०७४ धर्म-लङ्घन-हेतुता

[चतुःसप्ततितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. नारदजीका श्रीरामसे एक तपस्वी शूद्रके अधर्माचरणको ब्राह्मण-बालककी मृत्युमें कारण बताना
विश्वास-प्रस्तुतिः

तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ १ ॥

सर्वाष् टीकाः
मूलम्

तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ १ ॥


प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥

अनुवाद (हिन्दी)

महाराज श्रीरामने उस ब्राह्मणका इस तरह दुःख और शोकसे भरा हुआ वह सारा करुण-क्रन्दन सुना ॥ १ ॥

अनुवाद (कन्नड)

शत्रुघ्ननन्नु मथुरॆगॆ कळिसिकॊट्टु भगवान् श्रीरामनु भरत मत्तु लक्ष्मणरॊन्दिगॆ धर्म पूर्वक राज्यवन्नु पालिसुत्ता बहळ सुख - आनन्ददिन्द इरतॊडगिदनु.॥1॥

विश्वास-प्रस्तुतिः

स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।
वसिष्ठं वामदेवं च भ्रातॄंश्च सह नैगमान् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।
वसिष्ठं वामदेवं च भ्रातॄंश्च सह नैगमान् ॥ २ ॥


ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।
मृतं बालमुपादाय राजद्वारमुपागमत् ॥

अनुवाद (हिन्दी)

इससे वे दुःखसे संतप्त हो उठे । उन्होंने अपने मन्त्रियोंको बुलाया तथा वसिष्ठ और वामदेवको एवं महाजनोंसहित अपने भाइयोंको भी आमन्त्रित किया ॥ २ ॥

अनुवाद (कन्नड)

अनन्तर कॆलवु दिनगळ बळिक राष्ट्रदल्लि वासिसुव ओर्व मुदुक ब्राह्मणनु तन्न सत्तिरुव बालकन शववन्नॆत्तिकॊण्डु राजद्वारक्कॆ बन्दनु.॥2॥

विश्वास-प्रस्तुतिः

ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।
राजानं देवसङ्काशं वर्धस्वेति ततोऽब्रुवन् ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।
राजानं देवसङ्काशं वर्धस्वेति ततोऽब्रुवन् ॥ ३ ॥


रुदन् बहुविधा वाचः स्नेहदुःखसमन्वितः ।
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥

अनुवाद (हिन्दी)

तदनन्तर वसिष्ठजीके साथ आठ ब्राह्मणोंने राजसभामें प्रवेश किया और उन देवतुल्य नरेशसे कहा—‘महाराज! आपकी जय हो’ ॥ ३ ॥

अनुवाद (कन्नड)

अवनु स्नेह मत्तु दुःखदिन्द व्याकुलनागि नाना रीतिय मातुगळन्नु हेळुत्ता अळुत्तिद्दनु. पदे-पदे मगु! मगने! ऎन्दु कूगुत्ता हीगॆ प्रलापिसुत्तिद्दनु.॥3॥

विश्वास-प्रस्तुतिः

मार्कण्डेयोऽथ मौद‍्गल्यो वामदेवश्च काश्यपः ।
कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

मार्कण्डेयोऽथ मौद‍्गल्यो वामदेवश्च काश्यपः ।
कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा ॥ ४ ॥


किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
यदहं पुत्रमेकं तु पश्यामि निधनं गतम् ॥

अनुवाद (हिन्दी)

उन आठोंके नाम इस प्रकार हैं—मार्कण्डेय, मौद‍्गल्य, वामदेव, काश्यप, कात्यायन, जाबालि, गौतम तथा नारद ॥ ४ ॥

अनुवाद (कन्नड)

अय्यो! नानु हिन्दिन जन्मदल्लि याव पाप माडिद्दॆनो, अदरिन्द इन्दु नन्न एकमात्र पुत्रन मरणवन्नु नोडबेकायितल्ल.॥4॥

विश्वास-प्रस्तुतिः

एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।
महर्षीन् समनुप्राप्तानभिवाद्य कृताञ्जलिः ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।
महर्षीन् समनुप्राप्तानभिवाद्य कृताञ्जलिः ॥ ५ ॥


