[द्विषष्टितमः सर्गः]
सर्वाष् टीकाः
भागसूचना
- श्रीरामका ऋषियोंसे लवणासुरके आहार-विहारके विषयमें पूछना और शत्रुघ्नकी रुचि जानकर उन्हें लवण-वधके कार्यमें नियुक्त करना
विश्वास-प्रस्तुतिः
तथोक्ते तानृषीन् रामः प्रत्युवाच कृताञ्जलिः ।
किमाहारः किमाचारो लवणः क्व च वर्तते ॥ १ ॥
सर्वाष् टीकाः
मूलम्
तथोक्ते तानृषीन् रामः प्रत्युवाच कृताञ्जलिः ।
किमाहारः किमाचारो लवणः क्व च वर्तते ॥ १ ॥
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥
अनुवाद (हिन्दी)
ऋषियोंके इस प्रकार कहनेपर श्रीरामचन्द्रजीने उनसे हाथ जोड़कर पूछा—‘लवणासुर क्या खाता है? उसका आचार-व्यवहार कैसा है—रहने-सहनेका ढंग क्या है? और वह कहाँ रहता है?’ ॥ १ ॥
अनुवाद (कन्नड)
श्रीराम - लक्ष्मणरु परस्परवागि मातनाडि कॊळ्ळुत्ता प्रजॆगळ रक्षणॆयल्लि निरतरागिद्दरु. आग वसन्त ऋतुवु प्रारम्भवायितु. अदरल्लि हॆच्चु चळियागली सॆकॆयागलि इरलिल्ल.॥1॥
विश्वास-प्रस्तुतिः
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।
ततो निवेदयामासुर्लवणो ववृधे यथा ॥ २ ॥
सर्वाष् टीकाः
मूलम्
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।
ततो निवेदयामासुर्लवणो ववृधे यथा ॥ २ ॥
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।
अभिचक्राम काकुत्स्थौ दर्शनं पौरकार्यवित् ॥
अनुवाद (हिन्दी)
श्रीरघुनाथजीकी यह बात सुनकर उन सभी ऋषियोंने जिस तरहके आहार-व्यवहारसे लवणासुर पला था, वह सब कह सुनाया ॥ २ ॥
अनुवाद (कन्नड)
ऒन्दु दिन निर्मल प्रभात काल बन्दाग पुरवासिगळ कार्यवन्नु तिळियुव श्रीरामनु बॆळगिन नित्यकर्म सन्ध्यावन्दनादिगळिन्द निवृत्तनागि हॊरगॆ सभा भवनक्कॆ बन्दनु.॥2॥
विश्वास-प्रस्तुतिः
आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ३ ॥
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते प्रतिहता राजन्द्व्वारि तिष्ठन्ति तापसाः ॥
अनुवाद (हिन्दी)
वे बोले—‘प्रभो! उसका आहार तो सभी प्राणी हैं; परंतु विशेषतः वह तपस्वी मुनियोंको खाता है । उसके आचार-व्यवहारमें बड़ी क्रूरता और भयानकता है और वह सदा मधुवनमें निवास करता है ॥ ३ ॥
विश्वास-प्रस्तुतिः
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगाण्डजान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगाण्डजान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ४ ॥
भार्गवं च्यवनं चैव पुरस्कृत्य महर्षयः ।
दर्शनं ते महाराज चोदयन्ति कृतत्वराः ॥
अनुवाद (हिन्दी)
‘वह प्रतिदिन कई सहस्र सिंह, व्याघ्र, मृग, पक्षी और मनुष्योंको मारकर खा जाता है ॥ ४ ॥
अनुवाद (कन्नड)
आगले सुमन्त्रनु बन्दु श्रीरामचन्द्रनल्लि हेळिदनु - राजने! तपस्वी महर्षिगळु भृगुपुत्र च्यवन मुनियन्नु मुन्दॆमाडि महाद्वारदल्लि निन्तिरुवरु. द्वारपालकरु ऒळगॆ बरलु तडॆदिद्दारॆ. महाराज! इवरु निम्म दर्शनक्कागि अवसर माडुत्तिद्दारॆ. इवरु तम्म आगमनवन्नु निमगॆ तिळिसलु पदे-पदे ऒत्तायिसुत्तिद्दारॆ.॥3-4॥
विश्वास-प्रस्तुतिः
ततोऽन्तराणि सत्त्वानि खादते स महाबलः ।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
ततोऽन्तराणि सत्त्वानि खादते स महाबलः ।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ ॥
प्रीयमाणानरव्याघ्र यमुनातीरवासिनः ।
तस्य तद्वचनं श्रुत्वा रामः प्रोवाचधर्मवित् ॥
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।
