०७५ व्यभिचार्य्-अन्वेषणम्

[पञ्चसप्ततितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. श्रीरामका पुष्पकविमानद्वारा अपने राज्यकी सभी दिशाओंमें घूमकर दुष्कर्मका पता लगाना, किंतु सर्वत्र सत्कर्म ही देखकर दक्षिण दिशामें एक शूद्र तपस्वीके पास पहुँचना
विश्वास-प्रस्तुतिः

नारदस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥

सर्वाष् टीकाः
मूलम्

नारदस्य तु तद् वाक्यं श्रुत्वामृतमयं यथा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥


तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥

अनुवाद (हिन्दी)

नारदजीके ये अमृतमय वचन सुनकर श्रीरामचन्द्रजीको अपार आनन्द प्राप्त हुआ और उन्होंने लक्ष्मणजीसे इस प्रकार कहा— ॥ १ ॥

अनुवाद (कन्नड)

अन्तह करुणाजनक दुःख-शोकदिन्द कूडिद ब्राह्मणन गोळाटवन्नु श्रीरामनु केळिदनु.॥1॥

विश्वास-प्रस्तुतिः

गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रत ।
बालस्य च शरीरं तत् तैलद्रोण्यां निधापय ॥ २ ॥
गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रत ।
बालस्य च शरीरं तत् तैलद्रोण्यां निधापय ॥ २ ॥
गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३ ॥


स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।
वसिष्ठं वामदेवं चभ्रातरौ सहनैगमान् ॥ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।
राजानं देवसङ्काशं वर्धस्वेति ततोऽब्रुवन् ॥

अनुवाद (हिन्दी)

‘सौम्य! जाओ । उत्तम व्रतका पालन करनेवाले इन द्विजश्रेष्ठको सान्त्वना दो और इनके बालकका शरीर उत्तम गन्ध एवं सुगन्धसे युक्त तेलसे भरी हुई नावमें डुबाकर रखवा दो और ऐसी व्यवस्था कर दो जिससे बालकका शरीर विकृत या नष्ट न होने पाये ॥ २-३ ॥

अनुवाद (कन्नड)

बळिक वसिष्ठरॊन्दिगॆ ऎण्टु ब्राह्मणरु राजसभॆयन्नु प्रवेशिसिदरु. आ देवतुल्य राजनु हेळिदनु- महाराज! निमगॆ जयवागली.॥3॥

अनुवाद (कन्नड)

इदरिन्द अवनु सन्तप्तनादनु. श्रीरामनु मन्त्रिगळन्नु, वसिष्ठ, वामदेव हागू महाजनरॊन्दिगॆ तन्न तम्मन्दिरन्नु आमन्त्रिसिदनु.॥2॥

विश्वास-प्रस्तुतिः

यथा शरीरो बालस्य गुप्तः सन् क्लिष्टकर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

यथा शरीरो बालस्य गुप्तः सन् क्लिष्टकर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ४ ॥


मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः ।
कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा ॥

अनुवाद (हिन्दी)

‘शुभ कर्म करनेवाले इस बालकका शरीर जिस प्रकार सुरक्षित रहे, नष्ट या खण्डित न हो, वैसा प्रबन्ध करो’ ॥ ४ ॥

अनुवाद (कन्नड)

मार्कण्डेय, मौद्गल्य, वामदेव, काश्यप, कात्यायन, जाबालि, गौतम मत्तु नारदरु हीगॆ आ ऎण्टु मन्दि इद्दरु.॥4॥

विश्वास-प्रस्तुतिः

एवं सन्दिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

एवं सन्दिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ५ ॥


एते द्विजर्षभाः सर्व आसनेषूपवेशिताः ।
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः ॥

अनुवाद (हिन्दी)

शुभलक्षण लक्ष्मणको ऐसा संदेश दे महायशस्वी श्रीरघुनाथजीने मन-ही-मन पुष्पकका चिन्तन किया और कहा—‘आ जाओ’ ॥ ५ ॥

अनुवाद (कन्नड)

आ ऎल्ल श्रेष्ठ ब्राह्मणरन्नु आसनगळल्लि कुळ्ळिरिसिदनु. अल्लिगॆ आगमिसिद महर्षिगळिगॆ श्रीरामनु कैमुगिदु नमस्करिसि, तानु आसनदल्लि कुळितुकॊण्डनु.॥5॥

विश्वास-प्रस्तुतिः

इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपे राघवस्य वै ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपे राघवस्य वै ॥ ६ ॥


मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः ।
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ॥
राघवः सर्वमाचष्टे द्विजोऽयमुपरोधते ।

अनुवाद (हिन्दी)

श्रीरामचन्द्रजीका अभिप्राय समझकर सुवर्णभूषित पुष्पक-विमान एक ही मुहूर्तमें उनके पास आ गया ॥ ६ ॥

