०७१ रामायण-श्रवणम्

[एकसप्ततितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. शत्रुघ्नका थोड़े-से सैनिकोंके साथ अयोध्याको प्रस्थान, मार्गमें वाल्मीकिके आश्रममें रामचरितका गान सुनकर उन सबका आश्चर्यचकित होना
विश्वास-प्रस्तुतिः

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥

सर्वाष् टीकाः
मूलम्

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥


हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।
ऊचुः सुमधुरां वाणीं शत्रुघ्नंशत्रुतापनम् ॥

अनुवाद (हिन्दी)

तदनन्तर बारहवें वर्षमें थोड़े-से सेवकों और सैनिकोंको साथ ले शत्रुघ्नने श्रीरामपालित अयोध्याको जानेका विचार किया ॥ १ ॥

अनुवाद (कन्नड)

लवणासुरनु हतनादाग इन्द्राग्नि मॊदलाद देवतॆगळु बन्दु शत्रुतापननाद शत्रुघ्ननल्लि सुमधरवागि हेळिदरु.॥1॥

विश्वास-प्रस्तुतिः

ततो मन्त्रिपुरोगांश्च बलमुख्यान् निवर्त्य च ।
जगाम हयमुख्येन रथानां च शतेन सः ॥ २ ॥

सर्वाष् टीकाः
मूलम्

ततो मन्त्रिपुरोगांश्च बलमुख्यान् निवर्त्य च ।
जगाम हयमुख्येन रथानां च शतेन सः ॥ २ ॥


दिष्ट्याते विजयो वत्स दिष्ट्या लवणराक्षसः ।
हतः पुरुषशार्दूल वरं वरय सुव्रत ॥

अनुवाद (हिन्दी)

अतः अपने मुख्य-मुख्य मन्त्रियों तथा सेनापतियोंको लौटाकर—पुरीकी रक्षाके लिये वहीं छोड़कर वे अच्छे-अच्छे घोड़ेवाले सौ रथ साथ ले अयोध्याकी ओर चल पड़े ॥ २ ॥

अनुवाद (कन्नड)

वत्स! लवणासुरन वधॆयागि निनगॆ विजय प्राप्तवादुदु सौभाग्यद मातागिदॆ. सुव्रतने! निनगॆ बेकाद वरवन्नु केळु.॥2॥

विश्वास-प्रस्तुतिः

स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः ।
वाल्मीकाश्रममागत्य वासं चक्रे महायशाः ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः ।
वाल्मीकाश्रममागत्य वासं चक्रे महायशाः ॥ ३ ॥


वरदास्तु महाबाहो सर्व एवसमागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनंहि नः ॥

अनुवाद (हिन्दी)

महायशस्वी रघुकुलनन्दन शत्रुघ्न यात्रा करनेके पश्चात् मार्गमें सात-आठ परिगणित स्थानोंपर पड़ाव डालते हुए वाल्मीकि मुनिके आश्रमपर जा पहुँचे और रातमें वहीं ठहरे ॥ ३ ॥

अनुवाद (कन्नड)

महाबाहो! नावॆल्लरू वरगळन्नु कॊडलु इल्लिगॆ बन्दिरुवॆवु. नावु निन्न विजयवन्नु बयसुत्तेवॆ. नम्म दर्शन अमोघवागिदॆ. आद्दरिन्द नीनु यावुदादरू वर केळु.॥3॥

विश्वास-प्रस्तुतिः

सोऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।
पाद्यमर्घ्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

सोऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।
पाद्यमर्घ्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥ ४ ॥


देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥

अनुवाद (हिन्दी)

उन पुरुषप्रवर रघुवीरने वाल्मीकिजीके चरणोंमें प्रणाम करके उनके हाथसे पाद्य और अर्घ्य आदि आतिथ्य-सत्कारकी सामग्री ग्रहण की ॥ ४ ॥

अनुवाद (कन्नड)

देवतॆगळ मातन्नु केळि विनयशीलनाद शूर महाबाहु शत्रुघ्ननु शिरदल्लि अञ्जलिबद्धनागि हीगॆ हेळिदनु.॥4॥

विश्वास-प्रस्तुतिः

बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।
कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।
कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥ ५ ॥


