[चतुःषष्टितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- श्रीरामकी आज्ञाके अनुसार शत्रुघ्नका सेनाको आगे भेजकर एक मासके पश्चात् स्वयं भी प्रस्थान करना
विश्वास-प्रस्तुतिः
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।
पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ १ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।
पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ १ ॥
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः ।
किमाहारः किमाचारो लवणः क्व च वर्तते ॥
अनुवाद (हिन्दी)
शत्रुघ्नजीको इस प्रकार समझाकर और उनकी बारंबार प्रशंसा करके रघुकुलनन्दन श्रीरामने पुनः यह बात कही— ॥ १ ॥
अनुवाद (कन्नड)
ऋषिगळु हीगॆ हेळिदाग श्रीरामचन्द्रनु अवरिगॆ कैमुगिदु - लवणासुरनु एनु तिन्नुत्तानॆ? अवन आचार - व्यवहार हेगिदॆ? अवनॆल्लि इरुत्तानॆ? ऎन्दु केळिदनु.॥1॥
विश्वास-प्रस्तुतिः
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।
रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ २ ॥
अन्तरापणवीथ्यश्च नानापण्योपशोभिताः ।
अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।
रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ २ ॥
अन्तरापणवीथ्यश्च नानापण्योपशोभिताः ।
अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ ३ ॥
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।
ततो निवेदयामासुर्लवणो ववृधे यथा ॥
आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ॥
अनुवाद (हिन्दी)
‘पुरुषप्रवर! ये चार हजार घोड़े, दो हजार रथ, सौ हाथी और रास्तेमें तरह-तरहके सामानकी दूकानें लगानेवाले बनिये लोग विक्रयकी आवश्यक वस्तुओंके साथ तुम्हारे साथ जायँगे । साथ ही मनोरञ्जनके लिये नट और नर्तक भी रहेंगे ॥ २-३ ॥
अनुवाद (कन्नड)
अवरु हेळिदरु - प्रभो! अवन आहार ऎल्ल प्राणिगळागिवॆ, आदरॆ विशेषवागि अवनु तपस्वी मुनिगळन्नु तिन्नुत्तानॆ. अवन आचार-व्यवहारगळु क्रूर मत्तु भयानक वागिवॆ. अवनु सदा मधुवनदल्लि वासिसुत्तानॆ.॥3॥
अनुवाद (कन्नड)
श्रीरामन ई मातन्नु केळि आ ऋषिगळॆल्लरू लवणासुरन आहार-विहारगळ बग्गॆ ऎष्टु तिळिदित्तो अदॆल्लवन्नु तिळिसिदरु.॥2॥
विश्वास-प्रस्तुतिः
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।
आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।
आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ ४ ॥
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगाण्डजान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥
अनुवाद (हिन्दी)
‘पुरुषश्रेष्ठ शत्रुघ्न! तुम दस लाख स्वर्णमुद्रा लेकर जाओ । इस तरह पर्याप्त धन और सवारियाँ अपने साथ रखो ॥ ४ ॥
अनुवाद (कन्नड)
अवनु प्रतिदिनवू ऎष्टो साविर सिंह, हुलि, मृग, पक्षि मत्तु मनुष्यरन्नु कॊन्दु तिन्नुत्तानॆ.॥4॥
विश्वास-प्रस्तुतिः
बलं च सुभृतं वीर हृष्टतुष्टमनुद्धतम् ।
सम्भाषासम्प्रदानेन रञ्जयस्व नरोत्तम ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
बलं च सुभृतं वीर हृष्टतुष्टमनुद्धतम् ।
सम्भाषासम्प्रदानेन रञ्जयस्व नरोत्तम ॥ ५ ॥
