[द्विसप्ततितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- वाल्मीकिजीसे विदा ले शत्रुघ्नजीका अयोध्यामें जाकर श्रीराम आदिसे मिलना और सात दिनोंतक वहाँ रहकर पुनः मधुपुरीको प्रस्थान करना
विश्वास-प्रस्तुतिः
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत् तदा ।
चिन्तयानमनेकार्थं रामगीतमनुत्तमम् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत् तदा ।
चिन्तयानमनेकार्थं रामगीतमनुत्तमम् ॥ १ ॥
ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ।
अयोध्यां चक्रमे गन्तुमल्पभृत्य बलानुगः ॥
अनुवाद (हिन्दी)
सोते समय पुरुषसिंह शत्रुघ्न उस उत्तम श्रीरामचरित्रसम्बन्धी गानके विषयमें अनेक प्रकारकी बातें सोचते रहे । इसलिये रातमें उन्हें बहुत देरतक नींद नहीं आयी ॥ १ ॥
अनुवाद (कन्नड)
बळिक हन्नॆरडनॆय वर्षदल्लि स्वल्प सैनिकरन्नु, सेवकरन्नु करॆदुकॊण्डु शत्रुघ्ननु श्रीरामनिन्द रक्षितवाद अयोध्यॆगॆ होगलु योचिसिदनु.॥1॥
विश्वास-प्रस्तुतिः
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ २ ॥
सर्वाष् टीकाः
मूलम्
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ २ ॥
ततो मन्त्रि पुरोगांश्च बलमुख्यान्निवर्त्य च ।
जगाम हयमुख्येन रथानां च शतेन सः ॥
अनुवाद (हिन्दी)
वीणाके लयके साथ उस रामचरित-गानका सुमधुर शब्द सुनकर महात्मा शत्रुघ्नकी शेष रात बहुत जल्दी बीत गयी ॥ २ ॥
अनुवाद (कन्नड)
मन्त्रिमुख्यरन्नु, सेनानायकरन्नु नगरद रक्षणॆगागि नेमिसि, उत्तम कुदुरॆगळिन्द कूडिद नूरु रथगळन्नु जॊतॆयल्लि करॆदुकॊण्डु अयोध्यॆगॆ हॊरटनु.॥2॥
विश्वास-प्रस्तुतिः
तस्यां रजन्यां व्युष्टायां कृत्वा पौर्वाह्णिकक्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
तस्यां रजन्यां व्युष्टायां कृत्वा पौर्वाह्णिकक्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥ ३ ॥
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।
वाल्मीकाश्रममागत्य वासं चक्रेमहायशाः ॥
अनुवाद (हिन्दी)
जब वह रात बीती और प्रातःकाल आया, तब पूर्वाह्णकालोचित नित्यकर्म करके शत्रुघ्नने हाथ जोड़कर मुनिवर वाल्मीकिसे कहा— ॥ ३ ॥
अनुवाद (कन्नड)
महायशस्वी रघुकुलनन्दन शत्रुघ्ननु प्रयाण माडुत्ता दारियल्लि एळॆण्टु कडॆ बिडार बिट्टु, मुन्दरियुत्ता वाल्मीकिमुनिगळ आश्रमक्कॆ तलुपि, रात्रॆ अल्ले उळिदुकॊण्डनु.॥3॥
विश्वास-प्रस्तुतिः
भगवन् द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।
त्वयानुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
भगवन् द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।
त्वयानुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥ ४ ॥
सोऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।
पाद्यमर्घ्यन्तथातिथ्यं जग्राह मुनिहस्ततः ॥
अनुवाद (हिन्दी)
‘भगवन्! अब मैं रघुकुलनन्दन श्रीरघुनाथजीका दर्शन करना चाहता हूँ । अतः यदि आपकी आज्ञा हो तो कठोर व्रतका पालन करनेवाले इन साथियोंके साथ मेरी अयोध्या जानेकी इच्छा है’ ॥ ४ ॥
