[सप्तषष्टितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- च्यवन मुनिका शत्रुघ्नको लवणासुरके शूलकी शक्तिका परिचय देते हुए राजा मान्धाताके वधका प्रसंग सुनाना
विश्वास-प्रस्तुतिः
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।
पप्रच्छ च्यवनं विप्रं लवणस्य यथाबलम् ॥ १ ॥
शूलस्य च बलं ब्रह्मन् के च पूर्वं विनाशिताः ।
अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ २ ॥
सर्वाष् टीकाः
मूलम्
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।
पप्रच्छ च्यवनं विप्रं लवणस्य यथाबलम् ॥ १ ॥
शूलस्य च बलं ब्रह्मन् के च पूर्वं विनाशिताः ।
अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ २ ॥
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥
ततोऽर्धरात्रसमये बालका मुनिदारकाः ।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥
अनुवाद (हिन्दी)
एक दिन रातके समय शत्रुघ्नने भृगुनन्दन ब्रह्मर्षि च्यवनसे पूछा—‘ब्रह्मन्! लवणासुरमें कितना बल है? उसके शूलमें कितनी शक्ति है? उस उत्तम शूलके द्वारा उसने द्वन्द्व-युद्धमें आये हुए किन-किन योद्धाओंका वध किया है?’ ॥ १-२ ॥
अनुवाद (कन्नड)
अनन्तर अर्ध रात्रिय समयदल्लि मुनिकुमाररु बन्दु वाल्मीकिगळिगॆ सीतॆयु इब्बरु गण्डु मक्कळन्नु प्रसविसिदळु ऎम्ब शुभवाद, प्रियसमाचारवन्नु तिळिसिदरु.॥2॥
अनुवाद (कन्नड)
याव रात्रियल्लि शत्रुघ्ननु पर्णशालॆयन्नु प्रवेशिसिदनो, अदे रात्रॆ सीतादेवियु इब्बरु गण्डु मक्कळिगॆ जन्मवन्नित्तळु.॥1॥
विश्वास-प्रस्तुतिः
तस्य तद् वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
तस्य तद् वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ ३ ॥
भगवन् रामपत्नी सा प्रसूता दारकद्वयम् ।
ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥
अनुवाद (हिन्दी)
महात्मा शत्रुघ्नजीका यह वचन सुनकर महातेजस्वी च्यवनने उन रघुकुलनन्दन राजकुमारसे कहा— ॥ ३ ॥
अनुवाद (कन्नड)
पूज्यरे! श्रीरामचन्द्रन धर्मपत्नियु इब्बरु पुत्ररिगॆ जन्म नीडिरुवळु. आद्दरिन्द महातेजस्वी महर्षिगळे! नीवु अवुगळ बालग्रहजनित बाधॆ दूरगॊळिसुव रक्षॆयन्नु माडिरि.॥3॥
विश्वास-प्रस्तुतिः
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।
इक्ष्वाकुवंशप्रभवे यद् वृत्तं तच्छृणुष्व मे ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन ।
इक्ष्वाकुवंशप्रभवे यद् वृत्तं तच्छृणुष्व मे ॥ ४ ॥
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।
बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥
अनुवाद (हिन्दी)
‘रघुनन्दन! इस लवणासुरके कर्म असंख्य हैं । उनमेंसे एक ऐसे कर्मका वर्णन किया जाता है, जो इक्ष्वाकुवंशी राजा मान्धाताके ऊपर घटित हुआ था । तुम उसे मेरे मुँहसे सुनो ॥ ४ ॥
अनुवाद (कन्नड)
आ मुनिकुमारर मातन्नु केळि महर्षिगळु सीतॆय इब्बरु बालचन्द्ररन्तॆ सुन्दर, देवकुमाररन्तॆ महातेजस्वी बालकर बळिगॆ होदरु.॥4॥
विश्वास-प्रस्तुतिः
अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।
मान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।
