०७९ दण्ड-राज्यम्

[एकोनाशीतितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. इक्ष्वाकुपुत्र राजा दण्डका राज्य
विश्वास-प्रस्तुतिः

तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।
गौरवाद् विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे ॥ १ ॥

सर्वाष् टीकाः
मूलम्

तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।
गौरवाद् विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे ॥ १ ॥


श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥

अनुवाद (हिन्दी)

अगस्त्यजीका यह अत्यन्त अद्भुत वचन सुनकर श्रीरघुनाथजीके मनमें उनके प्रति विशेष गौरवका उदय हुआ और उन्होंने विस्मित होकर पुनः उनसे पूछना आरम्भ किया— ॥ १ ॥

अनुवाद (कन्नड)

(अगस्त्यरु हेळुत्तारॆ-) रघुकुलनन्दन राम! नानु हेळिदुदन्नु केळि आ स्वर्गीय पुरुषनु कैमुगिदु हीगॆ उत्तरिसिदनु.॥1॥

विश्वास-प्रस्तुतिः

भगवंस्तद् वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं तदमृगद्विजम् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

भगवंस्तद् वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं तदमृगद्विजम् ॥ २ ॥


शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।
अनतिक्रमणीयं चयथा पृच्छसि मां द्विज ॥

अनुवाद (हिन्दी)

‘भगवन्! वह भयंकर वन, जिसमें विदर्भदेशके राजा श्वेत घोर तपस्या करते थे, पशु-पक्षियोंसे रहित क्यों हो गया था? ॥ २ ॥

अनुवाद (कन्नड)

ब्रह्मन्! नीवु प्रश्निसिदुदक्कॆ उत्तरवन्नु केळिरि - नन्न सुख-दुःखगळिगॆ कारणवाद मत्तु अतिक्रमिसि नडॆयलु अशक्यवाद हिन्दिन घटनॆयन्नु केळिरि.॥2॥

विश्वास-प्रस्तुतिः

तद् वनं स कथं राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

तद् वनं स कथं राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥


पुरा वैदर्भको राजा पिता मम महायशाः ।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥

अनुवाद (हिन्दी)

‘वे विदर्भराज उस सूने निर्जन वनमें तपस्या करनेके लिये क्यों गये? यह मैं यथार्थरूपसे सुनना चाहता हूँ’ ॥ ३ ॥

अनुवाद (कन्नड)

हिन्दॆ महायशोवन्त नन्न तन्दॆ सुदेवनॆम्बुवर विदर्भदेशद राजरागिद्दरु. अवरु मूरुलोकगळल्लि विख्यात पराक्रमिगळागिद्दरु.॥3॥

विश्वास-प्रस्तुतिः

रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥


तस्य पुत्रद्वयं ब्रह्मन्द्व्वाभ्यां स्त्रीभ्यामजायत ।
अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत् ॥

अनुवाद (हिन्दी)

श्रीरामका कौतूहलयुक्त वचन सुनकर वे परम तेजस्वी महर्षि पुनः इस प्रकार कहने लगे— ॥ ४ ॥

अनुवाद (कन्नड)

ब्रह्मन्! अवरिगॆ इब्बरु पत्नियरिद्दु, अवरल्लि इब्बरु पुत्ररु हुट्टिदरु. अदरल्लि हिरियव नानु श्वेतनॆन्दु प्रसिद्धनादॆ. किरियवन हॆसरु सुरथ ऎन्दित्तु.॥4॥

विश्वास-प्रस्तुतिः

पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥ ५ ॥


ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।
तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥

अनुवाद (हिन्दी)

‘श्रीराम! पूर्वकालके सत्ययुगकी बात है, दण्डधारी राजा मनु इस भूतलपर शासन करते थे । उनके एक श्रेष्ठ पुत्र हुआ, जिसका नाम इक्ष्वाकु था । राजकुमार इक्ष्वाकु अपने कुलको आनन्दित करनेवाले थे ॥ ५ ॥

अनुवाद (कन्नड)

तन्दॆयु स्वर्गस्थनाद बळिक प्रजॆगळु ननगॆ राज्यद पट्ट कट्टिदरु. नानु ऎच्चरिकॆयिन्द धर्मानुकूल राज्यवाळिदॆ.॥5॥

विश्वास-प्रस्तुतिः

तं पुत्रं पूर्वकं राज्ये निक्षिप्य भुवि दुर्जयम् ।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच तम् ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

