[पञ्चषष्टितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- महर्षि वाल्मीकिका शत्रुघ्नको सुदासपुत्र कल्माषपादकी कथा सुनाना
विश्वास-प्रस्तुतिः
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।
एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ १ ॥
सर्वाष् टीकाः
मूलम्
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।
एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ १ ॥
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् ।
शत्रुघ्नो वीर्यसम्पन्नो मन्द मन्दमुवाच ह ॥
अनुवाद (हिन्दी)
अपनी सेनाको आगे भेजकर अयोध्यामें एक माह रहनेके पश्चात् शत्रुघ्न अकेले ही वहाँसे मधुवनके मार्गपर प्रस्थित हुए । वे बड़ी तेजीके साथ आगे बढ़ने लगे ॥ १ ॥
अनुवाद (कन्नड)
श्रीरामचन्द्रनु हीगॆ हेळिदाग बल-विक्रमदिन्द सम्पन्न शत्रुघ्ननु लज्जितनागि निधानवागि हेळिदनु.॥1॥
विश्वास-प्रस्तुतिः
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।
वाल्मीकेराश्रमं पुण्यमगच्छद् वासमुत्तमम् ॥ २ ॥
सर्वाष् टीकाः
मूलम्
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।
वाल्मीकेराश्रमं पुण्यमगच्छद् वासमुत्तमम् ॥ २ ॥
अधर्मं विद्म काकुत्स्थ अस्मिन्नर्थे नरेश्वर ।
कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥
अनुवाद (हिन्दी)
रघुकुलको आनन्दित करनेवाले शूरवीर शत्रुघ्न रास्तेमें दो रात बिताकर तीसरे दिन महर्षि वाल्मीकिके पवित्र आश्रमपर जा पहुँचे । वह सबसे उत्तम वासस्थान था ॥ २ ॥
अनुवाद (कन्नड)
नरेश्वरने! ई अभिषेकवन्नु स्वीकरिसुवुदरल्लि ननगॆ अधर्म तोरुत्तदॆ. हिरिय अण्णन्दिरु इरुवाग तम्मन अभिषेक हेगॆ माडलागुवुदु.॥2॥
विश्वास-प्रस्तुतिः
सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ३ ॥
अवश्यं करणीयं च शासनं पुरुषर्षभ ।
तव चैव महाभाग शासनं दुरतिक्रमम् ॥
अनुवाद (हिन्दी)
वहाँ उन्होंने हाथ जोड़ मुनिश्रेष्ठ महात्मा वाल्मीकिको प्रणाम करके यह बात कही— ॥ ३ ॥
अनुवाद (कन्नड)
हागिद्दरू पुरुषप्रवर! महाभाग! निन्न आज्ञॆयन्नु नानु अवश्य पालिसबेकु. निन्न शासनवन्नु यारू उल्लङ्घिसलाररु.॥3॥
विश्वास-प्रस्तुतिः
भगवन् वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
भगवन् वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ४ ॥
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ।
नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥
अनुवाद (हिन्दी)
‘भगवन्! मैं अपने बड़े भाई श्रीरघुनाथजीके कार्यसे इधर आया हूँ । आज रातको यहाँ ठहरना चाहता हूँ और कल सबेरे वरुणदेवद्वारा पालित पश्चिम दिशाको चला जाऊँगा’ ॥ ४ ॥
अनुवाद (कन्नड)
वीरने! वास्तववागि नडुवण अण्णनु प्रतिज्ञॆ माडिदाग नानु एनन्नु मातनाडबारदॆन्दु निन्निन्द हागू वेदवाक्यगळिन्द केळिरुवॆ.॥4॥
विश्वास-प्रस्तुतिः
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ।
तस्येयं मे दुरुक्तस्यदुर्गतिः पुरुषर्षभ ॥
अनुवाद (हिन्दी)
शत्रुघ्नकी यह बात सुनकर मुनिवर वाल्मीकिने उन महात्माको हँसते हुए उत्तर दिया—‘महायशस्वी वीर! तुम्हारा स्वागत है ॥ ५ ॥
अनुवाद (कन्नड)
