०४५ सीता-विसर्जनादेशः

[पञ्चचत्वारिंशः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. श्रीरामका भाइयोंके समक्ष सर्वत्र फैले हुए लोकापवादकी चर्चा करके सीताको वनमें छोड़ आनेके लिये लक्ष्मणको आदेश देना
विश्वास-प्रस्तुतिः

तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ १ ॥

सर्वाष् टीकाः
मूलम्

तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ १ ॥

अनुवाद (हिन्दी)

इस प्रकार सब भाई दुःखी मनसे वहाँ बैठे हुए थे । उस समय श्रीरामने सूखे मुखसे उनके सामने यह बात कही— ॥ १ ॥

अनुवाद (कन्नड)

ई प्रकार ऎल्ल तम्मन्दिरु दीनमनस्करागि अल्लि कुळित्तिद्दरु. आग श्रीरामनु बाडिद मुखदिन्द अवर मुन्दॆ ई मातन्नु हेळिदरु.॥1॥

विश्वास-प्रस्तुतिः

सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ॥ २ ॥

सर्वाष् टीकाः
मूलम्

सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ॥ २ ॥


सर्वे श्रुणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ॥

अनुवाद (हिन्दी)

‘बन्धुओ! तुम्हारा कल्याण हो । तुम सब लोग मेरी बात सुनो । मनको इधर-उधर न ले जाओ । पुरवासियोंके यहाँ मेरे और सीताके विषयमें जैसी चर्चा चल रही है, उसीको बता रहा हूँ ॥ २ ॥

अनुवाद (कन्नड)

सहोदररे! निमगॆ मङ्गळवागली. नीवॆल्लरू एकाग्रचित्तरागि नन्न मातन्नु आलिसिरि. पुरवासिगळल्लि नन्न मत्तु सीतॆय विषयदल्लि नडॆद चर्चॆयन्नु निमगॆ तिळिसुवॆनु.॥2॥

विश्वास-प्रस्तुतिः

पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ३ ॥


पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयी बीभत्सा सा मे मर्माणि कृन्तति ॥

अनुवाद (हिन्दी)

‘इस समय पुरवासियों और जनपदके लोगोंमें सीताके सम्बन्धमें महान् अपवाद फैला हुआ है । मेरे प्रति भी उनका बड़ा घृणापूर्ण भाव है । उन सबकी वह घृणा मेरे मर्मस्थलको विदीर्ण किये देती है ॥ ३ ॥

अनुवाद (कन्नड)

ईग पुरवासिगळु मत्तु देशद जनरल्लि सीतॆय सम्बन्धदल्लि महा अपवाद हरडिदॆ. नन्न कुरितू कूड अवरिगॆ तिरस्कृतभावविदॆ. अवरॆल्लर तिरस्कारवु नन्न मर्मस्थानवन्नु सीळिबिट्टिदॆ.॥3॥

विश्वास-प्रस्तुतिः

अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।
सीतापि सत्कुले जाता जनकानां महात्मनाम् ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।
सीतापि सत्कुले जाता जनकानां महात्मनाम् ॥ ४ ॥

अनुवाद (हिन्दी)

‘मैं इक्ष्वाकुवंशी महात्मा नरेशोंके कुलमें उत्पन्न हुआ हूँ । सीताने भी महात्मा जनकोंके उत्तम कुलमें जन्म लिया है ॥ ४ ॥

अनुवाद (कन्नड)

नानु इक्ष्वाकुवंशी महात्मा राजर कुलदल्लि हुट्टिरुवॆनु. सीतॆयू कूड महात्मा जनकर उत्तम कुलदल्लि जन्मवॆत्तिरुवळु.॥4॥

विश्वास-प्रस्तुतिः

जानासि त्वं यथा सौम्य दण्डके विजने वने ।
रावणेन हृता सीता स च विध्वंसितो मया ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