अनुवाद (हिन्दी)
‘संहारकाल आनेपर मुँह बाकर खड़े हुए यमराजके समान वह महाबली असुर दूसरे-दूसरे जीवोंको भी खाता रहता है’ ॥ ५ ॥
अनुवाद (कन्नड)
पुरुषसिंहने! इवरॆल्ल महर्षिगळु यमुना तीरदल्लि वासिसुत्तिद्दारॆ हागू निम्मल्लि विशेष प्रेमविट्टिरुवरु. सुमन्त्रन मातन्नु केळि धर्मज्ञ श्रीरामनु हेळिदनु - सूतने! भार्गव च्यवनादि ऎल्ल महात्मा ब्रह्मर्षिगळन्नु ऒळगॆ करॆदु बा.॥5½॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।
घातयिष्यामि तद् रक्षो व्यपगच्छतु वो भयम् ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।
घातयिष्यामि तद् रक्षो व्यपगच्छतु वो भयम् ॥ ६ ॥
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्ना कृताञ्जलिः ॥
प्रवेशयामास तदा तापसान्सुदुरासदान् ।
अनुवाद (हिन्दी)
उनका यह कथन सुनकर श्रीरघुनाथजीने उन महामुनियोंसे कहा—‘महर्षियो! मैं उस राक्षसको मरवा डालूूँगा । आपलोगोंका भय दूर हो जाना चाहिये’ ॥ ६ ॥
अनुवाद (कन्नड)
राजन आज्ञॆयन्नु शिरसावहिसि द्वारपालकनु शिरद मेलॆ अञ्जलीबद्धनागि आ अत्यन्त दुर्जय तेजस्वी तापसरन्नु राजसभॆगॆ करॆतन्दनु.॥6½॥
विश्वास-प्रस्तुतिः
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातॄन् सहितान् सर्वानुवाच रघुनन्दनः ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातॄन् सहितान् सर्वानुवाच रघुनन्दनः ॥ ७ ॥
शतं समधिकं तत्र दीप्यमानं स्वतेजसा ॥
प्रविष्टं राजभवनं तापसानां महात्मनाम् ।
अनुवाद (हिन्दी)
इस प्रकार उन उग्र तेजस्वी मुनियोंके समक्ष प्रतिज्ञा करके रघुकुलनन्दन श्रीरामने वहाँ एकत्र हुए अपने सब भाइयोंसे पूछा— ॥ ७ ॥
विश्वास-प्रस्तुतिः
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥ ८ ॥
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्तृतैः ॥
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ।
अनुवाद (हिन्दी)
‘बन्धुओ! लवणको कौन वीर मारेगा? उसे किसके हिस्सेमें रखा जाय—महाबाहु भरतके या बुद्धिमान् शत्रुघ्नके’ ॥
अनुवाद (कन्नड)
नूरक्किन्तलू हॆच्चागिद्द आ तपस्वी महात्मरॆल्लरू तम्म तेजदिन्द प्रकाशितरागिद्दरु. अवरॆल्लरू राज सभॆयन्नु प्रवेशिसि, समस्त तीर्थगळिन्द तुम्बिद कलशगळॊन्दिगॆ अनेक फलमूलगळन्नु श्रीरामचन्द्रनिगॆ काणिकॆयागि अर्पिसिदरु.॥7-8½॥
विश्वास-प्रस्तुतिः
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ९ ॥
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ॥
अनुवाद (हिन्दी)
रघुनाथजीके इस प्रकार पूछनेपर भरतजी बोले—‘भैया! मैं इस लवणका वध करूँगा । इसे मेरे हिस्सेमें रखा जाय’ ॥ ९ ॥
विश्वास-प्रस्तुतिः
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ १० ॥
शत्रुघ्नस्त्वब्रवीद् वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दन ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ १० ॥
शत्रुघ्नस्त्वब्रवीद् वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दन ॥ ११ ॥
तीर्थोदकानिसर्वाणि फलानि विविधानि च ।
उवाच च महाबाहुः सर्वानेन महामुनीन् ॥
इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।
रामस्य भाषितं श्रुत्वा सर्व एवमहर्षयः ॥
बृसीषु रुचिराख्यासुनिषेदुः काञ्चनीषु ते ।
अनुवाद (हिन्दी)