नानु लवणासुरनन्नु कॊल्लुवॆनु ऎम्ब अनुचित शब्द नन्न बायिन्द हॊरटितु. पुरुषोत्तम! आ अनुचित मातिन परिणामवे नन्न हीगॆ दुर्गति आगुत्तिदॆ. (हिरियरु इरुवाग अभिषिक्तवाग बेकायितु..॥5॥
विश्वास-प्रस्तुतिः
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य वै ।
आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य वै ।
आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।
अधर्मसहितं चैव परलोकविवर्जितम् ॥
अनुवाद (हिन्दी)
‘सौम्य! यह आश्रम रघुवंशियोंके लिये अपना ही घर है । तुम निःशङ्क होकर मेरी ओरसे आसन, पाद्य और अर्घ्य स्वीकार करो’ ॥ ६ ॥
अनुवाद (कन्नड)
जेष्ठनाद भरतनु लवणासुरनन्नु संहरिसुवॆनॆन्दु हेळिदाग नानु याव मातन्नु आडबारदागित्तु. अदर परिणामवागिये नानीग अधर्मयुक्तवाद मत्तु परलोकदिन्द वञ्चितवाद हीनकार्य माडबेकायितु. हिरियरन्नु अतिक्रमिसि पट्टाभिषेक माडिकॊळ्ळबेकागिदॆ. एकॆन्दरॆ निन्न आज्ञॆयन्नु नानु उल्लङ्घिसलु साध्यवे इल्ल.॥6॥
विश्वास-प्रस्तुतिः
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥
सोऽहं द्वितीयं काकुत्स्थ न वक्ष्यामीति चोत्तरम् ।
मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥
अनुवाद (हिन्दी)
तब वह सत्कार ग्रहण करके शत्रुघ्नने फल-मूलका भोजन किया । इससे उन्हें बड़ी तृप्ति हुई ॥ ७ ॥
अनुवाद (कन्नड)
काकुत्स्थने! ईग निम्म आज्ञॆगॆ विरुद्धवागि नानु एनन्नु हेळलारॆ. मानद! बेरॆ एनादरू मातनाडि इदरिन्दलू कठोरवाद शिक्षॆ अनुभविसुवन्तॆ आगदिरलि.॥7॥
विश्वास-प्रस्तुतिः
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
पूर्वा यज्ञविभूतीयं कस्याश्रमसमीपतः ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
पूर्वा यज्ञविभूतीयं कस्याश्रमसमीपतः ॥ ८ ॥
कामकारो ह्यहंराजंस्तवास्मि पुरुषर्षभ ।
अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥
अनुवाद (हिन्दी)
फल-मूल खाकर वे महर्षिसे बोले—‘मुने! इस आश्रमके निकट जो यह प्राचीनकालका यज्ञ-वैभव (यूप आदि उपकरण) दिखायी देता है, किसका है—किस यजमान नरेशने यहाँ यज्ञ किया था?’ ॥ ८ ॥
अनुवाद (कन्नड)
पुरुषप्रवर रघुनन्दन! नानु निन्न इच्छॆयन्तॆये कार्य माडुवॆनु. आदरॆ इदरिन्द ननगागि प्राप्तवागुव अधर्म वन्नु नीने नाशमाडु.॥8॥
विश्वास-प्रस्तुतिः
तत् तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
तत् तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।
उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥
अनुवाद (हिन्दी)
उनका यह प्रश्न सुनकर वाल्मीकिजीने कहा—‘शत्रुघ्न! पूर्वकालमें जिस यजमान नरेशका यह यज्ञमण्डप रहा है, उसे बताता हूँ, सुनो ॥ ९ ॥
अनुवाद (कन्नड)
शूरनाद महात्मा शत्रुघ्ननु हीगॆ हेळिदाग श्रीरामचन्द्रनिगॆ बहळ सन्तोषवायितु मत्तु भरत-लक्ष्मणरल्लि हेळिदनु.॥9॥
विश्वास-प्रस्तुतिः
युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥
सर्वाष् टीकाः
मूलम्
युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥
सम्भारानभिषेकस्य आनयध्वं समाहिताः ।
अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥
अनुवाद (हिन्दी)
‘तुम्हारे पूर्वज राजा सुदास इस भूमण्डलके स्वामी हो गये हैं । उन भूपालके वीरसह (मित्रसह) नामक एक पुत्र हुआ, जो बड़ा पराक्रमी और अत्यन्त धर्मात्मा था ॥ १० ॥
