[अष्टसप्ततितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- राजा श्वेतका अगस्त्यजीको अपने लिये घृणित आहारकी प्राप्तिका कारण बताते हुए ब्रह्माजीके साथ हुए अपनी वार्ताको उपस्थित करना और उन्हें दिव्य आभूषणका दान दे भूख-प्यासके कष्टसे मुक्त होना
विश्वास-प्रस्तुतिः
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ १ ॥
सर्वाष् टीकाः
मूलम्
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ १ ॥
पुरा त्रेतायुगे राम बभूवं बहुविस्तरम् ।
समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ॥
अनुवाद (हिन्दी)
(अगस्त्यजी कहते हैं—) रघुकुलनन्दन राम! मेरी कही हुई शुभ अक्षरोंसे युक्त बात सुनकर उन स्वर्गीय पुरुषने हाथ जोड़कर इस प्रकार उत्तर दिया— ॥ १ ॥
अनुवाद (कन्नड)
(अगस्त्यरु हेळुत्तारॆ -) श्रीरामा! हिन्दिन त्रेतायुगद मातु - ऒन्दु बहळ दॊड्ड वनवित्तु, अदु सुत्तलू नूरु योजन व्यापिसित्तु; आदरॆ आ वनदल्लि पशु-पक्षिगळु इरलिल्ल.॥1॥
विश्वास-प्रस्तुतिः
शृणु ब्रह्मन् पुरा वृत्तं ममैतत् सुखदुःखयोः ।
अनतिक्रमणीयं च यथा पृच्छसि मां द्विज ॥ २ ॥
सर्वाष् टीकाः
मूलम्
शृणु ब्रह्मन् पुरा वृत्तं ममैतत् सुखदुःखयोः ।
अनतिक्रमणीयं च यथा पृच्छसि मां द्विज ॥ २ ॥
तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् ।
अहमाक्रमितुं सौम्य तदरण्य मुपागमम् ॥
अनुवाद (हिन्दी)
‘ब्रह्मन्! आप जो कुछ पूछ रहे हैं, वह मेरे सुख-दुःखका अलङ्घनीय कारण, जो पूर्वकालमें घटित हो चुका है, यहाँ बताया जाता है, सुनिये ॥ २ ॥
अनुवाद (कन्नड)
सौम्य! आ निर्जन वनदल्लि उत्तम तपस्सु माडलु उपयुक्त स्थानवन्नु हुडुकुत्ता तिरुगाडुत्ता नानु अल्लिगॆ होदॆ.॥2॥
विश्वास-प्रस्तुतिः
पुरा वैदर्भको राजा पिता मम महायशाः ।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
पुरा वैदर्भको राजा पिता मम महायशाः ।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ३ ॥
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।
फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥
अनुवाद (हिन्दी)
‘पूर्वकालमें मेरे महायशस्वी पिता विदर्भ देशके राजा थे । उनका नाम सुदेव था । वे तीनों लोकोंमें विख्यात पराक्रमी थे ॥ ३ ॥
अनुवाद (कन्नड)
आ वनवु ऎष्टु सुखदायक इद्दितो, अदन्नु तिळिसलु नानु असमर्थनागिद्देनॆ. स्वादिष्ट फल-मूल हागू अनेक आकारद बण्णद वृक्षगळु अदर शोभॆ हॆच्चिसिद्दवु.॥3॥
विश्वास-प्रस्तुतिः
तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्यामजायत ।
अहं श्वेत इति ख्यातो यवीयान् सुरथोऽभवत् ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्यामजायत ।
अहं श्वेत इति ख्यातो यवीयान् सुरथोऽभवत् ॥ ४ ॥
तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥
अनुवाद (हिन्दी)
‘ब्रह्मन्! उनके दो पत्नियाँ थीं, जिनके गर्भसे उन्हें दो पुत्र प्राप्त हुए । उनमें ज्येष्ठ मैं था । मेरी श्वेतके नामसे प्रसिद्धि हुई और मेरे छोटे भाईका नाम सुरथ था ॥ ४ ॥
अनुवाद (कन्नड)
आ वनद मध्यदल्लि ऒन्दु सरोवरवित्तु, अदर उद्द-अगल ऒन्दॊन्दु योजनवित्तु. अदरल्लि हंस, कारण्डव, मॊदलाद जलपक्षिगळिद्दु, चक्रवाकगळ जोडिगळु अदर शोभॆ हॆच्चिसिद्दवु.॥4॥
विश्वास-प्रस्तुतिः