अप्राप्तयौवनम्बालं पञ्चवर्षसहस्रकम् ।
अकाले कालमापन्नं मम दुःखाय पुत्रक ॥

अनुवाद (हिन्दी)

इन सब श्रेष्ठ ब्राह्मणोंको उत्तम आसनोंपर बैठाया गया । वहाँ पधारे हुए उन महर्षियोंको श्रीरघुनाथजीने हाथ जोड़कर प्रणाम किया और वे स्वयं भी अपने स्थानपर बैठ गये ॥ ५ ॥

अनुवाद (कन्नड)

मगु ! इन्नू नीनु युवकनागदॆ बालकने आगिद्दॆ. ऐदु साविर दिन (हदिमूरु वर्ष हत्तु तिङ्गळु इप्पत्तु दिन)वष्टे निन्न वयस्सागित्तु. आदरॆ नीनु ननगॆ दुःख कॊडलॆन्दे अकालदल्लि कालवशनादॆ.॥5॥

विश्वास-प्रस्तुतिः

मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः ।
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ॥ ६ ॥
राघवः सर्वमाचष्टे द्विजोऽयमुपरोधते ।

सर्वाष् टीकाः
मूलम्

मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः ।
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ॥ ६ ॥
राघवः सर्वमाचष्टे द्विजोऽयमुपरोधते ।


अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।
अहं च जननी चैव तव शोकेन पुत्रक ॥

अनुवाद (हिन्दी)

फिर मन्त्री और महाजनोंके साथ यथायोग्य शिष्टाचारका उन्होंने निर्वाह किया । उद्दीप्त तेजवाले वे सब लोग जब यथास्थान बैठ गये, तब श्रीरघुनाथजीने उनसे सब बातें बतायीं और कहा—‘यह ब्राह्मण राजद्वारपर धरना दिये पड़ा है’ ॥ ६ १/२ ॥

अनुवाद (कन्नड)

वत्स! निन्न शोकदल्लि नानु मत्तु निन्न तायि इब्बरू कॆलवे दिनगळल्लि सत्तुहोगुवॆवु. इदरल्लि संशयवे इल्ल.॥6॥

विश्वास-प्रस्तुतिः

तस्य तद् वचनं श्रुत्वा राज्ञो दीनस्य नारदः ॥ ७ ॥
प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ स्वयम् ।

सर्वाष् टीकाः
मूलम्

तस्य तद् वचनं श्रुत्वा राज्ञो दीनस्य नारदः ॥ ७ ॥
प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ स्वयम् ।


न स्मराम्यनृतं ह्युक्तं न च हिंसांस्मराम्यहम् ।
सर्वेषां प्राणिनां पापं न स्मरामि कदाचन ॥

अनुवाद (हिन्दी)

ब्राह्मणके दुःखसे दुःखी हुए उन महाराजका यह वचन सुनकर अन्य सब ऋषियोंके समीप स्वयं नारदजीने यह शुभ बात कही— ॥ ७ १/२ ॥

अनुवाद (कन्नड)

नानु ऎन्दू सुळ्ळाडिदुदु नॆनपिल्ल. यार हिंसॆयागली अथवा समस्त प्राणिगळल्लि यावुदक्कू कष्ट कॊडलिल्ल.॥7॥

विश्वास-प्रस्तुतिः

शृणु राजन् यथाकाले प्राप्तो बालस्य सङ्क्षयः ॥ ८ ॥
श्रुत्वा कर्तव्यतां राजन् कुरुष्व रघुनन्दन ।

सर्वाष् टीकाः
मूलम्

शृणु राजन् यथाकाले प्राप्तो बालस्य सङ्क्षयः ॥ ८ ॥
श्रुत्वा कर्तव्यतां राजन् कुरुष्व रघुनन्दन ।


केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥

अनुवाद (हिन्दी)

‘राजन्! जिस कारणसे इस बालककी अकाल-मृत्यु हुई है, वह बताता हूँ, सुनिये । रघुकुलनन्दन नरेश! मेरी बात सुनकर जो उचित कर्तव्य हो उसका पालन कीजिये ॥ ८ १/२ ॥

अनुवाद (कन्नड)

हागिरुवाग इन्दु याव पापदिन्दागि ई मगनु पितृकर्म माडदॆ, ई बाल्यावस्थॆयल्ले यमनालयक्कॆ हॊरटुहोदॆ.॥8॥

