०५१ भृगु-शापः

[एकपञ्चाशः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. मार्गमें सुमन्त्रका दुर्वासाके मुखसे सुनी हुई भृगुऋषिके शापकी कथा कहकर तथा भविष्यमें होनेवाली कुछ बातें बताकर दुःखी लक्ष्मणको शान्त करना
विश्वास-प्रस्तुतिः

तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।
तद् वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥

सर्वाष् टीकाः
मूलम्

तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।
तद् वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥


तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।
तद्वाक्यमृषिकाप्रोक्तं व्याहर्तुमुपचक्रमे ॥

अनुवाद (हिन्दी)

तब महात्मा लक्ष्मणकी प्रेरणासे सुमन्त्रजी दुर्वासाजीकी कही हुई बात उन्हें सुनाने लगे— ॥ १ ॥

अनुवाद (कन्नड)

सुमन्त्रनु महात्मा लक्ष्मणन प्रेरणॆयिन्द दुर्वासरु हेळिद मातन्नु हेळलु तॊडगिदनु.॥1॥

विश्वास-प्रस्तुतिः

पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥

सर्वाष् टीकाः
मूलम्

पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥

अनुवाद (हिन्दी)

‘लक्ष्मण! पहलेकी बात है, अत्रिके पुत्र महामुनि दुर्वासा वसिष्ठजीके पवित्र आश्रमपर रहकर वर्षाके चार महीने बिता रहे थे ॥ २ ॥

अनुवाद (कन्नड)

लक्ष्मण! अत्रिमहर्षिगळ पुत्रराद महामुनि दुर्वासरु हिन्दॊम्मॆ वसिष्ठर पवित्र आश्रमदल्लि वर्षाकालद नाल्कु तिङ्गळन्नु कळॆदिद्दरु.॥2॥

विश्वास-प्रस्तुतिः

तमाश्रमं महातेजाः पिता ते सुमहायशाः ।
पुरोहितं महात्मानं दिदृक्षुरगमत् स्वयम् ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

तमाश्रमं महातेजाः पिता ते सुमहायशाः ।
पुरोहितं महात्मानं दिदृक्षुरगमत् स्वयम् ॥ ३ ॥


तमाश्रमं महातेजाः पिताते सुमहायशाः ।
पुरोहितं महात्मानां दिदृक्षुरगमत्स्वम् ॥

अनुवाद (हिन्दी)

‘एक दिन आपके महातेजस्वी और महान् यशस्वी पिता उस आश्रमपर अपने पुरोहित महात्मा वसिष्ठजीका दर्शन करनेके लिये स्वयं ही गये ॥ ३ ॥

अनुवाद (कन्नड)

ऒन्दु दिन महायशोवन्तनाद निन्न तन्दॆयवरु पुरोहितराद वसिष्ठरन्नु काणलु आश्रमक्कॆ तावागिये बन्दरु.॥3॥

विश्वास-प्रस्तुतिः

स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ४ ॥

अनुवाद (हिन्दी)

‘वहाँ उन्होंने वसिष्ठजीके वामभागमें बैठे हुए एक महामुनिको देखा, जो अपने तेजसे मानो सूर्यके समान देदीप्यमान हो रहे थे ॥ ४ ॥

अनुवाद (कन्नड)

अल्लि तन्न तेजदिन्द सूर्यनन्तॆ देदीप्यमानराद ओर्व महामुनिगळु वसिष्ठर वामभागदल्लि कुळितिरुवुदन्नु राजनु नोडिदनु.॥4॥

विश्वास-प्रस्तुतिः

तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभ्यवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥ ५ ॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह ।

सर्वाष् टीकाः
मूलम्

तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभ्यवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥ ५ ॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह ।


तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभ्यवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥
पाद्येन लमूलैश्च उवास मुनिभिः सह ।

अनुवाद (हिन्दी)

‘तब राजाने उन दोनों तापसशिरोमणि महर्षियोंका विनयपूर्वक अभिवादन किया । उन दोनोंने भी स्वागतपूर्वक आसन देकर पाद्य एवं फल-मूल समर्पित करके राजाका सत्कार किया । फिर वे वहाँ मुनियोंके साथ बैठे ॥ ५ १/२ ॥

अनुवाद (कन्नड)