इयं मधुपुरी रम्या मधुरादेवनिर्मिता ।
निवेशं प्राप्नु याच्छीघ्रमेष मेऽस्तु वरः परः ॥

अनुवाद (हिन्दी)

वहाँ महर्षि वाल्मीकिने महात्मा शत्रुघ्नको सुनानेके लिये भाँति-भाँतिकी सहस्रों सुमधुर कथाएँ कहीं ॥ ५ ॥

अनुवाद (कन्नड)

देवतॆगळे! ई देवनिर्मित रमणीय मधुपुरियु शीघ्रवागि मनोहर राजधानियागि नॆलॆगॊळ्ळलि. इदे ननगागि कॊडुव श्रेष्ठवरवागिदॆ.॥5॥

विश्वास-प्रस्तुतिः

उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।
सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।
सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥ ६ ॥


तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।
भविष्यति पुरीरम्या शूरसेना न संशयः ॥

अनुवाद (हिन्दी)

फिर वे लवणवधके विषयमें बोले—‘लवणासुरको मारकर तुमने अत्यन्त दुष्कर कर्म किया है ॥ ६ ॥

अनुवाद (कन्नड)

आग देवतॆगळु प्रसन्नरागि रघुकुलनन्दन शत्रुघ्ननल्लि हेळिदरु - ‘हागॆये आगुवुदु’. ई रमणीय पुरियु निःसन्देह शूर-वीरर सैन्यदिन्द सम्पन्नवागुवुदु.॥6॥

विश्वास-प्रस्तुतिः

बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।
लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।
लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७ ॥


ते तथोक्त्वा महात्मानोदिवमारुरुहुस्तदा ।
शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत् ॥

अनुवाद (हिन्दी)

‘सौम्य! महाबाहो! लवणासुरके साथ युद्ध करके बहुत-से महाबली भूपाल सेना और सवारियोंसहित मारे गये हैं ॥ ७ ॥

अनुवाद (कन्नड)

हीगॆ हेळि महात्मा देवतॆगळु स्वर्गक्कॆ तॆरळिदरु. महातेजस्वी शत्रुघ्ननू गङ्गातटदिन्द तन्न सैन्यवन्नु करॆसिकॊण्डनु.॥7॥

विश्वास-प्रस्तुतिः

स त्वया निहतः पापो लीलया पुरुषर्षभ ।
जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

स त्वया निहतः पापो लीलया पुरुषर्षभ ।
जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥ ८ ॥


सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्न शासनम् ।
निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥

अनुवाद (हिन्दी)

‘पुरुषश्रेष्ठ! वही पापी लवणासुर तुम्हारे द्वारा अनायास ही मार डाला गया । उसके कारण जगत् में जो भय छा गया था, वह तुम्हारे तेजसे शान्त हो गया ॥ ८ ॥

अनुवाद (कन्नड)

शत्रुघ्नन आदेश पडॆदु आ सैन्यवु शीघ्रवागि बन्दु बिट्टितु. शत्रुघ्ननु श्रावणमासदिन्द आ पुरियन्नु नॆलॆगॊळिसलु प्रारम्भिसिदनु.॥8॥

विश्वास-प्रस्तुतिः

रावणस्य वधो घोरो यत्नेन महता कृताः ।
इदं च सुमहत्कर्म त्वया कृतमयत्नतः ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

रावणस्य वधो घोरो यत्नेन महता कृताः ।
इदं च सुमहत्कर्म त्वया कृतमयत्नतः ॥ ९ ॥


स पुरा दिव्यसङ्काशो वर्षे द्वादशमे शुभे ।
निविष्टः शूरसेनानां विषयश्चाकुतोभयः ॥

अनुवाद (हिन्दी)

‘रावणका घोर वध महान् प्रयत्नसे किया गया था; परंतु यह महान् कर्म तुमने बिना यत्नके ही सिद्ध कर दिया ॥ ९ ॥

अनुवाद (कन्नड)

अन्दिनिन्द हन्नॆरडनॆय वर्षदल्लि आ पुरियु मत्तु शूरसेन देशद निर्माण पूर्णगॊण्डितु. अल्लि यारिगू यारिन्दलू भयविरलिल्ल. आ देशवु दिव्य सुखसमृद्धियिन्द सम्पन्नवागित्तु.॥9॥