विश्वास-प्रस्तुतिः

पुरा कृतयुगे राजन् ब्राह्मणा वै तपस्विनः ॥ ९ ॥
अब्राह्मणस्तदा राजन् न तपस्वी कथञ्चन ।

सर्वाष् टीकाः
मूलम्

पुरा कृतयुगे राजन् ब्राह्मणा वै तपस्विनः ॥ ९ ॥
अब्राह्मणस्तदा राजन् न तपस्वी कथञ्चन ।


नेदृशं दृष्टपूर्वं मे श्रुतं वाघोरदर्शनम् ।
मृत्युरप्राप्त कालानां रामस्य विषये ह्ययम् ॥

अनुवाद (हिन्दी)

‘राजन्! पहले सत्ययुगमें केवल ब्राह्मण ही तपस्वी हुआ करते थे । महाराज! उस समय ब्राह्मणेतर मनुष्य किसी तरह तपस्यामें प्रवृत्त नहीं होता था ॥ ९ १/२ ॥

अनुवाद (कन्नड)

श्रीरामचन्द्रन राज्यदल्लादरो अकालमृत्युविनन्तह भयङ्कर घटनॆ मॊदलु ऎन्दू नोडिल्ल, केळिल्ल.॥9॥

विश्वास-प्रस्तुतिः

तस्मिन् युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ॥ १० ॥
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।

सर्वाष् टीकाः
मूलम्

तस्मिन् युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ॥ १० ॥
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।


रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।
यथा हि विषयस्थानां बालानाम्मृत्युरागतः ॥

अनुवाद (हिन्दी)

‘वह युग तपस्याके तेजसे प्रकाशित होता था । उसमें ब्राह्मणोंकी ही प्रधानता थी । उस समय अज्ञानका वातावरण नहीं था । इसलिये उस युगके सभी मनुष्य अकाल-मृत्युसे रहित तथा त्रिकालदर्शी होते थे ॥ १० १/२ ॥

अनुवाद (कन्नड)

निःसन्देहवागि रामनदे यावुदो महादुष्कर्मवागिदॆ. अदरिन्द अवन राज्यदल्लि वासिसुव बालकर मृत्युवागतॊडगिदॆ.॥10॥

विश्वास-प्रस्तुतिः

ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ॥ ११ ॥
क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः ।

सर्वाष् टीकाः
मूलम्

ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ॥ ११ ॥
क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः ।


न ह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।
स राजन् जीवयस्वैनं बालं मृत्युवशं गतम् ॥

अनुवाद (हिन्दी)

‘सत्ययुगके बाद त्रेतायुग आया । इसमें सुदृढ़ शरीरवाले क्षत्रियोंकी प्रधानता हुई और वे क्षत्रिय भी उसी प्रकारकी तपस्या करने लगे ॥ ११ १/२ ॥

विश्वास-प्रस्तुतिः

वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ॥ १२ ॥
मानवा ये महात्मानस्तत्र त्रेतायुगे युगे ।

सर्वाष् टीकाः
मूलम्

वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ॥ १२ ॥
मानवा ये महात्मानस्तत्र त्रेतायुगे युगे ।


राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।
ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥

अनुवाद (हिन्दी)

‘परंतु त्रेतायुगमें जो महात्मा पुरुष हैं, उनकी अपेक्षा सत्ययुगके लोग तप और पराक्रमकी दृष्टिसे बढ़े-चढ़े थे ॥ १२ १/२ ॥

अनुवाद (कन्नड)

बेरॆ राज्यदल्लिरुव बालकरिगॆ मृत्युभयविल्ल. आद्दरिन्द राजने! मृत्यु वशनाद ई बालकनन्नु जीवन्तगॊळिसु. इल्लदिद्दरॆ नानु नन्न पत्नियॊन्दिगॆ ई राजद्वारदल्लि अनाथनन्तॆ प्राणत्याग माडुवॆनु. श्रीरामा! मत्तॆ ब्रह्महत्यॆय पाप पडॆदु नीनु सुखियागु.॥11-12॥

विश्वास-प्रस्तुतिः

ब्रह्म क्षत्रं च तत् सर्वं यत् पूर्वमवरं च यत् ॥ १३ ॥
युगयोरुभयोरासीत् समवीर्यसमन्वितम् ।

