मा राजन विनाशद समय बन्दिदॆ. अवनु उरियुव बॆङ्कियन्नु अप्पिकॊळ्ळलु बयसुत्तिद्दानॆ.॥5॥
विश्वास-प्रस्तुतिः
अभिवाद्याब्रवीद् रामो महर्षिं कुम्भसम्भवम् ।
आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
अभिवाद्याब्रवीद् रामो महर्षिं कुम्भसम्भवम् ।
आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ ६ ॥
यस्मात्स कृतवान्पापमीदृशङ्घोरसंहितम् ।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥
अनुवाद (हिन्दी)
वहाँ महर्षि कुम्भजको प्रणाम करके श्रीरामने कहा—‘महर्षे! अब मैं अपनी पुरीको जानेके लिये आपकी आज्ञा चाहता हूँ । कृपया मुझे आज्ञा प्रदान करें ॥ ६ ॥
अनुवाद (कन्नड)
आ दुर्बुद्धियु इन्तह घोर पाप माडिरुवाग अवनिगॆ ई पापद फल अवश्य दॊरकुवुदु.॥6॥
विश्वास-प्रस्तुतिः
धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः ।
द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः ।
द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७ ॥
सप्तरात्रेण राजासौ सपुत्रबलवाहनः ।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥
अनुवाद (हिन्दी)
‘आप महात्माके दर्शनसे मैं धन्य और अनुगृहीत हुआ । अब अपने-आपको पवित्र करनेके लिये फिर कभी आपके दर्शनकी इच्छासे यहाँ आऊँगा’ ॥ ७ ॥
अनुवाद (कन्नड)
पापकर्मवन्नु आचरिसिद आ दुष्टबुद्धि राजनु एळु रात्रॆयॊळगॆ पुत्र, सैन्य, वाहनगळॊन्दिगॆ नाशवागि होगुवनु.॥7॥
विश्वास-प्रस्तुतिः
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ८ ॥
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीके इस प्रकार अद्भुत वचन कहनेपर धर्मचक्षु तपोधन अगस्त्यजी बड़े प्रसन्न हुए और उनसे बोले— ॥ ८ ॥
अनुवाद (कन्नड)
दुर्मतिय ई राजन राज्यवन्नु ऎल्ल कडॆयिन्द नूरु योजन उद्दवाद राज्यद मेलॆ इन्द्रनु भारी धूळन्नु मळॆयागि सुरिसि नाशमाडुवनु.॥8॥
विश्वास-प्रस्तुतिः
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।
पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।
पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ ९ ॥
सर्वसत्त्वानि यानीह स्थावराणि चराणि च ।
महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥
अनुवाद (हिन्दी)
‘श्रीराम! आपके ये सुन्दर वचन बड़े अद्भुत हैं । रघुनन्दन! समस्त प्राणियोंको पवित्र करनेवाले तो आप ही हैं ॥ ९ ॥
अनुवाद (कन्नड)
ऎल्ल प्रकारद स्थावर जङ्गम जीविगळु वासिसुवल्लि ई भारी धूळिन मळॆयिन्दागि ऎल्लॆडॆ विलीनवागुववु.॥9॥
विश्वास-प्रस्तुतिः
मुहूर्तमपि राम त्वां येऽनुपश्यन्ति केचन ।
पाविताः स्वर्गभूताश्च पूज्यास्ते त्रिदिवेश्वरैः ॥ १० ॥
सर्वाष् टीकाः
मूलम्
मुहूर्तमपि राम त्वां येऽनुपश्यन्ति केचन ।
पाविताः स्वर्गभूताश्च पूज्यास्ते त्रिदिवेश्वरैः ॥ १० ॥
दण्डस्य विषयो यावत्तावत्सर्वं समुच्छ्रयम् ।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥
अनुवाद (हिन्दी)
‘श्रीराम! जो कोई एक मुहूर्तके लिये भी आपका दर्शन पा जाते हैं, वे पवित्र, स्वर्गके अधिकारी तथा देवताओंके लिये भी पूजनीय हो जाते हैं ॥ १० ॥
अनुवाद (कन्नड)
दण्डन राज्यविरुवतनिक अल्लिय समस्त चराचर प्राणिगळु एळु रात्रिगळवरॆगॆ केवल धूळिन मळॆयिन्दागि अदृश्यवागि होगुवुदु.॥10॥
विश्वास-प्रस्तुतिः
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।
हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।
हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ ११ ॥
इत्युक्त्वा क्रोधताम्राक्षस्तमाश्रमनिवासिनम् ।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥
अनुवाद (हिन्दी)
