०७३ द्विज-विषादः

[त्रिसप्ततितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. एक ब्राह्मणका अपने मरे हुए बालकको राजद्वारपर लाना तथा राजाको ही दोषी बताकर विलाप करना
विश्वास-प्रस्तुतिः

प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ १ ॥

सर्वाष् टीकाः
मूलम्

प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ १ ॥


तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।
चिन्तयानमनेकार्थं रामगीतमनुत्तमम् ॥

अनुवाद (हिन्दी)

शत्रुघ्नको मथुरा भेजकर भगवान् श्रीराम भरत और लक्ष्मण दोनों भाइयोंके साथ धर्मपूर्वक राज्यका पालन करते हुए बड़े सुख और आनन्दसे रहने लगे ॥ १ ॥

अनुवाद (कन्नड)

पुरुषसिंह शत्रुघ्ननु मलगिद्दरू आ उत्तम श्रीरामचन्द्रन कुरितु अनेक रीतिय मातुगळन्नु योचिसुत्तिद्दनु. इदरिन्द अवनिगॆ बहळ हॊत्तु निद्दॆबन्दिल्ल.॥1॥

विश्वास-प्रस्तुतिः

ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।
मृतं बालमुपादाय राजद्वारमुपागमत् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

ततः कतिपयाहःसु वृद्धो जानपदो द्विजः ।
मृतं बालमुपादाय राजद्वारमुपागमत् ॥ २ ॥


तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥

अनुवाद (हिन्दी)

तदनन्तर कुछ दिनोंके बाद उस जनपदके भीतर रहनेवाला एक बूढ़ा ब्राह्मण अपने मरे हुए बालकका शव लेकर राजद्वारपर आया ॥ २ ॥

अनुवाद (कन्नड)

वीणॆय लयदॊन्दिगॆ रामचरित गायनद सुमधुर शब्द केळि महात्मा शत्रुघ्नन उळिद रात्रियू बेगने कळॆदुहोयितु.॥2॥

विश्वास-प्रस्तुतिः

रुदन् बहुविधा वाचः स्नेहदुःखसमन्वितः ।
असकृत् पुत्रपुत्रेति वाक्यमेतदुवाच ह ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

रुदन् बहुविधा वाचः स्नेहदुःखसमन्वितः ।
असकृत् पुत्रपुत्रेति वाक्यमेतदुवाच ह ॥ ३ ॥


तस्यां रजन्यां व्यष्टायां कृत्वा पौर्वाह्णिकं क्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥

अनुवाद (हिन्दी)

वह स्नेह और दुःखसे आकुल हो नाना प्रकारकी बातें कहता हुआ रो रहा था और बार-बार ‘बेटा! बेटा!’ की पुकार मचाता हुआ इस प्रकार विलाप करता था— ॥ ३ ॥

अनुवाद (कन्नड)

रात्रॆ कळॆदु प्रातःकाल पूर्वाह्णद नित्यकर्म मुगिसि शत्रुघ्ननु कैमुगिदु मुनिवर वाल्मीकिगळल्लि हेळिदनु.॥3॥

विश्वास-प्रस्तुतिः

किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
यदहं पुत्रमेकं तु पश्यामि निधनं गतम् ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
यदहं पुत्रमेकं तु पश्यामि निधनं गतम् ॥ ४ ॥


भगवन् द्रष्टुमिच्छामि राघवंरघुनन्दनम् ।
त्वयानुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥

अनुवाद (हिन्दी)

‘हाय! मैंने पूर्वजन्ममें कौन-सा ऐसा पाप किया था, जिसके कारण आज इन आँखोंसे मैं अपने इकलौते बेटेकी मृत्यु देख रहा हूँ ॥ ४ ॥

अनुवाद (कन्नड)

पूज्यरे! ईग नानु रघुकुलनन्द श्रीरामनन्नु दर्शिसलु बयसुत्तिद्देनॆ. आद्दरिन्द नीवु आज्ञॆ कॊट्टरॆ कठोर व्रतवन्नु पालिसुव ई सङ्गडिगरॊन्दिगॆ अयोध्यॆगॆ होगलु इच्छिसुत्तेनॆ.॥4॥

विश्वास-प्रस्तुतिः

अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।
अकाले कालमापन्नं मम दुःखाय पुत्रक ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।
अकाले कालमापन्नं मम दुःखाय पुत्रक ॥ ५ ॥


इत्येवं वादिनं तं तु शत्रुघ्नंशत्रुसूदनम् ।
वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ॥

