०६९ वधः

[एकोनसप्ततितमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. शत्रुघ्न और लवणासुरका युद्ध तथा लवणका वध
विश्वास-प्रस्तुतिः

तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।
क्रोधमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥

सर्वाष् टीकाः
मूलम्

तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।
क्रोधमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥


कथां कथयतां तेषां जयं चाकाङ्क्षतांशुभम् ।
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥

अनुवाद (हिन्दी)

महामना शत्रुघ्नका वह भाषण सुनकर लवणासुरको बड़ा क्रोध हुआ और बोला—‘अरे! खड़ा रह, खड़ा रह’ ॥ १ ॥

अनुवाद (कन्नड)

हीगॆ कथॆ हेळुत्ता, शुभ विजयद आकाङ्क्षॆ माडुत्तिरुव आ मुनिगळ मातन्नु केळुत्ता - केळुत्ता महात्मा शत्रुघ्नन आ रात्रॆ कळॆदु होयितु.॥1॥

विश्वास-प्रस्तुतिः

पाणौ पाणिं च निष्पिष्य दन्तान् कटकटाय्य च ।
लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

पाणौ पाणिं च निष्पिष्य दन्तान् कटकटाय्य च ।
लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ २ ॥


ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।
निर्गतस्तुपुराद्वीरो भक्ष्याहारप्रचोदितः ॥

अनुवाद (हिन्दी)

वह हाथ-पर-हाथ रगड़ता और दाँत कटकटाता हुआ रघुकुलके सिंह शत्रुघ्नको बारंबार ललकारने लगा ॥ २ ॥

अनुवाद (कन्नड)

अनन्तर निर्मल प्रभातवादाग भक्ष्य पदार्थ हागू भोजनद सङ्ग्रहद इच्छॆयिन्द प्रेरितनागि आ वीर राक्षसनु तन्न नगरदिन्द हॊरगॆ हॊरटनु.॥2॥

विश्वास-प्रस्तुतिः

तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् ।
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् ।
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ३ ॥


एतस्मिनन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥

अनुवाद (हिन्दी)

भयंकर दिखायी देनेवाले लवणको इस प्रकार बोलते देख देवशत्रुओंका नाश करनेवाले शत्रुघ्नने यह बात कही— ॥ ३ ॥

अनुवाद (कन्नड)

अष्टरल्लि वीर शत्रुघ्ननु नदियन्नु दाटि धनुर्बाणगळन्नु धरिसि मधुपुरिय द्वारदल्लि निन्तु कॊण्डनु.॥3॥

विश्वास-प्रस्तुतिः

शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया ।
तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया ।
तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥ ४ ॥


ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।
आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥

अनुवाद (हिन्दी)

‘राक्षस! जब तूने दूसरे वीरोंको पराजित किया था, उस समय शत्रुघ्नका जन्म नहीं हुआ था । अतः आज मेरे इन बाणोंकी चोट खाकर तू सीधे यमलोककी राह ले ॥ ४ ॥

अनुवाद (कन्नड)

अनन्तर मध्याह्नवादाग आ क्रूरकर्मा राक्षसनु साविरारु प्राणिगळ हॊरॆयन्नॆत्तिकॊण्डु अल्लिगॆ बन्दनु.॥4॥

विश्वास-प्रस्तुतिः

ऋषयोऽप्यद्य पापात्मन् मया त्वां निहतं रणे ।
पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

ऋषयोऽप्यद्य पापात्मन् मया त्वां निहतं रणे ।
पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ५ ॥


ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।
तमुवाच ततो रक्षः किमनेन करिष्यसि ॥

अनुवाद (हिन्दी)

‘पापात्मन्! जैसे देवताओंने रावणको धराशायी हुआ देखा था, उसी तरह विद्वान् ब्राह्मण और ऋषि आज रणभूमिमें मेरे द्वारा मारे गये तुझ दुराचारी राक्षसको भी देखें ॥ ५ ॥

विश्वास-प्रस्तुतिः

त्वयि मद‍्बाणनिर्दग्धे पतितेऽद्य निशाचर ।
पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

त्वयि मद‍्बाणनिर्दग्धे पतितेऽद्य निशाचर ।
पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ६ ॥


ईदृशानां सहस्राणि सायुधानां नराधम ।
भक्षितानि मया रोषात्कालेनानुगतोह्यसि ॥

अनुवाद (हिन्दी)

