[षट्सप्ततितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- श्रीरामके द्वारा शम्बूकका वध, देवताओंद्वारा उनकी प्रशंसा, अगस्त्याश्रमपर महर्षि अगस्त्यके द्वारा उनका सत्कार और उनके लिये आभूषण-दान
विश्वास-प्रस्तुतिः
तस्य तद् वचनं श्रुत्वा
रामस्याक्लिष्टकर्मणः ।
अवाक्शिरास्तथाभूतो
वाक्यमेतदुवाच ह ॥ १ ॥
सर्वाष् टीकाः
मूलम्
तस्य तद् वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।
अवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह ॥ १ ॥
नारदस्य तु तद्वाक्यंश्रुत्वामृतमयं यथा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥
अनुवाद (हिन्दी)
क्लेशरहित कर्म करनेवाले भगवान् रामका यह वचन सुनकर नीचे मस्तक किये लटका हुआ वह तथाकथित तपस्वी इस प्रकार बोला— ॥ १ ॥
अनुवाद (कन्नड)
नारदर अमृतमय मातुगळन्नु केळि श्रीरामनिगॆ अपार आनन्द प्राप्तवागि, लक्ष्मणनल्लि ई प्रकार हेळिदनु.॥1॥
विश्वास-प्रस्तुतिः
शूद्रयोन्यां प्रजातोऽस्मि
तप उग्रं समास्थितः ।
देवत्वं प्रार्थये राम
सशरीरो महायशः ॥ २ ॥
सर्वाष् टीकाः
मूलम्
शूद्रयोन्यां प्रजातोऽस्मि तप उग्रं समास्थितः ।
देवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रत ।
बालस्य च शरीरं तत्तैलद्रोण्यां निधापय ॥
अनुवाद (हिन्दी)
‘महायशस्वी श्रीराम! मैं शूद्रयोनिमें उत्पन्न हुआ हूँ और सदेह स्वर्गलोकमें जाकर देवत्व प्राप्त करना चाहता हूँ । इसीलिये ऐसा उग्र तप कर रहा हूँ ॥ २ ॥
विश्वास-प्रस्तुतिः
न मिथ्याहं वदे राम
देवलोकजिगीषया ।
शूद्रं मां विद्धि काकुत्स्थ
शम्बूकं नाम नामतः ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
न मिथ्याहं वदे राम देवलोकजिगीषया ।
शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः ॥ ३ ॥
गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥
अनुवाद (हिन्दी)
‘ककुत्स्थकुलभूषण श्रीराम! मैं झूठ नहीं बोलता । देवलोकपर विजय पानेकी इच्छासे ही तपस्यामें लगा हूँ । आप मुझे शूद्र समझिये । मेरा नाम शम्बूक है’ ॥ ३ ॥
अनुवाद (कन्नड)
सौम्य ! होगु, सुव्रतनाद आ ब्राह्मणनिगॆ सान्त्वनपडिसि, अवन बालकन शरीरवन्नु उत्तम सुगन्धयुक्त ऎण्णॆ तुम्बिद मरद दोणियल्लि मुळुगिसि इडिसु. अदरिन्द बालकन शरीर विकृत अथवा नाशवागदन्तॆ व्यवस्थॆ माडु.॥2-3॥
विश्वास-प्रस्तुतिः
भाषतस् तस्य शूद्रस्य
खड्गं सुरुचिरप्रभम् ।
निष्कृष्य कोशाद् विमलं
शिरश् चिच्छेद राघवः ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।
निष्कृष्य कोशाद् विमलं शिरश्चिच्छेद राघवः ॥ ४ ॥
यथा शरीरो बालस्य गुप्तः सन् शिष्ट कर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥
अनुवाद (हिन्दी)
वह इस प्रकार कह ही रहा था कि श्रीरामचन्द्रजीने म्यानसे चमचमाती हुई तलवार खींच ली और उसीसे उसका सिर काट लिया ॥ ४ ॥
अनुवाद (कन्नड)
शुभकर्म माडुव ई बालकन शरीरवु सुरक्षितवागिद्दु, नाशवागदन्तॆ नोडिको.॥4॥
विश्वास-प्रस्तुतिः
तस्मिन् शूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।
साधुसाध्विति काकुत्स्थं ते शशंसुर्मुहुर्मुहुः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
तस्मिन् शूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।
साधुसाध्विति काकुत्स्थं ते शशंसुर्मुहुर्मुहुः ॥ ५ ॥
एवं सन्दिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥
अनुवाद (हिन्दी)
उस शूद्रका वध होते ही इन्द्र और अग्निसहित सम्पूर्ण देवता ‘बहुत ठीक, बहुत ठीक’ कहकर भगवान् श्रीरामकी बारम्बार प्रशंसा करने लगे ॥ ५ ॥