अनुवाद (कन्नड)
नीवॆल्लरू एकाग्रचित्तरागि पट्टाभिषेकद ऎल्ल सामग्रिगळन्नु सिद्धपडिसिरि. नानु ईगले रघुकुलनन्दन पुरुषसिंह शत्रुघ्नन पट्टाभिषेक माडुवॆनु.॥10॥
विश्वास-प्रस्तुतिः
स बाल एव सौदासो मृगयामुपचक्रमे ।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
स बाल एव सौदासो मृगयामुपचक्रमे ।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ११ ॥
पुरोधसं च काकुत्स्थ नैगमानृत्विजस्तथा ।
मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥
अनुवाद (हिन्दी)
‘सुदासका वह शूरवीर पुत्र बाल्यावस्थामें ही एक दिन शिकार खेलनेके लिये वनमें गया । वहाँ उसने दो राक्षस देखे, जो सब ओर बारंबार विचर रहे थे ॥ ११ ॥
अनुवाद (कन्नड)
काकुत्स्थ! नन्न अप्पणॆयन्तॆ पुरोहितरन्नु, वैदिक विद्वांसरन्नु, ऋत्विजरन्नु, समस्त मन्त्रिगळन्नु करॆदुकॊण्डु बन्नि.॥11॥
विश्वास-प्रस्तुतिः
शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः ।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः ।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ १२ ॥
राज्ञः शासनमाज्ञाय तथाकुर्वन्महारथाः ।
अभिषेकसमारम्भ पुरस्कृत्य पुरोधसम् ॥
प्रविष्टाराजभवनं राजानो ब्राह्मणस्तथा ।
अनुवाद (हिन्दी)
‘वे दोनों घोर राक्षस बाघका रूप धारण करके कई हजार मृगोंको मारकर खा गये । फिर भी संतुष्ट नहीं हुए । उनके पेट नहीं भरे ॥ १२ ॥
अनुवाद (कन्नड)
महाराजर आज्ञॆ पडॆदु महारथि भरत मत्तु लक्ष्मणरु हागॆये माडिदरु. अवरु पुरोहितरन्नु मुन्दिट्टुकॊण्डु अभिषेकद सामग्रियॊन्दिगॆ राजभवनक्कॆ बन्दरु. अवरॊन्दिगॆ अनेक राजरू, ब्राह्मणरू अल्लिगॆ बन्दरु.॥12½॥
विश्वास-प्रस्तुतिः
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।
क्रोधेन महताविष्टो जघानैकं महेषुणा ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।
क्रोधेन महताविष्टो जघानैकं महेषुणा ॥ १३ ॥
ततोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ॥
सम्प्रहर्षकरः श्रीमान् राघवस्य पुरस्य च ।
अनुवाद (हिन्दी)
‘सौदासने उन दोनों राक्षसोंको देखा । साथ ही उनके द्वारा मृगशून्य किये गये उस वनकी अवस्थापर दृष्टिपात किया । इससे वे महान् क्रोधसे भर गये और उनमेंसे एकको विशाल बाणसे मार डाला ॥ १३ ॥
अनुवाद (कन्नड)
अनन्तर श्रीरघुनाथनिगॆ हागू प्रजॆगळ हर्षवन्नु हॆच्चिसु महात्मा शत्रुघ्नन वैभवशाली पट्टाभिषेक प्रारम्भवायितु.॥13½॥
विश्वास-प्रस्तुतिः
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामर्षो हतं रक्षो ह्युदैक्षत ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामर्षो हतं रक्षो ह्युदैक्षत ॥ १४ ॥
अभिषिक्तस्तु काकुत्स्थो बभौ चादित्यसन्निभः ॥
अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव दिवौकसैः ।
अनुवाद (हिन्दी)
‘एकको धराशायी करके वे पुरुषप्रवर सौदास निश्चिन्त हो गये । उनका अमर्ष जाता रहा और वे उस मरे हुए राक्षसको देखने लगे ॥ १४ ॥
अनुवाद (कन्नड)
हिन्दॆ इन्द्रादि देवतॆगळु देवसेनापतियागि स्कन्दनिगॆ अभिषेक माडिदन्तॆ श्रीरामादिगळु शत्रुघ्नन पट्टाभिषेक माडिदरु. हीगॆ अभिषिक्तनागि शत्रुघ्ननु सूर्यनन्तॆ शोभिसिदनु.॥14½॥
विश्वास-प्रस्तुतिः