जानासि त्वं यथा सौम्य दण्डके विजने वने ।
रावणेन हृता सीता स च विध्वंसितो मया ॥ ५ ॥

अनुवाद (हिन्दी)

‘सौम्य लक्ष्मण! तुम तो यह जानते ही हो कि किस प्रकार रावण निर्जन दण्डकारण्यसे उन्हें हरकर ले गया था और मैंने उसका विध्वंस भी कर डाला ॥ ५ ॥

अनुवाद (कन्नड)

सौम्य लक्ष्मण! रावणनु निर्जन दण्डकारण्यदिन्द सीतॆयन्नु अपहरिसिदुदु निनगॆ तिळिदे इदॆ मत्तु नानु अवनन्नु विध्वंसगॊळिसिदुदू तिळिदिरुवॆ.॥5॥

विश्वास-प्रस्तुतिः

तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ६ ॥

अनुवाद (हिन्दी)

‘उसके बाद लङ्कामें ही जानकीके विषयमें मेरे अन्तःकरणमें यह विचार उत्पन्न हुआ था कि इनके इतने दिनोंतक यहाँ रह लेनेपर भी मैं इन्हें राजधानीमें कैसे ले जा सकूँगा ॥ ६ ॥

अनुवाद (कन्नड)

अनन्तर लङ्कॆयिन्द हॊरडुवाग इवळु इष्टु दिनगळवरॆगॆ इल्लि इद्द मेलॆयू ईकॆयन्नु राजधानिगॆ हेगॆ कॊण्डुहोगलि ऎम्ब सीतॆय कुरितु नन्न मनस्सिनल्लि विचार उण्टागित्तु.॥6॥

विश्वास-प्रस्तुतिः

प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ॥ ७ ॥
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ॥ ८ ॥
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।

सर्वाष् टीकाः
मूलम्

प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ॥ ७ ॥
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ॥ ८ ॥
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।

अनुवाद (हिन्दी)

‘सुमित्राकुमार! उस समय अपनी पवित्रताका विश्वास दिलानेके लिये सीताने तुम्हारे सामने ही अग्निमें प्रवेश किया था और देवताओंके समक्ष स्वयं अग्निदेवने उन्हें निर्दोष बताया था । आकाशचारी वायु, चन्द्रमा और सूर्यने भी पहले देवताओं तथा समस्त ऋषियोंके समीप जनकनन्दिनीको निष्पाप घोषित किया था ॥ ७-८ १/२ ॥

अनुवाद (कन्नड)

सुमित्राकुमार! आग तन्न पवित्रतॆय विश्वास कॊडिसलु सीतॆयु निन्न मुन्दॆये अग्निप्रवेश माडिद्दळु हागू देवतॆगळ समक्षमदल्लि अग्निदेवनु आकॆयन्नु निर्दोषि ऎन्दु तिळिसिद्दनु. आकाशचारी वायु, चन्द्र, सूर्यरू कूड मॊदलु देवतॆगळल्लि, समस्त ऋषिगळल्लि जनकनन्दिनियु निष्पापळॆन्दु घोषिसिद्दरु.॥7-8½॥

विश्वास-प्रस्तुतिः

एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ॥ ९ ॥
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।

सर्वाष् टीकाः
मूलम्

एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ॥ ९ ॥
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।

अनुवाद (हिन्दी)

‘इस प्रकार विशुद्ध आचारवाली सीताको देवताओं और गन्धर्वोंके समीप साक्षात् देवराज इन्द्रने लङ्काद्वीपके अंदर मेरे हाथमें सौंपा था ॥ ९ १/२ ॥

अनुवाद (कन्नड)

ई प्रकार विशुद्ध आचारवुळ्ळ सीतॆयन्नु देवतॆगळु मत्तु गन्धर्वर समक्षम साक्षात् देवेन्द्रनु लङ्काद्वीपदल्लि नन्न कैगॆ ऒप्पिसिद्दनु.॥9½॥