अनुवाद (कन्नड)
शुभलक्षण लक्ष्मणनिगॆ हीगॆ हेळि महायशस्वी श्रीरघुनाथनु मनस्सिनल्लि पुष्पकविमानवन्नु नॆनॆदु हेळिदनु - बन्दु बिडु.॥5॥
विश्वास-प्रस्तुतिः
पुष्पवृष्टिर्महत्यासीद् दिव्यानां सुसुगन्धिनाम् ।
पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
पुष्पवृष्टिर्महत्यासीद् दिव्यानां सुसुगन्धिनाम् ।
पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ६ ॥
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपे राघवस्य वै ॥
अनुवाद (हिन्दी)
उस समय उनके ऊपर सब ओरसे वायुदेवताद्वारा बिखेरे गये दिव्य एवं परम सुगन्धित पुष्पोंकी बड़ी भारी वर्षा होने लगी ॥ ६ ॥
अनुवाद (कन्नड)
श्रीरामचन्द्रन अभिप्राय तिळिदु सुवर्णभूषित पुष्पकविमानवु ऒन्दे मुहूर्तदल्लि अवन बळिगॆ बन्दु बिट्टितु.॥6॥
विश्वास-प्रस्तुतिः
सुप्रीताश्चाब्रुवन् रामं देवाः सत्यपराक्रमम् ।
सुरकार्यमिदं देव सुकृतं ते महामते ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
सुप्रीताश्चाब्रुवन् रामं देवाः सत्यपराक्रमम् ।
सुरकार्यमिदं देव सुकृतं ते महामते ॥ ७ ॥
सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किङ्करः समुपस्थितः ॥
अनुवाद (हिन्दी)
वे सब देवता अत्यन्त प्रसन्न होकर सत्यपराक्रमी श्रीरामसे बोले—‘देव! महामते! आपने यह देवताओंका ही कार्य सम्पन्न किया है ॥ ७ ॥
अनुवाद (कन्नड)
बन्दु नतमस्तकवागि हेळितु - नरेश्वर! इदो नानु बन्दिद्देनॆ. महाबाहो! नानु सदा निम्म अधीनदल्लिरुव किङ्करनागिद्देनॆ. निम्म सेवॆयल्लि उपस्थितनागिद्देनॆ.॥7॥
विश्वास-प्रस्तुतिः
गृहाण च वरं सौम्य यं त्वमिच्छस्यरिन्दम ।
स्वर्गभाङ् नहि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
गृहाण च वरं सौम्य यं त्वमिच्छस्यरिन्दम ।
स्वर्गभाङ् नहि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ ८ ॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षीन्स विमानं सोऽध्यरोहत ॥
अनुवाद (हिन्दी)
‘शत्रुओंका दमन करनेवाले रघुकुलनन्दन सौम्य श्रीराम! आपके इस सत्कर्मसे ही यह शूद्र सशरीर स्वर्गलोकमें नहीं जा सका है । अतः आप जो वर चाहें माँग लें’ ॥ ८ ॥
अनुवाद (कन्नड)
पुष्पक विमानद ई मनोहर मातन्नु केळि महाराज श्रीरामनु महर्षिगळिगॆ प्रणाम माडि, आ विमानवन्नु हत्तिदनु.॥8॥
विश्वास-प्रस्तुतिः
देवानां भाषितं श्रुत्वा रामः सत्यपराक्रमः ।
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
देवानां भाषितं श्रुत्वा रामः सत्यपराक्रमः ।
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ९ ॥
धनुर्गृहीत्वा तूणीं च खड्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे चेतौसौमित्रिभरतावुभौ ॥
अनुवाद (हिन्दी)
देवताओंका यह वचन सुनकर सत्यपराक्रमी श्रीरामने दोनों हाथ जोड़ सहस्रनेत्रधारी देवराज इन्द्रसे कहा— ॥
अनुवाद (कन्नड)
अवनु धनुष्य, बाणगळु तुम्बिद ऎरडु बत्तळिकॆ मत्तु ऒन्दु हॊळॆयुत्तिरुव खड्गवन्नु कैलॆत्तिकॊण्डु, लक्ष्मण, भरतरन्नु नगर रक्षणॆगॆ नियमिसि, अल्लिन्द हॊरटनु.॥9॥
विश्वास-प्रस्तुतिः
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।
दिशन्तु वरमेतं मे ईप्सितं परमं मम ॥ १० ॥
सर्वाष् टीकाः
मूलम्
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।
दिशन्तु वरमेतं मे ईप्सितं परमं मम ॥ १० ॥
प्रार्याप्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान्दिशं हिमवतावृताम् ॥