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।
सन्तापमकरोद् घोरं सौदासं चेदमब्रवीत् ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।
सन्तापमकरोद् घोरं सौदासं चेदमब्रवीत् ॥ १५ ॥
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा ॥
पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ।
अनुवाद (हिन्दी)
‘उस राक्षसके मरे हुए साथीको जब सौदास देख रहे थे, उस समय उनकी ओर दृष्टिपात करके उस दूसरे राक्षसने मन-ही-मन घोर संताप किया और सौदाससे इस प्रकार कहा— ॥ १५ ॥
अनुवाद (कन्नड)
आयासविल्लदॆ ऎल्ल कर्ममाडुव श्रीरामनु शत्रुघ्ननिगॆ पट्टकट्टिदाग नगरवासिगळु, विद्वांसराद ब्राह्मणरु बहळ सन्तसपट्टरु.॥15½॥
विश्वास-प्रस्तुतिः
यस्मादनपराधं तं सहायं मम जघ्निवान् ।
तस्मात् तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
यस्मादनपराधं तं सहायं मम जघ्निवान् ।
तस्मात् तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ॥
चक्रुस्ता राजभवने याश्चान्या राजयोषितः ।
अनुवाद (हिन्दी)
‘‘महापापी नरेश! तूने मेरे निरपराध साथीको मार डाला है, इसलिये मैं तुझसे भी इसका बदला लूँगा’ ॥ १६ ॥
अनुवाद (कन्नड)
आग कौसल्या, सुमित्रा, कैकेयि हागू अरमनॆय इतर राज महिळॆयरु सेरि मङ्गळकार्यवन्नु निर्वहिसिदरु.॥16½॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु तद् रक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्त्वा तु तद् रक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥
ऋषयश्च महात्मानो यमुनातीरवासिनः ॥
हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ।
अनुवाद (हिन्दी)
‘ऐसा कहकर वह राक्षस वहीं अन्तर्धान हो गया और दीर्घकालके पश्चात् सुदासकुमार मित्रसह अयोध्याके राजा हो गये ॥ १७ ॥
अनुवाद (कन्नड)
शत्रुघ्नन पट्टाभिषेकवादाग यमुनातीर निवासि महात्मा ऋषिगळु - ईग लवणासुरनु हतनादन्तॆ निश्चयिसिदरु.॥17½॥
विश्वास-प्रस्तुतिः
राजापि यजते यज्ञमस्याश्रमसमीपतः ।
अश्वमेधं महायज्ञं तं वसिष्ठोऽप्यपालयत् ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
राजापि यजते यज्ञमस्याश्रमसमीपतः ।
अश्वमेधं महायज्ञं तं वसिष्ठोऽप्यपालयत् ॥ १८ ॥
ततोऽभिषिक्तं शत्रुघ्न मङ्कमारोप्य राघवः ।
उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥
अनुवाद (हिन्दी)
‘उन्हीं राजा मित्रसहने इस आश्रमके समीप अश्वमेध नामक महायज्ञका अनुष्ठान किया । महर्षि वसिष्ठ अपने तपोबलसे उस यज्ञकी रक्षा करते थे ॥ १८ ॥
अनुवाद (कन्नड)
अभिषेकद बळिक शत्रुघ्ननन्नु तॊडॆयल्लि कुळ्ळिरिसिकॊण्डु श्रीरघुनाथनु अवन तेजवन्नु हॆच्चिसुत्ता मधुरवागि हेळिदनु .॥18॥
विश्वास-प्रस्तुतिः
तत्र यज्ञो महानासीद् बहुवर्षगणायुतः ।
समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
तत्र यज्ञो महानासीद् बहुवर्षगणायुतः ।
समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः ।
अनेन लवणं सौम्य हन्तासि रघुनन्दन ॥
अनुवाद (हिन्दी)
‘उनका वह महान् यज्ञ बहुत वर्षोंतक यहाँ चलता रहा । वह भारी धन-सम्पत्तिसे सम्पन्न यज्ञ देवताओंके यज्ञकी समानता करता था ॥ १९ ॥
अनुवाद (कन्नड)
रघुनन्दन! सौम्य शत्रुघ्न! नानु निनगॆ ई दिव्य अमोघ बाणगळन्नु कॊडुत्तेनॆ. नीनु अवुगळिन्द लवणासुरनन्नु अवश्यवागि वधिसुवॆ.॥19॥