‘इस भूतलपर जो प्राणी आपको क्रूर दृष्टिसे देखते हैं, वे यमराजके दण्डसे पीटे जाकर तत्काल नरकमें गिरते हैं ॥ ११ ॥
अनुवाद (कन्नड)
हीगॆ हेळि क्रोध ताम्राक्षराद शुक्ररु आ आश्रमदल्लि वासिसुव जनरल्लि - दण्डन राज्यद सीमॆय हॊरगिन देशदल्लि होगि वासिसिरि ऎन्दु हेळिदरु.॥11॥
विश्वास-प्रस्तुतिः
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।
भुवि त्वां कथयन्तो हि सिद्धिमेष्यन्ति राघव ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।
भुवि त्वां कथयन्तो हि सिद्धिमेष्यन्ति राघव ॥ १२ ॥
श्रुत्वा तूशनसो वाक्यं सोऽश्रमावसथो जनः ।
निष्क्रान्तो विषयात्तस्मात् स्थानं चक्रेऽथ बाह्यतः ॥
अनुवाद (हिन्दी)
‘रघुश्रेष्ठ! ऐसे माहात्म्यशाली आप समस्त देहधारियोंको पवित्र करनेवाले हैं । रघुनन्दन! पृथ्वीपर जो लोग आपकी कथाएँ कहते हैं, वे सिद्धि प्राप्त कर लेते हैं ॥ १२ ॥
अनुवाद (कन्नड)
शुक्राचार्यर मातन्नु केळि आश्रमवासिगळु आ राज्यदिन्द हॊरटु, सीमॆय हॊरगिन राज्यदल्लि वासिसतॊडगिदरु.॥12॥
विश्वास-प्रस्तुतिः
त्वं गच्छारिष्टमव्यग्रः पन्थानमकुतोभयम् ।
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
त्वं गच्छारिष्टमव्यग्रः पन्थानमकुतोभयम् ।
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ १३ ॥
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।
इहैव वस दुर्मेधे आश्रये सुसमाहिता ॥
अनुवाद (हिन्दी)
‘आप निश्चिन्त होकर कुशलपूर्वक पधारिये । आपके मार्गमें कहींसे कोई भय न रहे । आप धर्मपूर्वक राज्यका शासन करें; क्योंकि आप ही संसारके परम आश्रय हैं’ ॥ १३ ॥
अनुवाद (कन्नड)
आश्रमवासिगळल्लि हीगॆ हेळि शुक्रचार्यरु अरजॆयल्लि - ऎलै बुद्धिगॆट्टवळे! नीनु इल्ले इदे आश्रमदल्लि मनस्सन्नु परमात्मन ध्यानदल्लि एकाग्रगॊळिसि इरु.॥13॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।
अभ्यवादयत प्राज्ञस्तमृषिं सत्यशीलिनम् ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।
अभ्यवादयत प्राज्ञस्तमृषिं सत्यशीलिनम् ॥ १४ ॥
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥
अनुवाद (हिन्दी)
मुनिके ऐसा कहनेपर बुद्धिमान् राजा श्रीरामने भुजाएँ ऊपर उठा हाथ जोड़कर उन सत्यशील महर्षिको प्रणाम किया ॥ १४ ॥
अनुवाद (कन्नड)
अरजॆ! ऒन्दु योजन हरडिद ई सुन्दर सरोवरवन्नु निश्चिन्तळागि उपयोगिसि, हण्णु-हम्पलुगळन्नु तिन्नुत्ता, तन्न अपराधद निवृत्तिगागि कालवन्नु प्रतीक्षॆ माडुत्ता इरु.॥1.॥
विश्वास-प्रस्तुतिः
अभिवाद्य ऋषिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।
अध्यारोहत् तदव्यग्रः पुष्पकं हेमभूषितम् ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
अभिवाद्य ऋषिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।
अध्यारोहत् तदव्यग्रः पुष्पकं हेमभूषितम् ॥ १५ ॥
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥
अनुवाद (हिन्दी)
इस प्रकार मुनिवर अगस्त्य तथा अन्य सब तपोधन ऋषियोंका भी यथोचित अभिवादन कर वे बिना किसी व्यग्रताके उस सुवर्णभूषित पुष्पकविमानपर चढ़ गये ॥ १५ ॥
अनुवाद (कन्नड)
याव जीविगळु निन्न बळियल्लि इरुववो अवु ऎन्दू धूळिन मळॆयिन्द सायलाररु. सदा निन्न सङ्गड इरुववु.॥15॥
विश्वास-प्रस्तुतिः
तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः ।
अपूजयन् महेन्द्राभं सहस्राक्षमिवामराः ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः ।
अपूजयन् महेन्द्राभं सहस्राक्षमिवामराः ॥ १६ ॥
श्रुत्वा नियोगं ब्रह्मर्षेः सारजा भार्गवी तदा ।
तथेति पितरं प्राह भार्गवं भृशदुःखिता ॥
अनुवाद (हिन्दी)
जैसे देवता सहस्रनेत्रधारी इन्द्रकी पूजा करते हैं, उसी प्रकार जाते समय उन महेन्द्रतुल्य तेजस्वी श्रीरामको ऋषि-समूहोंने सब ओरसे आशीर्वाद दिया ॥ १६ ॥