आग राजनु इब्बरू तापसश्रेष्ठ महर्षियरन्नु विनयदिन्द अभिवादन माडिदनु. अवरिब्बरू स्वागतपूर्वक आसन नीडि, पाद्य, फल-मूल अर्पिसि राजनन्नु सत्करिसिदरु. मत्तॆ अवनु अल्लि मुनिगळ बळि कुळितुकॊण्डनु.॥5½॥

विश्वास-प्रस्तुतिः

तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ॥ ६ ॥
बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ।

सर्वाष् टीकाः
मूलम्

तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ॥ ६ ॥
बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ।

अनुवाद (हिन्दी)

‘वहाँ बैठे हुए महर्षियोंकी दोपहरके समय तरह-तरहकी अत्यन्त मधुर कथाएँ हुईं ॥ ६ १/२ ॥

अनुवाद (कन्नड)

अल्लि कुळितिरुव महर्षिगळु मध्याह्नद समय बगॆ-बगॆय अत्यन्त मधुर कथॆगळन्नु परस्पर हेळिकॊण्डरु.॥6½॥

विश्वास-प्रस्तुतिः

ततः कथायां कस्याञ्चित् प्राञ्जलिः प्रग्रहो नृपः ॥ ७ ॥
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।

सर्वाष् टीकाः
मूलम्

ततः कथायां कस्याञ्चित् प्राञ्जलिः प्रग्रहो नृपः ॥ ७ ॥
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।

अनुवाद (हिन्दी)

‘तदनन्तर किसी कथाके प्रसङ्गमें महाराजने हाथ जोड़कर अत्रिके तपोधन पुत्र महात्मा दुर्वासाजीसे विनयपूर्वक पूछा— ॥ ७ १/२ ॥

अनुवाद (कन्नड)

बळिक यावुदो कथॆय सन्दर्भदल्लि महाराजनु कैमुगिदु तपोधन अत्रिपुत्र महात्मा दुर्वासरल्लि विनयदिन्द केळिदनु.॥7½॥

विश्वास-प्रस्तुतिः

भगवन् किम्प्रमाणेन मम वंशो भविष्यति ॥ ८ ॥
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।

सर्वाष् टीकाः
मूलम्

भगवन् किम्प्रमाणेन मम वंशो भविष्यति ॥ ८ ॥
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।

अनुवाद (हिन्दी)

‘भगवन्! मेरा वंश कितने समयतक चलेगा? मेरे रामकी कितनी आयु होगी तथा अन्य सब पुत्रोंकी भी आयु कितनी होगी? ॥ ८ १/२ ॥

अनुवाद (कन्नड)

पूज्यरे! नन्न वंश ऎष्टु समय नडॆदीतु? नन्न रामनिगॆ आयुस्सु ऎष्टिद्दीतु? हागू उळिद ऎल्ल पुत्रर आयुस्सू कूड ऎष्टिरबहुदु.॥8½॥

विश्वास-प्रस्तुतिः

रामस्य च सुता ये स्युस्तेषामायुः कियद् भवेत् ॥ ९ ॥
काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम ।

सर्वाष् टीकाः
मूलम्

रामस्य च सुता ये स्युस्तेषामायुः कियद् भवेत् ॥ ९ ॥
काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम ।

अनुवाद (हिन्दी)

‘श्रीरामके जो पुत्र होंगे, उनकी आयु कितनी होगी? भगवन्! आप इच्छानुसार मेरे वंशकी स्थिति बताइये’ ॥ ९ १/२ ॥

अनुवाद (कन्नड)

श्रीरामनिगॆ हुट्टुव पुत्रर आयुस्सु ऎष्टागबहुदु? पूज्यरे! तावु इच्छानुसार नन्न वंशद स्थितियन्नु तिळिसिरि.॥9½॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु ॥ १० ॥
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।

सर्वाष् टीकाः
मूलम्

तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु ॥ १० ॥
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।

अनुवाद (हिन्दी)

‘राजा दशरथका यह वचन सुनकर महातेजस्वी दुर्वासा मुनि कहने लगे— ॥ १० १/२ ॥

अनुवाद (कन्नड)

दशरथराजन मातन्नु केळि महातेजस्वि दुर्वासरु हेळतॊडगिदरु.॥10½॥

विश्वास-प्रस्तुतिः

शृणु राजन् पुरा वृत्तं तदा देवासुरे युधि ॥ ११ ॥
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

