[अशीतितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- राजा दण्डका भार्गव-कन्याके साथ बलात्कार
विश्वास-प्रस्तुतिः
एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥
सर्वाष् टीकाः
मूलम्
एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।
गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे ॥
अनुवाद (हिन्दी)
महर्षि कुम्भज श्रीरामसे इतनी कथा कहकर फिर इसीका अवशिष्ट अंश इस तरह कहने लगे— ॥ १ ॥
अनुवाद (कन्नड)
अगस्त्यर ई अत्यन्त अद्भुत मातन्नु केळि श्रीरघुनाथन मनस्सिनल्लि अवर कुरितु विशेष गौरव उण्टागि, विस्मितनागि पुनः अवरल्लि केळिदनु.॥1॥
विश्वास-प्रस्तुतिः
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत् तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥
सर्वाष् टीकाः
मूलम्
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत् तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं तदमृगद्विजम् ॥
अनुवाद (हिन्दी)
‘काकुत्स्थ! तदनन्तर राजा दण्डने मन और इन्द्रियोंको काबूमें रखकर बहुत वर्षोंतक वहाँ अकण्टक राज्य किया ॥ २ ॥
अनुवाद (कन्नड)
पूज्यरे! विदर्भदेशद राजाश्वेतनु घोर तपस्सु माडुत्तिद्द आ भयङ्कर वनवु पशु-पक्षिगळिन्द रहित एकायितु.॥2॥
विश्वास-प्रस्तुतिः
अथ काले तु कस्मिंश्चिद् राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
अथ काले तु कस्मिंश्चिद् राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ३ ॥
तद्वनं स कथं राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुम्प्रविष्ठः स श्रोतुमिच्छामि तत्त्वतः ॥
अनुवाद (हिन्दी)
‘तत्पश्चात् किसी समय राजा मनोरम चैत्रमासमें शुक्राचार्यके रमणीय आश्रमपर आया ॥ ३ ॥
अनुवाद (कन्नड)
आ विदर्भराजनु आ शून्य निर्जन वनक्कॆ तपस्सु माडलु एकॆ होदनु? इदन्नु यथार्थवागि तिळियलु नानु बयसुत्तेनॆ.॥3॥
विश्वास-प्रस्तुतिः
तत्र भार्गवकन्यां स रूपेणप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
तत्र भार्गवकन्यां स रूपेणप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥ ४ ॥
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥
अनुवाद (हिन्दी)
‘वहाँ शुक्राचार्यकी सर्वोत्तम सुन्दरी कन्या, जिसके रूपकी इस भूतलपर कहीं तुलना नहीं थी, वनप्रान्तमें विचर रही थी । दण्डने उसे देखा ॥ ४ ॥
अनुवाद (कन्नड)
श्रीरामन कुतूहलयुक्त मातन्नु केळि आ परम तेजस्वी महर्षिगळु पुनः हीगॆ हेळतॊडगिदरु.॥4॥
विश्वास-प्रस्तुतिः
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ५ ॥
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।
तस्यपुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥
अनुवाद (हिन्दी)
‘उसे देखते ही वह अत्यन्त खोटी बुद्धिवाला राजा कामदेवके बाणोंसे पीड़ित हो पास जाकर उस डरी हुई कन्यासे बोला— ॥ ५ ॥
अनुवाद (कन्नड)
श्रीराम! हिन्दॆ कृतयुगदल्लि दण्डधारी मनुमहाराजनु भूतळदल्लि राज्यवाळुत्तिद्दनु. अवन ओर्व ज्येष्ठपुत्र इक्ष्वाकु आगिद्दनु. राजकुमार इक्ष्वाकु तन्न कुलवन्नु आनन्दगॊळिसुववनागिद्दनु.॥5॥
विश्वास-प्रस्तुतिः
कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे ।
पीडितोऽहमनङ्गेन पृच्छामि त्वां शुभानने ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे ।
पीडितोऽहमनङ्गेन पृच्छामि त्वां शुभानने ॥ ६ ॥
तं पुत्रं पूर्वकं राज्ये निक्षिप्य भुविदुर्जयम् ।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच तम् ॥
अनुवाद (हिन्दी)
‘‘सुश्रोणि! तुम कहाँसे आयी हो अथवा शुभे! तुम किसकी पुत्री हो? शुभानने! मैं कामदेवसे पीड़ित हूँ; इसलिये तुम्हारा परिचय पूछता हूँ’’ ॥ ६ ॥
अनुवाद (कन्नड)
तन्न ज्येष्ठ हागू दुर्जय पुत्रनन्नु भूमण्डलद राज्यदल्लि स्थापिसि मनुवु हेळिदनु- मगने! नीनु पृथिवियल्लि राजवंशवन्नु सृष्टिसु.॥6॥
विश्वास-प्रस्तुतिः
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं त्विदम् ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं त्विदम् ॥ ७ ॥