अनुवाद (हिन्दी)
‘यदि देवता मुझपर प्रसन्न हैं तो वह ब्राह्मणपुत्र जीवित हो जाय । यही मेरे लिये सबसे उत्तम और अभीष्ट वर है । देवतालोग मुझे यही वर दें ॥ १० ॥
अनुवाद (कन्नड)
श्रीमान् रामनु मॊदलु अत्त-इत्त हुडुकुत्ता पश्चिम दिक्किगॆ होदनु. मत्तॆ हिमालय आवृतवाद उत्तर दिक्किगॆ होदनु.॥10॥
विश्वास-प्रस्तुतिः
ममापचाराद् बालोऽसौ ब्राह्मणस्यैकपुत्रकः ।
अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
ममापचाराद् बालोऽसौ ब्राह्मणस्यैकपुत्रकः ।
अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ११ ॥
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥
अनुवाद (हिन्दी)
‘मेरे ही किसी अपराधसे ब्राह्मणका वह इकलौता बालक असमयमें ही कालके गालमें चला गया है ॥
अनुवाद (कन्नड)
आ ऎरडू दिक्कुगळल्लि ऎल्लियू स्वल्पवू दुष्कर्म कण्डु बन्दिल्ल. आग नरेश्वर श्रीरामनु पूर्वदिक्कन्नु निरीक्षिसिदनु.॥11॥
विश्वास-प्रस्तुतिः
तं जीवयत भद्रं वो नानृतं कर्तुमर्हथ ।
द्विजस्य संश्रुतोऽर्थो मे जीवयिष्यामि ते सुतम् ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
तं जीवयत भद्रं वो नानृतं कर्तुमर्हथ ।
द्विजस्य संश्रुतोऽर्थो मे जीवयिष्यामि ते सुतम् ॥ १२ ॥
प्रविशुद्ध समाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥
अनुवाद (हिन्दी)
‘मैंने ब्राह्मणके सामने यह प्रतिज्ञा की है कि ‘मैं आपके पुत्रको जीवित कर दूँगा ।’ अतः आपलोगोंका कल्याण हो । आप उस ब्राह्मण-बालकको जीवित कर दें । मेरी बातको झूठी न करें’ ॥ १२ ॥
अनुवाद (कन्नड)
पुष्पकदल्लि कुळितु महाबाहु राजा श्रीरामनु अल्लियू शुद्ध सदाचार पालनॆ आगुत्तित्तु. आ दिक्कू कूड कन्नडियन्तॆ निर्मलवागि कण्डितु.॥12॥
विश्वास-प्रस्तुतिः
राघवस्य तु तद् वाक्यं श्रुत्वा विबुधसत्तमाः ।
प्रत्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
राघवस्य तु तद् वाक्यं श्रुत्वा विबुधसत्तमाः ।
प्रत्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ ॥
दक्षिणां दिशमाक्रामत्ततोराजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥
अनुवाद (हिन्दी)
श्रीरघुनाथजीकी यह बात सुनकर वे विबुधशिरोमणि देवता उनसे प्रसन्नतापूर्वक बोले— ॥ १३ ॥
अनुवाद (कन्नड)
आग राजर्षिनन्दन श्रीरामनु दक्षिण दिक्किगॆ होदनु. अल्लि शैवल पर्वतद उत्तर भागदल्लि ऒन्दु महासरोवर कण्डु बन्तु.॥13॥
विश्वास-प्रस्तुतिः
निर्वृतो भव काकुत्स्थ सोऽस्मिन्नहनि बालकः ।
जीवितं प्राप्तवान् भूयः समेतश्चापि बन्धुभिः ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
निर्वृतो भव काकुत्स्थ सोऽस्मिन्नहनि बालकः ।
जीवितं प्राप्तवान् भूयः समेतश्चापि बन्धुभिः ॥ १४ ॥
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमान् लम्बमानमधोमुखम् ॥
अनुवाद (हिन्दी)
‘ककुत्स्थकुलभूषण! आप संतुष्ट हों । वह बालक आज फिर जीवित हो गया और अपने भाई-बन्धुओंसे जा मिला ॥ १४ ॥
अनुवाद (कन्नड)
आ सरोवरद तीरदल्लि ऒब्ब तपस्वी भारी तपस्सु माडुत्तिद्दनु. अवनु कॆळमुखवागि नेताडुत्तिद्दनु. श्रीरामनु अवनन्नु नोडिदनु.॥14॥
विश्वास-प्रस्तुतिः
यस्मिन् मुहूर्ते काकुत्स्थ शूद्रोऽयं विनिपातितः ।
तस्मिन् मुहूर्ते बालोऽसौ जीवेन समयुज्यत ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
यस्मिन् मुहूर्ते काकुत्स्थ शूद्रोऽयं विनिपातितः ।
तस्मिन् मुहूर्ते बालोऽसौ जीवेन समयुज्यत ॥ १५ ॥