‘निशाचर! आज मेरे बाणोंसे दग्ध होकर जब तूधरती पर गिर जायगा, उस समय इस नगर और जनपदमें भी सबका कल्याण ही होगा ॥ ६ ॥

अनुवाद (कन्नड)

आग अवनु अस्त्र-शस्त्रगळन्नु धरिसिद शत्रुघ्ननन्नु नोडिदनु. नोडि राक्षसनु हेळिदनु - नराधम! ई आयुधगळिन्द नीनु ननगेनु माडबल्लॆ? निन्नन्तह साविरारु अस्त्र-शस्त्रधारी मनुष्यरन्नु नानु रोषदिन्द तिन्दुबिट्टिरुवॆनु. कालनु निन्न तलॆय मेलॆ कुणियुत्ता इदॆ ऎन्दु अनिसुत्तदॆ.॥5-6॥

विश्वास-प्रस्तुतिः

अद्य मद‍्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

अद्य मद‍्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७ ॥


आहारश्चाप्यसम्पूर्णो ममायं पुरुषाधम ।
स्वयं प्रविष्टोऽद्य मुखं कथमासाद्य दुर्मते ॥

अनुवाद (हिन्दी)

‘आज मेरी भुजाओंसे छूटा हुआ वज्रके समान मुखवाला बाण उसी तरह तेरी छातीमें धँस जायगा, जैसे सूर्यकी किरण कमलकोशमें प्रविष्ट हो जाती है’ ॥ ७ ॥

अनुवाद (कन्नड)

पुरुषाधमने! इन्दिन नन्न आहार पूर्णवागलिल्ल. दुर्मते! नीनु स्वतः नन्न बायिगॆ हेगॆ बन्दु बिद्दॆ.॥7॥

विश्वास-प्रस्तुतिः

एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।
शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।
शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ॥ ८ ॥


तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।
शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥

अनुवाद (हिन्दी)

शत्रुघ्नके ऐसा कहनेपर लवण क्रोधसे मूर्च्छित-सा हो गया और एक महान् वृक्ष लेकर उसने शत्रुघ्नकी छातीपर दे मारा; परंतु शत्रुघ्नने उसके सैकड़ों टुकड़े कर दिये ॥ ८ ॥

अनुवाद (कन्नड)

आ राक्षस हीगॆ मातनाडुत्ता पदे-पदे नगुत्तिद्दनु. इदन्नु नोडि पराक्रमि शत्रुघ्नन कण्णुगळु रोषगॊण्डु नीरूरिदवु.॥8॥

विश्वास-प्रस्तुतिः

तद् दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।
पादपान् सुबहून् गृह्य शत्रुघ्नायासृजद् बली ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

तद् दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।
पादपान् सुबहून् गृह्य शत्रुघ्नायासृजद् बली ॥ ९ ॥


तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥

अनुवाद (हिन्दी)

वह वार खाली गया देख उस बलवान् राक्षसने पुनः बहुत-से वृक्ष ले-लेकर शत्रुघ्नपर चलाये ॥ ९ ॥

अनुवाद (कन्नड)

रोषगॊण्ड महात्मा शत्रुघ्नन सर्वाङ्गदिन्द तेजोमय किरणगळन्नु चिम्मिदवु.॥9॥

विश्वास-प्रस्तुतिः

शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।
त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ १० ॥

सर्वाष् टीकाः
मूलम्

शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।
त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ १० ॥


उवाच च सुसङ्क्रुद्धः शत्रुघ्नः स निशाचरम् ।
योद्धुमिच्छामि दुर्बुद्धे द्वन्द्व युद्धं त्वया सह ॥

अनुवाद (हिन्दी)

परंतु शत्रुघ्न भी बड़े तेजस्वी थे । उन्होंने अपने ऊपर आते हुए उन बहुसंख्यक वृक्षोंमेंसे प्रत्येकको झुकी हुई गाँठवाले तीन-तीन या चार-चार बाण मारकर काट डाला ॥ १० ॥

अनुवाद (कन्नड)

आग अत्यन्त कुपितनाद शत्रुघ्ननु आ निशाचरनल्लि हेळिदनु- दुर्बुद्धे! नानु निन्नॊन्दिगॆ द्वन्द्वयुद्ध माडलु बयसुत्तेनॆ.॥10॥