मान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ५ ॥
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।
भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥
अनुवाद (हिन्दी)
‘पूर्वकालकी बात है अयोध्यापुरीमें युवनाश्वके पुत्र राजा मान्धाता राज्य करते थे । वे बड़े बलवान्, पराक्रमी तथा तीनों लोकोंमें विख्यात थे ॥ ५ ॥
अनुवाद (कन्नड)
वाल्मीकिगळु प्रसन्नचित्तरागि सूतिकागारवन्नु प्रवेशिसि, आ इब्बरु कुमाररन्नु नोडिदरु हागू अवरिगॆ भूत-राक्षसर रक्षॆय व्यवस्थॆ माडिदरु.॥5॥
विश्वास-प्रस्तुतिः
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।
सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।
सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ६ ॥
कुशमुष्टि मुपादायलवं चैव तु स द्विजः ।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥
अनुवाद (हिन्दी)
‘उन पृथिवीपति नरेशने सारी पृथ्वीको अपने अधिकारमें करके यहाँसे देवलोकपर विजय पानेका उद्योग आरम्भ किया ॥ ६ ॥
अनुवाद (कन्नड)
ब्रह्मर्षिगळु वाल्मीकिगळु ऒन्दु मुष्टिदर्भॆगळ (मध्यक्कॆ सरियागि कत्तरिसिद दर्भॆगळ अग्रभागवन्नु ‘कुश’वॆन्दू, कॆळगिन भागवन्नु ‘लव’वॆन्दु हेळुत्तारॆ.) लवदिन्द इब्बरू बालकरिगॆ भूतबाधॆ निवारणॆगागि रक्षाविधानवन्नु माडिदरु.॥6॥
विश्वास-प्रस्तुतिः
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।
मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।
मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७ ॥
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्र सत्कृतैः ।
निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥
अनुवाद (हिन्दी)
‘राजा मान्धाताने जब देवलोकपर विजय पानेकी इच्छासे उद्योग आरम्भ किया, तब इन्द्र तथा महामनस्वी देवताओंको बड़ा भय हुआ ॥ ७ ॥
विश्वास-प्रस्तुतिः
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥ ८ ॥
यश्चावरो भवेत्ताभ्यां लवेन सुसमाहितः ।
निर्मार्जनीयो वृद्धाभिर्लवेति च स नामतः ॥
अनुवाद (हिन्दी)
‘‘मैं इन्द्रका आधा सिंहासन और उनका आधा राज्य लेकर भूमण्डलका राजा हो देवताओंसे वन्दित होकर रहूँगा’ ऐसी प्रतिज्ञा करके वे स्वर्गलोकपर जा चढ़े ॥ ८ ॥
अनुवाद (कन्नड)
इब्बरु बालकरल्लि मॊदलु हुट्टिदवनन्नु मन्त्रगळिन्द संस्करिसिद आ कुशगळिन्द वृद्ध स्त्रीयरु मार्जन माडिदरु. हीगॆ माडिदाग आ बालकन हॆसरु ‘कुश’ ऎन्दागुवुदु. अवरल्लि किरियवनन्नु मार्जन माडिरि. इदरिन्द अवन हॆसरु ‘लव’ ऎन्दागुवुदु.॥7-8॥
विश्वास-प्रस्तुतिः
तस्य पापमभिप्रायं विदित्वा पाकशासनः ।
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
तस्य पापमभिप्रायं विदित्वा पाकशासनः ।
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ९ ॥
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥
अनुवाद (हिन्दी)
‘उनके खोटे अभिप्रायको जानकर पाकशासन इन्द्र उन युवनाश्व पुत्र मान्धाताके पास गये और उन्हें शान्तिपूर्वक समझाते हुए इस प्रकार बोले— ॥ ९ ॥
अनुवाद (कन्नड)
हीगॆ अवळियागि उत्पन्नराद इब्बरू बालकरु क्रमवागि कुश मत्तु लव ऎम्ब नामधेय धरिसुवरु हागू नानू निश्चयिसिद इदे हॆसरुगळिन्द भूमण्डलदल्लि विख्यातरागुवरु.॥9॥