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच च नृपो वाक्यं धन्यस्त्वमसि सुव्रत ॥
अनुवाद (हिन्दी)
‘काकुत्स्थ! आपने जिस मुहूर्तमें इस शूद्रको धराशायी किया है, उसी मुहूर्तमें वह बालक जी उठा है ॥ १५ ॥
विश्वास-प्रस्तुतिः
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।
अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ १६ ॥
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।
द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ १७ ॥

कस्यां योन्यां तपोवृद्ध वर्तसेदृढविक्रम ।
कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥
कोऽर्थो मनीषितस्तुभ्यं स्वर्गलाभोऽपरोऽथवा ।
वराश्रयो यदर्थं त्वं तपस्यन्यैः सुदुश्चरम् ॥
अनुवाद (हिन्दी)
‘नरश्रेष्ठ! आपका कल्याण हो । भला हो । अब हम अगस्त्याश्रमको जा रहे हैं । रघुनन्दन! हम महर्षि अगस्त्यका दर्शन करना चाहते हैं । उन्हें जलशय्या लिये पूरे बारह वर्ष बीत चुके हैं । अब उन महातेजस्वी ब्रह्मर्षिकी वह जलशयन-सम्बन्धी व्रतकी दीक्षा समाप्त हुई है ॥ १६-१७ ॥
अनुवाद (कन्नड)
निनगॆ याव वस्तुवन्नु पडॆयलु इच्छॆ इदॆ? तपस्सिनिन्द सन्तुष्टवाद देवतॆयल्लि वरवागि नीनु एनन्नु पडॆयलु बयसुवॆ? स्वर्ग अथवा बेरॆ वस्तु? याव पदार्थक्कागि बेरॆयवरिगॆ दुष्करवाद इन्तह कठोर तपस्सु माडुत्तिरुवॆ.॥17॥
अनुवाद (कन्नड)
नोडि राजा श्रीरघुनाथनु उग्रतपस्सु माडुत्तिरुव आ तपस्विय बळिगॆ होदनु हागू नुडिदनु - उत्तम व्रतवन्नु पालिसुव तापसने ! नीनु धन्यनागिरुवॆ. तपस्सिनल्लि निष्णातनाद पराक्रमि पुरुषने! नीनु याव जातियल्लि हुट्टिरुवॆ? नानु दशरथकुमार रामनु निन्न परिचय तिळियलु कुतूहलियागि इदन्नु केळुत्तिद्देनॆ.॥15-16॥
विश्वास-प्रस्तुतिः
काकुत्स्थ तद् गमिष्यामो मुनिं समभिनन्दितुम् ।
त्वं चापि गच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
काकुत्स्थ तद् गमिष्यामो मुनिं समभिनन्दितुम् ।
त्वं चापि गच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ १८ ॥
यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ।
ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः ।
वैश्यस्तृतीयवर्णो वा शूद्रो वासत्यवाग्भव ॥
अनुवाद (हिन्दी)
‘रघुनन्दन! इसीलिये हमलोग उन महर्षिका अभिनन्दन करनेके लिये जायँगे । आपका कल्याण हो । आप भी उन मुनिश्रेष्ठका दर्शन करनेके लिये चलिये’ ॥ १८ ॥
अनुवाद (कन्नड)
तापसने! याव वस्तुविगागि नीनु तपस्सिगॆ तॊडगिरुवॆयो अदन्नु केळलु नानु बयसुत्तिद्देनॆ. अल्लदॆ नीनु ब्राह्मणनो अथवा दुर्जय क्षत्रियनो अदन्नु तिळिसु. मूरनॆय वर्णद वैश्यनो, शूद्रनो? सरियागि तिळिसु. निनगॆ ऒळ्ळॆयदागलि.॥18॥
विश्वास-प्रस्तुतिः
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।
आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।
आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ १९ ॥
इत्येवमुक्तः स नराधिपेन
अवाक्शिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुङ्गवाय
यत्कारणं चैव तपःप्रयत्नः ॥
अनुवाद (हिन्दी)
तब ‘बहुत अच्छा’ कहकर रघुकुलनन्दन श्रीराम देवताओंके सामने वहाँ जानेकी प्रतिज्ञा करके उस सुवर्णभूषित पुष्पकविमानपर चढ़े ॥ १९ ॥
अनुवाद (कन्नड)
महाराज श्रीरामनु हीगॆ केळिदाग तलॆकॆळगागि नेताडुत्तिरुव आतपस्वियु आ नृपश्रेष्ठ दशरथनन्दन श्रीरामनल्लि तन्न जातिय परिचय कॊट्टु, याव उद्देशदिन्द अवनु तपस्सिगागि प्रयत्निसुत्तिद्दनो, अदन्नु तिळिसिदनु.॥19॥