तं पुत्रं पूर्वकं राज्ये निक्षिप्य भुवि दुर्जयम् ।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच तम् ॥ ६ ॥


एवं वर्षसहस्राणि समतीतानि सुव्रत ।
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥

अनुवाद (हिन्दी)

‘अपने उन ज्येष्ठ एवं दुर्जय पुत्रको भूमण्डलके राज्यपर स्थापित करके मनुने उनसे कहा—‘बेटा! तुम भूतलपर राजवंशोंकी सृष्टि करो’ ॥ ६ ॥

अनुवाद (कन्नड)

सुव्रत ब्रह्मर्षिये! हीगॆ धर्मपूर्वक प्रजॆयन्नु रक्षिसुत्ता ऒन्दु साविर वर्ष कळॆयितु.॥6॥

विश्वास-प्रस्तुतिः

तथैव च प्रतिज्ञातं पितुः पुत्रेण राघव ।
ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

तथैव च प्रतिज्ञातं पितुः पुत्रेण राघव ।
ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥ ७ ॥


सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।
कालधर्मं हृदि न्यस्य ततोवनमुपागमम् ॥

अनुवाद (हिन्दी)

‘रघुनन्दन! पुत्र इक्ष्वाकुने पिताके सामने वैसा ही करनेकी प्रतिज्ञा की । इससे मनु बहुत संतुष्ट हुए और अपने पुत्रसे बोले— ॥ ७ ॥

अनुवाद (कन्नड)

द्विजश्रेष्ठने! ऒम्मॆ ननगॆ यावुदो निमित्तदिन्द नन्न आयुस्सिन कॊनॆ अरिवायितु. नानु मृत्यु दिनवन्नु मनस्सिनल्लिट्टु कॊण्डु वनक्कॆ तॆरळिदॆनु.॥7॥

विश्वास-प्रस्तुतिः

प्रीतोऽस्मि परमोदार कर्ता चासि न संशयः ।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

प्रीतोऽस्मि परमोदार कर्ता चासि न संशयः ।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥


सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।
तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे ॥

अनुवाद (हिन्दी)

‘‘परम उदार पुत्र! मैं तुमपर बहुत प्रसन्न हूँ । तुम राजवंशकी सृष्टि करोगे, इसमें संशय नहीं है । तुम दण्डके द्वारा दुष्टोंका दमन करते हुए प्रजाकी रक्षा करो, परंतु बिना अपराधके ही किसीको दण्ड न देना ॥ ८ ॥

अनुवाद (कन्नड)

आग नानु ई दुर्गमवनक्कॆ बन्दॆ. इदरल्लि पशु-पक्षि इरलिल्ल. काडिगॆ बन्दु नानु इदे सरोवरद तीरदल्लि तपस्सिगॆ कुळितु.॥8॥

विश्वास-प्रस्तुतिः

अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ९ ॥


भ्रातरं सुरथं राज्ये अभिषिच्य महीपतिम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥

अनुवाद (हिन्दी)

‘‘अपराधी मनुष्योंपर जो दण्डका प्रयोग किया जाता है, वह विधिपूर्वक दिया हुआ दण्ड राजाको स्वर्गलोकमें पहुँचा देता है ॥ ९ ॥

अनुवाद (कन्नड)

राज्यक्कॆ तम्म सुरथनिगॆ पट्ट कट्टि ई सरोवरद बळि नानु दीर्घकाल तपस्सु माडिदॆ.॥9॥

विश्वास-प्रस्तुतिः

तस्माद् दण्डे महाबाहो यत्नवान् भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ १० ॥

सर्वाष् टीकाः
मूलम्

तस्माद् दण्डे महाबाहो यत्नवान् भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ १० ॥


सोऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥

अनुवाद (हिन्दी)

‘‘इसलिये महाबाहु पुत्र! तुम दण्डका समुचित प्रयोग करनेके लिये प्रयत्नशील रहना । ऐसा करनेसे तुम्हें संसारमें परम धर्मकी प्राप्ति होगी’’ ॥ १० ॥

अनुवाद (कन्नड)

ई विशाल वनदल्लि मूरुसाविर वर्षगळवरॆगॆ अत्यन्त दुष्कर तपस्सु माडि नानु परमोत्तम ब्रह्मलोकवन्नु पडॆदॆ.॥10॥

विश्वास-प्रस्तुतिः

इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना ।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ११ ॥


तस्येमे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।
बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः ॥