विश्वास-प्रस्तुतिः
राजा त्वं मानुषे लोके न तावत् पुरुषर्षभ ।
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ १० ॥
सर्वाष् टीकाः
मूलम्
राजा त्वं मानुषे लोके न तावत् पुरुषर्षभ ।
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ १० ॥
तां रक्षां जगृहुस्तां च मुनिहस्तात्समाहिताः ।
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥
अनुवाद (हिन्दी)
‘‘पुरुषप्रवर! अभी तुम सारे मर्त्यलोकके भी राजा नहीं हो । समूची पृथ्वीको वशमें किये बिना ही देवताओंका राज्य कैसे लेना चाहते हो ॥ १० ॥
अनुवाद (कन्नड)
इदन्नु केळि निष्पाप वृद्ध स्त्रीयरु एकाग्रचित्तरागि मुनिय कैयिन्द रक्षॆय साधनीभूत दर्भॆगळन्नु पडॆदु, अवुगळिन्द आ इब्बरू बालकरिगॆ मार्जन माडि रक्षॆमाडिदरु.॥10॥
विश्वास-प्रस्तुतिः
यदि वीर समग्रा ते मेदिनी निखिला वशे ।
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
यदि वीर समग्रा ते मेदिनी निखिला वशे ।
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ११ ॥
तथा तां क्रियमाणां च वृद्धाभिर्गोत्रनाम च ।
सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥
अनुवाद (हिन्दी)
‘‘वीर! यदि सारी पृथ्वी तुम्हारे वशमें हो जाय तो तुम सेवकों, सेनाओं और सवारियोंसहित यहाँ देवलोकका राज्य करना’ ॥ ११ ॥
विश्वास-प्रस्तुतिः
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ १२ ॥
अर्धरात्रे तु शत्रुघ्नः शुश्रावसुमहत्प्रियम् ।
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥
अनुवाद (हिन्दी)
‘ऐसी बातें कहते हुए इन्द्रसे मान्धाताने पूछा—‘देवराज! बताइये तो सही, इस पृथ्वीपर कहाँ मेरे आदेशकी अवहेलना होती है’ ॥ १२ ॥
अनुवाद (कन्नड)
वृद्धस्त्रीयरु हीगॆ रक्षॆ माडतॊडगिदाग अर्धरात्रॆ श्रीराम मत्तु सीतॆय नामगोत्रवन्नुच्चरिसिद ध्वनि शत्रुघ्नन किविगॆ बित्तु. जॊतॆगॆ सीतॆय इब्बरु सुन्दरु हुट्टिद सुन्दर संवादवू केळि बन्तु. आग अवनु सीतॆय पर्णशालॆगॆ होगि-माताजी ! इदु बहळ दॊड्ड सौभाग्यद मातागिदॆ ऎन्दु हेळिदनु.॥11-12॥
विश्वास-प्रस्तुतिः
तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।
मधुपुत्रो मधुवने न तेऽऽज्ञां कुरुतेऽनघ ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।
मधुपुत्रो मधुवने न तेऽऽज्ञां कुरुतेऽनघ ॥ १३ ॥
तदा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा ॥
अनुवाद (हिन्दी)
‘तब इन्द्रने कहा—‘निष्पाप नरेश! मधुवनमें मधुका पुत्र लवणासुर रहता है । वह तुम्हारी आज्ञा नहीं मानता’ ॥
अनुवाद (कन्नड)
महात्मा शत्रुघ्ननु अत्यन्त प्रहृष्टनागि श्रावणद आ रात्रियु मातनाडुत्तिद्दन्तॆ कळॆदु होदुदे तिळियलिल्ल.॥13॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।
व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।
व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥ १४ ॥
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।
मुनिं प्राञ्जलिरामन्त्य्र ययौ पश्चान्मुखः पुनः ॥
अनुवाद (हिन्दी)