शृणु राजन् पुरा वृत्तं तदा देवासुरे युधि ॥ ११ ॥
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥ १२ ॥

अनुवाद (हिन्दी)

‘राजन्! सुनिये, प्राचीन कालकी बात है, एक बार देवासुर-संग्राममें देवताओंसे पीड़ित हुए दैत्योंने महर्षि भृगुकी पत्नीकी शरण ली । भृगुपत्नीने उस समय दैत्योंको अभय दिया और वे उनके आश्रमपर निर्भय होकर रहने लगे ॥ ११-१२ ॥

अनुवाद (कन्नड)

राजने! केळु, हिन्दॊम्मॆ देवासुर सङ्ग्रामदल्लि देवतॆगळिन्द पीडितराद दैत्यरु महर्षि भृगुपत्नियल्लि शरणादरु. भृगुपत्नियु आग दैत्यरिगॆ अभयवित्तरु हागू अवर आश्रमदल्लि निर्भयरागि इरतॊडगिदरु.॥11-12॥

विश्वास-प्रस्तुतिः

तया परिगृहीतांस्तान् दृष्ट्वा क्रुद्धः सुरेश्वरः ।
चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

तया परिगृहीतांस्तान् दृष्ट्वा क्रुद्धः सुरेश्वरः ।
चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ॥ १३ ॥

अनुवाद (हिन्दी)

‘भृगुपत्नीने दैत्योंको आश्रय दिया है, यह देखकर कुपित हुए देवेश्वर भगवान् विष्णुने तीखी धारवाले चक्रसे उनका सिर काट लिया ॥ १३ ॥

अनुवाद (कन्नड)

भृगुपत्नियु दैत्यरिगॆ आश्रय नीडिदुदन्नु नोडि कुपितनाद देवेश्वर भगवान् विष्णु हरितवाद चक्रदिन्द आकॆय तलॆयन्नु कत्तरिसिदनु.॥13॥

विश्वास-प्रस्तुतिः

ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ ॥

अनुवाद (हिन्दी)

‘अपनी पत्नीका वध हुआ देख भार्गववंशके प्रवर्तक भृगुजीने सहसा कुपित हो शत्रुकुलनाशन भगवान् विष्णुको शाप दिया ॥ १४ ॥

अनुवाद (कन्नड)

तन्न पत्निय वधॆयन्नु नोडि भार्गव वंश प्रवर्तक भृगुमुनिगळु कुपितरागि शत्रुकुलनाशक भगवान् विष्णुविगॆ शापवन्नित्तरु.॥14॥

विश्वास-प्रस्तुतिः

यस्मादवध्यां मे पत्नीमवधीः क्रोधमूिर्च्छतः ।
तस्मात् त्वं मानुषे लोके जनिष्यसि जनार्दन ॥ १५ ॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।

सर्वाष् टीकाः
मूलम्

यस्मादवध्यां मे पत्नीमवधीः क्रोधमूिर्च्छतः ।
तस्मात् त्वं मानुषे लोके जनिष्यसि जनार्दन ॥ १५ ॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।


यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्छितः ।
तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।

अनुवाद (हिन्दी)

‘जनार्दन! मेरी पत्नी वधके योग्य नहीं थी । परंतु आपने क्रोधसे मूर्च्छित होकर उसका वध किया है, इसलिये आपको मनुष्यलोकमें जन्म लेना पड़ेगा और वहाँ बहुत वर्षोंतक आपको पत्नी-वियोगका कष्ट सहना पड़ेगा’ ॥ १५ १/२ ॥

अनुवाद (कन्नड)

जनार्दनने! नन्न पत्नियु वधॆगॆ योग्यळिरलिल्ल. आदरू नीनु क्रोधमूर्छितनागि आकॆयन्नु वधिसिदॆ. इदरिन्द निनगॆ मनुष्यलोकदल्लि हुट्टबेकादीतु मत्तु अल्लि बहळ दिनगळवरॆगॆ रामनिगॆ पत्नी वियोगद कष्ट सहिसबेकादीतु.॥15½॥

विश्वास-प्रस्तुतिः

शापाभिहतचेतास्तु स्वात्मना भावितोऽभवत् ॥ १६ ॥
अर्चयामास तं देवं भृगुः शापेन पीडितः ।