ततोऽन्तराणि सत्त्वानि खादते स महाबलः ।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥
अनुवाद (हिन्दी)
‘इस सेनाका भलीभाँति भरण-पोषण किया गया है । यह हर्ष तथा उत्साहसे पूर्ण, संतुष्ट और उद्दण्डतासे रहित होकर आज्ञाके अधीन रहनेवाली है । नरश्रेष्ठ! इसे मधुर भाषणसे और धन देकर प्रसन्न रखना ॥ ५ ॥
अनुवाद (कन्नड)
संहार काल बन्दाग बायि तॆरॆदु निन्त यमराजनन्तॆ आ महाबलि असुरनु बेरॆ-बेरॆ जीविगळन्नु तिन्नुत्ता इरुत्तानॆ.॥5॥
विश्वास-प्रस्तुतिः
नह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।
सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
नह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।
सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव ॥ ६ ॥
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीम् ।
घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम् ॥
अनुवाद (हिन्दी)
‘रघुनन्दन! अत्यन्त प्रसन्न रखे गये सेवकसमूह (सैनिक) जहाँ (जिस संकटकालमें) खड़े होते या साथ देते हैं, वहाँ न तो धन टिक पाता है, न स्त्री ठहर सकती है और न भाई-बन्धु ही खड़े हो सकते हैं (अतः उन सबको सदा संतुष्ट रखना चाहिये) ॥ ६ ॥
अनुवाद (कन्नड)
अवर मातन्नु केळि श्रीरामनु आ महामुनिगळल्लि हेळिदनु - महर्षिगळे! नानु आ राक्षसनन्नु कॊल्लिसुवॆनु. निम्म भय दूरवागलि.॥6॥
विश्वास-प्रस्तुतिः
अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।
एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७ ॥
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।
एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७ ॥
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ॥ ८ ॥
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातृन्सहितान् सर्वानुवाच रघुनन्दनः ॥
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥
अनुवाद (हिन्दी)
‘इसलिये हृष्ट-पुष्ट मनुष्योंसे भरी हुई इस विशाल सेनाको आगे भेजकर तुम पीछेसे अकेले ही केवल धनुष हाथमें लेकर मधुवनको जाना और इस तरह यात्रा करना, जिससे मधुपुत्र लवणको यह संदेह न हो कि तुम युद्धकी इच्छासे वहाँ जा रहे हो । तुम्हारी गतिविधिका उसे पता नहीं चलना चाहिये ॥ ७-८ ॥
अनुवाद (कन्नड)
तम्मन्दिरे! लवणनन्नु याव वीरनु कॊल्लुवनु? अदु महाबाहु भरत अथवा बुद्धिवन्त शत्रुघ्नन पालिगॆ सेरुवुदु.॥8॥
अनुवाद (कन्नड)
हीगॆ आ उग्र तेजस्वी मुनिगळ बळि प्रतिज्ञॆ माडि रघुनन्दन श्रीरामनु अल्लि नॆरॆद तन्न ऎल्ल सहोदररल्लि केळिदनु.॥7॥
विश्वास-प्रस्तुतिः
न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ ।
दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ ।
दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ ९ ॥
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥
अनुवाद (हिन्दी)
‘पुरुषोत्तम! मैंने जो बताया है, उसके सिवा उसकी मृत्युका दूसरा कोई उपाय नहीं है; क्योंकि जो भी शूलसहित लवणासुरके दृष्टिपथमें आ जाता है, वह अवश्य उसके द्वारा मारा जाता है ॥ ९ ॥
अनुवाद (कन्नड)
रघुनाथनु हीगॆ केळिदाग भरतनु हेळिदनु - अण्ण! नानु ई लवणासुरनन्नु वधिसुवॆनु. इदु नन्न पालिगॆ इरलि.॥9॥
विश्वास-प्रस्तुतिः