‘इन्द्रकी कही हुई यह घोर अप्रिय बात सुनकर राजा मान्धाताका मुख लज्जासे झुक गया । वे कुछ बोल न सके ॥ १४ ॥
अनुवाद (कन्नड)
बॆळगादाग पूर्वाह्णद सन्ध्यावन्दनादिगळन्नु पूरैसि महापराक्रमि शत्रुघ्ननु कैमुगिदु मुनियिन्द बीळ्कॊण्डु पश्चिमदिक्किगॆ प्रयाणिसिदनु.॥14॥
विश्वास-प्रस्तुतिः
आमन्त्र्य तु सहस्राक्षं प्रायात् किञ्चिदवाङ्मुखः ।
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
आमन्त्र्य तु सहस्राक्षं प्रायात् किञ्चिदवाङ्मुखः ।
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ १५ ॥
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥
अनुवाद (हिन्दी)
‘वे नरेश इन्द्रसे विदा ले मुँह लटकाये वहाँसे चल दिये और पुनः इस मर्त्यलोकमें ही आ पहुँचे ॥ १५ ॥
अनुवाद (कन्नड)
मार्गदल्लि एळु रात्रिगळन्नु कळॆदु अवनु यमुना तीरक्कॆ तलुपिदनु. अल्लि पुण्यकीर्ति महर्षिगळ आश्रमदल्लि इरतॊडगिदनु.॥15॥
विश्वास-प्रस्तुतिः
स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः ।
आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः ।
आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ १६ ॥
स तत्र मुनिभिः सार्धं भागर्वप्रमुखैर्नृपः ।
कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥
अनुवाद (हिन्दी)
‘उन्होंने अपने हृदयमें अमर्ष भर लिया । फिर वे शत्रुदमन मान्धाता मधुके पुत्रको वशमें करनेके लिये सेवक, सेना और सवारियोंसहित उसकी राजधानीके समीप आये ॥ १६ ॥
अनुवाद (कन्नड)
महायशस्वी राजाशत्रुघ्ननु अल्लि च्यवनरे आदि मुनिगळ जॊतॆगॆ सुन्दर कथा-वार्तालाप दिन्द कालक्षेप माडुत्ता वासिसिदनु.॥16॥
विश्वास-प्रस्तुतिः
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।
दूतं सम्प्रेषयामास सकाशं लवणस्य सः ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।
दूतं सम्प्रेषयामास सकाशं लवणस्य सः ॥ १७ ॥
स काञ्चनाद्यैर्मुनिभिः समेतै
रघुप्रवीरो रजनीं तदानीम् ।
कथाप्रकारैर्बहुभिर्महात्मा
विरामयामास नरेन्द्रसूनुः ॥
अनुवाद (हिन्दी)
‘उन पुरुषप्रवर नरेशने युद्धकी इच्छासे लवणके पास अपना दूत भेजा ॥ १७ ॥
अनुवाद (कन्नड)
हीगॆ रघुकुलद प्रमुखवीर महात्मा राजकुमार शत्रुघ्ननु अल्लि नॆरॆद च्यवनादि मुनिगळॊन्दिगॆ नाना प्रकारद कथॆगळन्नु केळुत्ता आ दिनगळल्लि यमुना तीरदल्लि रात्रॆगळन्नु कळॆयतॊडगिदनु.॥17॥
विश्वास-प्रस्तुतिः
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।
वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।
वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ १८ ॥
अनुवाद (हिन्दी)
‘दूतने वहाँ जाकर मधुके पुत्रको बहुत-से कटुवचन सुनाये । इस तरह कठोर बातें कहते हुए उस दूतको वह राक्षस तुरंत खा गया ॥ १८ ॥
विश्वास-प्रस्तुतिः
चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।
अर्दयामास तद् रक्षः शरवृष्ट्या समन्ततः ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।
अर्दयामास तद् रक्षः शरवृष्ट्या समन्ततः ॥ १९ ॥
अनुवाद (हिन्दी)
‘जब दूतके लौटनेमें विलम्ब हुआ, तब राजा बड़े क्रुद्ध हुए और बाणोंकी वर्षा करके उस राक्षसको सब ओरसे पीड़ित करने लगे ॥ १९ ॥
विश्वास-प्रस्तुतिः