विश्वास-प्रस्तुतिः
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।
रामोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ २० ॥
सर्वाष् टीकाः
मूलम्
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।
रामोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ २० ॥
अनुवाद (हिन्दी)
तत्पश्चात् देवता बहुसंख्यक विमानोंपर आरूढ़ हो वहाँसे प्रस्थित हुए । फिर श्रीराम भी उन्हींके साथ शीघ्रतापूर्वक कुम्भज ऋषिके तपोवनको चल दिये ॥ २० ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तु देवान् सम्प्राप्तानगस्त्यस्तपसां निधिः ।
अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
दृष्ट्वा तु देवान् सम्प्राप्तानगस्त्यस्तपसां निधिः ।
अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ २१ ॥
अनुवाद (हिन्दी)
देवताओंको आया देख तपस्याकी निधि धर्मात्मा अगस्त्यने उन सबकी समानरूपसे पूजा की ॥ २१ ॥
विश्वास-प्रस्तुतिः
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।
जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगाः ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।
जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगाः ॥ २२ ॥
अनुवाद (हिन्दी)
उनकी पूजा ग्रहण करके उन महामुनिका अभिनन्दन कर वे सब देवता अनुचरोंसहित बड़े हर्षके साथ स्वर्गको चले गये ॥ २२ ॥
विश्वास-प्रस्तुतिः
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।
ततोऽभिवादयामास अगस्त्यमृषिसत्तमम् ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।
ततोऽभिवादयामास अगस्त्यमृषिसत्तमम् ॥ २३ ॥
अनुवाद (हिन्दी)
उनके चले जानेपर श्रीरघुनाथजीने पुष्पकविमानसे उतरकर मुनिश्रेष्ठ अगस्त्यको प्रणाम किया ॥ २३ ॥
विश्वास-प्रस्तुतिः
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ २४ ॥
सर्वाष् टीकाः
मूलम्
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ २४ ॥
अनुवाद (हिन्दी)
अपने तेजसे प्रज्वलित-से होनेवाले महात्मा अगस्त्यका अभिवादन करके उनसे उत्तम आतिथ्य पाकर नरेश्वर श्रीराम आसनपर बैठे ॥ २४ ॥
विश्वास-प्रस्तुतिः
तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ २५ ॥
सर्वाष् टीकाः
मूलम्
तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ २५ ॥
अनुवाद (हिन्दी)
उस समय महातेजस्वी महातपस्वी कुम्भज मुनिने कहा—‘नरश्रेष्ठ रघुनन्दन! आपका स्वागत है । आप यहाँ पधारे, यह मेरे लिये बड़े सौभाग्यकी बात है ॥ २५ ॥
विश्वास-प्रस्तुतिः
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।
अतिथिः पूजनीयश्च मम राजन् हृदि स्थितः ॥ २६ ॥
सर्वाष् टीकाः
मूलम्
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।
अतिथिः पूजनीयश्च मम राजन् हृदि स्थितः ॥ २६ ॥
अनुवाद (हिन्दी)
‘महाराज श्रीराम! बहुत-से उत्तम गुणोंके कारण आपके लिये मेरे हृदयमें बड़ा सम्मान है । आप मेरे आदरणीय अतिथि हैं और सदा मेरे मनमें बसे रहते हैं ॥ २६ ॥
विश्वास-प्रस्तुतिः
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ २७ ॥
सर्वाष् टीकाः
मूलम्
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ २७ ॥
अनुवाद (हिन्दी)
‘देवतालोग कहते थे कि ‘आप अधर्म-परायण शूद्रका वध करके आ रहे हैं तथा धर्मके बलसे आपने ब्राह्मणके उस मरे हुए पुत्रको जीवित कर दिया है’ ॥ २७ ॥
विश्वास-प्रस्तुतिः
उष्यतां चेह रजनीं सकाशे मम राघव ।