अनुवाद (कन्नड)
आ पुरुषश्रेष्ठ रघुवीरनु वाल्मीकिगळ चरणगळिगॆ वन्दिसि, अवरिन्द अर्घ्यपाद्यगळन्नु स्वीकरिसि, आतिथ्य सत्कारवन्नु स्वीकरिसिदनु.॥4॥
विश्वास-प्रस्तुतिः
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुसूदनम् ।
वाल्मीकिः सम्परिष्वज्य विससर्ज स राघवम् ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुसूदनम् ।
वाल्मीकिः सम्परिष्वज्य विससर्ज स राघवम् ॥ ५ ॥
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।
कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥
अनुवाद (हिन्दी)
इस तरहकी बात कहते हुए रघुकुलभूषण शत्रुसूदन शत्रुघ्नको वाल्मीकिजीने हृदयसे लगा लिया और जानेकी आज्ञा दे दी ॥ ५ ॥
अनुवाद (कन्नड)
अल्लि महर्षि वाल्मीकिगळु महात्मा शत्रुघ्ननिगॆ बगॆ-बगॆय साविरारु सुमधुर कथॆगळन्नु हेळिदरु.॥5॥
विश्वास-प्रस्तुतिः
सोऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत् तूर्णं राघवोत्सुकदर्शनः ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
सोऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत् तूर्णं राघवोत्सुकदर्शनः ॥ ६ ॥
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।
सुदुष्करं कृतं कर्मलवणं निघ्न ता त्वया ॥
अनुवाद (हिन्दी)
शत्रुघ्न श्रीरघुनाथजीके दर्शनके लिये उत्कण्ठित थे, इसलिये मुनिश्रेष्ठ वाल्मीकिको प्रणाम करके वे एक सुन्दर दीप्तिमान् रथपर आरूढ़ हो तुरंत अयोध्याकी ओर चल दिये ॥ ६ ॥
अनुवाद (कन्नड)
मत्तॆ अवरु लवणासुरनन्नु कॊन्दु नीनु अन्त्यत दुष्करकार्य माडिदॆ ऎन्दु हेळिदरु.॥6॥
विश्वास-प्रस्तुतिः
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ ७ ॥
बहवः पार्थिवाः सौम्य हताःसबलवाहनाः ।
लवणेन महाबाहो युध्यमाना महाबलाः ॥
अनुवाद (हिन्दी)
इक्ष्वाकुकुलको आनन्दित करनेवाले महाबाहु श्रीमान् शत्रुघ्न रमणीय अयोध्यापुरीमें प्रवेश करके सीधे उस राजमहलमें गये, जहाँ महातेजस्वी श्रीराम विराजमान थे ॥ ७ ॥
अनुवाद (कन्नड)
सौम्य! महाबाहो! लवणासुरनॊन्दिगॆ युद्ध माडि अनेक महाबलि राजरु सैन्य, वाहनगळॊन्दिगॆ हतरागिद्दारॆ.॥7॥
विश्वास-प्रस्तुतिः
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ८ ॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम् ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ८ ॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम् ॥ ९ ॥
स त्वया निहतः पापो लीलयापुरुषर्षभ ।
जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥
रावणस्य वधो घोरो यत्नेन महता कृताः ।
इदं च सुमहत्कर्म त्वया कृतमयत्नतः ॥
अनुवाद (हिन्दी)
जैसे सहस्रनेत्रधारी इन्द्र देवताओंके बीचमें बैठते हैं, उसी प्रकार पूर्णचन्द्रमाके समान मनोहर मुखवाले भगवान् श्रीराम मन्त्रियोंके मध्यभागमें विराजमान थे । शत्रुघ्नने अपने तेजसे प्रज्वलित होनेवाले सत्यपराक्रमी महात्मा श्रीरामको देखा, प्रणाम किया और हाथ जोड़कर कहा— ॥ ८-९ ॥
