[षट्षष्टितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- सीताके दो पुत्रोंका जन्म, वाल्मीकिद्वारा उनकी रक्षाकी व्यवस्था और इस समाचारसे प्रसन्न हुए शत्रुघ्नका वहाँसे प्रस्थान करके यमुनातटपर पहुँचना
विश्वास-प्रस्तुतिः
यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् ।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् ।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ १ ॥
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।
एक एवातु शत्रुघ्नो जगाम त्वरितं तदा ॥
अनुवाद (हिन्दी)
जिस रातको शत्रुघ्नने पर्णशालामें प्रवेश किया था, उसी रातमें सीताजीने दो पुत्रोंको जन्म दिया ॥ १ ॥
अनुवाद (कन्नड)
तन्न सैन्यवन्नु मुन्दॆ कळिसि, अयोध्यॆयल्लि ऒन्दु तिङ्गळु इद्दु, शत्रुघ्ननु ऒब्बण्टिगनागि अयोध्यॆयिन्द मधुवनद दारियल्लि वेगवागि होगतॊडगिदनु.॥1॥
विश्वास-प्रस्तुतिः
ततोऽर्धरात्रसमये बालका मुनिदारकाः ।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ २ ॥
सर्वाष् टीकाः
मूलम्
ततोऽर्धरात्रसमये बालका मुनिदारकाः ।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ २ ॥
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।
वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥
अनुवाद (हिन्दी)
तदनन्तर आधी रातके समय कुछ मुनिकुमारोंने वाल्मीकिजीके पास आकर उन्हें सीताजीके प्रसव होनेका शुभ एवं प्रिय समाचार सुनाया— ॥ २ ॥
अनुवाद (कन्नड)
रघुकुलनन्दन शूर वीर शत्रुघ्ननु दारियल्लि ऎरडु रात्रॆ कळॆदु, मूरनॆय दिन महर्षि वाल्मीकिगळ पवित्र आश्रमक्कॆ तलुपिदनु. अदु ऎल्लक्किन्त उत्तम वासस्थानवागित्तु.॥2॥
विश्वास-प्रस्तुतिः
भगवन् रामपत्नी सा प्रसूता दारकद्वयम् ।
ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
भगवन् रामपत्नी सा प्रसूता दारकद्वयम् ।
ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ३ ॥
सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥
अनुवाद (हिन्दी)
‘भगवन्! श्रीरामचन्द्रजीकी धर्मपत्नीने दो पुत्रोंको जन्म दिया है; अतः महातेजस्वी महर्षे! आप उनकी बालग्रहजनित बाधा निवृत्त करनेवाली रक्षा करें’ ॥ ३ ॥
अनुवाद (कन्नड)
अल्लि अवनु कैमुगिदु मुनिश्रेष्ठ महात्मराद वाल्मीकिगळिगॆ वन्दिसि, इन्तॆन्दनु.॥3॥
विश्वास-प्रस्तुतिः
तेषां तद् वचनं श्रुत्वा महर्षिः समुपागमत् ।
बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
तेषां तद् वचनं श्रुत्वा महर्षिः समुपागमत् ।
बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ४ ॥
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥
अनुवाद (हिन्दी)
उन कुमारोंकी वह बात सुनकर महर्षि उस स्थानपर गये । सीताके वे दोनों पुत्र बालचन्द्रमाके समान सुन्दर तथा देवकुमारोंके समान महातेजस्वी थे ॥ ४ ॥
अनुवाद (कन्नड)
पूज्यरे! नानु अण्णनाद श्रीरघुनाथन कार्यदिन्द इत्त बन्दिरुवॆनु. इन्दिन इरुळन्नु इल्लि कळॆयलु निश्चयिसिद्देनॆ. नाळॆ बॆळिग्गॆ वरुणन पश्चिमदिक्किगॆ हॊरटु होगुवॆनु.॥4॥
विश्वास-प्रस्तुतिः
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।
भूतघ्नीं चाकरोत् ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।
भूतघ्नीं चाकरोत् ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ५ ॥
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं तेमहायशः ॥
अनुवाद (हिन्दी)
वाल्मीकिजीने प्रसन्नचित्त होकर सूतिकागारमें प्रवेश किया और उन दोनों कुमारोंको देखा तथा उनके लिये भूतों और राक्षसोंका विनाश करनेवाली रक्षाकी व्यवस्था की ॥ ५ ॥
अनुवाद (कन्नड)
शत्रुघ्नन मातन्नु केळि मुनिवर्य वाल्मीकिगळु आ महात्मनिगॆ नगुत्ता उत्तरिसिदरु-महायशस्वी वीरने! निनगॆ स्वागतविदॆ.॥5॥
विश्वास-प्रस्तुतिः
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥ ६ ॥
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य वै ।
आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥
अनुवाद (हिन्दी)
ब्रह्मर्षि वाल्मीकिने एक कुशाओंका मुट्ठा और उनके लव लेकर उनके द्वारा दोनों बालकोंकी भूत-बाधाका निवारण करनेके लिये रक्षा-विधिका उपदेश दिया— ॥ ६ ॥
अनुवाद (कन्नड)
सौम्य! ई आश्रमवु रघुवंशीयरिगॆ तम्म मनॆये आगिदॆ. नीनु निःशङ्कनागि नानु नीडुव आसन, पाद्य, अर्घ्य स्वीकरिसु.॥6॥
विश्वास-प्रस्तुतिः
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।
निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७ ॥
यश्चावरो भवेत् ताभ्यां लवेन सुसमाहितः ।
निर्मार्जनीयो वृद्धाभिर्लवेति च स नामतः ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।
निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७ ॥
यश्चावरो भवेत् ताभ्यां लवेन सुसमाहितः ।
निर्मार्जनीयो वृद्धाभिर्लवेति च स नामतः ॥ ८ ॥
प्रतिगृह्य तदा पूजां लमूलं च भोजनम् ।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
पूर्वा यज्ञविभूतीयं कस्याश्रमसमीपतः ॥
अनुवाद (हिन्दी)
‘वृद्धा स्त्रियोंको चाहिये कि इन दोनों बालकोंमें जो पहले उत्पन्न हुआ है, उसका मन्त्रोंद्वारा संस्कार किये हुए इन कुशोंसे मार्जन करें । ऐसा करनेपर उस बालकका नाम ‘कुश’ होगा और उनमें जो छोटा है, उसका लवसे मार्जन करें । इससे उसका नाम ‘लव’ होगा ॥ ७-८ ॥
अनुवाद (कन्नड)
फल-मूलगळन्नु भुञ्जिसि अवनु महर्षिगळल्लि हेळिदनु-मुनिये ! ई आश्रमद हत्तिर कण्डु बरुव प्राचीन यज्ञ यूपादिगळु यारद्दु? याव यजमान राजनु इल्लि यज्ञ माडिद्दनु.॥8॥
अनुवाद (कन्नड)
आग आ सत्कारवन्नु स्वीकरिसि शत्रुघ्ननु फल-मूलगळन्नु सेविसि, बहळ तृप्तिपट्टनु.॥7॥
विश्वास-प्रस्तुतिः
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥ ९ ॥
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥
अनुवाद (हिन्दी)
‘इस प्रकार जुड़वे उत्पन्न हुए ये दोनों बालक क्रमशः कुश और लव नाम धारण करेंगे और मेरे द्वारा निश्चित किये गये इन्हीं नामोंसे भूमण्डलमें विख्यात होंगे’ ॥ ९ ॥
अनुवाद (कन्नड)
अवन प्रश्नॆयन्नु केळि वाल्मीकिगळु हेळिदरु - शत्रुघ्नने! हिन्दॆ याव यजमान नरेशन ई यज्ञमण्टपवित्तो, अदन्नु तिळिसुवॆनु, केळु.॥9॥
विश्वास-प्रस्तुतिः
तां रक्षां जगृहुस्तां च मुनिहस्तात् समाहिताः ।
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥ १० ॥
सर्वाष् टीकाः
मूलम्
तां रक्षां जगृहुस्तां च मुनिहस्तात् समाहिताः ।
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥ १० ॥
युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥
अनुवाद (हिन्दी)
यह सुनकर निष्पाप वृद्धा स्त्रियोंने एकाग्रचित्त हो मुनिके हाथके रक्षाके साधनभूत उन कुशोंको ले लिया और उनके द्वारा उन दोनों बालकोंका मार्जन एवं संरक्षण किया ॥ १० ॥
अनुवाद (कन्नड)
निम्म पूर्वजनाद सुदासराजनु ई भूमण्डलक्कॆ ऒडॆयनागिद्दनु. आ भूपालनिगॆ वीरसह (मित्रसह) ऎम्ब पुत्र हुट्टिदनु. अवनु दॊड्ड पराक्रमि मत्तु अत्यन्त धार्मिकनागिद्दनु.॥10॥
विश्वास-प्रस्तुतिः
तथा तां क्रियमाणां च वृद्धाभिर्गोत्रनाम च ।
सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥ ११ ॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत् प्रियम् ।
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
तथा तां क्रियमाणां च वृद्धाभिर्गोत्रनाम च ।
सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥ ११ ॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत् प्रियम् ।
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥ १२ ॥
स बाल एव सौदासो मृगयामुपचक्रमे ।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥
शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः ।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥
अनुवाद (हिन्दी)
जब वृद्धा स्त्रियाँ इस प्रकार रक्षा करने लगीं, उस समय आधी रातको श्रीराम और सीताके नाम, गोत्रके उच्चारणकी ध्वनि शत्रुघ्नजीके कानोंमें पड़ी । साथ ही उन्हें सीताके दो सुन्दर पुत्र होनेका संवाद प्राप्त हुआ । तब वे सीताजीकी पर्णशालामें गये और बोले—‘माताजी! यह बड़े सौभाग्यकी बात है’ ॥ ११-१२ ॥