प्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ ॥
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।
त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥ २९ ॥
सर्वाष् टीकाः
मूलम्
उष्यतां चेह रजनीं सकाशे मम राघव ।
प्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ ॥
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।
त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥ २९ ॥
अनुवाद (हिन्दी)
‘रघुनन्दन! आज रातको आप मेरे ही पास इस आश्रममें निवास कीजिये । कल सबेरे पुष्पकविमानद्वारा अपने नगरको जाइयेगा । आप साक्षात् श्रीमान् नारायण हैं । सारा जगत् आपमें ही प्रतिष्ठित है और आप ही समस्त देवताओंके स्वामी तथा सनातन पुरुष हैं ॥ २८-२९ ॥
विश्वास-प्रस्तुतिः
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ॥ ३० ॥
सर्वाष् टीकाः
मूलम्
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ॥ ३० ॥
अनुवाद (हिन्दी)
‘सौम्य! यह विश्वकर्माका बनाया हुआ दिव्य आभूषण है, जो अपने दिव्य रूप और तेजसे प्रकाशित हो रहा है ॥ ३० ॥
विश्वास-प्रस्तुतिः
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।
दत्तस्य हि पुनर्दाने सुमहत् फलमुच्यते ॥ ३१ ॥
सर्वाष् टीकाः
मूलम्
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।
दत्तस्य हि पुनर्दाने सुमहत् फलमुच्यते ॥ ३१ ॥
अनुवाद (हिन्दी)
‘ककुत्स्थकुलभूषण रघुनन्दन! आप इसे लीजिये और मेरा प्रिय कीजिये; क्योंकि किसीकी दी हुई वस्तुका पुनः दान कर देनेसे महान् फलकी प्राप्ति बतायी जाती है ॥ ३१ ॥
विश्वास-प्रस्तुतिः
भरणे हि भवान् शक्तः फलानां महतामपि ।
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ॥ ३२ ॥
तस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नराधिप ।
सर्वाष् टीकाः
मूलम्
भरणे हि भवान् शक्तः फलानां महतामपि ।
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ॥ ३२ ॥
तस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नराधिप ।
अनुवाद (हिन्दी)
‘इस आभूषणको धारण करनेमें केवल आप ही समर्थ हैं तथा बड़े-से-बड़े फलोंकी प्राप्ति करानेकी शक्ति भी आपमें ही है । आप इन्द्र आदि देवताओंको भी तारनेमें समर्थ हैं, इसलिये नरेश्वर! यह भूषण भी मैं आपको ही दूँगा । आप इसे विधिपूर्वक ग्रहण करें’ ॥ ३२ १/२ ॥
विश्वास-प्रस्तुतिः
अथोवाच महात्मानमिक्ष्वाकूणां महारथः ॥ ३३ ॥
रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।
प्रतिग्रहोऽयं भगवन् ब्राह्मणस्याविगर्हितः ॥ ३४ ॥
सर्वाष् टीकाः
मूलम्
अथोवाच महात्मानमिक्ष्वाकूणां महारथः ॥ ३३ ॥
रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।
प्रतिग्रहोऽयं भगवन् ब्राह्मणस्याविगर्हितः ॥ ३४ ॥
अनुवाद (हिन्दी)
तब बुद्धिमानोंमें श्रेष्ठ और इक्ष्वाकुकुलके महारथी वीर श्रीरामने क्षत्रियधर्मका विचार करते हुए वहाँ महात्मा अगस्त्यजीसे कहा—‘भगवन्! दान लेनेका काम तो केवल ब्राह्मणके लिये ही निन्दित नहीं है ॥ ३३-३४ ॥
विश्वास-प्रस्तुतिः
क्षत्रियेण कथं विप्र प्रतिग्राह्यं भवेत् ततः ।
प्रतिग्रहो हि विप्रेन्द्र क्षत्रियाणां सुगर्हितः ॥ ३५ ॥
ब्राह्मणेन विशेषेण दत्तं तद् वक्तुमर्हसि ।
सर्वाष् टीकाः
मूलम्
क्षत्रियेण कथं विप्र प्रतिग्राह्यं भवेत् ततः ।
प्रतिग्रहो हि विप्रेन्द्र क्षत्रियाणां सुगर्हितः ॥ ३५ ॥
ब्राह्मणेन विशेषेण दत्तं तद् वक्तुमर्हसि ।
अनुवाद (हिन्दी)