विश्वास-प्रस्तुतिः

ततो बाणमयं वर्षं व्यसृजद् राक्षसोपरि ।
शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

ततो बाणमयं वर्षं व्यसृजद् राक्षसोपरि ।
शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ॥ ११ ॥


पुत्रो दशरथस्याहं भ्राता रामस्यधीमतः ।
शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः ॥

अनुवाद (हिन्दी)

फिर पराक्रमी शत्रुघ्नने उस राक्षसपर बाणोंकी झड़ी लगा दी, किंतु वह निशाचर इससे व्यथित या विचलित नहीं हुआ ॥ ११ ॥

अनुवाद (कन्नड)

नानु महाराजा दशरथन पुत्र हागू परम बुद्धिवन्त राजा श्रीरामन तम्मनागिद्देनॆ. नन्न हॆसरु शत्रुघ्ननॆन्दिद्दु, कर्मदिन्दलू शत्रुघ्न (शत्रुगळन्नु संहरिसुव)ने आगिद्देनॆ. ईग निन्नन्नु वधिसलु इल्लिगॆ बन्दिरुवॆनु.॥11॥

विश्वास-प्रस्तुतिः

ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।
शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।
शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥ १२ ॥


तस्य मे युद्ध कामस्यद्वन्द्वयुद्धं प्रदीयताम् ।
शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ॥

अनुवाद (हिन्दी)

तब बल-विक्रमशाली लवणने हँसकर एक वृक्ष उठाया और उसे शूरवीर शत्रुघ्नके सिरपर दे मारा । उसकी चोट खाकर शत्रुघ्नके सारे अङ्ग शिथिल हो गये और उन्हें मूर्च्छा आ गयी ॥ १२ ॥

अनुवाद (कन्नड)

नानु युद्ध माडलु बयसुत्तेनॆ, अदक्कागि नीनु ननगॆ द्वन्द्वयुद्धद अवकाशकॊडु. नीनु समस्त प्राणिगळ शत्रु आगिरुवॆ; अदक्कागि ईग नन्न कैयिन्द बदुकिहोगलारॆ.॥12॥

विश्वास-प्रस्तुतिः

तस्मिन् निपतिते वीरे हाहाकारो महानभूत् ।
ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

तस्मिन् निपतिते वीरे हाहाकारो महानभूत् ।
ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ १३ ॥


तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते ॥

अनुवाद (हिन्दी)

वीर शत्रुघ्नके गिरते ही ऋषियों, देवसमूहों, गन्धर्वों और अप्सराओंमें महान् हाहाकार मच गया ॥ १३ ॥

अनुवाद (कन्नड)

अवनु हीगॆ हेळिदाग आ राक्षसनु नरश्रेष्ठ शत्रुघ्ननल्लि नगुत्ता हेळिदनु - दुर्मते! इन्दु नीनु स्वतः ननगॆ दॊरकिदुदु सौभाग्यद मातागिदॆ.॥13॥

विश्वास-प्रस्तुतिः

तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।
रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ ॥
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।
ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत् ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।
रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ ॥
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।
ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत् ॥ १५ ॥


मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः ।
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ तच्छ सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।
अवज्ञां पुरतः कृत्वा मया यूयंविशेषतः ॥

अनुवाद (हिन्दी)

शत्रुघ्नजीको भूमिपर गिरा देख लवणने समझा ये मर गये, इसलिये अवसर मिलनेपर भी वह राक्षस अपने घरमें नहीं गया और न शूल ही ले आया । उन्हें धराशायी हुआ देख सर्वथा मरा हुआ समझकर ही वह अपनी उस भोजनसामग्रीको एकत्र करने लगा ॥ १४-१५ ॥

अनुवाद (कन्नड)

इष्टे अल्ल, अवनु रावणन कुलवन्नु संहरिसिदरू, नानु अदॆल्लवन्नु सहिसिदॆ. निम्मिन्दागिद अवहेळनवन्नु ऎदुरिगिट्टु-प्रत्यक्ष नोडियू निम्मन्नु विशेषवागि क्षमिसिदॆ.॥15॥

अनुवाद (कन्नड)

नीच बुद्धियुळ्ळ नराधम! रावणनॆम्ब राक्षसनु नन्न चिक्कम्म शूर्पणखिय अण्णनागिद्दनु. अवनन्नु निन्न अण्ण ऒन्दु स्त्रीगागि संहार माडिदनु.॥14॥