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।
तत्राहं कृतवान् राज्यं धर्म्यं च सुसमाहितः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।
तत्राहं कृतवान् राज्यं धर्म्यं च सुसमाहितः ॥ ५ ॥
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ।
तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥
अनुवाद (हिन्दी)
‘पिताके स्वर्गलोकमें चले जानेपर पुरवासियोंने राजाके पदपर मेरा अभिषेक कर दिया । वहाँ परम सावधान रहकर मैंने धर्मके अनुकूल राज्यका पालन किया ॥ ५ ॥
अनुवाद (कन्नड)
अदरल्लि कमल, नैदिलॆ अरळिद्दवु, सरोवरक्कॆ यावुदे हॆसरिरलिल्ल. आ परमोत्तम सरोवर अत्यन्त आश्चर्यमयवागि काणुत्तित्तु. अदर नीरु कुडियलु स्वादिष्ट मत्तु सुखदवागित्तु.॥5॥
विश्वास-प्रस्तुतिः
एवं वर्षसहस्राणि समतीतानि सुव्रत ।
राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
एवं वर्षसहस्राणि समतीतानि सुव्रत ।
राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः ॥ ६ ॥
अरजस्कं तदक्षोभ्यं श्रीमत्पक्षिगणायुतम् ।
तस्मिन् सरःसमीपेतु महदद्भुतमाश्रमम् ॥
पुराणम्पुण्यमत्यर्थं तपस्विजनवर्जितम् ।
अनुवाद (हिन्दी)
‘उत्तम व्रतका पालन करनेवाले ब्रह्मर्षे! इस तरह धर्मपूर्वक प्रजाकी रक्षा तथा राज्यका शासन करते हुए मेरे एक सहस्र वर्ष बीत गये ॥ ६ ॥
अनुवाद (कन्नड)
कॆसरिल्लदॆ अदु स्वच्छवागित्तु. अदन्नु यारू दाटलाररु. अदरॊळगॆ सुन्दर पक्षिळु कलरव माडुत्तिद्दवु. आ सरोवरद बळि ऒन्दु पुरातन, विशाल, अद्भुत आश्रमविद्दु, आदरॆ ऒब्बनू तपस्विगळु इरलिल्ल.॥6½॥
विश्वास-प्रस्तुतिः
सोऽहं निमित्ते कस्मिंश्चिद् विज्ञातायुर्द्विजोत्तम ।
कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
सोऽहं निमित्ते कस्मिंश्चिद् विज्ञातायुर्द्विजोत्तम ।
कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ ७ ॥
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥
प्रभाते कल्यमुत्थाय सरस्तदुपचक्रमे ।
अनुवाद (हिन्दी)
‘द्विजश्रेष्ठ! एक समय मुझे किसी निमित्तसे अपनी आयुका पता लग गया और मैंने मृत्यु-तिथिको हृदयमें रखकर वहाँसे वनको प्रस्थान किया ॥ ७ ॥
अनुवाद (कन्नड)
पुरुषश्रेष्ठने! ग्रीष्मऋतुविन रात्रियल्लि नानु आ आश्रमदल्लि तङ्गिद्दॆ. प्रातःकाल ऎद्दु स्नानादि गळिगागि नानु आ सरोवरद तडिगॆ होदॆ.॥7½॥
विश्वास-प्रस्तुतिः
सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।
तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।
तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे ॥ ८ ॥
अथापश्यं शवं तत्र सुपुष्टमरजः क्वचित् ॥
तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ।
अनुवाद (हिन्दी)
‘उस समय मैं इसी दुर्गम वनमें आया, जिसमें न पशु हैं न पक्षी । वनमें प्रवेश करके मैं इसी सरोवरके सुन्दर तटके निकट तपस्या करनेके लिये बैठा ॥ ८ ॥
अनुवाद (कन्नड)
आग ननगॆ अल्लि हृष्ट-पुष्टवाद, निर्मलवाद ऒन्दु शव कण्डुबन्तु. अदरल्लि ऎल्लियू मलिनतॆ इरलिल्ल. नरेश्वर! आ शववु जलाशयद तीरदल्लि बिद्दित्तु.॥8½॥
विश्वास-प्रस्तुतिः
भ्रातरं सुरथं राज्ये अभिषिच्य महीपतिम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