विश्वास-प्रस्तुतिः

अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ॥ १० ॥
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।

सर्वाष् टीकाः
मूलम्

अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ॥ १० ॥
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।

अनुवाद (हिन्दी)

‘मेरी अन्तरात्मा भी यशस्विनी सीताको शुद्ध समझती है । इसीलिये मैं इन विदेहनन्दिनीको साथ लेकर अयोध्या आया था ॥ १० १/२ ॥

अनुवाद (कन्नड)

नन्न अन्तरात्मवू यशस्विनी सीतॆ शुद्धळॆन्दे तिळियुत्तिदॆ. अदक्कागि नानु ई विदेह नन्दिनीयन्नु जॊतॆगॆ करॆदुकॊण्डु अयोध्यॆगॆ बन्दिद्दॆ.॥10½॥

विश्वास-प्रस्तुतिः

अयं तु मे महान् वादः शोकश्च हृदि वर्तते ॥ ११ ॥
पौरापवादः सुमहांस्तथा जनपदस्य च ।

सर्वाष् टीकाः
मूलम्

अयं तु मे महान् वादः शोकश्च हृदि वर्तते ॥ ११ ॥
पौरापवादः सुमहांस्तथा जनपदस्य च ।

अनुवाद (हिन्दी)

‘परंतु अब यह महान् अपवाद फैलने लगा है । पुरवासियों और जनपदके लोगोंमें मेरी बड़ी निन्दा हो रही है । इसके लिये मेरे हृदयमें बड़ा शोक है ॥ ११ १/२ ॥

अनुवाद (कन्नड)

आदरॆ ईग ई महा अपवाद हरडिदॆ. पुरवासियरल्लि, देशवासिगळल्लि नन्न निन्दॆ बहळ आगुत्तिदॆ. इदरिन्द नन्न मनस्सिगॆ भारी शोकवागुत्तिदॆ.॥11½॥

विश्वास-प्रस्तुतिः

अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ॥ १२ ॥
पतत्येवाधमाल्ँ लोकान् यावच्छब्दः प्रकीर्त्यते ।

सर्वाष् टीकाः
मूलम्

अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ॥ १२ ॥
पतत्येवाधमाल्ँ लोकान् यावच्छब्दः प्रकीर्त्यते ।


अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ॥
पतत्येवाधमांल्लोकान्यावच्छब्दः प्रकीर्त्यते ।

अनुवाद (हिन्दी)

‘जिस किसी भी प्राणीकी अपकीर्ति लोकमें सबकी चर्चाका विषय बन जाती है, वह अधम लोकों (नरकों)-में गिर जाता है और जबतक उस अपयशकी चर्चा होती है तबतक वहीं पड़ा रहता है ॥ १२ १/२ ॥

अनुवाद (कन्नड)

यावुदे प्राणिय अपकीर्तियु लोकदल्लि ऎल्लर चर्चॆय विषयवादाग अवनु अधमलोकक्क.॥नरकक्कॆ॥होगुत्तानॆ. आ अपयशद चर्चॆ आगुत्तिरुवरॆगॆ अवनु अल्ले बिद्दिरुत्तानॆ.॥12½॥

विश्वास-प्रस्तुतिः

अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ॥ १३ ॥
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।

सर्वाष् टीकाः
मूलम्

अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ॥ १३ ॥
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।

अनुवाद (हिन्दी)

‘देवगण लोकोंमें अपकीर्तिकी निन्दा और कीर्तिकी प्रशंसा करते हैं । समस्त श्रेष्ठ महात्माओंका सारा शुभ आयोजन उत्तम कीर्तिकी स्थापनाके लिये ही होता है ॥ १३ १/२ ॥

अनुवाद (कन्नड)

देवतॆगळु लोक गळल्लिन अपकीर्तिय निन्दॆ मत्तु कीर्तिय प्रशंसॆ माडुत्तारॆ. ऎल्ल श्रेष्ठ महात्मर शुभ आयोजन उत्तम कीर्तिय स्थापनॆगागिये आगुत्तदॆ.॥13½॥