विश्वास-प्रस्तुतिः

मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः ।
शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः ।
शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ॥ १६ ॥


निहताश्च हि ते सर्वे परिभूतास्तृणं यथा ।
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥

अनुवाद (हिन्दी)

दो ही घड़ीमें शत्रुघ्नको होश आ गया । वे अस्त्र-शस्त्र लेकर उठे और फिर नगरद्वारपर खड़े हो गये । उस समय ऋषियोंने उनकी भूरि-भूरि प्रशंसा की ॥ १६ ॥

अनुवाद (कन्नड)

भूतळदल्लि नन्नन्नु ऎदुरिसलु बन्द नराधमरॆल्लरन्नु नानु हुल्लुकड्डियन्तॆ तिळिदु तिरस्करिसि कॊन्दु हाकिरुवॆ. भविष्यदल्लि बरुववरिगू इदे स्थितियागुवुदु हागू वर्तमान कालदल्लि निन्नन्तह नराधमनू नन्न कैयिन्द सत्तनॆन्दे तिळि.॥16॥

विश्वास-प्रस्तुतिः

ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ १७ ॥


तस्य ते युद्ध कामस्य युद्धं दास्यामि दुर्मते ।
तिष्ठ त्वं च मुहूर्तं तु यावदायुधमानये ॥

अनुवाद (हिन्दी)

तदनन्तर शत्रुघ्नने उस दिव्य, अमोघ और उत्तम बाणको हाथमें लिया, जो अपने घोर तेजसे प्रज्वलित हो दसों दिशाओंमें व्याप्त-सा हो रहा था ॥ १७ ॥

अनुवाद (कन्नड)

दुर्मते! निनगॆ युद्धद इच्छॆ इदॆयल्ल? नानु ईगले निनगॆ युद्धद अवकाश कॊडुवॆनु. नीनु ऎरडु गळिगॆ सैरिसु. अष्टरॊळगॆ नानु नन्न अस्त्र तॆगॆदुकॊण्डु बरुवॆ.॥17॥

विश्वास-प्रस्तुतिः

वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।
नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।
नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ १८ ॥


ईप्सितं यादृशं तुभ्यं सज्जयेयावदायुधम् ।
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि ॥

अनुवाद (हिन्दी)

उसका मुख और वेग वज्रके समान था । वह मेरु और मन्दराचलके समान भारी था । उसकी गाँठें झुकी हुई थीं तथा वह किसी भी युद्धमें पराजित होनेवाला नहीं था ॥ १८ ॥

अनुवाद (कन्नड)

निन्न वधॆगागि ऎन्तह अस्त्र इरबेको अन्तह अस्त्रवन्नु मॊदले सुसज्जितगॊळिसिकॊळ्ळुवॆनु. मत्तॆ युद्धद अवकाश कॊडुवॆनु. इदन्नु केळि शत्रुघ्ननु कूडले हेळिदनु - ईग नीनु नन्न कैयिन्द बदुकि ऎल्लिगॆ होगुवॆ.॥18॥

विश्वास-प्रस्तुतिः

असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्त्रिणम् ।
दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम् ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्त्रिणम् ।
दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम् ॥ १९ ॥


स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना ॥
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे दिशेत् ।
स हतो मन्दबुद्धिः स्याद्यथा कापुरुषस्तथा ॥

अनुवाद (हिन्दी)

उसका सारा अङ्ग रक्तरूपी चन्दनसे चर्चित था । पंख बड़े सुन्दर थे । वह बाण दानवराजरूपी पर्वतराजों एवं असुरोंके लिये बड़ा भयंकर था ॥ १९ ॥

अनुवाद (कन्नड)

यारे बुद्धिवन्त पुरुषनु तन्न ऎदुरिगॆ बन्द शत्रुवन्नु बिडबारदु. गाबरिगॊण्ड बुद्धियिन्द शत्रुवन्नु होगलु बिट्टरॆ अवनु मन्दबुद्धि हेडियन्तॆ सत्तुहोगुवनु.॥19॥

विश्वास-प्रस्तुतिः

तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।
दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ २० ॥

सर्वाष् टीकाः
मूलम्

तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।
दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ २० ॥