ततः प्रहस्य तद् रक्षः शूलं जग्राह पाणिना ।
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ २० ॥
सर्वाष् टीकाः
मूलम्
ततः प्रहस्य तद् रक्षः शूलं जग्राह पाणिना ।
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ २० ॥
अनुवाद (हिन्दी)
‘तब लवणासुरने हँसकर हाथसे वह शूल उठाया और सेवकोंसहित राजा मान्धाताका वध करनेके लिये उस उत्तम अस्त्रको उनके ऊपर छोड़ दिया ॥ २० ॥
विश्वास-प्रस्तुतिः
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।
भस्मीकृत्वा नृपं भूयो लवणस्यागमत् करम् ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।
भस्मीकृत्वा नृपं भूयो लवणस्यागमत् करम् ॥ २१ ॥
अनुवाद (हिन्दी)
‘वह चमचमाता हुआ शूल सेवक, सेना और सवारियोंसहित राजा मान्धाताको भस्म करके फिर लवणासुरके हाथमें आ गया ॥ २१ ॥
विश्वास-प्रस्तुतिः
एवं स राजा सुमहान् हतः सबलवाहनः ।
शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
एवं स राजा सुमहान् हतः सबलवाहनः ।
शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ २२ ॥
अनुवाद (हिन्दी)
‘इस प्रकार सारी सेना और सवारियोंके साथ महाराज मान्धाता मारे गये । सौम्य! उस शूलकी शक्ति असीम और सबसे बढ़ी-चढ़ी है ॥ २२ ॥
विश्वास-प्रस्तुतिः
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ २३ ॥
अनुवाद (हिन्दी)
‘राजन्! कल सबेरे जबतक वह राक्षस उस अस्त्रको न ले, तबतक ही शीघ्रता करनेपर तुम निःसंदेह उसका वध कर सकोगे और इस प्रकार निश्चय ही तुम्हारी विजय होगी ॥ २३ ॥
विश्वास-प्रस्तुतिः
लोकानां स्वस्ति चैवं स्यात् कृते कर्मणि च त्वया ।
एतत् ते सर्वमाख्यातं लवणस्य दुरात्मनः ॥ २४ ॥
शूलस्य च बलं घोरमप्रमेयं नरर्षभ ।
विनाशश्चैव मान्धातुर्यत्नेनाभूच्च पार्थिव ॥ २५ ॥
सर्वाष् टीकाः
मूलम्
लोकानां स्वस्ति चैवं स्यात् कृते कर्मणि च त्वया ।
एतत् ते सर्वमाख्यातं लवणस्य दुरात्मनः ॥ २४ ॥
शूलस्य च बलं घोरमप्रमेयं नरर्षभ ।
विनाशश्चैव मान्धातुर्यत्नेनाभूच्च पार्थिव ॥ २५ ॥
अनुवाद (हिन्दी)
‘तुम्हारे द्वारा यह कार्य सम्पन्न होनेपर समस्त लोकोंका कल्याण होगा । नरश्रेष्ठ! इस तरह मैंने तुम्हें दुरात्मा लवणका सारा बल बता दिया और उसके शूलकी भी घोर एवं असीम शक्तिका परिचय दे दिया । पृथ्वीनाथ! इन्द्रके प्रयत्नसे उसी शूलके द्वारा राजा मान्धाताका विनाश हुआ था ॥ २४-२५ ॥
विश्वास-प्रस्तुतिः
त्वं श्वः प्रभाते लवणं महात्मन्
वधिष्यसे नात्र तु संशयो मे ।
शूलं विना निर्गतमामिषार्थे
ध्रुवो जयस्ते भविता नरेन्द्र ॥ २६ ॥
सर्वाष् टीकाः
मूलम्
त्वं श्वः प्रभाते लवणं महात्मन्
वधिष्यसे नात्र तु संशयो मे ।
शूलं विना निर्गतमामिषार्थे
ध्रुवो जयस्ते भविता नरेन्द्र ॥ २६ ॥
अनुवाद (हिन्दी)
‘महात्मन्! कल सबेरे जब वह शूल लिये बिना ही मांसका संग्रह करनेके लिये निकलेगा, तभी तुम उसका वध कर डालोगे, इसमें संशय नहीं है । नरेन्द्र! अवश्य तुम्हारी विजय होगी’ ॥ २६ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें सरसठवाँ सर्ग पूरा हुआ ॥ ६७ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि अरवत्तारनॆय सर्ग पूर्णवायितु. ॥66॥