भ्रातरं सुरथं राज्ये अभिषिच्य महीपतिम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ ९ ॥
तमर्थं चिन्तयानोहं मुहूर्तं तत्र राघव ॥
विष्ठितोऽस्मि सरस्तीरे किं न्विदं स्यादितिप्रभो ।
अनुवाद (हिन्दी)
‘राज्यपर अपने भाई राजा सुरथका अभिषेक करके इस सरोवरके समीप आकर मैंने दीर्घकालतक तपस्या की ॥ ९ ॥
अनुवाद (कन्नड)
प्रभो! रघुनन्दन! इदेनु ऎन्दु नानु आ शवद कुरितु योचिसुत्तिद्दॆ. अल्लि ऎरडु गळिगॆ आ पुष्करिणिय तीरदल्लि कुळित्तिद्दॆ.॥9½॥
विश्वास-प्रस्तुतिः
सोऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ १० ॥
सर्वाष् टीकाः
मूलम्
सोऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ १० ॥
अथापश्यं मुहूर्तात्तु दिव्यमद्भुतदर्शनम् ॥
अनुवाद (हिन्दी)
‘इस विशाल वनमें तीन हजार वर्षोंतक अत्यन्त दुष्कर तपस्या करके मैं परम उत्तम ब्रह्मलोकको प्राप्त हुआ ॥ १० ॥
विश्वास-प्रस्तुतिः
तस्येमे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।
बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
तस्येमे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।
बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः ॥ ११ ॥
विमानं परमोदारं हंसयुक्तं मनोजवम् ।
अत्यर्थंस्वर्गिणं तत्र विमाने रघुनन्दन ॥
उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।
अनुवाद (हिन्दी)
‘द्विजश्रेष्ठ! परम उदार महर्षे! ब्रह्मलोकमें पहुँच जानेपर भी मुझे भूख और प्यास बड़ा कष्ट देते हैं । उससे मेरी सारी इन्द्रियाँ व्यथित हो उठती हैं ॥ ११ ॥
अनुवाद (कन्नड)
ऎरडु गळिगॆ कळॆयुत्तले अल्लि ऒन्दु दिव्य, अद्भुत, उत्तम हंसयुक्त, मनोवेगदन्तह विमान इळियितु. रघुनन्दन! आ विमानदल्लि अत्यन्त रूपवन्त ओर्व स्वर्गवासी देवतॆ कुळित्तिद्दनु. दिव्य आभूषणगळिन्द विभूषित साविरारु अप्सरॆयरु अवन सेवॆगागि अदरल्लि कुळित्तिद्दरु.॥10-11½॥
विश्वास-प्रस्तुतिः
गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ।
भगवन् ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः ॥ १२ ॥
कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ।
भगवन् ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः ॥ १२ ॥
कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ १३ ॥
गायन्ति काश्चिद् रम्याणि वादयन्ति तथापराः ॥
मृदङ्ग वीणापणवान् नृत्यन्ति च तथापराः ।
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैर्महाधनैः ॥
दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणाः ।
अनुवाद (हिन्दी)
‘एक दिन मैंने त्रिलोकीके श्रेष्ठ देवता भगवान् ब्रह्माजीसे कहा—‘भगवन्! यह ब्रह्मलोक तो भूख-प्यासके कष्टसे रहित है, किंतु यहाँ भी क्षुधा-पिपासाका क्लेश मेरा पीछा नहीं छोड़ता है । यह मेरे किस कर्मका परिणाम है? देव! पितामह! मेरा आहार क्या है? यह मुझे बताइये’ ॥ १२-१३ ॥
अनुवाद (कन्नड)
अवरल्लि कॆलवरु मनोहर हाडु हाडुत्तिद्दरॆ, कॆलवरु मृदङ्ग, वीणॆ, पणव मॊदलाद वाद्यगळन्नु नुडिसुत्तिद्दरु. इतर अनेक अप्सरॆयरु नाट्यवाडुत्तिद्दरु. अरळिद कमलगळन्तॆ नेत्रगळुळ्ळ इतर अप्सरॆ यरु स्वर्णमय दण्डदिन्द विभूषित, चन्द्रनन्तॆ बॆळ्ळगिन चामरगळन्नु बीसुत्ता स्वर्गवासी देवतॆगॆ गाळि हाकुत्तिद्दरु.॥12-13½॥