अनुवाद (हिन्दी)

‘बेटा! अभी तो तू बालक था । जवान भी नहीं होने पाया था । केवल पाँच हजार दिन* (तेरह वर्ष दस महीने बीस दिन)-की तेरी अवस्था थी । तो भी तू मुझे दुःख देनेके लिये असमयमें ही कालके गालमें चला गया ॥ ५ ॥

\* मूलमें जो ‘पञ्चवर्षसहस्रकम्’ पद आया है, इसमें वर्ष शब्दका अर्थ दिन समझना चाहिये । जैसे ‘सहस्रसंवत्सरं सत्रमुपासीत्’ इत्यादि विधि-वाक्योंमें ‘संवत्सर’ शब्द दिवसका वाचक माना गया है ।

अनुवाद (कन्नड)

हीगॆ हेळुत्ता रघुकुलभूषण शत्रुसूदन शत्रुघ्ननन्नु वाल्मीकिगळु बिगिदप्पिकॊण्डु होगलु अप्पणॆ नीडिदरु.॥5॥

विश्वास-प्रस्तुतिः

अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।
अहं च जननी चैव तव शोकेन पुत्रक ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।
अहं च जननी चैव तव शोकेन पुत्रक ॥ ६ ॥


सोऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥

अनुवाद (हिन्दी)

‘वत्स! तेरे शोकसे मैं और तेरी माता—दोनों थोड़े ही दिनोंमें मर जायेंगे, इसमें संशय नहीं है ॥ ६ ॥

अनुवाद (कन्नड)

श्रीरामन दर्शनक्कॆ उत्कण्ठितनाद शत्रुघ्ननु मुनिश्रेष्ठ वाल्मीकिगळिगॆ वन्दिसि, ऒन्दु सुन्दर दीप्तियुळ्ळ रथवन्नेरि कूडले अयोध्यॆय कडॆगॆ हॊरटनु.॥6॥

विश्वास-प्रस्तुतिः

न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।
सर्वेषां प्राणिनां पापं न स्मरामि कदाचन ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् ।
सर्वेषां प्राणिनां पापं न स्मरामि कदाचन ॥ ७ ॥


स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥

अनुवाद (हिन्दी)

‘मुझे याद नहीं पड़ता कि कभी मैंने झूठ बात मुँहसे निकाली हो । किसीकी हिंसा की हो अथवा समस्त प्राणियोंमेंसे किसीको भी कभी कष्ट पहुँचाया हो ॥ ७ ॥

अनुवाद (कन्नड)

इक्ष्वाकुकुलनन्दन महाबाहु श्रीमान् शत्रुघ्ननु अयोध्यॆयन्नु प्रवेशिसि, नेरवागि महातेजस्वी श्रीरामनु विराजिसुत्तिद्द अरमनॆगॆ होदनु.॥7॥

विश्वास-प्रस्तुतिः

केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ ८ ॥


स रामं मन्त्रि मध्यस्थं पूर्णचन्द्र निभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥

अनुवाद (हिन्दी)

‘फिर आज किस पापसे मेरा यह बेटा पितृकर्म किये बिना इस बाल्यावस्थामें ही यमराजके घर चला गया ॥ ८ ॥

विश्वास-प्रस्तुतिः

नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।
मृत्युरप्राप्तकालानां रामस्य विषये ह्ययम् ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।
मृत्युरप्राप्तकालानां रामस्य विषये ह्ययम् ॥ ९ ॥


सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम् ॥

अनुवाद (हिन्दी)

‘श्रीरामचन्द्रजीके राज्यमें तो अकाल-मृत्युकी ऐसी भयंकर घटना न पहले कभी देखी गयी थी और न सुननेमें ही आयी थी ॥ ९ ॥

अनुवाद (कन्नड)

सहस्रनेत्रधारी इन्द्रनु देवतॆगळ नडुवॆ कुळितिरुवन्तॆ पूर्णचन्द्रनन्तॆ मनोहर मुखवुळ्ळ श्रीरामनु मन्त्रिगळ मध्यदल्लि विराजिसुत्तिद्दनु. तन्न तेजदिन्द प्रज्वलितनाद सत्य पराक्रमि महात्मा श्रीरामनन्नु नोडि शत्रुघ्ननु कैमुगिदु इन्तॆन्दनु.॥8-9॥

विश्वास-प्रस्तुतिः

रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।
यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ १० ॥

सर्वाष् टीकाः
मूलम्

रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।
यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ १० ॥


यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।
हतः सलवणः पापः पुरी चास्य निवेशिता ॥

अनुवाद (हिन्दी)

‘निस्संदेह श्रीरामका ही कोई महान् दुष्कर्म है, जिससे इनके राज्यमें रहनेवाले बालकोंकी मृत्यु होने लगी ॥ १० ॥

अनुवाद (कन्नड)

महाराजा! नीवु ननगॆ आज्ञापिसिद ऎल्ल कार्यवन्नु पूरैसि नानु बन्दिद्देनॆ. पापी लवणनु हतनागि अवन पुरियू नॆलॆगॊण्डितु.॥10॥

विश्वास-प्रस्तुतिः

नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।
स राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ ११ ॥
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।
ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।
स राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ ११ ॥
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।
ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ १२ ॥


द्वादशैतानि वर्षाणि त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥

अनुवाद (हिन्दी)

‘दूसरे राज्यमें रहनेवाले बालकोंको मृत्युसे भय नहीं है; अतः राजन्! मृत्युके वशमें पड़े हुए इस बालकको जीवित कर दो, नहीं तो मैं अपनी स्त्रीके साथ इस राजद्वारपर अनाथकी भाँति प्राण दे दूँगा । श्रीराम! फिर ब्रह्महत्याका पाप लेकर तुम सुखी होना ॥ ११-१२ ॥

अनुवाद (कन्नड)

अमित पराक्रमी काकुत्स्थने! पुट्टमगु तन्न तायियन्नु अगलि इरुवुदिल्लवो हागॆये नानु चिरकाल निम्मिन्द दूर इरलारॆ. अदक्कागि नीवु नन्न मेलॆ कृपॆदोरिरि.॥12॥

अनुवाद (कन्नड)

रघुनन्दन! निम्म दर्शनविल्लदॆ ई हन्नॆरडु वर्षगळु हेगो कळॆदु होदुवु; आदरॆ नरेश्वर! इन्नु हॆच्चु दिन निम्मिन्द दूर उळियुव साहस नन्नल्लि इल्ल.॥11॥

विश्वास-प्रस्तुतिः

भ्रातृभिः सहितो राजन् दीर्घमायुरवाप्स्यसि ।
उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

भ्रातृभिः सहितो राजन् दीर्घमायुरवाप्स्यसि ।
उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल ॥ १३ ॥


एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत् क्षत्रियचेष्टितम् ॥

अनुवाद (हिन्दी)

‘महाबली नरेश! हम तुम्हारे राज्यमें बड़े सुखसे रहे हैं, इसलिये तुम अपने भाइयोंके साथ दीर्घजीवी होओगे ॥ १३ ॥

अनुवाद (कन्नड)

हीगॆ हेळुत्तिरुव शत्रुघ्ननन्नु बिगिदप्पिकॊण्डु श्रीरामनु हेळिदनु - शूरवीरने! विषादपडबेड. ई रीति कातरनागुवुदु क्षत्रियरिगॆ उचितवल्ल.॥13॥

विश्वास-प्रस्तुतिः

इदं तु पतितं तस्मात् तव राम वशे स्थितान् ।
कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

इदं तु पतितं तस्मात् तव राम वशे स्थितान् ।
कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ॥ १४ ॥


नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा च परिपाल्या हि क्षात्रधर्मेण राघव ॥

अनुवाद (हिन्दी)

‘श्रीराम! तुम्हारे अधीन रहनेवाले हमलोगोंपर यह बालक-मरणरूपी दुःख सहसा आ पड़ा है, जिससे हम स्वयं भी कालके अधीन हो गये हैं; अतः तुम्हारे इस राज्यमें हमें थोड़ा-सा भी सुख नहीं मिला ॥ १४ ॥

अनुवाद (कन्नड)

रघुकुलभूषण! राजरु परदेशदल्लिद्दरू दुःखितरागुवुदिल्ल. रघुवीरने! राजनु क्षत्रिय धर्मक्कनुसार प्रजॆयन्नु चॆन्नागि पालिसबेकु.॥14॥

विश्वास-प्रस्तुतिः

सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।
रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।
रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ १५ ॥


काले काले तु मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥

अनुवाद (हिन्दी)

‘महात्मा इक्ष्वाकुवंशी नरेशोंका यह राज्य अब अनाथ हो गया है । श्रीरामको स्वामीके रूपमें पाकर यहाँ बालकोंकी मृत्यु अटल है ॥ १५ ॥

अनुवाद (कन्नड)