विश्वास-प्रस्तुतिः
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।
वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ २० ॥
सर्वाष् टीकाः
मूलम्
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।
वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ २० ॥
सृष्टः शरोऽयं काकुत्स्थ यदाशेते महार्णवे ।
स्वयम्भूरजितो दिव्यो यन्नापश्यन्सुरासुराः ॥
अनुवाद (हिन्दी)
‘उस यज्ञकी समाप्ति होनेपर पहलेके वैरका स्मरण करनेवाला वह राक्षस वसिष्ठजीका रूप धारण करके राजाके पास आया और इस प्रकार बोला— ॥ २० ॥
विश्वास-प्रस्तुतिः
अद्य यज्ञावसानान्ते सामिषं भोजनं मम ।
दीयतामतिशीघ्रं वै नात्र कार्या विचारणा ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
अद्य यज्ञावसानान्ते सामिषं भोजनं मम ।
दीयतामतिशीघ्रं वै नात्र कार्या विचारणा ॥ २१ ॥
अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः ।
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ॥
अनुवाद (हिन्दी)
‘‘राजन्! आज यज्ञकी समाप्तिका दिन है, अतः आज मुझे तुम शीघ्र ही मांसयुक्त भोजन दो । इस विषयमें कोई अन्यथा विचार नहीं करना चाहिये’ ॥ २१ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।
सूदान् संस्कारकुशलानुवाच पृथिवीपतिः ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।
सूदान् संस्कारकुशलानुवाच पृथिवीपतिः ॥ २२ ॥
मधुकैटभयोर्वीर विघाते सर्वरक्षसाम् ।
स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ॥
अनुवाद (हिन्दी)
‘ब्राह्मणरूपधारी राक्षसकी कही हुई बात सुनकर राजाने रसोई बनानेमें कुशल रसोइयोंसे कहा— ॥ २२ ॥
विश्वास-प्रस्तुतिः
हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।
तथा कुरुत शीघ्रं वै परितुष्येद् यथा गुरुः ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।
तथा कुरुत शीघ्रं वै परितुष्येद् यथा गुरुः ॥ २३ ॥
तौ हत्वा जनभोगार्थे कैटभं तु मधुं तथा ।
अनेन शरमुख्येन ततो लोकांश्चकार सः ॥
अनुवाद (हिन्दी)
‘‘तुमलोग आज शीघ्र ही मांसयुक्त हविष्य तैयार करो और उसे ऐसा बनाओ, जिससे स्वादिष्ट भोजन हो सके तथा मेरे गुरुदेव उससे संतुष्ट हो सकें’ ॥ २३ ॥
अनुवाद (कन्नड)
काकुत्स्थने! हिन्दिन प्रळय कालदल्लि जगत्तॆल्लवू जलमयवागित्तु. अपराजितनाद, स्वयम्भू, दिव्यरूपनाद महाविष्णुवु एकार्णव महासमुद्रदल्लि पवडिसिद्दनु. आग देवतॆगळागली, दानवरागली अवनन्नु नोडलागलिल्ल. सर्व प्राणिगळिगॆ नारायणनु अदृश्यनागिद्दनु. आग मधु-कैटभरॆम्ब राक्षसरु लोकसृष्टिगॆ तडॆयन्नुण्टु माडुत्तिद्दरु. क्रोधाभिभूतनाद नारायणनु आ दुरात्मरन्नु संहरिसलु ई बाणगळन्नु सृष्टिसिद्दनु. ई बाणगळिन्दले लोककण्टकराद मधु-कैटभरन्नु संहरिसि प्राणिगळ कर्मफल भोगक्कागि मूरु लोकगळन्नु सृष्टिसिदनु.॥20-23॥
विश्वास-प्रस्तुतिः
शासनात् पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।
तच्च रक्षः पुनस्तत्र सूदवेषमथाकरोत् ॥ २४ ॥
सर्वाष् टीकाः
मूलम्
शासनात् पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।
तच्च रक्षः पुनस्तत्र सूदवेषमथाकरोत् ॥ २४ ॥
नायं मया शरः पूर्वं रावणस्य वधार्थिना ।