विश्वास-प्रस्तुतिः
पितामहस्तु मामाह तवाहारः सुदेवज ।
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
पितामहस्तु मामाह तवाहारः सुदेवज ।
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ १४ ॥
ततः सिंहासनं हित्वा मेरुकूटमिवांशुमान् ॥
अनुवाद (हिन्दी)
यह सुनकर ब्रह्माजी मुझसे बोले—‘सुदेवनन्दन! तुम मर्त्यलोकमें स्थित अपने ही शरीरका सुस्वादु मांस प्रतिदिन खाया करो; यही तुम्हारा आहार है ॥ १४ ॥
विश्वास-प्रस्तुतिः
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।
अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।
अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ १५ ॥
पश्यतो मे तदा राम विमानादवरुह्य च ।
तं शवम्भक्षयामास स स्वर्गी रघुनन्दन ॥
अनुवाद (हिन्दी)
‘श्वेत! तुमने उत्तम तप करते हुए केवल अपने शरीरका ही पोषण किया है । महामते! दानरूपी बीज बोये बिना कहीं कुछ भी नहीं जमता—कोई भी भोज्य-पदार्थ उपलब्ध नहीं होता है ॥ १५ ॥
अनुवाद (कन्नड)
रघुकुलनन्दन श्रीरामा! अनन्तर सूर्यनु मेरुपर्वतदिन्द कॆळगॆ इळियुवन्तॆ आ स्वर्गवासी पुरुषनु विमानदिन्द इळिदु नानु नोडु-नोडुत्तिरुवन्तॆये आ शववन्नु भक्षिसिदनु.॥14-15॥
विश्वास-प्रस्तुतिः
दत्तं न तेऽस्ति सूक्ष्मोऽपि तप एव निषेवसे ।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
दत्तं न तेऽस्ति सूक्ष्मोऽपि तप एव निषेवसे ।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ १६ ॥
ततो भुक्त्वा यथाकामं मांसं बहु सुपीवरम् ।
अवतीर्य ततः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥
अनुवाद (हिन्दी)
‘तुमने देवताओं, पितरों एवं अतिथियोंके लिये कभी कुछ थोड़ा-सा भी दान किया हो, ऐसा नहीं दिखायी देता । तुम केवल तपस्या करते थे । वत्स! इसीलिये ब्रह्मलोकमें आकर भी भूख-प्याससे पीड़ित हो रहे हो ॥
अनुवाद (कन्नड)
स्वेच्छॆयिन्द आ सुपुष्ट, साकष्टु मांसवन्नु तिन्दु ई स्वर्गीय देवतॆ सरोवरक्कॆ इळिदु कै-बायि तॊळॆयतॊडगिदनु.॥16॥
विश्वास-प्रस्तुतिः
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।
भक्षयित्वामृतरसं तेन वृत्तिर्भविष्यति ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।
भक्षयित्वामृतरसं तेन वृत्तिर्भविष्यति ॥ १७ ॥
उपस्पृश्य यथान्यायं स स्वर्गी रघुनन्दन ।
आरोढुमुपचक्राम विमानवरमुत्तमम् ॥
अनुवाद (हिन्दी)
‘नाना प्रकारके आहारोंसे भलीभाँति पोषित हुआ तुम्हारा परम उत्तम शरीर अमृतरससे युक्त होगा और उसीका भक्षण करनेसे तुम्हारी क्षुधा-पिपासाका निवारण हो जायगा ॥ १७ ॥
अनुवाद (कन्नड)
रघुनन्दन! यथोचित बायि मुक्कळिसि आचमन माडि आ स्वर्गवासी पुरुषनु आ उत्तम विमानवन्नु एरलु तॊडगिदनु.॥17॥
विश्वास-प्रस्तुतिः
यदा तु तद्वनं श्वेत अगस्त्यः स महानृषिः ।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद् विमोक्ष्यसे ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
यदा तु तद्वनं श्वेत अगस्त्यः स महानृषिः ।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद् विमोक्ष्यसे ॥ १८ ॥
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै ।
अथाहमब्रुवंवाक्यं तमेव पुरुषर्षभ ॥
अनुवाद (हिन्दी)