अनुवाद (कन्नड)

मत्तॆ मन्त्रिगळु मत्तु महाजनरॊन्दिगॆ शिष्टाचार निर्वहिसिदनु. उद्दीप्त तेजवुळ्ळ अवरॆल्लरू यथास्थानगळल्लि कुळितुकॊण्डाग श्रीरामनु अवरल्लि ऎल्ल मातुगळन्नु तिळिसि, हेळिदनु - ई ब्राह्मणनु राजद्वारदल्लि सत्याग्रह हूडिद्दानॆ.॥6॥

विश्वास-प्रस्तुतिः

सोऽब्रवीत् प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किङ्करः समुपस्थितः ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

सोऽब्रवीत् प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किङ्करः समुपस्थितः ॥ ७ ॥


तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्यनारदः ॥
प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ स्वयम् ।

अनुवाद (हिन्दी)

आकर नतमस्तक हो वह बोला—‘नरेश्वर! यह रहा मैं । महाबाहो! मैं सदा आपके अधीन रहनेवाला किङ्कर हूँ और सेवाके लिये उपस्थित हुआ हूँ’ ॥ ७ ॥

अनुवाद (कन्नड)

ब्राह्मणन दुःखदिन्द दुःखितनाद महाराजर ई मातन्नु केळि इतर ऎल्ल ऋषिगळल्लि स्वतः नारदरु हीगॆ शुभवचनवन्नाडिदरु.॥7॥

विश्वास-प्रस्तुतिः

भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षीन् स विमानं सोऽध्यरोहत ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षीन् स विमानं सोऽध्यरोहत ॥ ८ ॥


शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः ॥
श्रुत्वा कर्तव्यतां राजन् कुरुष्व रघुनन्दन ।

अनुवाद (हिन्दी)

पुष्पकविमानका यह मनोहर वचन सुनकर वे महाराज श्रीराम महर्षियोंको प्रणाम करके उस विमानपर आरूढ़ हुए ॥

अनुवाद (कन्नड)

राजने! याव कारणदिन्द ई बालकन मृत्यु आगिदॆयो, अदन्नु तिळिसुत्तेनॆ. रघुनन्दन! नन्न मातन्नु केळि उचित कर्तव्यवन्नु पालिसु.॥8॥

विश्वास-प्रस्तुतिः

धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे चैतौ सौमित्रिभरतावुभौ ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे चैतौ सौमित्रिभरतावुभौ ॥ ९ ॥


पुरा कृतयुगे राजन् ब्राह्मणा वै तपस्विनः ॥
अब्राह्मणस्तदा राजन् न तपस्वी कथञ्चन ।

अनुवाद (हिन्दी)

उन्होंने धनुष, बाणोंसे भरे हुए दो तरकस और एक चमचमाती हुई तलवार हाथमें ले ली और लक्ष्मण तथा भरत—इन दोनों भाइयोंको नगरकी रक्षामें नियुक्त करके वहाँसे प्रस्थान किया ॥ ९ ॥

अनुवाद (कन्नड)

राजने! मॊदलु कृतयुगदल्लि केवल ब्राह्मणरे तपस्वीगळागिद्दरु. महाराजा! आग ब्राह्मणेतर मनुष्यनु याव रीतियिन्दलू तपस्सिनल्लि प्रवृत्तनागुत्तिरलिल्ल.॥9॥

विश्वास-प्रस्तुतिः

प्रायात् प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान् दिशं हिमवतावृताम् ॥ १० ॥

सर्वाष् टीकाः
मूलम्

प्रायात् प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान् दिशं हिमवतावृताम् ॥ १० ॥


तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ॥
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।

अनुवाद (हिन्दी)

श्रीमान् राम पहले तो इधर-उधर खोजते हुए पश्चिम दिशाकी ओर गये । फिर हिमालयसे घिरी हुई उत्तर दिशामें जा पहुँचे ॥ १० ॥

अनुवाद (कन्नड)

आ युगवु तपस्सिनिन्द प्रकाशितवागुत्तित्तु. अदरल्लि ब्राह्मणरदे प्रधानतॆ इत्तु. आग अज्ञानद वातावरणविरलिल्ल. अदरिन्द आ युगद ऎल्लरू अकाल मरण रहितरागिद्दु, त्रिकालदर्शियागिद्दरु.॥10॥

विश्वास-प्रस्तुतिः

अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ ११ ॥


ततस्त्रेतायुगन्नाम मानवानां वपुष्मताम् ॥
क्षत्रिया यत्र जायन्ते पूर्वेणतपसान्विताः ।

अनुवाद (हिन्दी)