अनुवाद (कन्नड)
रावणन घोर वधॆ महाप्रयत्नदिन्द माडलागित्तु; आदरॆ ई महाकार्यवन्नु नीनु प्रयत्नविल्लदॆये माडि मुगिसिरुवॆ.॥9॥
अनुवाद (कन्नड)
पुरुषश्रेष्ठने! आ पापि लवणासुरनन्नु नीनु अनायासवागि संहरिसिदॆ. अवनिन्द जगत्तिनल्लि उण्टाद भयवु निन्न तेजदिन्द तॊलगितु.॥8॥
विश्वास-प्रस्तुतिः
यदाज्ञप्तं महाराज सर्वं तत् कृतवानहम् ।
हतः स लवणः पापः पुरी चास्य निवेशिता ॥ १० ॥
सर्वाष् टीकाः
मूलम्
यदाज्ञप्तं महाराज सर्वं तत् कृतवानहम् ।
हतः स लवणः पापः पुरी चास्य निवेशिता ॥ १० ॥
प्रीतिश्चास्मिन् परा जाता देवानां लवणे हते ।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥
अनुवाद (हिन्दी)
‘महाराज! आपने मुझे जिस कामके लिये आज्ञा दी थी, वह सब मैं कर आया हूँ । पापी लवण मारा गया और उसकी पुरी भी बस गयी ॥ १० ॥
अनुवाद (कन्नड)
लवणासुरनु हतनाद्दरिन्द देवतॆगळिगॆ बहळ सन्तोषवागिदॆ. नीनु समस्त प्राणिगळ मत्तु इडी जगत्तिन प्रियकार्य माडिरुवॆ.॥10॥
विश्वास-प्रस्तुतिः
द्वादशैतानि वर्षाणि त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
द्वादशैतानि वर्षाणि त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ११ ॥
तच्छ युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव ॥
अनुवाद (हिन्दी)
‘रघुनन्दन! आपका दर्शन किये बिना ये बारह वर्ष तो किसी प्रकार बीत गये; किंतु नरेश्वर! अब और अधिक कालतक आपसे दूर रहनेका मुझमें साहस नहीं है ॥ ११ ॥
अनुवाद (कन्नड)
नरश्रेष्ठने! नानु इन्द्रन सभॆयल्लि कुळित्तिद्दॆ. आ विमानाकार सभॆयु युद्धवन्नु नोडलु बन्दाग, अल्ले कुरितु नानू कूड निन्न मत्तु लवणर युद्धवन्नु चॆन्नागि नोडिद्दॆ.॥11॥
विश्वास-प्रस्तुतिः
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ १२ ॥
ममापि परमाप्रीतिर्हृदि शत्रुघ्न वर्तते ।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥
अनुवाद (हिन्दी)
‘अमित पराक्रमी काकुत्स्थ! जैसे छोटा बच्चा अपनी माँसे अलग नहीं रह सकता, उसी प्रकार मैं चिरकालतक आपसे दूर नहीं रह सकूँगा । इसलिये आप मुझपर कृपा करें’ ॥ १२ ॥
अनुवाद (कन्नड)
शत्रुघ्नने! नन्न हृदयदल्लियू निन्न कुरितु अपार प्रेमविदॆ. आद्दरिन्द नानु निन्न मस्तकवन्नु आघ्राणिसुवॆनु. इदे स्नेहद पराकाष्ठे आगिदॆ.॥12॥
विश्वास-प्रस्तुतिः
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत् क्षत्रियचेष्टितम् ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत् क्षत्रियचेष्टितम् ॥ १३ ॥
इत्युक्त्वा मूर्ध्नि शत्रुघ्न मुपाघ्राय महामतिः ।
आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥
अनुवाद (हिन्दी)
ऐसी बातें कहते हुए शत्रुघ्नको हृदयसे लगाकर श्रीरामचन्द्रजीने कहा—‘शूरवीर! विषाद न करो । इस तरह कातर होना क्षत्रियोचित चेष्टा नहीं है ॥ १३ ॥
अनुवाद (कन्नड)
