[अष्टषष्टितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- लवणासुरका आहारके लिये निकलना, शत्रुघ्नका मधुपुरीके द्वारपर डट जाना और लौटे हुए लवणासुरके साथ उनकी रोषभरी बातचीत
विश्वास-प्रस्तुतिः
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ १ ॥
सर्वाष् टीकाः
मूलम्
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ १ ॥
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।
पप्रच्छ च्यवनं विप्रं लवणस्य यथाबलम् ॥
अनुवाद (हिन्दी)
इस प्रकार कथा कहते और शुभ विजयकी आकांक्षा रखते हुए उन मुनियोंकी बातें सुनते-सुनते महात्मा शत्रुघ्नकी वह रात बात-की-बातमें बीत गयी ॥ १ ॥
विश्वास-प्रस्तुतिः
ततः प्रभाते विमले तस्मिन् काले स राक्षसः ।
निर्गतस्तु पुराद् वीरो भक्ष्याहारप्रचोदितः ॥ २ ॥
सर्वाष् टीकाः
मूलम्
ततः प्रभाते विमले तस्मिन् काले स राक्षसः ।
निर्गतस्तु पुराद् वीरो भक्ष्याहारप्रचोदितः ॥ २ ॥
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।
अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥
अनुवाद (हिन्दी)
तदनन्तर निर्मल प्रभातकाल होनेपर भक्ष्य पदार्थ एवं भोजनके संग्रहकी इच्छासे प्रेरित हो वह वीर राक्षस अपने नगरसे बाहर निकला ॥ २ ॥
अनुवाद (कन्नड)
हीगिरलु ऒन्दु दिन रात्रॆ शत्रुघ्ननु भृगुनन्दन च्यवनरल्लि केळिदनु - ब्रह्मन्! लवणासुरनल्लि ऎष्टु बलविदॆ? अवन शूलद शक्ति ऎष्टु? आ उत्तम शूलदिन्द अवनु युद्धदल्लि यारु यारन्नु वधिसिरुवनु.॥1-2॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ३ ॥
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥
अनुवाद (हिन्दी)
इसी बीचमें वीर शत्रुघ्न यमुना नदीको पार करके हाथमें धनुष लिये मधुपुरीके द्वारपर खड़े हो गये ॥ ३ ॥
अनुवाद (कन्नड)
महात्मा शत्रुघ्नन मातन्नु केळि महातेजस्वी च्यवनरु आ रघुकुलनन्दन राजकुमारनल्लि हेळिदरु.॥3॥
विश्वास-प्रस्तुतिः
ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।
आगच्छद् बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।
आगच्छद् बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ ४ ॥
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।
इक्ष्वाकुवंशप्रभवे यद् वृत्तं तच्छणुश्व मे ॥
अनुवाद (हिन्दी)
तत्पश्चात् मध्याह्न होनेपर वह क्रूरकर्मा राक्षस हजारों प्राणियोंका बोझा लिये वहाँ आया ॥ ४ ॥
अनुवाद (कन्नड)
रघुनन्दन! ई लवणासुरन कर्म असङ्ख्यवागिवॆ. अदल्लि ऒन्दु इक्ष्वाकुवंशी राजा मान्धातन मेलॆ घटिसिद कर्मवन्नु वर्णिसुवॆनु केळु.॥4॥
विश्वास-प्रस्तुतिः
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।
तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ५ ॥
ईदृशानां सहस्राणि सायुधानां नराधम ।
भक्षितानि मया रोषात् कालेनानुगतो ह्यसि ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।
तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ५ ॥
ईदृशानां सहस्राणि सायुधानां नराधम ।
भक्षितानि मया रोषात् कालेनानुगतो ह्यसि ॥ ६ ॥
अयोध्यायां पुरा राजा युनाश्वसुतोबली ।
मान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।
सुरलोकमितोजेतुमुद्योगमकरोन्नृपः ॥
अनुवाद (हिन्दी)
उस समय उसने शत्रुघ्नको अस्त्र-शस्त्र लिये द्वारपर खड़ा देखा । देखकर वह राक्षस उनसे बोला—‘नराधम! इस हथियारसे तू मेरा क्या कर लेगा । तेरे-जैसे हजारों अस्त्र-शस्त्रधारी मनुष्योंको मैं रोषपूर्वक खा चुका हूँ । जान पड़ता है काल तेरे सिरपर नाच रहा है ॥ ५-६ ॥
अनुवाद (कन्नड)