विश्वास-प्रस्तुतिः

अप्यहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः ॥ १४ ॥
अपवादभयाद् भीतः किं पुनर्जनकात्मजाम् ।

सर्वाष् टीकाः
मूलम्

अप्यहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः ॥ १४ ॥
अपवादभयाद् भीतः किं पुनर्जनकात्मजाम् ।

अनुवाद (हिन्दी)

‘नरश्रेष्ठ बन्धुओ! मैं लोकनिन्दाके भयसे अपने प्राणोंको और तुम सबको भी त्याग सकता हूँ । फिर सीताको त्यागना कौन बड़ी बात है? ॥ १४ १/२ ॥

अनुवाद (कन्नड)

नरश्रेष्ठ बन्धुगळे! नानु लोकनिन्दॆय भयदिन्द तन्न प्राणगळन्नु मत्तु नीवॆल्लरन्नु कूड त्यजिसबल्लॆनु. हागिरुवाग सीतॆयन्नु त्यजिसुवुदु याव दॊड्ड मातु.॥14½॥

विश्वास-प्रस्तुतिः

तस्माद् भवन्तः पश्यन्तु पतितं शोकसागरे ॥ १५ ॥
नहि पश्याम्यहं भूतं किञ्चिद् दुःखमतोऽधिकम् ।

सर्वाष् टीकाः
मूलम्

तस्माद् भवन्तः पश्यन्तु पतितं शोकसागरे ॥ १५ ॥
नहि पश्याम्यहं भूतं किञ्चिद् दुःखमतोऽधिकम् ।

अनुवाद (हिन्दी)

‘अतः तुमलोग मेरी ओर देखो । मैं शोकके समुद्रमें गिर गया हूँ । इससे बढ़कर कभी कोई दुःख मुझे उठाना पड़ा हो, इसकी मुझे याद नहीं है ॥ १५ १/२ ॥

अनुवाद (कन्नड)

आद्दरिन्द नीवु नन्न कडॆगॆ नोडिरि. नानु शोकसमुद्रदल्लि बिद्दिरुवॆनु. इदक्किन्त मिगिलाद दुःखवन्नु नानु अनुभविसिदुदु ननगॆ नॆनपिल्ल.॥15½॥

विश्वास-प्रस्तुतिः

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ॥ १६ ॥
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।

सर्वाष् टीकाः
मूलम्

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ॥ १६ ॥
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।


श्वस्त्वं प्रभाते सौमित्रे समन्त्राधिष्ठितं रथम् ॥
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।

अनुवाद (हिन्दी)

‘अतः सुमित्राकुमार! कल सबेरे तुम सारथि सुमन्त्रके द्वारा संचालित रथपर आरूढ़ हो सीताको भी उसीपर चढ़ाकर इस राज्यकी सीमाके बाहर छोड़ दो ॥ १६ १/२ ॥

अनुवाद (कन्नड)

आद्दरिन्द सुमित्राकुमार! नाळॆ बॆळिग्गॆ नीनु सारथि सुमन्त्रनिन्द सञ्चालित रथवन्नेरि सीतॆयन्नु अदरल्ले कुळ्ळिरिसिकॊण्डु ई राज्यद सीमॆय हॊरगॆ बिट्टुबिडु.॥16½॥

विश्वास-प्रस्तुतिः

गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ॥ १७ ॥
आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।

सर्वाष् टीकाः
मूलम्

गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ॥ १७ ॥
आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।

अनुवाद (हिन्दी)

‘गङ्गाके उस पार तमसाके तटपर महात्मा वाल्मीकिमुनिका दिव्य आश्रम है ॥ १७ १/२ ॥

अनुवाद (कन्नड)