हीगॆ हेळि परमबुद्धिवन्त वाल्मीकिगळु शत्रुघ्नन मस्तकवन्नु आघ्राणिसि, अवन हागू अवन सारथिगळन्नु आतिथ्य-सत्कार माडिदरु.॥13॥
विश्वास-प्रस्तुतिः
नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा च परिपाल्या हि क्षात्रधर्मेण राघव ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा च परिपाल्या हि क्षात्रधर्मेण राघव ॥ १४ ॥
स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितन्तस्मिन्काले यथाक्रमम् ॥
अनुवाद (हिन्दी)
‘रघुकुलभूषण! राजालोग परदेशमें रहनेपर भी दुःखी नहीं होते हैं । रघुवीर! राजाको क्षत्रिय-धर्मके अनुसार प्रजाका भलीभाँति पालन करना चाहिये ॥ १४ ॥
अनुवाद (कन्नड)
नरश्रेष्ठ शत्रुघ्ननु भोजन माडि, आग श्रीरामचन्द्रन चरित्रॆय वर्णनॆयन्नु क्रमवागि केळिदनु. आ गीतद मधुरतॆयिन्दागि बहळ प्रिय मत्तु उत्तमवागित्तु.॥14॥
विश्वास-प्रस्तुतिः
काले काले तु मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
काले काले तु मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ १५ ॥
तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।
संस्कृतं लक्षणोपेतं समतालसमन्वितम् ॥
शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ।
अनुवाद (हिन्दी)
‘नरश्रेष्ठ वीर! समय-समयपर मुझसे मिलनेके लिये अयोध्या आया करो और फिर अपनी पुरीको लौट जाया करो ॥ १५ ॥
अनुवाद (कन्नड)
आग केळिद रामचरितवु मॊदले काव्यबद्धवागि रचितवागित्तु. आ काव्यगायनवु वीणॆय लयदॊन्दिगॆ नडॆयुत्तित्तु. हृदय, कण्ठ, मूर्ध्ना ई मूरु स्थानगळल्लि मन्द्र, मध्यम, तार स्वरभेददिन्द हाडल्पट्टितु. संस्कृत भाषॆयल्लि निर्मितवागि व्याकरण, छन्द, काव्य, सङ्गीत शास्त्रद लक्षणगळिन्द कूडिद्दु, ताळ सहित गान माडल्पट्टितु.॥15॥
विश्वास-प्रस्तुतिः
ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ १६ ॥
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ॥
श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ।
अनुवाद (हिन्दी)
‘निःसंदेह तुम मुझे भी प्राणोंसे बढ़कर प्रिय हो । परंतु राज्यका पालन करना भी तो आवश्यक कर्तव्य है ॥ १६ ॥
अनुवाद (कन्नड)
आ काव्यद अक्षरगळॆल्ल हागू वाक्यगळु निजघटनॆयन्नु प्रतिपादिसुत्तित्तु. मॊदलु नडॆद वृत्तान्तद परिचयकॊडुत्तित्तु. आ अद्भुत काव्यगान केळि पुरुषसिंह शत्रुघ्ननु परवशनागि, कङ्गळिन्द कम्बनि हरियतॊडगितु.॥16॥
विश्वास-प्रस्तुतिः
तस्मात् त्वं वस काकुत्स्थ सप्तरात्रं मया सह ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
तस्मात् त्वं वस काकुत्स्थ सप्तरात्रं मया सह ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ १७ ॥
स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्यमुहुर्मुहुः ॥
तस्मिन्गीते यथावृत्तं वर्तमानमिवाशृणोत् ।
अनुवाद (हिन्दी)
‘अतः काकुत्स्थ! अभी सात दिन तो तुम मेरे साथ रहो । उसके बाद सेवक, सेना और सवारियोंके साथ मधुरापुरीको चले जाना’ ॥ १७ ॥