आ पृथिवीपति राजनु इडी पृथिवियन्नु गॆद्दु, देवलोकद मेलॆ विजय पडॆयलु उद्योग प्रारम्भिसिदनु.॥6॥
अनुवाद (कन्नड)
हिन्दॆ अयोध्यापुरियल्लि युवनाश्वन पुत्र राजा मान्धातनु राज्यवाळुत्तिद्दनु. अवनु भारी बलवन्तनू, पराक्रमियू आगिद्दु, मूरु लोकगळल्लि विख्यातनागिद्दनु.॥5॥
विश्वास-प्रस्तुतिः
आहारश्चाप्यसम्पूर्णो ममायं पुरुषाधम ।
स्वयं प्रविष्टोऽद्य मुखं कथमासाद्य दुर्मते ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
आहारश्चाप्यसम्पूर्णो ममायं पुरुषाधम ।
स्वयं प्रविष्टोऽद्य मुखं कथमासाद्य दुर्मते ॥ ७ ॥
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।
मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥
अनुवाद (हिन्दी)
‘पुरुषाधम! आजका यह मेरा आहार भी पूरा नहीं है । दुर्मते! तू स्वयं ही मेरे मुँहमें कैसे आ पड़ा?’ ॥ ७ ॥
अनुवाद (कन्नड)
राजामाधान्तनु देवलोकद मेलॆ विजय पडॆयलु उद्योग प्रारम्भिसिदाग इन्द्र हागू महात्मा देवतॆगळिगॆ भारी भय उण्टायितु.॥7॥
विश्वास-प्रस्तुतिः
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।
शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।
शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥ ८ ॥
अर्धासनेन शक्रस्य राज्यार्धेन पार्थिवः ।
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥
अनुवाद (हिन्दी)
वह राक्षस इस प्रकारकी बातें कहता हुआ बारंबार हँस रहा था । यह देख पराक्रमी शत्रुघ्नके नेत्रोंसे रोषके कारण अश्रुपात होने लगा ॥ ८ ॥
अनुवाद (कन्नड)
नानु इन्द्रन अर्धासन मत्तु अवन अर्धराज्य पडॆदु भूमण्डलद राजनागि, देवतॆगळिन्द वन्दितनागि इरुवॆनु, ऎम्ब प्रतिज्ञॆ माडि अवनु स्वर्गक्कॆ दाळियिट्टनु.॥8॥
विश्वास-प्रस्तुतिः
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ९ ॥
तस्य पापमभिप्रायं विदित्वा पाकशासनः ।
सान्त्व्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥
अनुवाद (हिन्दी)
रोषके वशीभूत हुए महामनस्वी शत्रुघ्नके सभी अङ्गोंसे तेजोमयी किरणें छिटकने लगीं ॥ ९ ॥
अनुवाद (कन्नड)
अवन ई दुरभिप्रायवन्नु तिळिदु पाकशासन इन्द्रनु आ युवनाश्व पुत्र मान्धातन बळिगॆ होगि, अवनन्नु शान्तवागि समजायिसुत्ता हेळिदनु.॥9॥
विश्वास-प्रस्तुतिः
उवाच च सुसङ्क्रुद्धः शत्रुघ्नः स निशाचरम् ।
योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० ॥
सर्वाष् टीकाः
मूलम्
उवाच च सुसङ्क्रुद्धः शत्रुघ्नः स निशाचरम् ।
योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० ॥
राजा त्वं मानुषे लोकेन तावत्पुरुषर्षभ ।
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥
अनुवाद (हिन्दी)
उस समय अत्यन्त कुपित हुए शत्रुघ्न उस निशाचरसे बोले—‘दुर्बुद्धे! मैं तेरे साथ द्वन्द्वयुद्ध करना चाहता हूँ ॥ १० ॥
अनुवाद (कन्नड)
पुरुषप्रवर! ईग नीनु इडी मर्त्यलोकक्कॆ राजनागलिल्ल. समग्र पृथिवियन्नु वशपडिसदॆये देवतॆगळ राज्यवन्नु हेगॆ पडॆयलु बयसुवॆ.॥10॥
विश्वास-प्रस्तुतिः
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।
शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।
शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ११ ॥
यदि वीर समग्रा ते मेदिनी निखिला वशे ।
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥
अनुवाद (हिन्दी)
‘मैं महाराज दशरथका पुत्र और परम बुद्धिमान् राजा श्रीरामका भाई हूँ । मेरा नाम शत्रुघ्न है और मैं कामसे भी शत्रुघ्न (शत्रुओंका संहार करनेवाला) ही हूँ । इस समय तेरा वध करनेके लिये यहाँ आया हूँ ॥ ११ ॥