मुक्तः शत्रुघ्न भूतानां महान् ह्रासो भवेदिति ॥
अनुवाद (हिन्दी)
‘महाराजकी इस आज्ञाको सुनते ही रसोइयेके मनमें बड़ी घबराहट पैदा हो गयी (वह सोचने लगा, आज गुरुजी अभक्ष्य-भक्षणमें कैसे प्रवृत्त होंगे) । यह देख फिर उस राक्षसने ही रसोइयेका वेष बना लिया ॥ २४ ॥
अनुवाद (कन्नड)
शत्रुघ्नने! मॊदलु नानु रावणनन्नु वधिसुवागलू ई बाणगळन्नु प्रयोगिसलिल्ल; एकॆन्दरॆ इवुगळिन्दागि अनेक प्राणिगळु नाशवागुव आशङ्कॆ इत्तु.॥24॥
विश्वास-प्रस्तुतिः
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥
सर्वाष् टीकाः
मूलम्
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥
यच्च तस्य महच्छूलन्त्र्यम्बकेण महात्मना ।
दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥
अनुवाद (हिन्दी)
‘उसने मनुष्यका मांस लाकर राजाको दे दिया और कहा—‘यह मांसयुक्त अन्न एवं हविष्य लाया हूँ । यह बड़ा ही स्वादिष्ट है’ ॥ २५ ॥
विश्वास-प्रस्तुतिः
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।
मदयन्त्या नरश्रेष्ठ सामिषं रक्षसा हृतम् ॥ २६ ॥
सर्वाष् टीकाः
मूलम्
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।
मदयन्त्या नरश्रेष्ठ सामिषं रक्षसा हृतम् ॥ २६ ॥
तत् सं निक्षिप्यभवने पूज्यमानं पुनःपुनः ।
दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥
अनुवाद (हिन्दी)
‘नरश्रेष्ठ! अपनी पत्नी रानी मदयन्तीके साथ राजा मित्रसहने राक्षसके लाये हुए उस मांसयुक्त भोजनको वसिष्ठजीके सामने रखा ॥ २६ ॥
अनुवाद (कन्नड)
महात्मा महादेवनु शत्रुविनाशक्कागि कॊट्टिरुव दिव्य, उत्तम, महाशूल मधुविन बळि इदॆ. अदन्नु अवनु प्रतिदिन पूजिसुत्ता, अदन्नु अरमनॆयल्लि गुप्तवागिट्टु, ऎल्ल दिक्कुगळिगॆ होगि तनगागि उत्तम आहार सङ्ग्रह माडुत्तिद्दनु.॥25-26॥
विश्वास-प्रस्तुतिः
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।
क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥
सर्वाष् टीकाः
मूलम्
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।
क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥
यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समाह्वयेत् ।
तदा शूलं गृहीत्वा तुभस्म रक्षः करोति हि ॥
अनुवाद (हिन्दी)
‘थालीमें मानव-मांस परोसा गया है, यह जानकर ब्रह्मर्षि वसिष्ठ महान् क्रोधसे भर गये और इस प्रकार बोले— ॥ २७ ॥
अनुवाद (कन्नड)
यारादरू युद्धक्कागि अवनन्नु आह्वानिसिदाग आ राक्षसनु आ शूलवन्नॆत्तिकॊण्डु अदरिन्द शत्रुवन्नु भस्ममाडि बिडुत्तानॆ.॥27॥
विश्वास-प्रस्तुतिः
यस्मात् त्वं भोजनं राजन् ममैतद् दातुमिच्छसि ।
तस्माद् भोजनमेतत् ते भविष्यति न संशयः ॥ २८ ॥
सर्वाष् टीकाः
मूलम्
यस्मात् त्वं भोजनं राजन् ममैतद् दातुमिच्छसि ।
तस्माद् भोजनमेतत् ते भविष्यति न संशयः ॥ २८ ॥
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् ।
अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥
अनुवाद (हिन्दी)
‘‘राजन्! तुम मुझे ऐसा भोजन देना चाहते हो, इसलिये यही तुम्हारा भोजन होगा; इसमें संशय नहीं है (अर्थात् तुम मनुष्यभक्षी राक्षस हो जाओगे)’ ॥ २८ ॥
अनुवाद (कन्नड)