सर्वाष् टीकाः
मूलम्

शापाभिहतचेतास्तु स्वात्मना भावितोऽभवत् ॥ १६ ॥
अर्चयामास तं देवं भृगुः शापेन पीडितः ।

अनुवाद (हिन्दी)

‘परंतु इस प्रकार शाप देकर उनके चित्तमें बड़ा पश्चात्ताप हुआ । उनकी अन्तरात्माने भगवान् से उस शापको स्वीकार करानेके लिये उन्हींकी आराधना करनेको प्रेरित किया । इस तरह शापकी विफलताके भयसे पीड़ित हुए भृगुने तपस्याद्वारा भगवान् विष्णुकी आराधना की ॥ १६ १/२ ॥

अनुवाद (कन्नड)

आदरॆ ई प्रकार शापकॊट्ट अवर मनस्सिनल्लि बहळ पश्चात्तापवुण्टायितु. विष्णुवु शापवन्नु स्वीकरिसुवन्तॆ विष्णुविन आराधनॆ माडुवन्तॆ महर्षिगळन्नु अवर अन्तरात्मवु प्रेरेपिसितु. हीगॆ शापद विफलतॆय भयदिन्द पीडितराद भृगुवु तपस्सिन मूलक भगवान् विष्णुविन आराधनॆयन्नु माडिदरु.॥16½॥

विश्वास-प्रस्तुतिः

तपसाऽऽराधितो देवो ह्यब्रवीद् भक्तवत्सलः ॥ १७ ॥
लोकानां सम्प्रियार्थं तु तं शापं गृह्यमुक्तवान् ।

सर्वाष् टीकाः
मूलम्

तपसाऽऽराधितो देवो ह्यब्रवीद् भक्तवत्सलः ॥ १७ ॥
लोकानां सम्प्रियार्थं तु तं शापं गृह्यमुक्तवान् ।


तपसाऽऽराधितो देवो ह्यब्रवीद्भक्तवत्सलः ॥
लोकानां सम्प्रियार्थं तु तं शापं ग्रह्यमुक्तवान् ।

अनुवाद (हिन्दी)

‘तपस्याद्वारा उनके आराधना करनेपर भक्तवत्सल भगवान् विष्णुने संतुष्ट होकर कहा—‘महर्षे! सम्पूर्ण जगत् का प्रिय करनेके लिये मैं उस शापको ग्रहण कर लूँगा’ ॥

अनुवाद (कन्नड)

तपस्सिन मूलक आराधनॆ माडिदाग भक्तिवत्सल महाविष्णु प्रसन्ननागि महर्षिगळिगॆ हेळिदनु - महर्षिगळे! समस्त लोकगळ प्रियवन्नुण्टु माडलु निम्म शापवन्नु स्वीकरिसुवॆनु.॥17½॥

विश्वास-प्रस्तुतिः

इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ॥ १८ ॥
इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ॥ १८ ॥
इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ॥ १९ ॥

अनुवाद (हिन्दी)

‘इस तरह पूर्वजन्ममें (विष्णु-नामधारी वामन अवतारके समय) महातेजस्वी भगवान् विष्णुको भृगु ऋषिका शाप प्राप्त हुआ था । दूसरोंको मान देनेवाले नृपश्रेष्ठ! वे ही इस भूतलपर आकर तीनों लोकोंमें राम-नामसे विख्यात आपके पुत्र हुए हैं ॥ १८-१९ ॥

अनुवाद (कन्नड)

हिन्दॆ महाविष्णुवु वामननागि अवतरिसिदाग महाविष्णुविगॆ भृगु महर्षिगळिन्द हीगॆ शाप बन्दित्तु. आ शापद परिणामवागि आ महाविष्णुवे भूमियल्लि निन्न मगनागि हुट्टि रामनॆम्ब हॆसरिनिन्द मूरु लोकगळल्लि विख्यातनागुत्तानॆ.॥18-19॥

विश्वास-प्रस्तुतिः

तत् फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।
अयोध्यायाः पती रामो दीर्घकालं भविष्यति ॥ २० ॥

सर्वाष् टीकाः
मूलम्

तत् फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।
अयोध्यायाः पती रामो दीर्घकालं भविष्यति ॥ २० ॥

अनुवाद (हिन्दी)