स ग्रीष्म अपयाते तु वर्षारात्र उपागते ।
हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ॥ १० ॥
सर्वाष् टीकाः
मूलम्
स ग्रीष्म अपयाते तु वर्षारात्र उपागते ।
हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ॥ १० ॥
भरतस्य वचःश्रुत्वा धैर्यशौर्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥
अनुवाद (हिन्दी)
‘सौम्य! जब ग्रीष्म-ऋतु निकल जाय और वर्षाकाल आ जाय, उस समय तुम लवणासुरका वध करना; क्योंकि उस दुर्बुद्धि राक्षसके नाशका वही समय है ॥ १० ॥
विश्वास-प्रस्तुतिः
महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः ।
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः ।
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ११ ॥
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दन ॥
अनुवाद (हिन्दी)
‘तुम्हारे सैनिक महर्षियोंको आगे करके यहाँसे यात्रा करें, जिससे ग्रीष्म-ऋतु बीतते-बीतते वे गङ्गाजीको पार कर जायँ ॥ ११ ॥
अनुवाद (कन्नड)
भरतन ई धैर्य मत्तु शौर्यपूर्ण मातन्नु केळि, शत्रुघ्ननु स्वर्ण सिंहासनवन्नु बिट्टु निन्तु महाराज श्रीरामनिगॆ वन्दिसि हेळिदनु - रघुनन्दन! महाबाहु भरतनु बहळ कार्य माडिरुवनु.॥10-11॥
विश्वास-प्रस्तुतिः
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम ॥ १२ ॥
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥
अनुवाद (हिन्दी)
‘शीघ्रपराक्रमी वीर! फिर सारी सेनाको वहीं गङ्गाजीके तटपर ठहराकर तुम धनुषमात्र लेकर पूरी सावधानीके साथ अकेले ही आगे जाना’ ॥ १२ ॥
अनुवाद (कन्नड)
मॊदलु अयोध्यॆयु बरिदागिद्दाग निम्म आगमनद कालदवरॆगॆ हृदयदल्लि अत्यन्त सन्तापपट्टु इवनु अयोध्यापुरियन्नु पालिसिद्दनु.॥12॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तु रामेण शत्रुघ्नस्तान् महाबलान् ।
सेनामुख्यान् समानीय ततो वाक्यमुवाच ह ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्तस्तु रामेण शत्रुघ्नस्तान् महाबलान् ।
सेनामुख्यान् समानीय ततो वाक्यमुवाच ह ॥ १३ ॥
दुःखानि च बहूनीह अनुभूतानि पार्थिव ।
शयानो दुःखशय्यासु नन्दिग्रामे महायशाः ॥
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीके ऐसा कहनेपर शत्रुघ्नजीने अपने प्रधान सेनापतियोंको बुलाया और इस प्रकार कहा— ॥ १३ ॥
अनुवाद (कन्नड)
पृथिविनाथने! महायशस्वी भरतनु नन्दिग्रामदल्लि दुःखकर ऒरटाद शय्यॆयल्लि मलगुत्ता बहळ दुःख भोगिसिरुवनु. इवनु फल-मूल तिन्दु इरुत्तिद्दनु मत्तु तलॆय मेलॆ जटॆयन्नु धरिसि नारुमडियन्नु धरिसुत्तिद्दनु.॥13½॥
विश्वास-प्रस्तुतिः
एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥ १४ ॥
अनुभूयेदृशं दुःखमेष राघवनन्दनः ॥
प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ।
अनुवाद (हिन्दी)
‘देखो, मार्गमें जहाँ-जहाँ डेरा डालना है, उन पड़ावोंका निश्चय कर लिया गया है । तुम्हें वहीं निवास करना होगा । जहाँ भी ठहरो, विरोधभावको मनसे निकाल दो, जिससे किसीको कष्ट न पहुँचे’ ॥ १४ ॥
अनुवाद (कन्नड)
महाराजा! इन्तिन्थ दुःखगळन्नु भोगिसि ई रघुकुलनन्दन भरतनु सेवकनाद नानिरुवाग ईग पुनः हॆच्चु क्लेशपडबारदु.॥14½॥
विश्वास-प्रस्तुतिः