अनुवाद (कन्नड)
वीरने! इडी पृथिवी निन्न वशवादरॆ नीनु सेवक, सैन्य, वाहनगळ सहित इल्ले देवलोकद राज्यवाळु.॥11॥
विश्वास-प्रस्तुतिः
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।
शत्रुस्त्वं सर्वभूतानां न मे जीवन् गमिष्यसि ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।
शत्रुस्त्वं सर्वभूतानां न मे जीवन् गमिष्यसि ॥ १२ ॥
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥
अनुवाद (हिन्दी)
‘मैं युद्ध करना चाहता हूँ । इसलिये तू मुझे द्वन्द्वयुद्धका अवसर दे । तू सम्पूर्ण प्राणियोंका शत्रु है; इसलिये अब मेरे हाथसे जीवित बचकर नहीं जा सकेगा’ ॥ १२ ॥
अनुवाद (कन्नड)
हीगॆ हेळिदाग इन्द्रनल्लि मान्धातनु केळिदनु- देवराज! ई पृथिवियल्लि ऎल्लि नन्न आदेशद अवहेळनॆ नडॆयुत्तदॆ तिळिसु.॥12॥
विश्वास-प्रस्तुतिः
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते ॥ १३ ॥
तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।
मधुपुत्रो मधुवने न तेऽऽज्ञां कुरुतेऽनघ ॥
अनुवाद (हिन्दी)
उनके ऐसा कहनेपर वह राक्षस उन नरश्रेष्ठ शत्रुघ्नसे हँसता हुआ-सा बोला—‘दुर्मते! सौभाग्यकी बात है कि आज तू स्वयं ही मुझे मिल गया ॥ १३ ॥
अनुवाद (कन्नड)
आग इन्द्रनु हेळिदनु - निष्पाप नरेशने! मधुवनदल्लि मधुविन पुत्र लवणासुर इरुत्तानॆ. अवनु निन्न आज्ञॆयन्नु मन्निसुवुदिल्ल.॥13॥
विश्वास-प्रस्तुतिः
मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः ।
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः ।
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ १४ ॥
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।
व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥
अनुवाद (हिन्दी)
‘खोटी बुद्धिवाले नराधम! रावण नामक राक्षस मेरी मौसी शूर्पणखाका भाई था, जिसे तेरे भाई रामने एक स्त्रीके लिये मार डाला ॥ १४ ॥
अनुवाद (कन्नड)
इन्द्रनु हेळिद ई घोर, अप्रिय मातन्नु केळि नाचिकॆयिन्द राजा मान्धातन मुख तग्गितु. अवनु एन्नु मातनाडदादनु.॥14॥
विश्वास-प्रस्तुतिः
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ ॥
आमन्त्य्र तु सहस्राक्षं प्रायात्किञ्चिदवाङ्मुखः ।
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥
अनुवाद (हिन्दी)
‘इतना ही नहीं, उन्होंने रावणके कुलका संहार कर दिया, तथापि मैंने वह सब कुछ सह लिया । तुमलोगोंके द्वारा की गयी अवहेलनाको सामने रखकर—प्रत्यक्ष देखकर भी तुम सबके प्रति मैंने विशेषरूपसे क्षमाभावका परिचय दिया ॥ १५ ॥
अनुवाद (कन्नड)
आ नरेशनु इन्द्रनिन्द बीळ्कॊण्डु तलॆ तग्गिसि अल्लिन्द हॊरटु होदनु हागु पुनः ई मर्त्यलोकक्कॆ बन्दनु.॥15॥
विश्वास-प्रस्तुतिः
निहताश्च हि ते सर्वे परिभूतास्तृणं यथा ।
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
निहताश्च हि ते सर्वे परिभूतास्तृणं यथा ।
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ १६ ॥
स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः ।
आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥
अनुवाद (हिन्दी)
‘जो नराधम भूतकालमें मेरा सामना करनेके लिये आये थे, उन सबको मैंने तिनकोंके समान तुच्छ समझकर तिरस्कृत किया और मार डाला । जो भविष्यमें आयेंगे, उनकी भी यही दशा होगी और वर्तमानकालमें आनेवाले तुझ-जैसे नराधम भी मेरे हाथसे मरे हुए ही हैं ॥ १६ ॥
अनुवाद (कन्नड)
अवनु तन्न हृदयदल्लि क्रोध तुम्बिकॊण्डु, आ शत्रुदमन मान्धाता मधुपुत्रनन्नु वशपडिसिकॊळ्ळलु सेवक, सैन्य, वाहनगळॊन्दिगॆ अवन राजधानिय समीपक्कॆ बन्दनु.॥16॥