‘भृगुके शापसे होनेवाला पत्नी-वियोगरूप जो महान् फल है, वह उन्हें अवश्य प्राप्त होगा । श्रीराम दीर्घकालतक अयोध्याके राजा होकर रहेंगे ॥ २० ॥

अनुवाद (कन्नड)

भृगु महर्षिगळ शापद परिणामवागि अवनु पत्नी वियोग रूपवाद फलवन्नु पडॆदरू बहळ दीर्घकालदवरॆगॆ अयोध्यॆयल्लि राज्यभार माडिकॊण्डिरुवनु.॥20॥

विश्वास-प्रस्तुतिः

सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ २१ ॥
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।

सर्वाष् टीकाः
मूलम्

सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ २१ ॥
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।

अनुवाद (हिन्दी)

‘उनके अनुयायी भी बहुत सुखी और धन-धान्यसे सम्पन्न होंगे । श्रीराम ग्यारह हजार वर्षोंतक राज्य करके अन्तमें ब्रह्मलोक (वैकुण्ठ या साकेतधाम)-को पधारेंगे ॥ २१ १/२ ॥

अनुवाद (कन्नड)

अवन अनुयायिगळू कूड परमसुखि मत्तु धन-धान्यगळिन्द सम्पन्नरागुवरु. श्रीरामनु हन्नॊन्दु साविर वर्ष राज्यवाळि कॊनॆगॆ वैकुण्ठ अथवा साकेतधामक्कॆ तॆरळुवनु.॥21½॥

विश्वास-प्रस्तुतिः

समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ॥ २२ ॥
राजवंशांश्च बहुशो बहून् संस्थापयिष्यति ।
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ॥ २३ ॥

सर्वाष् टीकाः
मूलम्

समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ॥ २२ ॥
राजवंशांश्च बहुशो बहून् संस्थापयिष्यति ।
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ॥ २३ ॥


समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ॥ राजवंशाश्च बहुशो बहून्संस्थापयिष्यति ।
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ॥

अनुवाद (हिन्दी)

‘परम दुर्जय वीर श्रीराम समृद्धिशाली अश्वमेध-यज्ञोंका बारम्बार अनुष्ठान करके बहुत-से राजवंशोंकी स्थापना करेंगे । श्रीरघुनाथजीको सीताके गर्भसे दो पुत्र प्राप्त होंगे’ ॥ २२-२३ ॥

अनुवाद (कन्नड)

परम दुर्जयवीर श्रीरामनु समृद्धिशाली अश्वमेध यज्ञगळन्नु अनुष्ठान माडि अनेक राज वंशरुगळन्नु स्थापनॆ माडुवनु. श्रीरघुनाथनिगॆ सीतॆय गर्भदिन्द इब्बरु पुत्ररागुवरु.॥22-23॥

विश्वास-प्रस्तुतिः

स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ २४ ॥

सर्वाष् टीकाः
मूलम्

स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ २४ ॥

अनुवाद (हिन्दी)

‘ये सब बातें कहकर उन महातेजस्वी महामुनिने राजवंशके विषयमें भूत और भविष्यकी सारी बातें बतायीं । इसके बाद वे चुप हो गये ॥ २४ ॥

अनुवाद (कन्नड)

इवॆल्ल मातुगळन्नु हेळि आ महातेजस्वी महामुनियु राजवंशद भूत, भविष्यद ऎल्ल मातुगळन्नु तिळिसि सुम्मनादरु.॥24॥

विश्वास-प्रस्तुतिः

तूष्णीम्भूते तदा तस्मिन् राजा दशरथो मुनौ ।
अभिवाद्य महात्मानौ पुनरायात् पुरोत्तमम् ॥ २५ ॥

सर्वाष् टीकाः
मूलम्

तूष्णीम्भूते तदा तस्मिन् राजा दशरथो मुनौ ।
अभिवाद्य महात्मानौ पुनरायात् पुरोत्तमम् ॥ २५ ॥

अनुवाद (हिन्दी)

‘उन दुर्वासा मुनिके चुप हो जानेपर महाराज दशरथ भी दोनों महात्माओंको प्रणाम करके फिर अपने उत्तम नगरमें लौट आये ॥ २५ ॥

अनुवाद (कन्नड)

दुर्वासरु सुम्मनादाग दशरथनू इब्बरू महात्मरिगॆ वन्दिसि तन्न नगरक्कॆ बन्दनु.॥25॥

विश्वास-प्रस्तुतिः

एतद् वचो मया तत्र मुनिना व्याहृतं पुरा ।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद् भविष्यति ॥ २६ ॥