तस्मात्सुदृष्टं कुरु जीवलोकं
शरैः शितैस्त्वां विविधैर्नयामि ।
यमस्य गेहाभिमुखं हि पापं
रिपुं त्रिलोकस्य च राघवस्य ॥

अनुवाद (हिन्दी)

वह प्रलयकाल उपस्थित होनेपर प्रज्वलित हुई कालाग्निके समान उद्दीप्त हो रहा था । उसे देखकर समस्त प्राणी त्रस्त हो गये ॥ २० ॥

अनुवाद (कन्नड)

आद्दरिन्द राक्षसने ! ईग नीनु ई जीव जगत्तन्नु चॆन्नागि नोडिको. नाना प्रकारद हरित बाणगळिन्द पापियाद निन्नन्नु ईगले यमसदनक्कॆ कळिसुवॆनु; एकॆन्दरॆ नीनु मूरुलोकगळ हागू श्रीरघु नाथन शत्रु आगिरुवॆ.॥20॥

विश्वास-प्रस्तुतिः

सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।
जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।
जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ २१ ॥

अनुवाद (हिन्दी)

देवता, असुर, गन्धर्व, मुनि और अप्सराओंके साथ सारा जगत् अस्वस्थ हो ब्रह्माजीके पास पहुँचा ॥ २१ ॥

विश्वास-प्रस्तुतिः

उवाच देवदेवेशं वरदं प्रपितामहम् ।
देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥ २२ ॥

सर्वाष् टीकाः
मूलम्

उवाच देवदेवेशं वरदं प्रपितामहम् ।
देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥ २२ ॥

अनुवाद (हिन्दी)

जगत् के उन सभी प्राणियोंने वर देनेवाले देवदेवेश्वर प्रपितामह ब्रह्माजीसे कहा—‘भगवन्! समस्त लोकोंके संहारकी सम्भावनासे देवताओंपर भी भय और मोह छा गया है ॥ २२ ॥

विश्वास-प्रस्तुतिः

कच्चिल्लोकक्षयो देव सम्प्राप्तो वा युगक्षयः ।
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ॥ २३ ॥

सर्वाष् टीकाः
मूलम्

कच्चिल्लोकक्षयो देव सम्प्राप्तो वा युगक्षयः ।
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ॥ २३ ॥

अनुवाद (हिन्दी)

‘देव! कहीं लोकोंका संहार तो नहीं होगा अथवा प्रलयकाल तो नहीं आ पहुँचा है? प्रपितामह! संसारकी ऐसी अवस्था न तो पहले कभी देखी गयी थी और न सुननेमें ही आयी थी’ ॥ २३ ॥

विश्वास-प्रस्तुतिः

तेषां तद् वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
भयकारणमाचष्ट देवानामभयङ्करः ॥ २४ ॥

सर्वाष् टीकाः
मूलम्

तेषां तद् वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
भयकारणमाचष्ट देवानामभयङ्करः ॥ २४ ॥

अनुवाद (हिन्दी)

उनकी यह बात सुनकर देवताओंका भय दूर करनेवाले लोकपितामह ब्रह्माने प्रस्तुत भयका कारण बताते हुए कहा ॥ २४ ॥

विश्वास-प्रस्तुतिः

उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ॥ २५ ॥
तेजसा तस्य सम्मूढाः सर्वे स्म सुरसत्तमाः ।

सर्वाष् टीकाः
मूलम्

उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ॥ २५ ॥
तेजसा तस्य सम्मूढाः सर्वे स्म सुरसत्तमाः ।

अनुवाद (हिन्दी)

वे मधुर वाणीमें बोले—‘सम्पूर्ण देवताओ! मेरी बात सुनो । आज शत्रुघ्नने युद्धस्थलमें लवणासुरका वध करनेके लिये जो बाण हाथमें लिया है, उसीके तेजसे हम सब लोग मोहित हो रहे हैं । ये श्रेष्ठ देवता भी उसीसे घबराये हुए हैं ॥ २५ १/२ ॥

विश्वास-प्रस्तुतिः

एष पूर्वस्य देवस्य लोककर्तुः सनातनः ॥ २६ ॥
शरस्तेजोमयो वत्सा येन वै भयमागतम् ।

सर्वाष् टीकाः
मूलम्

एष पूर्वस्य देवस्य लोककर्तुः सनातनः ॥ २६ ॥
शरस्तेजोमयो वत्सा येन वै भयमागतम् ।

अनुवाद (हिन्दी)