भरतजीके ये धीरता और वीरतापूर्ण शब्द सुनकर शत्रुघ्नजी सोनेका सिंहासन छोड़कर खड़े हो गये और महाराज श्रीरामको प्रणाम करके बोले—‘रघुनन्दन! महाबाहु मझले भैया तो बहुत-से कार्य कर चुके हैं ॥
अनुवाद (कन्नड)
महात्मरे! इदो उत्तमोत्तम आसन सिद्धविदॆ, नीवु यथायोग्य आसनगळल्लि आसीनरागिरि. श्रीरामन मातन्नु केळि महर्षिगळॆल्लरू शोभासम्पन्न स्वर्ण आसनगळल्लि कुळितुकॊण्डरु.॥11½॥
अनुवाद (कन्नड)
महा बाहु श्रीरामनु तुम्बा सन्तोषदिन्द अदॆल्ल काणिकॆ ऎल्ल तीर्थजल, नाना रीतिय फलगळन्नु स्वीकरिसि ऎल्ल महामुनिगळल्लि हेळिदनु.॥9-10॥
विश्वास-प्रस्तुतिः
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ १२ ॥
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥
अनुवाद (हिन्दी)
‘पहले जब अयोध्यापुरी आपसे सूनी हो गयी थी, उस समय आपके आगमन-कालतक हृदयमें अत्यन्त संताप लिये इन्होंने अयोध्यापुरीका पालन किया था ॥ १२ ॥
अनुवाद (कन्नड)
महर्षिगळु आसनगळल्लि विराजमानरागिरुवुदन्नु कण्डु परपुरञ्जय श्रीरघुनाथनु कैमुगिदु कॊण्डु विनीतनागि हेळिदनु.॥12॥
विश्वास-प्रस्तुतिः
दुःखानि च बहूनीह अनुभूतानि पार्थिव ।
शयानो दुःखशय्यासु नन्दिग्रामे महायशाः ॥ १३ ॥
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।
सर्वाष् टीकाः
मूलम्
दुःखानि च बहूनीह अनुभूतानि पार्थिव ।
शयानो दुःखशय्यासु नन्दिग्रामे महायशाः ॥ १३ ॥
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।
किमागमनकार्यं वः किं करोमि समाहितः ।
आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥
अनुवाद (हिन्दी)
‘पृथ्वीनाथ! महायशस्वी भरतने नन्दिग्राममें दुःखद शय्यापर सोते हुए पहले बहुत-से दुःख भोगे हैं । ये फल-मूल खाकर रहते थे और सिरपर जटा बढ़ाये चीर वस्त्र धारण करते थे ॥ १३ १/२ ॥
अनुवाद (कन्नड)
महर्षिगळे! याव कार्यक्कागि तम्म शुभागमन इल्लिगॆ आगिदॆ? नानु एकाग्रचित्तनागि निम्म याव सेवॆ माडलि? ई सेवकनु निम्म आज्ञॆयन्नु पडॆयलु योग्यनागिद्देनॆ. आदेश पडॆदु नानु सुखवागि निम्म ऎल्ल इच्छॆगळन्नु पूर्णगॊळिसबल्लॆनु.॥13॥
विश्वास-प्रस्तुतिः
अनुभूयेदृशं दुःखमेष राघवनन्दनः ॥ १४ ॥
प्रेष्ये मयि स्थिते राजन् न भूयः क्लेशमाप्नुयात् ।
सर्वाष् टीकाः
मूलम्
अनुभूयेदृशं दुःखमेष राघवनन्दनः ॥ १४ ॥
प्रेष्ये मयि स्थिते राजन् न भूयः क्लेशमाप्नुयात् ।
इदं राज्यं च सकलं जीवितं च हृदिस्थितम् ।
सर्वमेतद्वजार्थं मे सत्यमेतद्ब्रवीमि वः ॥
अनुवाद (हिन्दी)
‘महाराज! ऐसे-ऐसे दुःख भोगकर ये रघुकुलनन्दन भरत मुझ सेवकके रहते हुए अब फिर अधिक क्लेश न उठावें’ ॥ १४ १/२ ॥
अनुवाद (कन्नड)
ई इडी राज्य, ई हृदयदल्लि विराजमान जीवात्मा, नन्न समस्त वैभव ब्राह्मणर सेवॆगागिये इदॆ; इदन्नु नानु निम्म मुन्दॆ निजवागि हेळुत्तिद्देनॆ.॥14॥
विश्वास-प्रस्तुतिः
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ॥ १५ ॥
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ॥ १५ ॥
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ॥ १६ ॥
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥
ऊचुश्चैव महात्मानो हर्षेण महता वृताः ।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥
अनुवाद (हिन्दी)
शत्रुघ्नके ऐसा कहनेपर श्रीरघुनाथजी फिर बोले—‘काकुत्स्थ! तुम जैसा कहते हो, वैसा ही हो । तुम्हीं मेरे इस आदेशका पालन करो । मैं तुम्हें मधुके सुन्दर नगरमें राजाके पदपर अभिषिक्त करूँगा ॥ १५-१६ ॥
अनुवाद (कन्नड)