सर्वाष् टीकाः
मूलम्

एतद् वचो मया तत्र मुनिना व्याहृतं पुरा ।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद् भविष्यति ॥ २६ ॥

अनुवाद (हिन्दी)

‘इस प्रकार पूर्वकालसे दुर्वासा मुनिकी कही हुई ये सब बातें मैंने वहाँ सुनीं और अपने हृदयमें धारण कर लीं (उन्हें किसीपर प्रकट नहीं किया) । वे बातें असत्य नहीं होंगी ॥ २६ ॥

अनुवाद (कन्नड)

हीगॆ हिन्दॆ दुर्वासरु हेळिद ऎल्ल मातुगळन्नु नानु अल्लि केळिसिकॊण्डु मनस्सिनल्लिट्टुकॊण्डु प्रकटपडिसलिल्ल. आ मातुगळु सुळ्ळागलारवु.॥26॥

विश्वास-प्रस्तुतिः

सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।
अन्यत्र न त्वयोध्यायां मुनेस्तु वचनं यथा ॥ २७ ॥

सर्वाष् टीकाः
मूलम्

सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।
अन्यत्र न त्वयोध्यायां मुनेस्तु वचनं यथा ॥ २७ ॥

अनुवाद (हिन्दी)

‘जैसा दुर्वासा मुनिका वचन है, उसके अनुसार श्रीरघुनाथजी सीताके दोनों पुत्रोंका अयोध्यासे बाहर अभिषेक करेंगे, अयोध्यामें नहीं ॥ २७ ॥

अनुवाद (कन्नड)

दुर्वासर मातिनन्तॆ श्रीरघुनाथनु सीतॆय इब्बरू पुत्रर पट्टाभिषेक अयोध्यॆयिन्द हॊरगे नडॆसुवनु.॥27॥

विश्वास-प्रस्तुतिः

एवं गते न सन्तापं कर्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ २८ ॥

सर्वाष् टीकाः
मूलम्

एवं गते न सन्तापं कर्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ २८ ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ रघुनन्दन! विधाताका ऐसा ही विधान होनेके कारण आपको सीता तथा रघुनाथजीके लिये संताप नहीं करना चाहिये । आप धैर्य धारण करें’ ॥ २८ ॥

अनुवाद (कन्नड)

नरश्रेष्ठ लक्ष्मण! विधातन विधान हीगे इरुवुदरिन्द नीनु सीतॆ अथवा श्रीरामन कुरितु सन्ताप पडबेड. धैर्यधरिसिको.॥28॥

विश्वास-प्रस्तुतिः

श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २९ ॥

सर्वाष् टीकाः
मूलम्

श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २९ ॥

अनुवाद (हिन्दी)

सूत सुमन्त्रके मुखसे यह अत्यन्त अद्भुत बात सुनकर लक्ष्मणको अनुपम हर्ष प्राप्त हुआ । वे बोले—‘बहुत ठीक, बहुत ठीक’ ॥ २९ ॥

अनुवाद (कन्नड)

सारथियिन्द केळिद ई अत्यन्त अद्भुत मातिनिन्द लक्ष्मणनिगॆ अनुपम हर्षवायितु. साधु! साधु! हागॆये आगलि ऎन्दु हेळिदनु.॥29॥

विश्वास-प्रस्तुतिः

ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ ३० ॥

सर्वाष् टीकाः
मूलम्

ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ ३० ॥

अनुवाद (हिन्दी)

मार्गमें सुमन्त्र और लक्ष्मण इस प्रकारकी बातें कर ही रहे थे कि सूर्य अस्ताचलको चले गये । तब उन दोनोंने केशिनी नदीके तटपर रात बितायी ॥ ३० ॥

अनुवाद (कन्नड)

दारियल्लि सुमन्त्र मत्तु लक्ष्मणरु हीगॆ मातनाडिकॊण्डु बरुवाग सञ्जॆयायितु. आग अवरिब्बरू केशिनी नदी तीरदल्लि रात्रॆयन्नु कळॆदरु.॥30॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें इक्यावनवाँ सर्ग पूरा हुआ ॥ ५१ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि ऐवत्तॊन्दनॆय सर्ग पूर्णवायितु. ॥51॥