सर्वाष् टीकाः
मूलम्

ब्रह्म क्षत्रं च तत् सर्वं यत् पूर्वमवरं च यत् ॥ १३ ॥
युगयोरुभयोरासीत् समवीर्यसमन्वितम् ।


भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।
उषिताः स्म सुखं राज्येतवास्मिन् सुमहाबल ॥

अनुवाद (हिन्दी)

‘इस प्रकार दोनों युगोंमेंसे पूर्व युगमें जहाँ ब्राह्मण उत्कृष्ट और क्षत्रिय अपकृष्ट थे, वहाँ त्रेतायुगमें वे समान शक्तिशाली हो गये ॥ १३ १/२ ॥

अनुवाद (कन्नड)

महाबली राजने! नावु निम्म राज्यदल्लि सुखवागि इद्दॆवु. अदक्कागि नीनु निन्न तम्मन्दिरॊन्दिगॆ दीर्घजीवियागि बाळु.॥13॥

विश्वास-प्रस्तुतिः

अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः ॥ १४ ॥
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।

सर्वाष् टीकाः
मूलम्

अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः ॥ १४ ॥
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।


इदं तु पतितं तस्मात् तव रामवशे स्थिताः ।
कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ॥

अनुवाद (हिन्दी)

‘तब मनु आदि सभी धर्मप्रवर्तकोंने ब्राह्मण और क्षत्रियमें एककी अपेक्षा दूसरेमें कोई विशेषता या न्यूनाधिकता न देखकर सर्वलोकसम्मत चातुर्वर्ण्य-व्यवस्थाकी स्थापना की ॥ १४ १/२ ॥

अनुवाद (कन्नड)

श्रीरामा! निन्न अधीनदल्लिरुव नम्म मेलॆ ई बालमृत्युरूपी दुःख बन्दॆरगिदॆ. इदरिन्द नावु कालवशरागिद्देवॆ. आद्दरिन्द निन्न राज्यदल्लि नमगॆ कॊञ्चवू सुख सिगलिल्ल.॥14॥

विश्वास-प्रस्तुतिः

तस्मिन् युगे प्रज्वलिते धर्मभूते ह्यनावृते ॥ १५ ॥
अधर्मः पादमेकं तु पातयत् पृथिवीतले ।
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

तस्मिन् युगे प्रज्वलिते धर्मभूते ह्यनावृते ॥ १५ ॥
अधर्मः पादमेकं तु पातयत् पृथिवीतले ।
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ १६ ॥


सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।
रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।
असद्वत्ते हि नृपतावकाले म्रियते जनः ॥

अनुवाद (हिन्दी)

‘त्रेतायुग वर्णाश्रम-धर्म-प्रधान है । वह धर्मके प्रकाशसे प्रकाशित होता है । वह धर्ममें बाधा डालनेवाले पापसे रहित है । इस युगमें अधर्मने भूतलपर अपना एक पैर रखा है । अधर्मसे युक्त होनेके कारण यहाँ लोगोंका तेज धीरे-धीरे घटता जायगा ॥ १५-१६ ॥

अनुवाद (कन्नड)

राजन दोषदिन्द प्रजॆय विधिवत्तागि पालनॆ आगदिद्दाग प्रजावर्गवु इन्तह विपत्तुगळन्नु ऎदुरिसबेकागुत्तदॆ. राजनु दुराचारियादागले प्रजॆय अकाल मृत्यु आगुत्तदॆ.॥16॥

अनुवाद (कन्नड)

महात्मा इक्ष्वाकु राजर ई राज्यवु ईग अनाथवागिदॆ. श्रीरामनन्नु ऒडॆयनागि पडॆदु इल्लि बालकर मृत्यु यावागलू आगुत्तिदॆ.॥15॥

विश्वास-प्रस्तुतिः

आमिषं यच्च पूर्वेषां
राजसं च मलं भृशम् ।
अनृतं नाम तद् भूतं
पादेन पृथिवीतले ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।
अनृतं नाम तद् भूतं पादेन पृथिवीतले ॥ १७ ॥


यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।
कुर्वते न च रक्षास्ति तदाकालकृतं भयम् ॥

अनुवाद (हिन्दी)