गङ्गॆय आचॆ तमसा तटदल्लि महात्मा वाल्मीकि मुनिगळ आश्रमविदॆ.॥17½॥

विश्वास-प्रस्तुतिः

तत्रैतां विजने देशे विसृज्य रघुनन्दन ॥ १८ ॥
शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम ।
न चास्मि प्रतिवक्तव्यः सीतां प्रति कथञ्चन ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

तत्रैतां विजने देशे विसृज्य रघुनन्दन ॥ १८ ॥
शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम ।
न चास्मि प्रतिवक्तव्यः सीतां प्रति कथञ्चन ॥ १९ ॥


तत्रैतां विजने देशे विसृज्य रघुनन्दन ॥ शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम ।
न चास्मि प्रतिवक्तव्यं सीतां प्रति कथञ्चन ॥

अनुवाद (हिन्दी)

‘रघुनन्दन! उस आश्रमके निकट निर्जन वनमें तुम सीताको छोड़कर शीघ्र लौट आओ । सुमित्रानन्दन! मेरी इस आज्ञाका पालन करो । सीताके विषयमें मुझसे किसी तरह कोई दूसरी बात तुम्हें नहीं कहनी चाहिये ॥ १८-१९ ॥

अनुवाद (कन्नड)

रघुनन्दन! आ आश्रमद हत्तिर निर्जन वनदल्लि नीनु सीतॆयन्नु बिट्टु शीघ्रवागि हिन्दिरुगि बा. सुमित्रानन्दन! नन्न ई आज्ञॆयन्नु पालिसु. सीतॆय विषयदल्लि नन्नल्लि यावुदे इतर मातन्नु हेळबारदु.॥18-19॥

विश्वास-प्रस्तुतिः

तस्मात् त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।
अप्रीतिर्हि परा मह्यं त्वयैतत् प्रतिवारिते ॥ २० ॥

सर्वाष् टीकाः
मूलम्

तस्मात् त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।
अप्रीतिर्हि परा मह्यं त्वयैतत् प्रतिवारिते ॥ २० ॥

अनुवाद (हिन्दी)

‘इसलिये लक्ष्मण! अब तुम जाओ । इस विषयमें कोई सोच-विचार न करो । यदि मेरे इस निश्चयमें तुमने किसी प्रकारकी अड़चन डाली तो मुझे महान् कष्ट होगा ॥ २० ॥

अनुवाद (कन्नड)

अदक्कागि लक्ष्मण! ईग नीनु होगु. ई विषयदल्लि यावुदे विचार माडबेड. नन्न ई निश्चयदल्लि यावुदे रीतिय अड्डिपडिसिदरॆ ननगॆ बहळ कष्टवादीतु.॥20॥

विश्वास-प्रस्तुतिः

शापिता हि मया यूयं पादाभ्यां जीवितेन च ।
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ॥ २१ ॥
अहिता नाम ते नित्यं मदभीष्टविघातनात् ।

सर्वाष् टीकाः
मूलम्

शापिता हि मया यूयं पादाभ्यां जीवितेन च ।
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ॥ २१ ॥
अहिता नाम ते नित्यं मदभीष्टविघातनात् ।


शापिता हि मया यूयं पादाभ्यां जीवितेन च ।
ये मां वाक्यान्तरे ब्रूयुरनुनेतुङ्कथञ्चन ॥
अहिता मम ते नित्यं मदभीष्टविघातनात् ।

अनुवाद (हिन्दी)

‘मैं तुम्हें अपने चरणों और जीवनकी शपथ दिलाता हूँ, मेरे निर्णयके विरुद्ध कुछ न कहो । जो मेरे इस कथनके बीचमें कूदकर किसी प्रकार मुझसे अनुनय-विनय करनेके लिये कुछ कहेंगे, वे मेरे अभीष्ट कार्यमें बाधा डालनेके कारण सदाके लिये मेरे शत्रु होंगे ॥ २१ १/२ ॥