तथैव च प्रतिज्ञातं पितुः पुत्रेण राघव ।
ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥
अनुवाद (हिन्दी)
‘मोहसे उन्मत्त होकर वह कामी राजा जब इस प्रकार पूछने लगा, तब भृगुकन्याने विनयपूर्वक उसे इस प्रकार उत्तर दिया— ॥ ७ ॥
अनुवाद (कन्नड)
रघुनन्दन! पुत्र इक्ष्वाकु तन्दॆय मुन्दॆ हागे माडुवॆनॆन्दु प्रतिज्ञॆ माडिदनु. इदरिन्द मनु बहळ सन्तुष्टनागि तन्न मगनल्लि हेळिदनु.॥7॥
विश्वास-प्रस्तुतिः
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥
प्रीतोस्मि परमोदार कर्ता चासि न संशयः ।
दण्डेन च प्रजा रक्षमा च दण्डमकारणे ॥
अनुवाद (हिन्दी)
‘‘राजेन्द्र! तुम्हें ज्ञात होना चाहिये कि मैं पुण्यकर्मा शुक्रदेवताकी ज्येष्ठ पुत्री हूँ । मेरा नाम अरजा है । मैं इसी आश्रममें निवास करती हूँ ॥ ८ ॥
अनुवाद (कन्नड)
परमोदार पुत्रने! नानु निन्न मेलॆ बहळ प्रसन्ननागिद्देनॆ. नीनु राजवंशद सृष्टि माडुवि ऎम्बुदरल्लि संशयवे इल्ल. नीनु दण्डदिन्द दुष्टरन्नु दमन माडुत्त प्रजॆयन्नु रक्षिसु; आदरॆ अपराधविल्लदॆ शिक्षॆ कॊडबेड.॥8॥
विश्वास-प्रस्तुतिः
मा मां स्पृश बलाद् राजन् कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
मा मां स्पृश बलाद् राजन् कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ॥ ९ ॥
अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥
अनुवाद (हिन्दी)
‘‘राजन्! बलपूर्वक मेरा स्पर्श न करो । मैं पिताके अधीन रहनेवाली कुमारी कन्या हूँ । राजेन्द्र! मेरे पिता तुम्हारे गुरु हैं और तुम उन महात्माके शिष्य हो ॥ ९ ॥
अनुवाद (कन्नड)
अपराधि मनुष्यरिगॆ कॊडुव शिक्षॆयु विधिपूर्वकवागि कॊट्टु, शिक्षॆयु राजनिगॆ स्वर्गलोक प्राप्तवागुत्तदॆ.॥9॥
विश्वास-प्रस्तुतिः
व्यसनं सुमहत् क्रुद्धः स ते दद्यान्महातपाः ।
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ॥ १० ॥
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।
अन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम् ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
व्यसनं सुमहत् क्रुद्धः स ते दद्यान्महातपाः ।
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ॥ १० ॥
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।
अन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम् ॥ ११ ॥
तस्माद्दण्डे महाबाहो यत्नवान् भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्तेभविष्यति ॥
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥
अनुवाद (हिन्दी)
‘‘नरश्रेष्ठ! वे महातपस्वी हैं । यदि कुपित हो जायँ तो तुम्हें बड़ी भारी विपत्तिमें डाल सकते हैं । यदि मुझसे तुम्हें दूसरा ही काम लेना हो (अर्थात् यदि तुम मुझे अपनी भार्या बनाना चाहते हो) तो धर्मशास्त्रोक्त सन्मार्गसे चलकर मेरे महातेजस्वी पितासे मुझको माँग लो । अन्यथा तुम्हें अपने स्वेच्छाचारका बड़ा भयानक फल भोगना पड़ेगा ॥ १०-११ ॥
अनुवाद (कन्नड)
हीगॆ मगनिगॆ बहळष्टु सन्देश नीडि मनु समाधिय मूलक बहळ हर्षदॊन्दिगॆ सनातन ब्रह्मलोकक्कॆ तॆरळिदनु.॥11॥
अनुवाद (कन्नड)
अदक्कागि महाबाहु पुत्रने! नीनु शिक्षॆयन्नु सरियागि प्रयोग माडलु प्रयत्नशीलनागु. हीगॆ माडुवुदरिन्द निनगॆ जगत्तिनल्लि परम धर्मद प्राप्तियागुवुदु.॥10॥
विश्वास-प्रस्तुतिः
क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ।
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ।
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ १२ ॥
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥
अनुवाद (हिन्दी)
‘‘मेरे पिता अपनी क्रोधाग्निसे सारी त्रिलोकीको भी दग्ध कर सकते हैं; अतः सुन्दर अङ्गोंवाले नरेश! तुम बलात्कार न करो । तुम्हारे याचना करनेपर पिताजी मुझे अवश्य तुम्हारे हाथमें सौंप देंगे’’ ॥ १२ ॥
अनुवाद (कन्नड)
मनु ब्रह्मलोक निवासियाद मेलॆ अमित तेजस्वि राजा इक्ष्वाकु नानु पुत्ररन्नु हेगॆ उत्पन्न माडलि? ऎन्दु चिन्तितनादनु.॥12॥