‘सत्ययुगमें जीविकाका साधनभूत कृषि आदि रजोगुणमूलक कर्म ‘अनृत’ कहलाता था और मलके समान अत्यन्त त्याज्य था । वह अनृत ही अधर्मका एक पाद होकर त्रेतामें इस भूतलपर स्थित हुआ ॥ १७ ॥

अनुवाद (कन्नड)

नगरगळल्लि, देशदल्लि इरुव जनरु अनुचित कर्म-पापाचार माडिदाग अल्लि रक्षणॆय व्यवस्थॆ इल्लदिद्दाग, अनुचित कर्मदिन्द तडॆयुव यावुदे उपायविल्लदिद्दाग, देशद प्रजॆयल्लि अकाल मृत्युविन भय प्राप्तवागुत्तदॆ.॥17॥

विश्वास-प्रस्तुतिः

अनृतं पातयित्वा तु पादमेकमधर्मतः ।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

अनृतं पातयित्वा तु पादमेकमधर्मतः ।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ १८ ॥


सुव्यक्तं राजदोषो हि भविष्यति नसंशयः ।
पुरे जनपदे वापि तथा बालवधो ह्ययम् ॥

अनुवाद (हिन्दी)

‘इस प्रकार अनृत (असत्य) रूपी एक पैरको भूतलपर रखकर अधर्मने त्रेतामें सत्ययुगकी अपेक्षा आयुको सीमित कर दिया ॥ १८ ॥

अनुवाद (कन्नड)

आद्दरिन्द नगर अथवा राज्यदल्लि ऎल्लादरू राजनिन्दले यावुदो अपराध नडॆदिरबहुदु; इदु स्पष्टवागिदॆ. आगले ई रीति बालकन मृत्युवागिदॆ इदरल्लि संशयवे इल्ल.॥18॥

विश्वास-प्रस्तुतिः

पातिते त्वनृते तस्मिन्न्
अधर्मेण महीतले ।
शुभान्येवाचरल्ँ लोकः
सत्यधर्मपरायणः ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

पातिते त्वनृते तस्मिन्नधर्मेण महीतले ।
शुभान्येवाचरल्ँ लोकः सत्यधर्मपरायणः ॥ १९ ॥


एवं बहुविधैर्वाक्यैरुपरुध्य महुर्मुहुः ।
राजानन्दुःखसन्तप्तः सुतं तमुपगूहती ॥

अनुवाद (हिन्दी)

‘अतः पृथ्वीपर अधर्मके इस अनृतरूपी चरणके पड़नेपर सत्यधर्मपरायण पुरुष उस अनृतके कुपरिणामसे बचनेके लिये शुभकर्मोंका ही आचरण करते हैं ॥ १९ ॥

अनुवाद (कन्नड)

हीगॆ अनेक रीतियिन्द अवनु पदे-पदे राजन ऎदुरिगॆ तन्न दुःखवन्नु निवेदिसिकॊण्डनु मत्तु शोक सन्तप्तनागि सत्तिरुव मगनन्नु ऎत्ति-ऎत्ति अप्पिकॊळ्ळुत्तिद्दनु.॥19॥

विश्वास-प्रस्तुतिः

त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।
तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ २० ॥

सर्वाष् टीकाः
मूलम्

त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।
तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ २० ॥

अनुवाद (हिन्दी)

‘तथापि त्रेतायुगमें जो ब्राह्मण और क्षत्रिय हैं, वे ही सब तपस्या करते हैं । अन्य वर्णके लोग सेवा-कार्य किया करते हैं ॥ २० ॥

विश्वास-प्रस्तुतिः

स्वधर्मः परमस्तेषां
वैश्यशूद्रं तदागमत् ।
पूजां च सर्ववर्णानां
शूद्राश् चक्रुर्विशेषतः ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

स्वधर्मः परमस्तेषां वैश्यशूद्रं तदागमत् ।
पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ २१ ॥

अनुवाद (हिन्दी)

‘उन चारों वर्णोंमेंसे वैश्य और शूद्रको सेवारूपी उत्कृष्ट धर्म स्वधर्मके रूपमें प्राप्त हुआ (वैश्य कृषि आदिके द्वारा ब्राह्मण आदिकी सेवा करने लगे और) शूद्र सब वर्णोंकी (तीनों वर्णोंके लोगोंकी) विशेषरूपसे पूजा—आदर-सत्कार करने लगे ॥ २१ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे तेषाम्
अधर्मे चानृते च ह ।
ततः पूर्वे पुनर्ह्रासम्
अगमन् नृपसत्तम ॥ २२ ॥