पुरुषसिंहने! यावाग शूलवु अवन बळि इरुवुदिल्लवो, अवनु नगरक्कॆ हिन्दिरुगुव मॊदले नगरद्वारदल्लि अस्त्र-शस्त्र धरिसिकॊण्डु अवन निरीक्षॆयल्लि युद्धक्कॆ सिद्धनागि निन्तिरु.॥28॥
विश्वास-प्रस्तुतिः
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।
वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ॥ २९ ॥
सर्वाष् टीकाः
मूलम्
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।
वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ॥ २९ ॥
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।
अह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥
अनुवाद (हिन्दी)
‘यह सुनकर सौदासने भी कुपित हो हाथमें जल ले लिया और वसिष्ठ मुनिको शाप देना आरम्भ किया । तबतक उनकी पत्नीने उन्हें रोक दिया ॥ २९ ॥
अनुवाद (कन्नड)
महाबाहु पुरुषोत्तम! आ राक्षसनु अरमनॆ हॊक्कुव मॊदले नीनु युद्धक्कागि आह्वानिसु. आग अवश्यवागि अवनन्नु वधिसबल्लॆ.॥29॥
विश्वास-प्रस्तुतिः
राजन् प्रभुर्यतोऽस्माकं वसिष्ठो भगवानृषिः ।
प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ३० ॥
सर्वाष् टीकाः
मूलम्
राजन् प्रभुर्यतोऽस्माकं वसिष्ठो भगवानृषिः ।
प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ३० ॥
अन्यथाक्रियमाणे तु ह्यवध्यः स भविष्यति ।
यदि त्वेवं कृतं वीर विनाशमुपयास्यति ॥
अनुवाद (हिन्दी)
‘वे बोलीं—‘राजन्! भगवान् वसिष्ठ मुनि हम सबके स्वामी हैं; अतः आप अपने देवतुल्य पुरोहितको बदलेमें शाप नहीं दे सकते’ ॥ ३० ॥
अनुवाद (कन्नड)
हीगॆ माडदिद्दरॆ अवनु अवध्यनागुवनु. वीरने! नीनु हीगॆ माडिदरॆ आ राक्षसर विनाशवागुवुदु निश्चि.॥30॥
विश्वास-प्रस्तुतिः
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।
व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ३१ ॥
सर्वाष् टीकाः
मूलम्
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।
व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ३१ ॥
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः ।
श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥
अनुवाद (हिन्दी)
‘तब धर्मात्मा राजाने तेज और बलसे सम्पन्न उस क्रोधमय जलको नीचे डाल दिया । उससे अपने दोनों पैरोंको ही सींच लिया ॥ ३१ ॥
अनुवाद (कन्नड)
हीगॆ नानु निनगॆ आ शूलदिन्द तप्पिसिकॊळ्ळुव उपाय हागू आवश्यक मातुगळन्नु तिळिसिद्देनॆ. एकॆन्दरॆ श्रीमान् भगवान् नीलकण्ठन विधानवन्नु मीरुवुदु बहळ कठिणवागिदॆ.॥31॥
विश्वास-प्रस्तुतिः
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।
तदाप्रभृति राजासौ सौदासः सुमहायशाः ॥ ३२ ॥
कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।
सर्वाष् टीकाः
मूलम्
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।
तदाप्रभृति राजासौ सौदासः सुमहायशाः ॥ ३२ ॥
कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।
अनुवाद (हिन्दी)
ऐसा करनेसे राजाके दोनों पैर तत्काल चितकबरे हो गये । तभीसे महायशस्वी राजा सौदास कल्माषपाद (चितकबरे पैरवाले) हो गये और उसी नामसे उनकी ख्याति हुई ॥ ३२ १/२ ॥
विश्वास-प्रस्तुतिः
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।
पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥
सर्वाष् टीकाः
मूलम्