‘श्वेत! जब उस वनमें दुर्धर्ष महर्षि अगस्त्य पधारेंगे, तब तुम इस कष्टसे छुटकारा पा जाओगे ॥ १८ ॥
अनुवाद (कन्नड)
पुरुषोत्तम! आ देवतुल्य पुरुषनु विमानवन्नु एरुवाग नानु अवनल्लि केळिदॆ.॥18॥
विश्वास-प्रस्तुतिः
स हि तारयितुं सौम्य शक्तः सुरगणानपि ।
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
स हि तारयितुं सौम्य शक्तः सुरगणानपि ।
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥ १९ ॥
को भवान्देवसङ्काश आहारश्च विगर्हितः ।
त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥
अनुवाद (हिन्दी)
‘सौम्य! महाबाहो! वे देवताओंका भी उद्धार करनेमें समर्थ हैं, फिर भूख-प्यासके वशमें पड़े हुए तुम-जैसे पुरुषको संकटसे छुड़ाना उनके लिये कौन बड़ी बात है?’ ॥ १९ ॥
अनुवाद (कन्नड)
सौम्य! देवोत्तम पुरुषने! नीवु यारु? यातक्कागि इन्तह घ्रणित आहार स्वीकरिसुत्तिरुविरि? इदन्नु तिळिसुव कृपॆ माडिरि.॥19॥
विश्वास-प्रस्तुतिः
सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।
आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ॥ २० ॥
सर्वाष् टीकाः
मूलम्
सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।
आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ॥ २० ॥
कस्य स्यादीदृशो भाव आहारो देवसम्मतः ।
आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ।
नाहवौपयिकं मन्ये तव भक्ष्यमिमंशवम् ॥
अनुवाद (हिन्दी)
‘द्विजश्रेष्ठ! देवाधिदेव भगवान् ब्रह्माका यह निश्चय सुनकर मैं अपने शरीरका ही घृणित आहार ग्रहण करने लगा ॥ २० ॥
अनुवाद (कन्नड)
देवतुल्य तेजस्वी पुरुषने! इन्तह दिव्य स्वरूप मत्तु इन्तह निन्द्यवाद आहार यारदागबहुदु? निम्मल्लि ई ऎरडू आश्चर्यजनक मातुगळिवॆ. आद्दरिन्द नानु इदर यथार्थ रहस्य केळलु बयसुत्तेनॆ. एकॆन्दरॆ ई शववु निमगॆ योग्य आहारवॆन्दु नानु तिळियुवुदिल्ल.॥20॥
विश्वास-प्रस्तुतिः
बहून् वर्षगणान् ब्रह्मन् भुज्यमानमिदं मया ।
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
बहून् वर्षगणान् ब्रह्मन् भुज्यमानमिदं मया ।
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ २१ ॥
इत्येवमुक्तः स नरेन्द्रनाकी
कौतूहलात्सूनृतया गिरा च ।
श्रुत्वा च वाक्यं मम सर्वमेतत्
सर्वं तथा चाकथयन्ममेति ॥
अनुवाद (हिन्दी)
‘ब्रह्मन्! ब्रह्मर्षे! बहुत वर्षोंसे मेरे द्वारा उपभोगमें लाये जानेपर भी यह शरीर नष्ट नहीं होता है और मुझे पूर्णतः तृप्ति प्राप्त होती है ॥ २१ ॥
अनुवाद (कन्नड)
नरेश्वर! कुतूहलदिन्द नानु मधुर वाणियल्लि आ स्वर्गीय पुरुषनल्लि हीगॆ केळिदाग नन्न मातुगळन्नु केळि अवरु ननगॆ ऎल्लवन्नु तिळिसिदरु.॥21॥
विश्वास-प्रस्तुतिः
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद् विमोक्षय ।
अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद् विमोक्षय ।
अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ २२ ॥
अनुवाद (हिन्दी)
‘मुने! इस प्रकार मैं संकटमें पड़ा हूँ । आप मेरे दृष्टिपथमें आ गये हैं, इसलिये इस कष्टसे मेरा उद्धार कीजिये । आप ब्रह्मर्षि कुम्भजके सिवा दूसरोंकी इस निर्जन वनमें पहुँच नहीं हो सकती (इसलिये आप अवश्य कुम्भयोनि अगस्त्य ही हैं) ॥ २२ ॥
विश्वास-प्रस्तुतिः
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।