अनुवाद (कन्नड)

नानु निनगॆ नन्न पादद मत्तु जीवनद आणॆ हाकुत्तेनॆ. नन्न निर्णयद विरुद्ध एनन्नू हेळबेड. नन्न ई मातिन नडुवॆ प्रवेशिसि यावुदे रीतियिन्द नन्नल्लि अनुनय-विनयदिन्द एनादरू हेळिदरॆ, अवरु नन्न अभीष्ट कार्यदल्लि बाधॆपडिसिद्दरिन्द सदा नन्न शत्रुगळागुवरु.॥21½॥

विश्वास-प्रस्तुतिः

मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ॥ २२ ॥
इतोऽद्य नीयतां सीता कुरुष्व वचनं मम ।

सर्वाष् टीकाः
मूलम्

मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ॥ २२ ॥
इतोऽद्य नीयतां सीता कुरुष्व वचनं मम ।

अनुवाद (हिन्दी)

‘यदि तुमलोग मेरा सम्मान करते हो और मेरी आज्ञामें रहना चाहते हो तो अब सीताको यहाँसे वनमें ले जाओ । मेरी इस आज्ञाका पालन करो ॥ २२ १/२ ॥

अनुवाद (कन्नड)

नीवु नन्नन्नु समानिसुत्तिद्दरॆ, नन्न आज्ञॆयल्लि इरलु बयसुविरादरॆ, ईग सीतॆयन्नु इल्लिन्द काडिगॆ कॊण्डुहोगु. नन्न ई आज्ञॆयन्नु पालिसु.॥22½॥

विश्वास-प्रस्तुतिः

पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् ॥ २३ ॥
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।

सर्वाष् टीकाः
मूलम्

पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् ॥ २३ ॥
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।

अनुवाद (हिन्दी)

‘सीताने पहले मुझसे कहा था कि मैं गङ्गातटपर ऋषियोंके आश्रम देखना चाहती हूँ; अतः उनकी यह इच्छा भी पूर्ण की जाय’ ॥ २३ १/२ ॥

अनुवाद (कन्नड)

नानु गङ्गातीरदल्लि ऋषिगळ आश्रमगळन्नु नोडबयसुत्तेनॆ ऎन्दु सीतॆयु मॊदलु नन्नल्लि हेळिद्दळु. आद्दरिन्द आकॆय इच्छॆयू पूर्णवागुवुदु.॥23½॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः ॥ २४ ॥
संविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।
शोकसंविग्नहृदयो निशश्वास यथा द्विपः ॥ २५ ॥

सर्वाष् टीकाः
मूलम्

एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः ॥ २४ ॥
संविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।
शोकसंविग्नहृदयो निशश्वास यथा द्विपः ॥ २५ ॥

अनुवाद (हिन्दी)

इस प्रकार कहते-कहते श्रीरघुनाथजीके दोनों नेत्र आँसुओंसे भर गये । फिर वे धर्मात्मा श्रीराम अपने भाइयोंके साथ महलमें चले गये । उस समय उनका हृदय शोकसे व्याकुल था और वे हाथीके समान लम्बी साँस खींच रहे थे ॥ २४-२५ ॥

अनुवाद (कन्नड)

हीगॆ हेळुत्ता-हेळुत्ता श्रीरामन ऎरडू कण्णुगळल्लि नीरु तुम्बिबन्तु मत्तॆ आ धर्मात्मा श्रीरामनु तन्न सहोदररॊन्दिगॆ अरमनॆयॊळगॆ हॊरटु होदनु. आग अवन हृदय शोकदिन्द व्याकुलवागिद्दु, आनॆयन्तॆ दीर्घवागि निट्टुसिरुबिडुत्तिद्दनु.॥24-25॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें पैंतालीसवाँ सर्ग पूरा हुआ ॥ ४५ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि नलवत्तैदनॆय सर्ग पूर्णवायितु. ॥45॥