विश्वास-प्रस्तुतिः
एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्तदा ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ॥
अनुवाद (हिन्दी)
‘जब अरजा ऐसी बातें कह रही थीं, उस समय कामके अधीन हुए दण्डने मदोन्मत्त होकर दोनों हाथ सिरपर जोड़ लिये और इस प्रकार उत्तर दिया— ॥ १३ ॥
अनुवाद (कन्नड)
आग यज्ञ, दान, तपस्सुरूपी विविध कर्मगळिन्द धर्मात्मा मनुपुत्रनु देव कुमाररन्तह तेजस्वी नूरु पुत्ररन्नु उत्पन्न माडिदनु.॥13॥
विश्वास-प्रस्तुतिः
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥
तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥
अनुवाद (हिन्दी)
‘‘सुन्दरी! कृपा करो । समय न बिताओ । वरानने! तुम्हारे लिये मेरे प्राण निकले जा रहे हैं ॥ १४ ॥
अनुवाद (कन्नड)
अय्या रघुनन्दन! अवरल्लि ऎल्लरिगिन्त किरियनादवनु मूढ मत्तु अविद्यावन्तनागिद्दनु, अदरिन्द तन्न अण्णन्दिर सेवॆ माडुत्तिरलिल्ल.॥14॥
विश्वास-प्रस्तुतिः
त्वां प्राप्य तु वधो वापि पापं वापि सुदारुणम् ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
त्वां प्राप्य तु वधो वापि पापं वापि सुदारुणम् ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ १५ ॥
नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ।
अवश्यं दण्ड पतनं शरीरेऽस्य भविष्यति ॥
अनुवाद (हिन्दी)
‘‘तुम्हें प्राप्त कर लेनेपर मेरा वध हो जाय अथवा मुझे अत्यन्त दारुण दुःख प्राप्त हो तो भी कोई चिन्ता नहीं है । भीरु! मैं तुम्हारा भक्त हूँ । अत्यन्त व्याकुल हुए मुझ अपने सेवकको स्वीकार करो’’ ॥ १५ ॥
अनुवाद (कन्नड)
इवन शरीरद मेलॆ अवश्यवागि दण्डप्रयोगवागबहुदॆन्दु योचिसि तन्दॆयु आ मन्दबुद्धि पुत्रन हॆसरु दण्ड ऎन्दु इट्टनु.॥15॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु तां कन्यां दोर्भ्यां प्राप्य बलाद्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्त्वा तु तां कन्यां दोर्भ्यां प्राप्य बलाद्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ १६ ॥
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यम्प्रादादरिन्दम ॥
अनुवाद (हिन्दी)
‘ऐसा कहकर उस बलवान् नरेशने उस भार्गव-कन्याको बलपूर्वक दोनों भुजाओंमें भर लिया । वह उसकी पकड़से छूटनेके लिये छटपटाने लगी तो भी उसने अपनी इच्छाके अनुसार उसके साथ समागम किया ॥ १६ ॥
अनुवाद (कन्नड)
शत्रुदमन श्रीरामा! आ पुत्रनिगॆ योग्यवाद बेरॆ यावुदे भयङ्कर देशवु काणदिद्दाग, राजनु अवनिगॆ विन्ध्य मत्तु शैवल पर्वतद नडुविन राज्यवन्नु कॊट्टनु.॥16॥
विश्वास-प्रस्तुतिः
तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।
पुरं चाप्रतिमं रामन्यवेशयदनुत्तमम् ॥
अनुवाद (हिन्दी)
‘वह अत्यन्त दारुण एवं महाभयंकर अनर्थ करके दण्ड तुरंत ही अपने उत्तम नगर मधुमन्तको चला गया ॥ १७ ॥
अनुवाद (कन्नड)
श्रीरामा! पर्वतीय आ रमणीय प्रान्तदल्लि दण्ड राजनादनु. अवनु तानु इरलु ऒन्दु बहळ अनुपम, उत्तम नगरवन्नु स्थापिसिदनु.॥17॥
विश्वास-प्रस्तुतिः
अरजापि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षते सुसन्त्रस्ता पितरं देवसन्निभम् ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
अरजापि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षते सुसन्त्रस्ता पितरं देवसन्निभम् ॥ १८ ॥
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।
पुरोहितं तूशनसं वरयामास सुव्रतम् ॥
अनुवाद (हिन्दी)
‘अरजा भी भयभीत हो रोती हुई आश्रमके पास ही अपने देवतुल्य पिताके आनेकी राह देखने लगी’ ॥ १८ ॥
अनुवाद (कन्नड)
प्रभो! अवनु आ नगरद हॆसरन्नु मधुमन्तनॆन्दु इट्टु, सुव्रतराद शुक्राचार्यरन्नु तन्न पुरोहितनन्नागिसिकॊण्डनु.॥18॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डेऽशीतितमः सर्गः ॥ ८० ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें अस्सीवाँ सर्ग पूरा हुआ ॥ ८० ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तॊम्भत्तनॆय सर्ग पूर्णवायितु. ॥79॥