अनुवाद (कन्नड)
अवनु ऎरडु गळिगॆ परवशनागि दीर्घवागि निट्टुसिरुबिडुत्तिद्दनु. आ गायनदल्लि कळॆदु होद घटनॆगळु वर्त मानदल्लि नडॆदन्तॆ अनिसुत्तित्तु.॥17॥
विश्वास-प्रस्तुतिः
रामस्यैतद् वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
रामस्यैतद् वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ १८ ॥
पदानुगाश्च ये राज्ञस्तांश्रुत्वा गीतिसम्पदम् ॥
अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमितिचाब्रुवन् ।
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीकी यह बात धर्मयुक्त होनेके साथ ही मनके अनुकूल थी । इसे सुनकर शत्रुघ्नने श्रीरामवियोगके भयसे दीन वाणीद्वारा कहा—‘जैसी प्रभुकी आज्ञा’ ॥ १८ ॥
अनुवाद (कन्नड)
राजा शत्रुघ्नन सङ्गडिगरू कूड आ गीतसम्पत्तन्नु केळि, नतमस्तरागि, दीनवाणियल्लि इदादरो आश्चर्यद मातागिदॆ ऎन्दु नुडिदरु.॥18॥
विश्वास-प्रस्तुतिः
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ १९ ॥
परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ॥
अनुवाद (हिन्दी)
श्रीरघुनाथजीकी आज्ञासे सात दिन अयोध्यामें ठहरकर महाधनुर्धर ककुत्स्थकुलभूषण शत्रुघ्न वहाँसे जानेको तैयार हो गये ॥ १९ ॥
विश्वास-प्रस्तुतिः
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।
भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ २० ॥
सर्वाष् टीकाः
मूलम्
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।
भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ २० ॥
किमिदं क्व च वर्तामः किमेतत्स्व्वप्नदर्शनम् ।
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ॥
अनुवाद (हिन्दी)
सत्यपराक्रमी महात्मा श्रीराम, भरत और लक्ष्मणसे विदा ले शत्रुघ्न एक विशाल रथपर आरूढ़ हुए ॥ २० ॥
अनुवाद (कन्नड)
अल्लि नॆरॆद शत्रुघ्नन सैनिकरु परस्पर - इदेनु? नावु ऎल्लिद्देवॆ? इदु स्वप्नवन्नु नोडुत्तिल्ल ताने! मॊदलु नावु नोडिदुदन्ने ई आश्रमदल्लि हागॆये केळुत्तिद्देवॆ ऎन्दु आडिकॊण्डरु.॥19-20॥
विश्वास-प्रस्तुतिः
दूरं पद्भ्यामनुगतो लक्ष्मणेन महात्मना ।
भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
दूरं पद्भ्यामनुगतो लक्ष्मणेन महात्मना ।
भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा ॥ २१ ॥
शृणुमः किमिदं स्वप्ने गीतबन्धमनुत्तमम् ।
विस्मयं ते परं गत्वा शत्रुघ्न मिदमब्रुवन् ॥
अनुवाद (हिन्दी)
महात्मा लक्ष्मण और भरत पैदल ही उन्हें पहुँचानेके लिये बहुत दूरतक पीछे-पीछे गये । तत्पश्चात् शत्रुघ्न रथके द्वारा शीघ्र ही अपनी राजधानीकी ओर चल दिये ॥ २१ ॥
अनुवाद (कन्नड)
ई उत्तम गीतबन्धवन्नु नावु स्वप्नदल्लि नोडुत्तिल्लवल्ल ऎन्दु विस्मयगॊडु अवरु शत्रुघ्ननल्लि हेळिदरु.॥21॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें बहत्तरवाँ सर्ग पूरा हुआ ॥ ७२ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तॊन्दनॆय सर्ग पूर्णवायितु. ॥71॥