नरश्रेष्ठवीरने! आगाग नन्नन्नु नोडलु अयोध्यॆगॆ बरुत्ता इरु हागू मत्तॆ तन्न पुरिगॆ मरळि होगुत्ता इरु.॥15॥

विश्वास-प्रस्तुतिः

राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।
असद‍्वृत्ते हि नृपतावकाले म्रियते जनः ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।
असद‍्वृत्ते हि नृपतावकाले म्रियते जनः ॥ १६ ॥


ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम् ॥

अनुवाद (हिन्दी)

‘राजाके दोषसे जब प्रजाका विधिवत् पालन नहीं होता, तभी प्रजावर्गको ऐसी विपत्तियोंका सामना करना पड़ता है । राजाके दुराचारी होनेपर ही प्रजाकी अकाल-मृत्यु होती है ॥ १६ ॥

अनुवाद (कन्नड)

नीनु ननगॆ प्राणक्किन्त हॆच्चु प्रियनागिरुवॆ इदरल्लि संशयवे इल्ल. आदरॆ राज्यद पालनॆ माडुवुदू आवश्यक कर्तव्यवागिदॆ.॥16॥

विश्वास-प्रस्तुतिः

यद् वा पुरेष्वयुक्तानि जना जनपदेषु च ।
कुर्वते न च रक्षास्ति तदा कालकृतं भयम् ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

यद् वा पुरेष्वयुक्तानि जना जनपदेषु च ।
कुर्वते न च रक्षास्ति तदा कालकृतं भयम् ॥ १७ ॥


तस्मात्त्वं वस काकुत्स्थ सप्तरात्रं मया सह ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥

अनुवाद (हिन्दी)

‘अथवा नगरों तथा जनपदोंमें रहनेवाले लोग जब अनुचित कर्म—पापाचार करते हैं और वहाँ रक्षाकी कोई व्यवस्था नहीं होती, उन्हें अनुचित कर्मसे रोकनेके लिये कोई उपाय नहीं किया जाता, तभी देशकी प्रजामें अकाल-मृत्युका भय प्राप्त होता है ॥ १७ ॥

अनुवाद (कन्नड)

आद्दरिन्द काकुत्स्थने ! ईग एळुदिन नीनु नन्नॊन्दिगॆ इरु. अनन्तर सेवकरु, सैन्य, वाहनगळॊन्दिगॆ मधुरापुरिगॆ हॊरटु होगु.॥17॥

विश्वास-प्रस्तुतिः

सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।
पुरे जनपदे चापि तथा बालवधो ह्ययम् ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।
पुरे जनपदे चापि तथा बालवधो ह्ययम् ॥ १८ ॥


रामस्यै तद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥

अनुवाद (हिन्दी)

‘अतः यह स्पष्ट है कि नगर या राज्यमें कहीं राजासे ही कोई अपराध हुआ होगा; तभी इस तरह बालककी मृत्यु हुई है, इसमें कोई संशय नहीं है’ ॥

अनुवाद (कन्नड)

श्रीरामचन्द्रन ई मातु धर्म युक्त इरुवुदरॊन्दिगॆ मनस्सिगनुकूलवागित्तु. अदन्नु केळि शत्रुघ्ननु श्रीरामन वियोगद भयदिन्द दीनवाणियल्लि ‘तम्म आज्ञॆयन्तागलि’ ऎन्दु हेळिदनु.॥18॥

विश्वास-प्रस्तुतिः

एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।
राजानं दुःखसन्तप्तः सुतं तमुपगूहति ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।
राजानं दुःखसन्तप्तः सुतं तमुपगूहति ॥ १९ ॥


सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासोगमनायोपचक्रमे ॥

अनुवाद (हिन्दी)

इस तरह अनेक प्रकारके वाक्योंसे उसने बारम्बार राजाके सामने अपना दुःख निवेदन किया और बारम्बार शोकसे संतप्त होकर वह अपने मरे हुए पुत्रको उठा-उठाकर हृदयसे लगाता रहा ॥ १९ ॥

अनुवाद (कन्नड)

श्रीरघुनाथन आज्ञॆयन्तॆ एळु दिन अयोध्यॆयल्लि इद्दु, महाधनुर्धर काकुत्स्थकुलभूषण शत्रुघ्ननु अल्लिन्द होगलु सिद्धनादनु.॥19॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें तिहत्तरवाँ सर्ग पूरा हुआ ॥ ७३ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तॆरडनॆय सर्ग पूर्णवायितु. ॥72॥