अनुवाद (हिन्दी)

इस प्रकार पुत्रको बहुत-सा संदेश दे मनु समाधि लगाकर बड़े हर्षके साथ स्वर्गको—सनातन ब्रह्मलोकको चले गये ॥ ११ ॥

अनुवाद (कन्नड)

परमोदार द्विजश्रेष्ठरे! ब्रह्मलोकक्कॆ होद बळिकवू ननगॆ हसिवु-बायारिकॆ सतायिसुत्तिद्दवु. अन्दरिन्द नन्न ऎल्ल इन्द्रियगळु शिथिलवादवु.॥11॥

विश्वास-प्रस्तुतिः

प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥


गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ।
भगवन् ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः ॥

अनुवाद (हिन्दी)

‘उनके ब्रह्मलोकनिवासी हो जानेपर अमित तेजस्वी राजा इक्ष्वाकु इस चिन्तामें पड़े कि मैं किस प्रकार पुत्रोंको उत्पन्न करूँ? ॥ १२ ॥

विश्वास-प्रस्तुतिः

कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्तदा ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्तदा ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥


कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥

अनुवाद (हिन्दी)

‘तब यज्ञ, दान और तपस्यारूप विविध कर्मोंद्वारा धर्मात्मा मनुपुत्रने सौ पुत्र उत्पन्न किये, जो देवकुमारोंके समान तेजस्वी थे ॥ १३ ॥

अनुवाद (कन्नड)

ऒन्दु दिन त्रिभुवनश्रेष्ठ भगवान् ब्रह्मदेवरल्लि केळिदॆ - स्वामि! ई ब्रह्मलोकवु हसिवु-बायारिकॆगळिन्द रहितवागिद्दरू इल्लियू इदु नन्न बॆन्नु बिडुवुदिल्ल. इदु नन्न याव कर्मद फलवागिदॆ? पितामहने! नन्न आहारवेनॆन्दु तिळिसिरि.॥12-13॥

विश्वास-प्रस्तुतिः

तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥


पितामहस्तु मामाह तवाहारः सुदेवज ।
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥

अनुवाद (हिन्दी)

‘तात रघुनन्दन! उनमें जो सबसे छोटा पुत्र था, वह मूढ़ और विद्याविहीन था, इसलिये अपने बड़े भाइयोंकी सेवा नहीं करता था ॥ १४ ॥

अनुवाद (कन्नड)

इदन्नु केळि ब्रह्मदेवरु हेळिदरु - सुदेव नन्दन! नीनु मर्त्यलोकदल्लि इरुव निन्नदे शरीरद सुस्वादु मांसवन्नु प्रतिदिन तिन्नु; इदे निन्न आहारवागिदॆ.॥14॥

विश्वास-प्रस्तुतिः

नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ।
अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ।
अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ॥ १५ ॥


स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।
अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥

अनुवाद (हिन्दी)

‘इसके शरीरपर अवश्य दण्डपात होगा, ऐसा सोचकर पिताने उस मन्दबुद्धि पुत्रका नाम दण्ड रख दिया ॥ १५ ॥

अनुवाद (कन्नड)

श्वेतने! नीनु उत्तम तपस्सु माडुत्ता केवल तन्न शरीरवन्ने पोषिसिदॆ. महामते! दानरूपी बीज बित्तदॆ ऎल्लियू यावुदे भोज्यपदार्थ सिगुवुदिल्ल.॥15॥

विश्वास-प्रस्तुतिः

अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ १६ ॥


दत्तं न तेऽस्मि सूक्ष्मोऽपि तपएव निषेवसे ।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥

अनुवाद (हिन्दी)

‘श्रीराम! शत्रुदमन नरेश! उस पुत्रके योग्य दूसरा कोई भयंकर देश न देखकर राजाने उसे विन्ध्य और शैवल पर्वतके बीचका राज्य दे दिया ॥ १६ ॥

अनुवाद (कन्नड)

नीनु देवतॆगळिगॆ, पितृगळिगॆ, अतिथिगळिगॆ ऎन्दू एनन्नू दान माडिदुदु कण्डु बरुवुदिल्ल. नीनु केवल तपस्सन्ने माडुत्तिद्दॆ. वत्स! अदरिन्द ब्रह्मलोकक्कॆ बन्दरू हसिवु-बायारिकॆयिन्द पीडितनागिरुवॆ.॥16॥