सर्वाष् टीकाः
मूलम्

एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।
ततः पूर्वे पुनर्ह्रासमगमन्नृपसत्तम ॥ २२ ॥

अनुवाद (हिन्दी)

‘नृपश्रेष्ठ! इसी बीचमें जब त्रेतायुगका अवसान होता है और वैश्यों तथा शूद्रोंको अधर्मके एक-पादरूप अनृतकी प्राप्ति होने लगती है, तब पूर्व वर्णवाले ब्राह्मण और क्षत्रिय फिर ह्रासको प्राप्त होने लगते हैं (क्योंकि उन दोनोंको अन्तिम दो वर्णोंका संसर्गजनित दोष प्राप्त हो जाता है) ॥ २२ ॥

विश्वास-प्रस्तुतिः

ततः पादमधर्मस्य द्वितीयमवतारयत् ।
ततो द्वापरसङ्ख्या सा युगस्य समजायत ॥ २३ ॥

सर्वाष् टीकाः
मूलम्

ततः पादमधर्मस्य द्वितीयमवतारयत् ।
ततो द्वापरसङ्ख्या सा युगस्य समजायत ॥ २३ ॥

अनुवाद (हिन्दी)

‘तदनन्तर अधर्म अपने दूसरे चरणको पृथ्वीपर उतारता है । द्वितीय पैर उतारनेके कारण ही उस युगकी ‘द्वापर’ संज्ञा हो गयी है ॥ २३ ॥

विश्वास-प्रस्तुतिः

तस्मिन् द्वापरसङ्ख्ये तु
वर्तमाने युगक्षये ।
अधर्मश्चानृतं चैव
ववृधे पुरुषर्षभ ॥ २४ ॥

सर्वाष् टीकाः
मूलम्

तस्मिन् द्वापरसङ्ख्ये तु वर्तमाने युगक्षये ।
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ २४ ॥

अनुवाद (हिन्दी)

‘पुरुषोत्तम! उस द्वापर नामक युगमें जो अधर्मके दो चरणोंका आश्रय है—अधर्म और अनृत दोनोंकी वृद्धि होने लगती है ॥ २४ ॥

विश्वास-प्रस्तुतिः

अस्मिन् द्वापरसङ्ख्याने
तपो वैश्यान् समाविशत् ।
त्रिभ्यो युगेभ्यस् त्रीन् वर्णान्
क्रमाद् वै तप आविशत् ॥ २५ ॥

सर्वाष् टीकाः
मूलम्

अस्मिन् द्वापरसङ्ख्याने तपो वैश्यान् समाविशत् ।
त्रिभ्यो युगेभ्यस्त्रीन् वर्णान् क्रमाद् वै तप आविशत् ॥ २५ ॥

अनुवाद (हिन्दी)

‘इस द्वापरयुगमें तपस्यारूप कर्म वैश्योंको भी प्राप्त होता है । इस तरह तीन युगोंमें क्रमशः तीन वर्णोंको तपस्याका अधिकार प्राप्त होता है ॥ २५ ॥

विश्वास-प्रस्तुतिः

त्रिभ्यो युगेभ्यस्त्रीन् वर्णान् धर्मश्च परिनिष्ठितः ।
न शूद्रो लभते धर्मं युगतस्तु नरर्षभ ॥ २६ ॥

सर्वाष् टीकाः
मूलम्

त्रिभ्यो युगेभ्यस्त्रीन् वर्णान् धर्मश्च परिनिष्ठितः ।
न शूद्रो लभते धर्मं युगतस्तु नरर्षभ ॥ २६ ॥

अनुवाद (हिन्दी)

‘तीन युगोंमें तीन वर्णोंका ही आश्रय लेकर तपस्यारूपी धर्म प्रतिष्ठित होता है; किंतु नरश्रेष्ठ! शूद्रको इन तीनों ही युगोंमें तपरूपी धर्मका अधिकार नहीं प्राप्त होता है ॥ २६ ॥