विश्वास-प्रस्तुतिः

प्रीतिश्चास्मिन् परा जाता देवानां लवणे हते ।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ १० ॥

सर्वाष् टीकाः
मूलम्

प्रीतिश्चास्मिन् परा जाता देवानां लवणे हते ।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ १० ॥


क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।
अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥

अनुवाद (हिन्दी)

‘लवणासुरके मारे जानेसे देवताओंको बड़ी प्रसन्नता हुई है । तुमने समस्त प्राणियों और सारे जगत् का प्रिय कार्य किया है ॥ १० ॥

अनुवाद (कन्नड)

अल्लिय हॊलगळु पैरिनिन्द तुम्बिहोदुवु. इन्द्रनु समयक्कॆ सरियागि मळॆगरॆयतॊडगिदनु. शत्रुघ्नन बाहुबलदिन्द सुरक्षित मधुपुरि निरोगि मत्तु वीररिन्द तुम्बि होगित्तु.॥10॥

विश्वास-प्रस्तुतिः

तच्च युद्धं मया दृष्टं यथावत् पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

तच्च युद्धं मया दृष्टं यथावत् पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव ॥ ११ ॥


अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।
शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।
चातुर्वर्ण्यसमायुक्तानानावाणिज्यशोभिता ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ! मैं इन्द्रकी सभामें बैठा था । जब वह विमानाकार सभा युद्ध देखनेके लिये आयी, तब वहीं बैठे-बैठे मैंने भी तुम्हारे और लवणके युद्धको भलीभाँति देखा था ॥ ११ ॥

अनुवाद (कन्नड)

आ पुरियु यमुनॆय तीरदल्लि अर्धचन्द्राकारवागि नॆलॆसित्तु. अनेक सुन्दर गृहगळिन्द, चौकगळिन्द, अङ्गडि बीदिगळिन्द सुशोभित वागित्तु. अदरल्लि नाल्कु वर्णद जनरु वासिसुत्तिद्दरु. नाना रीतिय वाणिज्य-व्यवसायगळु अदर शोभॆ हॆच्चिसिद्दवु.॥11॥

विश्वास-प्रस्तुतिः

ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ १२ ॥


यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।
तच्छोभयति शत्रुघ्नो नानावर्णोपशोभितम् ॥

अनुवाद (हिन्दी)

‘शत्रुघ्न! मेरे हृदयमें भी तुम्हारे लिये बड़ा प्रेम है ।अतः मैं तुम्हारा मस्तक सूँघूँगा । यही स्नेहकी पराकाष्ठा है’ ॥ १२ ॥

अनुवाद (कन्नड)

हिन्दॆ लवणा सुरनु निर्मिसिद विशाल गृहगळन्नु स्वच्छगॊळिसि नाना प्रकारद चित्रगळिन्द सुसज्जितगॊळिसि शत्रुघ्ननु अवुगळ शोभॆयन्नु हॆच्चिसिदनु.॥12॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामतिः ।
आतिथ्यमकरोत् तस्य ये च तस्य पदानुगाः ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामतिः ।
आतिथ्यमकरोत् तस्य ये च तस्य पदानुगाः ॥ १३ ॥


आरामैश्चविहारैश्च शोभमानां समन्ततः ।
शोभितां शोभनीयैश्च तथान्यैर्दैवमानुषैः ॥

अनुवाद (हिन्दी)

ऐसा कहकर परम बुद्धिमान् वाल्मीकिने शत्रुघ्नका मस्तक सूँघा और उनका तथा उनके साथियोंका आतिथ्य सत्कार किया ॥ १३ ॥

अनुवाद (कन्नड)

अनेक उद्यानवनगळिन्द, विहार स्थळगळिन्द ऎल्लॆडॆ आ पुरियन्नु सुशोभितगॊळिसिद्दवु. देवतॆगळिगॆ, मनुष्यरिगॆ सम्बन्धिसिद अनेकवाद चित्रकलॆगळिन्द नगरद शोभॆ हॆच्चित्तु.॥13॥

विश्वास-प्रस्तुतिः

स भुक्तवान् नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितं तस्मिन् काले यथाक्रमम् ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

स भुक्तवान् नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितं तस्मिन् काले यथाक्रमम् ॥ १४ ॥


तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।
नानादेशगतैश्चापि वणिग्भिरुपशोभिताम् ॥

अनुवाद (हिन्दी)

नरश्रेष्ठ शत्रुघ्नने भोजन किया और उस समय श्रीरामचन्द्रजीके चरित्रका क्रमशः वर्णन सुना, जो गीतकी मधुरताके कारण बड़ा ही प्रिय एवं उत्तम जान पड़ता था ॥ १४ ॥

अनुवाद (कन्नड)

नाना प्रकारद क्रय-विक्रय योग्यवाद वस्तुगळिन्द सम्पन्नवाद आ दिव्यपुरियु अनेक देशगळिन्द बन्दिरुव वर्तकरिन्द शोभिसुत्तित्तु.॥14॥

विश्वास-प्रस्तुतिः

तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।
संस्कृतं लक्षणोपेतं समतालसमन्वितम् ॥ १५ ॥
शुश्राव रामचरितं तस्मिन् काले पुरा कृतम् ।

सर्वाष् टीकाः
मूलम्

तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।
संस्कृतं लक्षणोपेतं समतालसमन्वितम् ॥ १५ ॥
शुश्राव रामचरितं तस्मिन् काले पुरा कृतम् ।


तां समृद्धां समृद्धार्थः शत्रुघ्नोभरतानुजः ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥

अनुवाद (हिन्दी)

उस वेलामें उन्हें जो रामचरित सुननेको मिला, वह पहले ही काव्यबद्ध कर लिया गया था । वह काव्यगान वीणाकी लयके साथ हो रहा था । हृदय, कण्ठ और मूर्धा—इन तीन स्थानोंमें मन्द्र, मध्यम और तार स्वरके भेदसे उच्चारित हो रहा था । संस्कृत भाषामें निर्मित होकर व्याकरण, छन्द, काव्य और संगीत-शास्त्रके लक्षणोंसे सम्पन्न था और गानोचित तालके साथ गाया गया था ॥ १५ १/२ ॥

अनुवाद (कन्नड)

पूर्णवागि समृद्धशालियागिरुव अदन्नु नोडि सल मनोरथनाद भरतानुज शत्रुघ्ननु अत्यन्त सन्तोषगॊण्डु, हर्षवन्नु अनुभविसतॊडगिदनु.॥15॥

विश्वास-प्रस्तुतिः

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ॥ १६ ॥
श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ।

सर्वाष् टीकाः
मूलम्

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ॥ १६ ॥
श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ।


तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्षेऽहं वर्षे द्वादशआगते ॥

अनुवाद (हिन्दी)

उस काव्यके सभी अक्षर एवं वाक्य सच्ची घटनाका प्रतिपादन करते थे और पहले जो वृत्तान्त घटित हो चुके थे, उनका यथार्थ परिचय दे रहे थे । वह अद्भुत काव्यगान सुनकर पुरुषसिंह शत्रुघ्न मूर्च्छित-से हो गये । उनके नेत्रोंसे आँसुओंकी धारा बहने लगी ॥ १६ १/२ ॥

अनुवाद (कन्नड)

मधुपुरियल्लि नॆलॆसलु अयोध्यॆयिन्द बन्दु हन्नॆरडु वर्षवायितु. ईग नानु अल्लिगॆ होगि श्रीरामन चरणारविन्दगळन्नु दर्शिसबेकॆन्दु मनस्सिनल्लि योचिसिदनु.॥16॥

विश्वास-प्रस्तुतिः

स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ॥ १७ ॥
तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ।

सर्वाष् टीकाः
मूलम्

स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ॥ १७ ॥
तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ।


ततः स ताममरपुरोपमां पुरीं
निवेश्य वै विविधजनाभिसंवृताम् ।
नराधिपो रघुपतिपाददर्शने
दधे मतिं रघुकुलवंशवर्धनः ॥

अनुवाद (हिन्दी)

वे दो घड़ीतक अचेत-से होकर बारम्बार लम्बी साँस खींचते रहे । उस गानमें उन्होंने बीती हुई बातोंको वर्तमानकी भाँति सुना ॥ १७ १/२ ॥

अनुवाद (कन्नड)