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ १५ ॥
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ॥
अनुवाद (हिन्दी)
इस प्रकार उन सेनापतियोंको आज्ञा दे अपनी विशाल सेनाको आगे भेजकर शत्रुघ्नने कौसल्या, सुमित्रा तथा कैकेयीको प्रणाम किया ॥ १५ ॥
विश्वास-प्रस्तुतिः
रामं प्रदक्षिणीकृत्य शिरसाभिप्रणम्य च ।
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
रामं प्रदक्षिणीकृत्य शिरसाभिप्रणम्य च ।
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ॥ १६ ॥
एवं ब्रुवति काकुत्स्थ क्रियतां मम शासनम् ।
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ॥
अनुवाद (हिन्दी)
तत्पश्चात् श्रीरामकी परिक्रमा करके उनके चरणोंमें मस्तक झुकाया । फिर हाथ जोड़कर भरत और लक्ष्मणकी भी वन्दना की ॥ १६ ॥
अनुवाद (कन्नड)
शत्रुघ्ननु हीगॆ हेळिदाग श्रीरामनु पुनः हेळिदनु-काकुत्स्थने! नीनु हेळिदन्तॆ आगलि. नीने नन्न आदेशवन्नु पालिसु. नानु निनगॆ मधुविन सुन्दर नगरदल्लि राजनागि पट्टाभिषेक माडुवॆ.॥15-16॥
विश्वास-प्रस्तुतिः
पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।
रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।
प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।
रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।
प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ १७ ॥
निवेशय महाबाहो भरतं यद्यवेक्षसे ।
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥
अनुवाद (हिन्दी)
तदनन्तर मनको संयममें रखकर शत्रुघ्नने पुरोहित वसिष्ठको नमस्कार किया । फिर श्रीरामकी आज्ञा ले उनकी परिक्रमा करके शत्रुओंको संताप देनेवाले महाबली शत्रुघ्न अयोध्यासे निकले ॥ १७ ॥
अनुवाद (कन्नड)
महाबाहो! नीनु भरतनिगॆ क्लेश कॊडलु बयसुवुदिल्लवादरॆ अवनु इल्ले इरलि. नीनु शूर-वीरनागिरुवॆ, अस्त्रविद्यॆयन्नु तिळिदिरुवॆ, निन्नल्लि नूतन नगर निर्मिसुव शक्ति इदॆ.॥17॥
विश्वास-प्रस्तुतिः
प्रस्थाप्य सेनामथ सोऽग्रतस्तदा
गजेन्द्रवाजिप्रवरौघसङ्कुलाम् ।
उवास मासं तु नरेन्द्रपार्श्वत-
स्त्वथ प्रयातो रघुवंशवर्धनः ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
प्रस्थाप्य सेनामथ सोऽग्रतस्तदा
गजेन्द्रवाजिप्रवरौघसङ्कुलाम् ।
उवास मासं तु नरेन्द्रपार्श्वत-
स्त्वथ प्रयातो रघुवंशवर्धनः ॥ १८ ॥
नगरं यमुनाजुष्टं तथा जनपदान् शुभान् ।
यो हि वंशं समुत्पाट्य पार्थिवस्य निवेशने ॥
न विधत्ते नृपं तत्र नरकं स हि गच्छति ।
अनुवाद (हिन्दी)
गजराजों और श्रेष्ठ अश्वोंके समुदायसे भरी हुई विशाल सेनाको आगे भेजकर रघुवंशकी वृद्धि करनेवाले शत्रुघ्न एक मासतक महाराज श्रीरामके पास ही रहे । उसके बाद उन्होंने वहाँसे प्रस्थान किया ॥ १८ ॥
अनुवाद (कन्नड)
नीनु यमुना तीरदल्लि सुन्दर नगरवन्नु नॆलॆगॊळिसबल्लॆ. उत्तमोत्तम साम्राज्यवन्नु स्थापिसबल्लॆ. यारु यावुदादरू राजवंशवन्नु नाशमाडि अवन राजधानियल्लि बेरॆ राजनन्नु स्थापिसुवनो अवनु नरकक्कॆ होगुत्तानॆ.॥18½॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें चौंसठवाँ सर्ग पूरा हुआ ॥ ६४ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि अरवत्तॆरडनॆय सर्ग पूर्णवायितु. ॥62॥