विश्वास-प्रस्तुतिः

हीनवर्णो नृपश्रेष्ठ
तप्यते सुमहत्तपः ।
भविष्यच्-छूद्र-योन्यां हि
तपश् चर्या कलौ युगे ॥ २७ ॥

सर्वाष् टीकाः
मूलम्

हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ।
भविष्यच्छूद्रयोन्यां हि तपश्चर्या कलौ युगे ॥ २७ ॥

अनुवाद (हिन्दी)

‘नृपशिरोमणे! एक समय ऐसा आयगा, जब हीन वर्णका मनुष्य भी बड़ी भारी तपस्या करेगा । कलियुग आनेपर भविष्यमें होनेवाली शूद्रयोनिमें उत्पन्न मनुष्योंके समुदायमें तपश्चर्याकी प्रवृत्ति होगी ॥ २७ ॥

विश्वास-प्रस्तुतिः

अधर्मः परमो राजन् द्वापरे शूद्रजन्मनः ।
स वै विषयपर्यन्ते तव राजन् महातपाः ॥ २८ ॥
अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।

सर्वाष् टीकाः
मूलम्

अधर्मः परमो राजन् द्वापरे शूद्रजन्मनः ।
स वै विषयपर्यन्ते तव राजन् महातपाः ॥ २८ ॥
अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।

अनुवाद (हिन्दी)

‘राजन्! द्वापरमें भी शूद्रका तपमें प्रवृत्त होना महान् अधर्म माना गया है । (फिर त्रेताके लिये तो कहना ही क्या है?) महाराज! निश्चय ही आपके राज्यकी किसी सीमापर कोई खोटी बुद्धिवाला शूद्र महान् तपका आश्रय ले तपस्या कर रहा है, उसीके कारण इस बालककी मृत्यु हुई है ॥ २८ १/२ ॥

विश्वास-प्रस्तुतिः

यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ॥ २९ ॥
करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।
क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ३० ॥

सर्वाष् टीकाः
मूलम्

यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ॥ २९ ॥
करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।
क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ३० ॥

अनुवाद (हिन्दी)

‘जो कोई भी दुर्बुद्धि मानव जिस किसी भी राजाके राज्य अथवा नगरमें अधर्म या न करने योग्य काम करता है, उसका वह कार्य उस राज्यके अनैश्वर्य (दरिद्रता)-का कारण बन जाता है और वह राजा शीघ्र ही नरकमें पड़ता है, इसमें संशय नहीं ॥ २९-३० ॥

विश्वास-प्रस्तुतिः

अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ ३१ ॥

सर्वाष् टीकाः
मूलम्

अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ ३१ ॥

अनुवाद (हिन्दी)

‘इसी प्रकार जो राजा धर्मपूर्वक प्रजाका पालन करता है, वह प्रजाके वेदाध्ययन, तप और शुभ कर्मोंके पुण्यका छठा भाग प्राप्त कर लेता है ॥ ३१ ॥

विश्वास-प्रस्तुतिः

षड्भागस्य च भोक्तासौ रक्षते न प्रजाः कथम् ।
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ॥ ३२ ॥
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।

सर्वाष् टीकाः
मूलम्

षड्भागस्य च भोक्तासौ रक्षते न प्रजाः कथम् ।
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ॥ ३२ ॥
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।

अनुवाद (हिन्दी)

‘पुरुषसिंह! जो प्रजाके शुभ कर्मोंके छठे भागका उपभोक्ता है, वह प्रजाकी रक्षा कैसे नहीं करेगा? अतः आप अपने राज्यमें खोज कीजिये और जहाँ कोई दुष्कर्म दिखायी दे, वहाँ उसके रोकनेका प्रयत्न कीजिये ॥ ३२ १/२ ॥

विश्वास-प्रस्तुतिः

एवं चेद् धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ३३ ॥

सर्वाष् टीकाः
मूलम्

एवं चेद् धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ३३ ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ! ऐसा करनेसे धर्मकी वृद्धि होगी और मनुष्योंकी आयु बढ़ेगी । साथ ही इस बालकको भी नया जीवन प्राप्त होगा’ ॥ ३३ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें चौहत्तरवाँ सर्ग पूरा हुआ ॥ ७४ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तमूरनॆय सर्ग पूर्णवायितु. ॥73॥