मत्तॆ आ महात्मरु बहळ हर्षदॊन्दिगॆ हेळिदरु - नरश्रेष्ठ! इन्तह मातुगळु ई भूमण्डलदल्लि निनगे योग्यवागिदॆ. बेरॆ यारू हीगॆ हेळलाररु.॥16॥
अनुवाद (कन्नड)
श्रीरघुनाथन मातन्नु केळि आ यमुनातीर निवासी उग्र तपस्वी महर्षिगळु उच्चस्वरदिन्द साधुवादवन्नु उच्चरिसिदरु.॥15॥
विश्वास-प्रस्तुतिः
निवेशय महाबाहो भरतं यद्यवेक्षसे ।
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
निवेशय महाबाहो भरतं यद्यवेक्षसे ।
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ १७ ॥
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥
अनुवाद (हिन्दी)
‘महाबाहो! यदि तुम भरतको क्लेश देना ठीक नहीं समझते तो इनको यहीं रहने दो । तुम शूरवीर हो, अस्त्र-विद्याके ज्ञाता हो तथा तुममें नूतन नगर निर्माण करनेकी शक्ति है ॥ १७ ॥
अनुवाद (कन्नड)
राजने! नावु अनेक महाबलि राजर बळिगॆ होदॆवु; आदरॆ अवरु कार्यद गौरववन्नु तिळिदु केळिद मेलॆ माडुवॆवु ऎन्दु हेळि इन्तह प्रतिज्ञॆ माडलु मुन्दागलिल्ल.॥17॥
विश्वास-प्रस्तुतिः
नगरं यमुनाजुष्टं तथा जनपदान् शुभान् ।
यो हि वंशं समुत्पाट्य पार्थिवस्य निवेशने ॥ १८ ॥
न विधत्ते नृपं तत्र नरकं स हि गच्छति ।
सर्वाष् टीकाः
मूलम्
नगरं यमुनाजुष्टं तथा जनपदान् शुभान् ।
यो हि वंशं समुत्पाट्य पार्थिवस्य निवेशने ॥ १८ ॥
न विधत्ते नृपं तत्र नरकं स हि गच्छति ।
त्वया पुनर्ब्राह्मणगौरवादियं
कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
ततश्च कर्ता ह्यसि नात्र संशयो
महाभयात्त्रातुमृषींस्त्वमर्हसि ॥
अनुवाद (हिन्दी)
‘तुम यमुनाजीके तटपर सुन्दर नगर बसा सकते हो और उत्तमोत्तम जनपदोंकी स्थापना कर सकते हो । जो किसी राजाके वंशका उच्छेद करके उसकी राजधानीमें दूसरे राजाको स्थापित नहीं करता, वह नरकमें पड़ता है ॥
अनुवाद (कन्नड)
आदरॆ नीनु नावु बन्दिरुव कारण तिळियदॆये, केवल ब्राह्मणर कुरितु आदर भाव इरुवुदरिन्द नम्म कॆलस माडुव प्रतिज्ञॆ माडिरुवॆ. इदरिन्द नीनु अवश्यवागि ई कार्य माडबल्लॆ, इदरल्लि संशयवे इल्ल. नीने महाभयदिन्द ऋषिगळन्नु कापाडबल्लॆ.॥18॥
विश्वास-प्रस्तुतिः
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ॥ १९ ॥
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ॥ २० ॥
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।
अभिषेकं च काकुत्स्थ प्रतीच्छस्व ममोद्यतम् ।
वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ॥ १९ ॥
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ॥ २० ॥
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।
अभिषेकं च काकुत्स्थ प्रतीच्छस्व ममोद्यतम् ।
वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ॥ २१ ॥
अनुवाद (हिन्दी)
‘अतः तुम मधुके पुत्र पापात्मा लवणासुरको मारकर धमर्पूर्वक वहाँके राज्यका शासन करो । शूरवीर! यदि तुम मेरी बात मानने योग्य समझो तो मैं जो कुछ कहता हूँ, उसे चुपचाप स्वीकार करो । बीचमें बात काटकर कोई उत्तर तुम्हें नहीं देना चाहिये । बालकको अवश्य ही अपने बड़ोंकी आज्ञाका पालन करना चाहिये । शत्रुघ्न! वसिष्ठ आदि मुख्य-मुख्य ब्राह्मण विधि और मन्त्रोच्चारणके साथ तुम्हारा अभिषेक करेंगे । मेरी आज्ञासे प्राप्त हुए इस अभिषेकको तुम स्वीकार करो’ ॥ १९—२१ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें बासठवाँ सर्ग पूरा हुआ ॥ ६२ ॥