विश्वास-प्रस्तुतिः

स दण्डस्तत्र राजाभूद् रम्ये पर्वतरोधसि ।
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

स दण्डस्तत्र राजाभूद् रम्ये पर्वतरोधसि ।
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ १७ ॥


स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।
भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ॥

अनुवाद (हिन्दी)

‘श्रीराम! पर्वतके उस रमणीय तटप्रान्तमें दण्ड राजा हुआ । उसने अपने रहनेके लिये एक बहुत ही अनुपम और उत्तम नगर बसाया ॥ १७ ॥

अनुवाद (कन्नड)

नाना रीतिय आहारदिन्द पोषिसल्पट्ट निन्न ई परमोत्तम शरीर अमृतरसदिन्द कूडिरुवुदु. अदन्ने तिन्नुवुदरिन्द निन्न क्षुधॆ-तृषॆ निवारणवागुवुदु.॥17॥

विश्वास-प्रस्तुतिः

पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।
पुरोहितं तूशनसं वरयामास सुव्रतम् ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।
पुरोहितं तूशनसं वरयामास सुव्रतम् ॥ १८ ॥


यदातु तद्वनं श्वेत अगस्त्यः स महानृषिः ।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे ॥

अनुवाद (हिन्दी)

‘प्रभो! उसने उस नगरका नाम रखा मधुमन्त और उत्तम व्रतका पालन करनेवाले शुक्राचार्यको अपना पुरोहित बनाया ॥ १८ ॥

अनुवाद (कन्नड)

श्वेत! आ वनदल्लि दुर्धर्ष महर्षि अगस्त्यरु आगमिसिदाग नीनु ई कष्टदिन्द बिडुगडॆ हॊन्दुवॆ.॥18॥

विश्वास-प्रस्तुतिः

एवं स राजा तद् राज्यमकरोत् सपुरोहितः ।
प्रहृष्टमनुजाकीर्णं देवराजो यथा दिवि ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

एवं स राजा तद् राज्यमकरोत् सपुरोहितः ।
प्रहृष्टमनुजाकीर्णं देवराजो यथा दिवि ॥ १९ ॥


स हि तारयितुं सौम्यशक्तः सुरगणानपि ।
किं पिनस्त्वां महाबाहो क्षुत्पिपासावशङ्गतम् ॥

अनुवाद (हिन्दी)

‘इस प्रकार स्वर्गमें देवराजकी भाँति भूतलपर राजा दण्डने पुरोहितके साथ रहकर हृष्ट-पुष्ट मनुष्योंसे भरे हुए उस राज्यका पालन आरम्भ किया ॥ १९ ॥

अनुवाद (कन्नड)

सौम्य! महाबाहो! अवरु देवतॆगळन्नु उद्धरिसलु समर्थरागिद्दारॆ. हागिरुवाग हसिवु- बायारिकॆय वशनाद निन्नन्तह पुरुषनन्नु सङ्कटदिन्द बिडिसुवुदु याव दॊड्ड मातु.॥19॥

विश्वास-प्रस्तुतिः

ततः स राजा मनुजेन्द्रपुत्रः
सार्धं च तेनोशनसा तदानीम् ।
चकार राज्यं सुमहान‍् महात्मा
शक्रो दिवीवोशनसा समेतः ॥ २० ॥

सर्वाष् टीकाः
मूलम्

ततः स राजा मनुजेन्द्रपुत्रः
सार्धं च तेनोशनसा तदानीम् ।
चकार राज्यं सुमहान‍् महात्मा
शक्रो दिवीवोशनसा समेतः ॥ २० ॥


सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।
आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ॥

अनुवाद (हिन्दी)

‘उस समय वह महामनस्वी महाराजकुमार तथा महान् राजा दण्ड शुक्राचार्यके साथ रहकर अपने राज्यका उसी तरह पालन करने लगा जैसे स्वर्गमें देवराज इन्द्र देवगुरु बृहस्पतिके साथ रहकर अपने राज्यका पालन करते हैं’ ॥ २० ॥

अनुवाद (कन्नड)

द्विजश्रेष्ठरे! देवाधिदेव भगवान् ब्रह्मदेवर ई निश्चयवन्नु केळि नानु तन्न शरीरद्दे निन्दित आहार स्वीकरिसुत्ता इद्देनॆ.॥20॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें उनासीवाँ सर्ग पूरा हुआ ॥ ७९ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तॆण्टनॆय सर्ग पूर्णवायितु. ॥78॥