अनुवाद (कन्नड)
आ इब्बरू घोर राक्षसरु हुलिय रूपवन्नु धरिसि साविरारु मृगगळन्नु कॊन्दु तिन्दुबिट्टरु. आदरू हॊट्टॆ तुम्बदॆ सन्तुष्टरागलिल्ल.॥12॥
अनुवाद (कन्नड)
सुदासन शूरपुत्रनु बाल्यदल्ले ऒन्दु दिन बेटॆगागि काडिगॆ होगिद्दनु. अल्लि अवनु विचरिसुत्तिरुव इब्बरु राक्षसरन्नु नोडिदनु.॥11॥
विश्वास-प्रस्तुतिः
तदा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
तदा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा ॥ १३ ॥
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनङ्कृतम् ।
क्रोधेन महताविष्टो जघानैकं महेषुणा ॥
अनुवाद (हिन्दी)
महात्मा शत्रुघ्न उस समय इतने प्रसन्न थे कि उनकी वह वर्षाकालिक सावनकी रात बात-की-बातमें बीत गयी ॥ १३ ॥
अनुवाद (कन्नड)
सौदासनु आ इब्बरू राक्षसरन्नु नोडिद. जॊतॆगॆ अवरु मृगगळिन्द बरिदागिसिद वनद अवस्थॆयन्नु नोडिदनु. इदरिन्द अवनु महाक्रोधगॊण्डु ऒब्बनन्नु कॊन्दुहाकिदनु.॥13॥
विश्वास-प्रस्तुतिः
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।
मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।
मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥ १४ ॥
विनिपात्यतमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामर्षो हतं रक्षो ह्युदैक्षत ॥
अनुवाद (हिन्दी)
सबेरा होनेपर पूर्वाह्णकालका कार्य संध्या-वन्दन आदि करके महापराक्रमी शत्रुघ्न हाथ जोड़ मुनिसे विदा ले पश्चिम दिशाकी ओर चल दिये ॥ १४ ॥
अनुवाद (कन्नड)
ऒब्बनन्नु धराशायियागिसि आ पुरुषश्रेष्ठ सौदासनु निश्चिन्तनादनु. अवन सिट्टु शान्तवागि, सत्तिरुव राक्षसनन्नु नोडतॊडगिदनु.॥14॥
विश्वास-प्रस्तुतिः
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ १५ ॥
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।
सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥
अनुवाद (हिन्दी)
मार्गमें सात रात बिताकर वे यमुना-तटपर जा पहुँचे और वहाँ पुण्यकीर्ति महर्षियोंके आश्रममें रहने लगे ॥ १५ ॥
अनुवाद (कन्नड)
सत्तिरुव राक्षसन जॊतॆयवनन्नु सौदासनु नोडुत्तिद्दाग, इन्नॊब्ब राक्षसनु अवनन्नु नोडि मनस्सिनल्ले घोर सन्ताप उण्टागि सौदासनल्लि हेळिदनु .॥15॥
विश्वास-प्रस्तुतिः
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।
कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।
कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ १६ ॥
यस्मादनपराधं तं सहायं मम जघ्निवान् ।
तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥
अनुवाद (हिन्दी)
महायशस्वी राजा शत्रुघ्नने वहाँ च्यवन आदि मुनियोंके साथ सुन्दर कथा-वार्ताद्वारा कालक्षेप करते हुए निवास किया ॥ १६ ॥
अनुवाद (कन्नड)
महापापी नरेशने ! नीनु निरपराधियाद नन्न जॊतॆयवनन्नु कॊन्दुहाकिदॆ. इदक्कागि नानू कूड इदर सेडु तीरिसिकॊळ्ळुवॆनु.॥16॥
विश्वास-प्रस्तुतिः
स काञ्चनाद्यैर्मुनिभिः समेतै
रघुप्रवीरो रजनीं तदानीम् ।
कथाप्रकारैर्बहुभिर्महात्मा
विरामयामास नरेन्द्रसूनुः ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
स काञ्चनाद्यैर्मुनिभिः समेतै
रघुप्रवीरो रजनीं तदानीम् ।
कथाप्रकारैर्बहुभिर्महात्मा
विरामयामास नरेन्द्रसूनुः ॥ १७ ॥
एवमुक्त्वा तु तद्रक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहोभवत् ॥
अनुवाद (हिन्दी)
इस प्रकार रघुकुलके प्रमुख वीर महात्मा राजकुमार शत्रुघ्न वहाँ एकत्र हुए च्यवन आदि मुनियोंके साथ नाना प्रकारकी कथाएँ सुनते हुए उन दिनों यमुनातटपर रात बिताने लगे ॥ १७ ॥
अनुवाद (कन्नड)
हीगॆ हेळि आ राक्षसनु अल्ले अन्तर्धाननादनु. बहळ कालद बळिक सुदासन कुमार मित्रसहनु अयोध्यॆय राजनादनु.॥17॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें छाछठवाँ सर्ग पूरा हुआ ॥ ६६ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि अरवत्तैदनॆय सर्ग पूर्णवायितु. ॥65॥