जब उन दोनों दिशाओंमें कहीं थोड़ा-सा भी दुष्कर्म नहीं दिखायी दिया, तब नरेश्वर श्रीरामने समूची पूर्व दिशाका भी निरीक्षण किया ॥ ११ ॥

अनुवाद (कन्नड)

कृतयुगद बळिक त्रेतायुग बन्तु. इदरल्लि सुदृढ शरीरवुळ्ळ क्षत्रियर प्रधानतॆ उण्टायितु. आ क्षत्रियरू अदे प्रकारद तपस्सु माडतॊडगिदरु.॥11॥

विश्वास-प्रस्तुतिः

प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥ १२ ॥


वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ॥
मानवा ये महात्मानस्तत्र त्रेतायुगे युगे ।

अनुवाद (हिन्दी)

पुष्पकपर बैठे हुए महाबाहु राजा श्रीरामने वहाँ भी शुद्ध सदाचारका पालन होता देखा । वह दिशा भी दर्पणके समान निर्मल दिखायी दी ॥ १२ ॥

अनुवाद (कन्नड)

आदरू त्रेतायुगदल्लि इरुव महात्मा पुरुषरिगिन्त कृतयुगद जनरु तपस्सु मत्तु पराक्रमद दृष्टियिन्द हॆच्चिनवरागिद्दरु.॥12॥

विश्वास-प्रस्तुतिः

दक्षिणां दिशमाक्रामत् ततो राजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

दक्षिणां दिशमाक्रामत् ततो राजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ १३ ॥


ब्रह्म क्षत्रं च तत्सर्वं यत्पूर्वमवरं च यत् ॥
युगयोरुभयोरासीत्समवीर्यसमन्वितम् ।

अनुवाद (हिन्दी)

तब राजर्षिनन्दन रघुनाथजी दक्षिण दिशाकी ओर गये । वहाँ शैवल पर्वतके उत्तर भागमें उन्हें एक महान् सरोवर दिखायी दिया ॥ १३ ॥

अनुवाद (कन्नड)

हीगॆ हिन्दिन युगदल्लि ब्राह्मणरु उत्कृष्ट मत्तु क्षत्रियरु अपकृष्टरागिद्दरु. ई त्रेतायुगदल्लि अवरॆल्लरू समान शक्तिशालियागिद्दारॆ.॥13॥

विश्वास-प्रस्तुतिः

तस्मिन् सरसि तप्यन्तं
तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाल्ँ
लम्बमानम् अधोमुखम् ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

तस्मिन् सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाल्ँ लम्बमानमधोमुखम् ॥ १४ ॥


अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः ॥
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।

अनुवाद (हिन्दी)

उस सरोवरके तटपर एक तपस्वी बड़ी भारी तपस्या कर रहा था । वह नीचेको मुख किये लटका हुआ था । रघुकुलनन्दन श्रीरामने उसे देखा ॥ १४ ॥

अनुवाद (कन्नड)

आग मनु आदि ऎल्ल धर्मप्रवर्तकरु ब्राह्मण मत्तु क्षत्रियरल्लि ऒब्बरिगिन्त ऒब्बरु यावुदे विशेषतॆ अथवा न्यूनाधिक्यतॆ नोडदॆ सर्वलोक सम्मत चातुर्वर्ण्यद व्यवस्थॆ स्थापिसिदरु.॥14॥

विश्वास-प्रस्तुतिः

राघवस् तमुपागम्य
तप्यन्तं
तप उत्तमम् ।
उवाच च नृपो वाक्यं
धन्यस् त्वम् असि सुव्रत ॥ १५ ॥
कस्यां योन्यां तपोवृद्ध
वर्तसे दृढविक्रम ।
कौतूहलात् त्वां पृच्छामि
रामो दाशरथिर्ह्यहम् ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच च नृपो वाक्यं धन्यस्त्वमसि सुव्रत ॥ १५ ॥
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।
कौतूहलात् त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ १६ ॥


तस्मिन् युगे प्रज्वलिते धर्मभूते ह्यनावृते ॥ अधर्मः पादमेकं तु पातयत्पृथिवीतले ।
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥

अनुवाद (हिन्दी)

देखकर राजा श्रीरघुनाथजी उग्र तपस्या करते हुए उस तपस्वीके पास आये और बोले—‘उत्तम व्रतका पालन करनेवाले तापस! तुम धन्य हो । तपस्यामें बढ़े-चढ़े सुदृढ़ पराक्रमी पुरुष! तुम किस जातिमें उत्पन्न हुए हो? मैं दशरथकुमार राम तुम्हारा परिचय जाननेके कौतूहलसे ये बातें पूछ रहा हूँ ॥ १५-१६ ॥

अनुवाद (कन्नड)

