०६० च्यवनादि-प्राप्तिः

[षष्टितमः सर्गः]

सर्वाष् टीकाः
भागसूचना

श्रीरामके दरबारमें च्यवन आदि ऋषियोंका शुभागमन, श्रीरामके द्वारा उनका सत्कार करके उनके अभीष्ट कार्यको पूर्ण करनेकी प्रतिज्ञा तथा ऋषियोंद्वारा उनकी प्रशंसा

विश्वास-प्रस्तुतिः

तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥ १ ॥

सर्वाष् टीकाः
मूलम्

तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥ १ ॥

अनुवाद (हिन्दी)

श्रीराम और लक्ष्मण परस्पर इस प्रकार कथा-वार्ता करते हुए प्रतिदिन प्रजापालनके कार्यमें लगे रहते थे । एक समय वसन्त-ऋतुकी रात आयी, जो न अधिक सर्दी लानेवाली थी और न गर्मी ॥ १ ॥

विश्वास-प्रस्तुतिः

ततः प्रभाते विमले कृतपूर्वाह्णिकक्रियः ।
अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

ततः प्रभाते विमले कृतपूर्वाह्णिकक्रियः ।
अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥ २ ॥

अनुवाद (हिन्दी)

वह रात बीतनेपर जब निर्मल प्रभातकाल आया, तब पुरवासियोंके कार्योंको जाननेवाले श्रीरघुनाथजी पूर्वाह्णकालके नित्यकर्म—संध्या-वन्दन आदिसे निवृत्त हो बाहर निकलकर प्रजाजनोंके दृष्टिपथमें आये ॥ २ ॥

विश्वास-प्रस्तुतिः

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते प्रतिहता राजन् द्वारि तिष्ठन्ति तापसाः ॥ ३ ॥
भार्गवं च्यवनं चैव पुरस्कृत्य महर्षयः ।
दर्शनं ते महाराज चोदयन्ति कृतत्वराः ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते प्रतिहता राजन् द्वारि तिष्ठन्ति तापसाः ॥ ३ ॥
भार्गवं च्यवनं चैव पुरस्कृत्य महर्षयः ।
दर्शनं ते महाराज चोदयन्ति कृतत्वराः ॥ ४ ॥

अनुवाद (हिन्दी)

उसी समय सुमन्त्रने आकर श्रीरामचन्द्रजीसे कहा—‘राजन्! ये तपस्वी महर्षि भृगुपुत्र च्यवन मुनिको आगे करके द्वारपर खड़े हैं । द्वारपालोंने इनका भीतर आना रोक दिया है । महाराज! इन्हें आपके दर्शनकी जल्दी लगी हुई है और ये अपने आगमनकी सूचना देनेके लिये हमें बारंबार प्रेरित करते हैं ॥ ३-४ ॥

विश्वास-प्रस्तुतिः

प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ।
तस्य तद् वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ॥ ५ ॥
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।

सर्वाष् टीकाः
मूलम्

प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ।
तस्य तद् वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ॥ ५ ॥
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।

अनुवाद (हिन्दी)

‘पुरुषसिंह! ये सब महर्षि यमुनातटपर निवास करते हैं और आपसे विशेष प्रेम रखते हैं ।’ सुमन्त्रकी यह बात सुनकर धर्मज्ञ श्रीरामने कहा—‘सूत! भार्गव, च्यवन आदि सभी महाभाग ब्रह्मर्षियोंको भीतर बुलाया जाय’ ॥ ५ १/२ ॥

विश्वास-प्रस्तुतिः

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्ना कृताञ्जलिः ॥ ६ ॥
प्रवेशयामास तदा तापसान् सुदुरासदान् ।

सर्वाष् टीकाः
मूलम्

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्ना कृताञ्जलिः ॥ ६ ॥
प्रवेशयामास तदा तापसान् सुदुरासदान् ।

अनुवाद (हिन्दी)

राजाकी यह आज्ञा शिरोधार्य करके द्वारपालने मस्तकपर दोनों हाथ जोड़ लिये और उन अत्यन्त दुर्जय तेजस्वी तापसोंको वह राजभवनके भीतर ले आया ॥ ६ १/२ ॥

विश्वास-प्रस्तुतिः

शतं समधिकं तत्र दीप्यमानं स्वतेजसा ॥ ७ ॥
प्रविष्टं राजभवनं तापसानां महात्मनाम् ।
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ॥ ८ ॥
गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु ।

सर्वाष् टीकाः
मूलम्

शतं समधिकं तत्र दीप्यमानं स्वतेजसा ॥ ७ ॥
प्रविष्टं राजभवनं तापसानां महात्मनाम् ।
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ॥ ८ ॥
गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु ।

अनुवाद (हिन्दी)

उन तपस्वी महात्माओंकी संख्या सौसे अधिक थी । वे सब-के-सब अपने तेजसे प्रकाशित हो रहे थे । उन सबने राजभवनमें प्रवेश किया और समस्त तीर्थोंके जलसे भरे हुए घड़ोंके साथ बहुत-से फल-मूल लेकर श्रीरामचन्द्रजीको भेंट किये ॥ ७-८ १/२ ॥

विश्वास-प्रस्तुतिः

प्रतिगृह्य तु तत् सर्वं रामः प्रीतिपुरस्कृतः ॥ ९ ॥
तीर्थोदकानि सर्वाणि फलानि विविधानि च ।
उवाच च महाबाहुः सर्वानेव महामुनीन् ॥ १० ॥