‘विप्रवर! क्षत्रियोंके लिये तो प्रतिग्रह स्वीकार करना अत्यन्त निन्दित बताया गया है । फिर क्षत्रिय प्रतिग्रह—विशेषतः ब्राह्मणका दिया हुआ दान कैसे ले सकता है? यह बतानेकी कृपा करें’ ॥ ३५ १/२ ॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ३६ ॥
आसन् कृतयुगे राम ब्रह्मभूते पुरायुगे ।
अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३७ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ३६ ॥
आसन् कृतयुगे राम ब्रह्मभूते पुरायुगे ।
अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३७ ॥
अनुवाद (हिन्दी)
श्रीरामके इस प्रकार पूछनेपर महर्षि अगस्त्यने उत्तर दिया—‘रघुनन्दन! पहले ब्रह्मस्वरूप सत्ययुगमें सारी प्रजा बिना राजाके ही थी, आगे चलकर इन्द्र देवताओंके राजा बनाये गये ॥ ३६-३७ ॥
विश्वास-प्रस्तुतिः
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।
सुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥ ३८ ॥
प्रयच्छास्मासु लोकेश पार्थिवं नरपुङ्गवम् ।
यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ॥ ३९ ॥
सर्वाष् टीकाः
मूलम्
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।
सुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥ ३८ ॥
प्रयच्छास्मासु लोकेश पार्थिवं नरपुङ्गवम् ।
यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ॥ ३९ ॥
अनुवाद (हिन्दी)
‘तब सारी प्रजाएँ देवदेवेश्वर ब्रह्माजीके पास राजाके लिये गयीं और बोलीं—‘देव! आपने इन्द्रको देवताओंके राजाके पदपर स्थापित किया है । इसी तरह हमारे लिये भी किसी श्रेष्ठ पुरुषको राजा बना दीजिये, जिसकी पूजा करके हम पापरहित हो इस भूतलपर विचरें ॥ ३८-३९ ॥
विश्वास-प्रस्तुतिः
न वसामो विना राज्ञा एष नो निश्चयः परः ।
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान् सवासवान् ॥ ४० ॥
समाहूयाब्रवीत् सर्वांस्तेजोभागान् प्रयच्छत ।
ततो ददुर्लोकपालाः सर्वे भागान् स्वतेजसः ॥ ४१ ॥
सर्वाष् टीकाः
मूलम्
न वसामो विना राज्ञा एष नो निश्चयः परः ।
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान् सवासवान् ॥ ४० ॥
समाहूयाब्रवीत् सर्वांस्तेजोभागान् प्रयच्छत ।
ततो ददुर्लोकपालाः सर्वे भागान् स्वतेजसः ॥ ४१ ॥
अनुवाद (हिन्दी)
‘हम बिना राजाके नहीं रहेंगी । यह हमारा उत्तम निश्चय है ।’ तब सुरश्रेष्ठ ब्रह्माने इन्द्रसहित समस्त लोकपालोंको बुलाकर कहा—‘तुम सब लोग अपने तेजका एक-एक भाग दो ।’ तब समस्त लोकपालोंने अपने-अपने तेजका भाग अर्पित किया ॥ ४०-४१ ॥
विश्वास-प्रस्तुतिः
अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।
तं ब्रह्मा लोकपालानां समांशैः समयोजयत् ॥ ४२ ॥
सर्वाष् टीकाः
मूलम्
अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।
तं ब्रह्मा लोकपालानां समांशैः समयोजयत् ॥ ४२ ॥
अनुवाद (हिन्दी)
‘उसी समय ब्रह्माजीको छींक आयी, जिससे क्षुप नामक राजा उत्पन्न हुआ । ब्रह्माजीने उस राजाको लोकपालोंके दिये हुए तेजके उन सभी भागोंसे संयुक्त कर दिया ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ॥ ४३ ॥
सर्वाष् टीकाः
मूलम्
ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ॥ ४३ ॥
अनुवाद (हिन्दी)
‘तत्पश्चात् उन्होंने क्षुपको ही उन प्रजाजनोंके लिये उनके शासक नरेशके रूपमें समर्पित किया । क्षुपने वहाँ राजा होकर इन्द्रके दिये हुए तेजोभागसे पृथ्वीका शासन किया ॥ ४३ ॥
विश्वास-प्रस्तुतिः
वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।
कौबेरेण तु भागेन वित्तपाभां ददौ तदा ॥ ४४ ॥
यस्तु याम्योऽभवद् भागस्तेन शास्ति स्म सप्रजाः ।
सर्वाष् टीकाः
मूलम्
वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।
कौबेरेण तु भागेन वित्तपाभां ददौ तदा ॥ ४४ ॥
यस्तु याम्योऽभवद् भागस्तेन शास्ति स्म सप्रजाः ।
अनुवाद (हिन्दी)
‘वरुणके तेजोभागसे वे भूपाल प्रजाके शरीरका पोषण करने लगे । कुबेरके तेजोभागसे उन्होंने उन्हें धनपतिकी आभा प्रदान की तथा उनमें जो यमराजका तेजोभाग था, उससे वे प्रजाजनोंको अपराध करनेपर दण्ड देते थे ॥ ४४ १/२ ॥
विश्वास-प्रस्तुतिः
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ॥ ४५ ॥
प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।
सर्वाष् टीकाः
मूलम्
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ॥ ४५ ॥
प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।
अनुवाद (हिन्दी)
‘नरश्रेष्ठ रघुनन्दन! आप भी राजा होनेके कारण सभी लोकपालोंके तेजसे सम्पन्न हैं । अतः प्रभो! इन्द्र-सम्बन्धी तेजोभागके द्वारा आप मेरे उद्धारके लिये यह आभूषण ग्रहण कीजिये । आपका भला हो’ ॥ ४० १/२ ॥
विश्वास-प्रस्तुतिः
तद् रामः प्रतिजग्राह मुनेस्तस्य महात्मनः ॥ ४६ ॥
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ॥ ४७ ॥
आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।
सर्वाष् टीकाः
मूलम्
तद् रामः प्रतिजग्राह मुनेस्तस्य महात्मनः ॥ ४६ ॥
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ॥ ४७ ॥
आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।
अनुवाद (हिन्दी)
तब भगवान् श्रीराम उन महात्मा मुनिके दिये हुए उस सूर्यके समान दीप्तिमान्, दिव्य, विचित्र एवं उत्तम आभूषणको ग्रहण करके उसकी उपलब्धिके विषयमें पूछने लगे— ॥ ४६-४७ १/२ ॥
विश्वास-प्रस्तुतिः
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमद्भुतम् ॥ ४८ ॥
कथं वा भवता प्राप्तं कुतो वा केन वाऽऽहृतम् ।
कौतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः ॥ ४९ ॥
आश्चर्याणां बहूनां हि निधिः परमको भवान् ।
सर्वाष् टीकाः
मूलम्
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमद्भुतम् ॥ ४८ ॥
कथं वा भवता प्राप्तं कुतो वा केन वाऽऽहृतम् ।
कौतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः ॥ ४९ ॥
आश्चर्याणां बहूनां हि निधिः परमको भवान् ।
अनुवाद (हिन्दी)
‘महायशस्वी मुने! यह अत्यन्त अद्भुत तथा दिव्य आकारसे युक्त आभूषण आपको कैसे प्राप्त हुआ, अथवा इसे कौन कहाँसे ले आया? ब्रह्मन्! मैं कौतूहलवश ये बातें आपसे पूछ रहा हूँ; क्योंकि आप बहुत-से आश्चर्योंकी उत्तम निधि हैं’ ॥ ४८-४९ १/२ ॥
विश्वास-प्रस्तुतिः
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ॥ ५० ॥
शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ५१ ॥
सर्वाष् टीकाः
मूलम्
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ॥ ५० ॥
शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ५१ ॥
अनुवाद (हिन्दी)
‘ककुत्स्थकुलभूषण श्रीरामके इस प्रकार पूछनेपर मुनिवर अगस्त्यने कहा—‘श्रीराम! पूर्व चतुर्युगीके त्रेतायुगमें जैसा वृत्तान्त घटित हुआ था, उसे बताता हूँ सुनिये’ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें छिहत्तरवाँ सर्ग पूरा हुआ ॥ ७६ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तैदनॆय सर्ग पूर्णवायितु. ॥75॥