‘पुत्रो! यह तेजोमय सनातन बाण आदिपुरुष लोककर्ता भगवान् विष्णुका है । जिससे तुम्हें भय प्राप्त हुआ है ॥ २६ १/२ ॥

विश्वास-प्रस्तुतिः

एष वै कैटभस्यार्थे मधुनश्च महाशरः ॥ २७ ॥
सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।

सर्वाष् टीकाः
मूलम्

एष वै कैटभस्यार्थे मधुनश्च महाशरः ॥ २७ ॥
सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।

अनुवाद (हिन्दी)

‘परमात्मा श्रीहरिने मधु और कैटभ—इन दोनों दैत्योंका वध करनेके लिये इस महान् बाणकी सृष्टि की थी ॥ २७ १/२ ॥

विश्वास-प्रस्तुतिः

एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ॥ २८ ॥
एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।

सर्वाष् टीकाः
मूलम्

एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ॥ २८ ॥
एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।

अनुवाद (हिन्दी)

‘एकमात्र भगवान् विष्णु ही इस तेजोमय बाणको जानते हैं; क्योंकि यह बाण साक्षात् परमात्मा विष्णुकी ही प्राचीन मूर्ति है ॥ २८ १/२ ॥

विश्वास-प्रस्तुतिः

इतो गच्छत पश्यध्वं वध्यमानं महात्मना ॥ २९ ॥
रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।

सर्वाष् टीकाः
मूलम्

इतो गच्छत पश्यध्वं वध्यमानं महात्मना ॥ २९ ॥
रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।

अनुवाद (हिन्दी)

‘अब तुमलोग यहाँसे जाओ और श्रीरामचन्द्रजीके छोटे भाई महामनस्वी वीर शत्रुघ्नके हाथसे राक्षसप्रवर लवणासुरका वध होता देखो’ ॥ २९ १/२ ॥

विश्वास-प्रस्तुतिः

तस्य ते देवदेवस्य निशम्य वचनं सुराः ॥ ३० ॥
आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।

सर्वाष् टीकाः
मूलम्

तस्य ते देवदेवस्य निशम्य वचनं सुराः ॥ ३० ॥
आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।

अनुवाद (हिन्दी)

देवाधिदेव ब्रह्माजीका यह वचन सुनकर देवतालोग उस स्थानपर आये, जहाँ शत्रुघ्नजी और लवणासुर दोनोंका युद्ध हो रहा था ॥ ३० १/२ ॥

विश्वास-प्रस्तुतिः

तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ॥ ३१ ॥
ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।

सर्वाष् टीकाः
मूलम्

तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ॥ ३१ ॥
ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।

अनुवाद (हिन्दी)

शत्रुघ्नजीके द्वारा हाथमें लिये गये उस दिव्य बाणको सभी प्राणियोंने देखा । वह प्रलयकालके अग्निके समान प्रज्वलित हो रहा था ॥ ३१ १/२ ॥

विश्वास-प्रस्तुतिः

आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ॥ ३२ ॥
सिंहनादं भृशं कृत्वा ददर्श लवणं पुनः ।

सर्वाष् टीकाः
मूलम्

आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ॥ ३२ ॥
सिंहनादं भृशं कृत्वा ददर्श लवणं पुनः ।

अनुवाद (हिन्दी)

आकाशको देवताओंसे भरा हुआ देख रघुकुलनन्दन शत्रुघ्नने बड़े जोरसे सिंहनाद करके लवणासुरकी ओर देखा ॥ ३२ १/२ ॥

विश्वास-प्रस्तुतिः

आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ॥ ३३ ॥
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।

सर्वाष् टीकाः
मूलम्

आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ॥ ३३ ॥
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।

अनुवाद (हिन्दी)

महात्मा शत्रुघ्नके पुनः ललकारनेपर लवणासुर क्रोधसे भर गया और फिर युद्धके लिये उनके सामने आया ॥ ३३ १/२ ॥

विश्वास-प्रस्तुतिः

आकर्णात् स विकृष्याथ तद् धनुर्धन्विनां वरः ॥ ३४ ॥
स मुमोच महाबाणं लवणस्य महोरसि ।

सर्वाष् टीकाः
मूलम्

आकर्णात् स विकृष्याथ तद् धनुर्धन्विनां वरः ॥ ३४ ॥
स मुमोच महाबाणं लवणस्य महोरसि ।