अनुवाद (कन्नड)
ब्रह्मर्षिय ई आदेशवन्नु केळि आ भृगुकन्यॆ अरजॆयु अत्यन्त दुःखितळागिद्दरू, तन्न तन्दॆ भार्गवरल्लि हागॆये आगलॆन्दु हेळिदळु.॥16॥
विश्वास-प्रस्तुतिः
खस्थः स ददृशे रामः पुष्पके हेमभूषिते ।
शशी मेघसमीपस्थो यथा जलधरागमे ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
खस्थः स ददृशे रामः पुष्पके हेमभूषिते ।
शशी मेघसमीपस्थो यथा जलधरागमे ॥ १७ ॥
इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ।
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ॥
सप्ताहाद्भस्मसाद्भूतंयथोक्तं ब्रह्मवादिना ।
अनुवाद (हिन्दी)
उस सुवर्णभूषित पुष्पकविमानपर आकाशमें स्थित हुए श्रीराम वर्षाकालमें मेघोंके समीपवर्ती चन्द्रमाके समान दिखायी देते थे ॥ १७ ॥
अनुवाद (कन्नड)
हीगॆ हेळि शुक्राचार्यरु बेरॆ राज्यक्कॆ होगि वासिसिदरु. आ ब्रह्मवादीय मातिनन्तॆ दण्डकराजन राज्य, सेवक, सैन्य, वाहनादिगळ सहित एळु दिनगळल्लि भस्मदन्तॆ आयितु.॥17½॥
विश्वास-प्रस्तुतिः
ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।
अयोध्यां प्राप्य काकुत्स्थो मध्यकक्षामवातरत् ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।
अयोध्यां प्राप्य काकुत्स्थो मध्यकक्षामवातरत् ॥ १८ ॥
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ॥
अनुवाद (हिन्दी)
तदनन्तर जगह-जगह सम्मान पाते हुए वे श्रीरघुनाथजी मध्याह्नके समय अयोध्यामें पहुँचकर मध्यम कक्षा (बीचकी ड्योढ़ी)-में उतरे ॥ १८ ॥
विश्वास-प्रस्तुतिः
ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् ।
विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् ।
विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः ॥ १९ ॥
शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ।
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ॥
अनुवाद (हिन्दी)
तत्पश्चात् इच्छानुसार चलनेवाले उस सुन्दर पुष्पकविमानको वहीं छोड़कर भगवान् ने उससे कहा—‘अब तुम जाओ । तुम्हारा कल्याण हो’ ॥ १९ ॥
अनुवाद (कन्नड)
नरेश्वरने! विन्ध्य मत्तु शेवलगिरिय मध्यभागदल्लि दण्डकन राज्यवित्तु. काकुत्स्थने! धर्मयुग कृतयुगदल्लि धर्मविरुद्ध आचरण माडिदाग आ ब्रह्मर्षियु राज मत्तु अवन देशक्कॆ शापवन्नु कॊट्टरु. अन्दिनिन्द आ भूभागवु दण्डकारण्य ऎन्दु हेळल्पट्टितु.॥18-19॥
विश्वास-प्रस्तुतिः
कक्षान्तरस्थितं क्षिप्रं द्वाःस्थं रामोऽब्रवीद् वचः ।
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।
ममागमनमाख्याय शब्दापयत मा चिरम् ॥ २० ॥
सर्वाष् टीकाः
मूलम्
कक्षान्तरस्थितं क्षिप्रं द्वाःस्थं रामोऽब्रवीद् वचः ।
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।
ममागमनमाख्याय शब्दापयत मा चिरम् ॥ २० ॥
तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत् ।
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ॥
अनुवाद (हिन्दी)
फिर श्रीरामने ड्योढ़ीके भीतर खड़े हुए द्वारपालसे शीघ्रतापूर्वक कहा—‘तुम अभी जाकर शीघ्रपराक्रमी भरत और लक्ष्मणको मेरे आनेकी सूचना दो और उन्हें जल्दी बुला लाओ’ ॥ २० ॥
अनुवाद (कन्नड)
ई स्थानदल्लि तपस्विगळु बन्दु नॆलॆसिदरु; इदक्कागि इदर हॆसरु जनस्थानवॆन्दायितु. रघुनन्दन! नीनु केळिद विषयवागि ऎल्लवन्नु नानु तिळिसिद्देनॆ.॥20॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्यशीतितमः सर्गः ॥ ८२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें बयासीवाँ सर्ग पूरा हुआ ॥ ८२ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎम्भत्तॊन्दनॆय सर्ग पूर्णवायितु. ॥81॥