हीगॆ नाना रीतिय मनुष्यरिन्द तुम्बिद, देव पुरियन्तॆ मनोहर मधुरपुरियन्नु नॆलॆगॊळिसि रघुकुलवंशवर्धन राजा शत्रुघ्ननु श्रीरघुनाथन चरणगळन्नु दर्शिसलु विचार माडिद.॥17॥

विश्वास-प्रस्तुतिः

पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ॥ १८ ॥
अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ।

सर्वाष् टीकाः
मूलम्

पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ॥ १८ ॥
अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ।

अनुवाद (हिन्दी)

राजा शत्रुघ्नके जो साथी थे, वे भी उस गीत-सम्पत्तिको सुनकर दीन और नतमस्तक हो बोले—‘यह तो बड़े आश्चर्यकी बात है’ ॥ १८ १/२ ॥

विश्वास-प्रस्तुतिः

परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ॥ १९ ॥
किमिदं क्व च वर्तामः किमेतत् स्वप्नदर्शनम् ।
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ॥ २० ॥

सर्वाष् टीकाः
मूलम्

परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ॥ १९ ॥
किमिदं क्व च वर्तामः किमेतत् स्वप्नदर्शनम् ।
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ॥ २० ॥

अनुवाद (हिन्दी)

शत्रुघ्नके जो सैनिक वहाँ मौजूद थे, वे परस्पर कहने लगे—‘यह क्या बात है? हमलोग कहाँ हैं? यह कोई स्वप्न तो नहीं देख रहे हैं । जिन बातोंको हम पहले देख चुके हैं, उन्हींको इस आश्रमपर ज्यों-की-त्यों सुन रहे हैं ॥ १९-२० ॥

विश्वास-प्रस्तुतिः

शृणुमः किमिदं स्वप्ने गीतबन्धनमुत्तमम् ।
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

शृणुमः किमिदं स्वप्ने गीतबन्धनमुत्तमम् ।
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ॥ २१ ॥

अनुवाद (हिन्दी)

‘क्या इस उत्तम गीतबन्धको हमलोग स्वप्नमें सुन रहे हैं?’ फिर अत्यन्त विस्मयमें पड़कर वे शत्रुघ्नसे बोले— ॥ २१ ॥

विश्वास-प्रस्तुतिः

साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ।
शत्रुघ्नस्त्वब्रवीत् सर्वान् कौतूहलसमन्वितान् ॥ २२ ॥
सैनिका न क्षमोऽस्माकं परिप्रष्टुमिहेदृशः ।
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ॥ २३ ॥

सर्वाष् टीकाः
मूलम्

साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ।
शत्रुघ्नस्त्वब्रवीत् सर्वान् कौतूहलसमन्वितान् ॥ २२ ॥
सैनिका न क्षमोऽस्माकं परिप्रष्टुमिहेदृशः ।
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ॥ २३ ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ! आप इस विषयमें मुनिवर वाल्मीकिजीसे भलीभाँति पूछें ।’ शत्रुघ्नने कौतूहलमें भरे हुए उन सब सैनिकोंसे कहा—‘मुनिके इस आश्रममें ऐसी अनेक आश्चर्यजनक घटनाएँ होती रहती हैं । उनके विषयमें उनसे कुछ पूछताछ करना हमारे लिये उचित नहीं है ॥ २२-२३ ॥

विश्वास-प्रस्तुतिः

न तु कौतूहलाद् युक्तमन्वेष्टुं तं महामुनिम् ।
एवं तद् वाक्यमुक्त्वा तु सैनिकान् रघुनन्दनः ।
अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥ २४ ॥

सर्वाष् टीकाः
मूलम्

न तु कौतूहलाद् युक्तमन्वेष्टुं तं महामुनिम् ।
एवं तद् वाक्यमुक्त्वा तु सैनिकान् रघुनन्दनः ।
अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥ २४ ॥

अनुवाद (हिन्दी)

‘कौतूहलवश महामुनि वाल्मीकिसे इन बातोंके विषयमें जानना या पूछना उचित न होगा ।’ अपने सैनिकोंसे ऐसा कहकर रघुकुलनन्दन शत्रुघ्न महर्षिको प्रणाम करके अपने खेमेमें चले गये ॥ २४ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें इकहत्तरवाँ सर्ग पूरा हुआ ॥ ७१ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऎप्पत्तनॆय सर्ग पूर्णवायितु. ॥70॥