अनुवाद (हिन्दी)

तब धनुर्धरोंमें श्रेष्ठ शत्रुघ्नजीने अपने धनुषको कानतक खींचकर उस महाबाणको लवणासुरके विशाल वक्षःस्थलपर चलाया ॥ ३४ १/२ ॥

विश्वास-प्रस्तुतिः

उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥ ३५ ॥
गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।
पुनरेवागमत् तूर्णमिक्ष्वाकुकुलनन्दनम् ॥ ३६ ॥

सर्वाष् टीकाः
मूलम्

उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥ ३५ ॥
गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।
पुनरेवागमत् तूर्णमिक्ष्वाकुकुलनन्दनम् ॥ ३६ ॥

अनुवाद (हिन्दी)

वह देवपूजित दिव्य बाण तुरंत ही उस राक्षसके हृदयको विदीर्ण करके रसातलमें घुस गया तथा रसातलमें जाकर वह फिर तत्काल ही इक्ष्वाकुकुलनन्दन शत्रुघ्नजीके पास आ गया ॥ ३५-३६ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।
पपात सहसा भूमौ वज्राहत इवाचलः ॥ ३७ ॥

सर्वाष् टीकाः
मूलम्

शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।
पपात सहसा भूमौ वज्राहत इवाचलः ॥ ३७ ॥

अनुवाद (हिन्दी)

शत्रुघ्नजीके बाणसे विदीर्ण होकर निशाचर लवण वज्रके मारे हुए पर्वतके समान सहसा पृथ्वीपर गिर पड़ा ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तच्च शूलं महद् दिव्यं हते लवणराक्षसे ।
पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ ३८ ॥

सर्वाष् टीकाः
मूलम्

तच्च शूलं महद् दिव्यं हते लवणराक्षसे ।
पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ ३८ ॥

अनुवाद (हिन्दी)

लवणासुरके मारे जाते ही वह दिव्य एवं महान् शूल सब देवताओंके देखते-देखते भगवान् रुद्रके पास आ गया ॥ ३८ ॥

विश्वास-प्रस्तुतिः

एकेषुपातेन भयं निपात्य
लोकत्रयस्यास्य रघुप्रवीरः ।
विनिर्बभावुत्तमचापबाण-
स्तमः प्रणुद्येव सहस्ररश्मिः ॥ ३९ ॥

सर्वाष् टीकाः
मूलम्

एकेषुपातेन भयं निपात्य
लोकत्रयस्यास्य रघुप्रवीरः ।
विनिर्बभावुत्तमचापबाण-
स्तमः प्रणुद्येव सहस्ररश्मिः ॥ ३९ ॥

अनुवाद (हिन्दी)

इस प्रकार उत्तम धनुष-बाण धारण करनेवाले रघुकुलके प्रमुख वीर शत्रुघ्न एक ही बाणके प्रहारसे तीनों लोकोंके भयको नष्ट करके उसी प्रकार सुशोभित हुए, जैसे त्रिभुवनका अन्धकार दूर करके सहस्रकिरणधारी सूर्यदेव प्रकाशित हो उठते हैं ॥ ३९ ॥

विश्वास-प्रस्तुतिः

ततो हि देवा ऋषिपन्नगाश्च
प्रपूजिरे ह्यप्सरसश्च सर्वाः ।
दिष्ट्या जयो दाशरथेरवाप्त-
स्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ ४० ॥

सर्वाष् टीकाः
मूलम्

ततो हि देवा ऋषिपन्नगाश्च
प्रपूजिरे ह्यप्सरसश्च सर्वाः ।
दिष्ट्या जयो दाशरथेरवाप्त-
स्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ ४० ॥

अनुवाद (हिन्दी)

‘सौभाग्यकी बात है कि दशरथनन्दन शत्रुघ्नने भय छोड़कर विजय प्राप्त की और सर्पके समान लवणासुर मर गया’ ऐसा कहकर देवता, ऋषि, नाग और समस्त अप्सराएँ उस समय शत्रुघ्नजीकी भूरि-भूरि प्रशंसा करने लगीं ॥ ४० ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें उनहत्तरवाँ सर्ग पूरा हुआ ॥ ६९ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि अरवत्तॆण्टनॆय सर्ग पूर्णवायितु. ॥68॥