त्रेतायुग वर्णाश्रम धर्म प्रधानवागिदॆ. अदु धर्मद प्रकाशदिन्द प्रकाशितवागिदॆ. अदु धर्मदल्लि बाधॆपडिसुव पापदिन्द रहितवागिदॆ. ई युगदल्लि अधर्मवु भूतळदल्लि तन्न ऒन्दु कालन्नूरिदॆ. अधर्मयुक्तवाद्दरिन्द इल्लि जनर तेज दिने-दिने मन्दवागुत्तिदॆ.॥15-16॥

विश्वास-प्रस्तुतिः

कोऽर्थो मनीषितस्तुभ्यं
स्वर्गलाभोऽपरोऽथवा ।
वराश्रयो यदर्थं त्वं
तपस्यन्यैः सुदुश्चरम् ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

कोऽर्थो मनीषितस्तुभ्यं स्वर्गलाभोऽपरोऽथवा ।
वराश्रयो यदर्थं त्वं तपस्यन्यैः सुदुश्चरम् ॥ १७ ॥


आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।
अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥

अनुवाद (हिन्दी)

‘तुम्हें किस वस्तुको पानेकी इच्छा है? तपस्याद्वारा संतुष्ट हुए इष्टदेवतासे वरके रूपमें तुम क्या पाना चाहते हो—स्वर्ग या दूसरी कोई वस्तु! कौन-सा ऐसा पदार्थ है, जिसके लिये तुम ऐसी कठोर तपस्या करते हो, जो दूसरोंके लिये दुष्कर है? ॥ १७ ॥

अनुवाद (कन्नड)

कृतयुगदल्लि जीवनद साधनॆयाद कृषि आदि रजोगुण मूलक कर्म ‘अनृत’ ऎन्दु हेळल्पट्टित्तु मत्तु मलदन्तॆ अत्यन्त ताज्यवागित्तु. आ अनृतवू अधर्मद ऒन्दु पादवागि त्रेतायुगदल्लि ई भूतळदल्लि स्थिरवायितु.॥17॥

विश्वास-प्रस्तुतिः

यमाश्रित्य तपस्तप्तं
श्रोतुम् इच्छामि तापस ।
ब्राह्मणो वासि भद्रं ते
क्षत्रियो वासि दुर्जयः ।
वैश्यस्तृतीयो वर्णो वा
शूद्रो वा सत्यवाग् भव ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ।
ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः ।
वैश्यस्तृतीयो वर्णो वा शूद्रो वा सत्यवाग् भव ॥ १८ ॥


अनृतं पातयित्वा तु पादमेकमधर्मतः ।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥

अनुवाद (हिन्दी)

‘तापस! जिस वस्तुके लिये तुम तपस्यामें लगे हुए हो, उसे मैं सुनना चाहता हूँ । इसके सिवा यह भी बताओ कि तुम ब्राह्मण हो या दुर्जय क्षत्रिय? तीसरे वर्णके वैश्य हो अथवा शूद्र! तुम्हारा भला हो । ठीक-ठीक बताना’ ॥ १८ ॥

अनुवाद (कन्नड)

हीगॆ आनृत (असत्य)रूपी ऒन्दु कालन्नु भूतळदल्लि इट्टु अधर्मवु त्रेतायुगदल्लि कृतयुगक्किन्त आयुस्सन्नु सीमितगॊळिसितु.॥18॥

विश्वास-प्रस्तुतिः

इत्येवमुक्तः स नराधिपेन
अवाक्-शिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुङ्गवाय
यत्-कारणं चैव तपःप्रयत्नः ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

इत्येवमुक्तः स नराधिपेन
अवाक्शिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुङ्गवाय
यत्कारणं चैव तपःप्रयत्नः ॥ १९ ॥


पातिते त्वनृते तस्मिन्नधर्मेण महीतले ।
शुभान्येवाचरंल्लोकः सत्यधर्मपरायणः ॥

अनुवाद (हिन्दी)

महाराज श्रीरामके इस प्रकार पूछनेपर नीचे सिर किये लटके हुए उस तपस्वीने उन नृपश्रेष्ठ दशरथनन्दन श्रीरामको अपनी जातिका परिचय दिया और जिस उद्देश्यसे उसने तपस्याके लिये प्रयास किया था, वह भी बताया ॥ १९ ॥

अनुवाद (कन्नड)

आद्दरिन्द पृथिवियल्लि अधर्मद ई अनृतरूपी चरणबिद्दाग सत्यधर्मपरायण पुरुषनु आ अनृतद कॆट्ट परिणामदिन्द बदुकुळियलु शुभकर्मगळन्ने आचरिसुत्तानॆ.॥19॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें पचहत्तरवाँ सर्ग पूरा हुआ ॥ ७५ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तनाल्कनॆय सर्ग पूर्णवायितु. ॥74॥