प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।
प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ २३ ॥
अनुवाद (हिन्दी)
‘सौम्य! विप्रवर! आपका कल्याण हो । आप मेरा उद्धार करनेके लिये मेरे इस आभूषणका दान ग्रहण करें और आपका कृपाप्रसाद मुझे प्राप्त हो ॥ २३ ॥
विश्वास-प्रस्तुतिः
इदं तावत् सुवर्णं च धनं वस्त्राणि च द्विज ।
भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ २४ ॥
सर्वाष् टीकाः
मूलम्
इदं तावत् सुवर्णं च धनं वस्त्राणि च द्विज ।
भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ २४ ॥
अनुवाद (हिन्दी)
‘ब्रह्मन्! ब्रह्मर्षे! यह दिव्य आभूषण सुवर्ण, धन, वस्त्र, भक्ष्य, भोज्य तथा अन्य नाना प्रकारके आभरण भी देता है ॥ २४ ॥
विश्वास-प्रस्तुतिः
सर्वान् कामान् प्रयच्छामि भोगांश्च मुनिपुङ्गव ।
तारणे भगवन् मह्यं प्रसादं कर्तुमर्हसि ॥ २५ ॥
सर्वाष् टीकाः
मूलम्
सर्वान् कामान् प्रयच्छामि भोगांश्च मुनिपुङ्गव ।
तारणे भगवन् मह्यं प्रसादं कर्तुमर्हसि ॥ २५ ॥
अनुवाद (हिन्दी)
‘मुनिश्रेष्ठ! इस आभूषणके द्वारा मैं समस्त कामनाओं (मनोवाञ्छित पदार्थों) और भोगोंको भी दे रहा हूँ । भगवन्! आप मेरे उद्धारके लिये मुझपर कृपा करें’ ॥ २५ ॥
विश्वास-प्रस्तुतिः
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।
तारणायोपजग्राह तदाभरणमुत्तमम् ॥ २६ ॥
सर्वाष् टीकाः
मूलम्
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।
तारणायोपजग्राह तदाभरणमुत्तमम् ॥ २६ ॥
अनुवाद (हिन्दी)
स्वर्गीय राजा श्वेतकी यह दुःखभरी बात सुनकर मैंने उनका उद्धार करनेके लिये वह उत्तम आभूषण ले लिया ॥ २६ ॥
विश्वास-प्रस्तुतिः
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।
मानुषः पूर्वको देहो राजर्षेर्विननाश ह ॥ २७ ॥
सर्वाष् टीकाः
मूलम्
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।
मानुषः पूर्वको देहो राजर्षेर्विननाश ह ॥ २७ ॥
अनुवाद (हिन्दी)
ज्यों ही मैंने उस शुभ आभूषणका दान ग्रहण किया, त्यों ही राजर्षि श्वेतका वह पूर्व-शरीर (शव) अदृश्य हो गया ॥ २७ ॥
विश्वास-प्रस्तुतिः
प्रणष्टे तु शरीरेऽसौ राजर्षिः परया मुदा ।
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ २८ ॥
सर्वाष् टीकाः
मूलम्
प्रणष्टे तु शरीरेऽसौ राजर्षिः परया मुदा ।
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ २८ ॥
अनुवाद (हिन्दी)
उस शरीरके अदृश्य हो जानेपर राजर्षि श्वेत परमानन्दसे तृप्त हो प्रसन्नतापूर्वक सुखमय ब्रह्मलोकको चले गये ॥ २८ ॥
विश्वास-प्रस्तुतिः
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ २९ ॥
सर्वाष् टीकाः
मूलम्
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ २९ ॥
अनुवाद (हिन्दी)
काकुत्स्थ! उन इन्द्रतुल्य तेजस्वी राजा श्वेतने उस भूख-प्यासके निवारणरूप पूर्वोक्त निमित्तसे यह अद्भुत दिखायी देनेवाला दिव्य आभूषण मुझे दिया था ॥ २९ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डेऽष्टसप्ततितमः सर्गः ॥ ७८ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें अठहत्तरवाँ सर्ग पूरा हुआ ॥ ७८ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तेळनॆय सर्ग पूर्णवायितु. ॥77॥