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।
पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥
अनुवाद (हिन्दी)
‘तदनन्तर पत्नीसहित राजाने बारंबार प्रणाम करके फिर वसिष्ठसे कहा—‘ब्रह्मर्षे! आपहीका रूप धारण करके किसीने मुझे ऐसा भोजन देनेके लिये प्रेरित किया था’ ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ३४ ॥
सर्वाष् टीकाः
मूलम्
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ३४ ॥
अनुवाद (हिन्दी)
‘राजाधिराज मित्रसहकी वह बात सुनकर और उसे राक्षसकी करतूत जानकर वसिष्ठने पुनः उस नरश्रेष्ठ नरेशसे कहा— ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मया रोषपरीतेन यदिदं व्याहृतं वचः ।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ३५ ॥
सर्वाष् टीकाः
मूलम्
मया रोषपरीतेन यदिदं व्याहृतं वचः ।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ३५ ॥
अनुवाद (हिन्दी)
‘‘राजन्! मैंने रोषसे भरकर जो बात कह दी है, इसे व्यर्थ नहीं किया जा सकता; परंतु इससे छूटनेके लिये मैं तुम्हें एक वर दूँगा ॥ ३५ ॥
विश्वास-प्रस्तुतिः
कालो द्वादशवर्षाणि शापस्यान्तो भविष्यति ।
मत् प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि ॥ ३६ ॥
सर्वाष् टीकाः
मूलम्
कालो द्वादशवर्षाणि शापस्यान्तो भविष्यति ।
मत् प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि ॥ ३६ ॥
अनुवाद (हिन्दी)
‘‘राजेन्द्र! वह वर इस प्रकार है—यह शाप बारह वर्षोंतक रहेगा । उसके बाद इसका अन्त हो जायगा । मेरी कृपासे तुम्हें बीती हुई बातका स्मरण नहीं रहेगा’ ॥
विश्वास-प्रस्तुतिः
एवं स राजा तं शापमुपभुज्यारिसूदनः ।
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ३७ ॥
सर्वाष् टीकाः
मूलम्
एवं स राजा तं शापमुपभुज्यारिसूदनः ।
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ३७ ॥
अनुवाद (हिन्दी)
‘इस प्रकार उस शत्रुसूदन राजाने बारह वर्षोंतक उस शापको भोगकर पुनः अपना राज्य पाया और प्रजाजनोंका निरन्तर पालन किया ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।
आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ ३८ ॥
सर्वाष् टीकाः
मूलम्
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।
आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ ३८ ॥
अनुवाद (हिन्दी)
‘रघुनन्दन! उन्हीं राजा कल्माषपादके यज्ञका यह सुन्दर स्थान मेरे इस आश्रमके समीप दिखायी देता है, जिसके विषयमें तुम पूछ रहे थे’ ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।
विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३९ ॥
सर्वाष् टीकाः
मूलम्
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।
विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३९ ॥
अनुवाद (हिन्दी)
महाराज मित्रसहकी उस अत्यन्त दारुण कथाको सुनकर शत्रुघ्नने महर्षिको प्रणाम करके पर्णशालामें प्रवेश किया ॥ ३९ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥
इस प्रकार श्रीवाल्मीकनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें पैंसठवाँ सर्ग पूरा हुआ ॥ ६५ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि अरवत्तमूरनॆय सर्ग पूर्णवायितु.॥63॥