विश्वास-प्रस्तुतिः
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।
तिष्ठ त्वं च मुहूर्तं तु यावदायुधमानये ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।
तिष्ठ त्वं च मुहूर्तं तु यावदायुधमानये ॥ १७ ॥
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।
दूतं सम्प्रेषयामास सकाशं लवणस्य सः ॥
अनुवाद (हिन्दी)
‘दुर्मते! तुझे युद्धकी इच्छा है न? मैं अभी तुझे युद्धका अवसर दूँगा । तू दो घड़ी ठहर जा । तबतक मैं भी अपना अस्त्र ले आता हूँ ॥ १७ ॥
अनुवाद (कन्नड)
पुरुषप्रवर शत्रुघ्ननु युद्धद इच्छॆयिन्द लवणासुरन बळिगॆ तन्न दूतनन्नु कळिसिदनु.॥17॥
विश्वास-प्रस्तुतिः
ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ।
तमुवाचाशु शत्रुघ्नः क्व मे जीवन् गमिष्यसि ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ।
तमुवाचाशु शत्रुघ्नः क्व मे जीवन् गमिष्यसि ॥ १८ ॥
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।
वदन्तमेवं तं दूतम्भक्षयामास राक्षसः ॥
अनुवाद (हिन्दी)
‘तेरे वधके लिये जैसे अस्त्रका होना मुझे अभीष्ट है, वैसे अस्त्रको पहले सुसज्जित कर लूँ; फिर युद्धका अवसर दूँगा ।’ यह सुनकर शत्रुघ्न तुरंत बोल उठे—‘अब तू मेरे हाथसे जीवित बचकर कहाँ जायगा? ॥ १८ ॥
अनुवाद (कन्नड)
दूतनु अल्लिगॆ होगि मधुपुत्रनिगॆ अनेक कटुवचनगळन्नु हेळिदनु. हीगॆ कठोर मातुगळन्नाडुव आ दूतनन्नु राक्षसनु कूडले तिन्दुहाकिदनु.॥18॥
विश्वास-प्रस्तुतिः
स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना ।
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे दिशेत् ।
स हतो मन्दबुद्धिः स्याद् यथा कापुरुषस्तथा ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना ।
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे दिशेत् ।
स हतो मन्दबुद्धिः स्याद् यथा कापुरुषस्तथा ॥ १९ ॥
चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।
अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥
अनुवाद (हिन्दी)
‘किसी भी बुद्धिमान् पुरुषको अपने सामने आये हुए शत्रुको छोड़ना नहीं चाहिये । जो अपनी घबरायी हुई बुद्धिके कारण शत्रुको निकल जानेका अवसर दे देता है, वह मन्दबुद्धि पुरुष कायरके समान मारा जाता है ॥ १९ ॥
अनुवाद (कन्नड)
दूतनु मरळलु तडवादाग राजनु बहळ क्रुद्धनागि बाणगळ मळॆसुरिदु आ राक्षसनन्नु पीडिसतॊडगिदनु.॥19॥
विश्वास-प्रस्तुतिः
तस्मात् सुदृष्टं कुरु जीवलोकं
शरैः शितैस्त्वां विविधैर्नयामि ।
यमस्य गेहाभिमुखं हि पापं
रिपुं त्रिलोकस्य च राघवस्य ॥ २० ॥
सर्वाष् टीकाः
मूलम्
तस्मात् सुदृष्टं कुरु जीवलोकं
शरैः शितैस्त्वां विविधैर्नयामि ।
यमस्य गेहाभिमुखं हि पापं
रिपुं त्रिलोकस्य च राघवस्य ॥ २० ॥
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥
अनुवाद (हिन्दी)
‘अतः राक्षस! अब तू इस जीव-जगत् को अच्छी तरह देख ले । मैं नाना प्रकारके तीखे बाणोंद्वारा तुझ पापीको अभी यमराजके घरकी ओर भेजता हूँ; क्योंकि तू तीनों लोकोंका तथा श्रीरघुनाथजीका भी शत्रु है’ ॥ २० ॥
अनुवाद (कन्नड)
आग लवणासुरनु नगुत्ता कैयल्लि आ शूलवन्नॆत्तिकॊण्डु, सेवकर सहित राजा मान्धातनन्नु मधिसलु उत्तम अस्त्रगळन्नु अवन मेलॆ प्रयोगिसिदनु.॥20॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डेऽष्टषष्टितमः सर्गः ॥ ६८ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें अड़सठवाँ सर्ग पूरा हुआ ॥ ६८ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि अरवत्तेळनॆय सर्ग पूर्णवायितु. ॥67॥