सर्वाष् टीकाः
मूलम्

प्रतिगृह्य तु तत् सर्वं रामः प्रीतिपुरस्कृतः ॥ ९ ॥
तीर्थोदकानि सर्वाणि फलानि विविधानि च ।
उवाच च महाबाहुः सर्वानेव महामुनीन् ॥ १० ॥

अनुवाद (हिन्दी)

महाबाहु श्रीरामने बड़ी प्रसन्नताके साथ वह सारा उपहार—वे सारे तीर्थजल और नाना प्रकारके फल लेकर उन सभी महामुनियोंसे कहा— ॥ ९-१० ॥

विश्वास-प्रस्तुतिः

इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ॥ ११ ॥
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।

सर्वाष् टीकाः
मूलम्

इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ॥ ११ ॥
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।

अनुवाद (हिन्दी)

‘महात्माओ! ये उत्तमोत्तम आसन प्रस्तुत हैं । आपलोग यथायोग्य इन आसनोंपर बैठ जायँ ।’ श्रीरामचन्द्रजीका यह वचन सुनकर वे सभी महर्षि रुचिर शोभासे सम्पन्न उन सुवर्णमय आसनोंपर बैठे ॥ ११ १/२ ॥

विश्वास-प्रस्तुतिः

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥ १२ ॥

अनुवाद (हिन्दी)

उन महर्षियोंको वहाँ आसनोंपर विराजमान देख शत्रुनगरीपर विजय पानेवाले श्रीरघुनाथजीने हाथ जोड़ संयतभावसे कहा— ॥ १२ ॥

विश्वास-प्रस्तुतिः

किमागमनकार्यं वः किं करोमि समाहितः ।
आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

किमागमनकार्यं वः किं करोमि समाहितः ।
आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥ १३ ॥

अनुवाद (हिन्दी)

‘महर्षियो! किस कामसे यहाँ आपलोगोंका शुभागमन हुआ है! मैं एकाग्रचित्त होकर आपकी क्या सेवा करूँ? यह सेवक आपकी आज्ञा पानेके योग्य है । आदेश मिलनेपर मैं बड़े सुखसे आपकी सभी इच्छाओंको पूर्ण कर सकता हूँ ॥ १३ ॥

विश्वास-प्रस्तुतिः

इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।
सर्वमेतद् द्विजार्थं मे सत्यमेतद् ब्रवीमि वः ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।
सर्वमेतद् द्विजार्थं मे सत्यमेतद् ब्रवीमि वः ॥ १४ ॥

अनुवाद (हिन्दी)

‘यह सारा राज्य, इस हृदयकमलमें विराजमान यह जीवात्मा तथा यह मेरा सारा वैभव ब्राह्मणोंकी सेवाके लिये ही है, मैं आपके समक्ष यह सच्ची बात कहता हूँ’ ॥ १४ ॥

विश्वास-प्रस्तुतिः

तस्य तद् वचनं श्रुत्वा साधुकारो महानभूत् ।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

तस्य तद् वचनं श्रुत्वा साधुकारो महानभूत् ।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ १५ ॥

अनुवाद (हिन्दी)

श्रीरघुनाथजीके ये वचन सुनकर उन यमुनातीर-निवासी उग्र तपस्वी महर्षियोंने उच्च स्वरसे उन्हें साधुवाद दिया ॥ १५ ॥

विश्वास-प्रस्तुतिः

ऊचुश्चैव महात्मानो हर्षेण महता वृताः ।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

ऊचुश्चैव महात्मानो हर्षेण महता वृताः ।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ १६ ॥

अनुवाद (हिन्दी)

फिर वे महात्मा बड़े हर्षके साथ बोले—‘नरश्रेष्ठ! इस भूमण्डलमें ऐसी बातें आपके ही योग्य हैं । दूसरे किसीके मुखसे इस तरहकी बात नहीं निकलती ॥ १६ ॥

विश्वास-प्रस्तुतिः

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ १७ ॥

अनुवाद (हिन्दी)

‘राजन्! हम बहुत-से महाबली राजाओंके पास गये; परंतु उन्होंने कार्यके गौरवको समझकर उसे सुननेके बाद भी ‘करूँगा’ ऐसी प्रतिज्ञा करनेकी रुचि नहीं दिखायी ॥ १७ ॥

विश्वास-प्रस्तुतिः

त्वया पुनर्ब्राह्मणगौरवादियं
कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
ततश्च कर्ता ह्यसि नात्र संशयो
महाभयात् त्रातुमृषींस्त्वमर्हसि ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

त्वया पुनर्ब्राह्मणगौरवादियं
कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
ततश्च कर्ता ह्यसि नात्र संशयो
महाभयात् त्रातुमृषींस्त्वमर्हसि ॥ १८ ॥

अनुवाद (हिन्दी)

‘परंतु आपने हमारे आनेका कारण जाने बिना ही केवल ब्राह्मणोंके प्रति आदरका भाव होनेसे हमारा काम करनेकी प्रतिज्ञा कर डाली है; इसलिये आप अवश्य यह काम कर सकेंगे, इसमें संशय नहीं है । आप ही महान् भयसे ऋषियोंको बचा सकेंगे’ ॥ १८ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्टितमः सर्गः ॥ ६० ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें साठवाँ सर्ग पूरा हुआ ॥ ६० ॥