[चतुश्चत्वारिंशः सर्गः]
सर्वाष् टीकाः
भागसूचना
- श्रीरामके बुलानेसे सब भाइयोंका उनके पास आना
विश्वास-प्रस्तुतिः
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥ १ ॥
अनुवाद (हिन्दी)
मित्रमण्डलीको विदा करके श्रीरघुनाथजीने बुद्धिसे विचारकर अपना कर्तव्य निश्चित किया और निकटवर्ती द्वारपालसे इस प्रकार कहा— ॥ १ ॥
अनुवाद (कन्नड)
सुहृदरन्नु कळुहिसिकॊट्टनन्तर श्रीरामनु मुन्दॆ तानु माडुव कार्यवन्नु बुद्धियिन्द निश्चयिसि बळियल्ले इद्द द्वारपालकनल्लि हेळिदनु.॥1॥
विश्वास-प्रस्तुतिः
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।
भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ २ ॥
सर्वाष् टीकाः
मूलम्
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।
भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ २ ॥
शीघ्रमानय सौमित्रं लक्ष्मणं शुभलक्षणम् ।
भरतं च महाभागं शत्रुघ्नमपराजितम् ॥
अनुवाद (हिन्दी)
‘तुम जाकर शीघ्र ही महाभाग भरत, सुमित्राकुमार शुभलक्षण लक्ष्मण तथा अपराजित वीर शत्रुघ्नको भी यहाँ बुला लाओ’ ॥ २ ॥
अनुवाद (कन्नड)
नीनु बेगने होगि महाभाग भरत, सुमित्रा कुमार शुभलक्षण लक्ष्मण मत्तु अपराजित वीर शत्रुघ्ननन्नु इल्लिगॆ करॆदुकॊण्डु बा.॥2॥
विश्वास-प्रस्तुतिः
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ३ ॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीका यह आदेश सुनकर द्वारपालने मस्तकपर अञ्जलि बाँधकर उन्हें प्रणाम किया और लक्ष्मणके घर जाकर बेरोक-टोक उसके भीतर प्रवेश किया ॥ ३ ॥
अनुवाद (कन्नड)
श्रीराम चन्द्रन आदेश पडॆद द्वारपालकनु तलॆय मेलॆ अञ्जलिबद्धनागि श्रीरामनिगॆ नमस्करिसि, लक्ष्मणन मनॆगॆ होगि यावुदे तडॆयिल्लदॆ ऒळगॆ प्रवेशिसिदनु.॥3॥
विश्वास-प्रस्तुतिः
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।
द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।
द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ४ ॥
अनुवाद (हिन्दी)
वहाँ हाथ जोड़ जय-जयकार करते हुए उसने महात्मा लक्ष्मणसे कहा—‘कुमार! महाराज आपसे मिलना चाहते हैं । अतः शीघ्र चलिये, विलम्ब न कीजिये’ ॥ ४ ॥
अनुवाद (कन्नड)
अल्लि कैमुगिदु लक्ष्मणन जय-जयकार माडुत्ता महात्मा अवनल्लि हेळिदनु - राज कुमारने! महाराजरु निम्मन्नु नोडलु बयसुत्तिद्दारॆ, विळम्बविल्लदॆ बेगने नडॆयिरि.॥4॥
विश्वास-प्रस्तुतिः
बाढमित्येव सौमित्रिः कृत्वा राघवशासनम् ।
प्राद्रवद् रथमारुह्य राघवस्य निवेशनम् ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
बाढमित्येव सौमित्रिः कृत्वा राघवशासनम् ।
प्राद्रवद् रथमारुह्य राघवस्य निवेशनम् ॥ ५ ॥
अनुवाद (हिन्दी)
तब सुमित्राकुमार लक्ष्मणने ‘बहुत अच्छा’ कहकर श्रीरामचन्द्रजीके आदेशको शिरोधार्य किया और तत्काल रथपर बैठकर वे श्रीरघुनाथजीके महलकी ओर तीव्रगतिसे चले ॥ ५ ॥
अनुवाद (कन्नड)
आग सुमित्रा कुमार लक्ष्मणनु हागॆये आगलि ऎन्दु हेळि श्रीरामन आदेशवन्नु शिरसावहिसि कूडले रथदल्लि कुळितु श्रीरघुनाथन अरमनॆगॆ धाविसिदनु.॥5॥
विश्वास-प्रस्तुतिः
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।
उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ६ ॥
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।
सर्वाष् टीकाः
मूलम्
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।
उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ६ ॥
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।
अनुवाद (हिन्दी)
लक्ष्मणको जाते देख द्वारपाल भरतके पास गया और उन्हें हाथ जोड़ वहाँ जय-जयकार करके विनीतभावसे बोला—‘प्रभो! महाराज आपसे मिलना चाहते हैं’ ॥ ६ १/२ ॥
अनुवाद (कन्नड)
लक्ष्मणनु होगुवुदन्नु नोडि द्वारपालकनु भरतन बळिगॆ होगि, कैमुगिदुकॊण्डु अवन जय-जयकार माडुत्ता विनीतनागि प्रभो! महाराजरु निम्मन्नु नोडलु बयसुत्तारॆ ऎन्दु हेळिदनु.॥6½॥
विश्वास-प्रस्तुतिः
भरतस्तु वचः श्रुत्वा द्वाःस्थाद् रामसमीरितम् ॥ ७ ॥
उत्पपातासनात् तूर्णं पद्भ्यामेव महाबलः ।
सर्वाष् टीकाः
मूलम्
भरतस्तु वचः श्रुत्वा द्वाःस्थाद् रामसमीरितम् ॥ ७ ॥
उत्पपातासनात् तूर्णं पद्भ्यामेव महाबलः ।
अनुवाद (हिन्दी)
श्रीरामके भेजे हुए द्वारपालके मुखसे यह बात सुनकर महाबली भरत तुरंत अपने आसनसे उठ खड़े हुए और पैदल ही चल दिये ॥ ७ १/२ ॥
अनुवाद (कन्नड)
श्रीरामनु कळिसिद द्वारपालक निन्द इदन्नु केळि महाबलि भरतनु तत्क्षण तन्न आसनदिन्द ऎद्दु काल्नडिगॆयिन्दले हॊरटनु.॥7½॥
विश्वास-प्रस्तुतिः
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ८ ॥
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।
सर्वाष् टीकाः
मूलम्
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ८ ॥
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।
अनुवाद (हिन्दी)
भरतको जाते देख द्वारपाल बड़ी उतावलीके साथ शत्रुघ्नके भवनमें गया और हाथ जोड़कर बोला— ॥ ८ १/२ ॥
अनुवाद (कन्नड)
भरतनु हॊरटिरुवुदन्नु नोडि द्वारपालकनु अवसरदिन्द शत्रुघ्नन भवनक्कॆ होगि कैमुगिदुकॊण्डु हेळिदनु.॥8½॥
विश्वास-प्रस्तुतिः
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ९ ॥
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।
सर्वाष् टीकाः
मूलम्
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ९ ॥
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।
अनुवाद (हिन्दी)
‘रघुश्रेष्ठ! आइये, चलिये, राजा श्रीराम आपको देखना चाहते हैं । श्रीलक्ष्मणजी और महायशस्वी भरतजी पहले ही जा चुके हैं’ ॥ ९ १/२ ॥
अनुवाद (कन्नड)
रघुश्रेष्ठने! बन्नि, नडॆयिरि, श्रीराम महाराजरु निम्मन्नु नोडलु बयसुत्तिरुवरु. श्रीलक्ष्मण मत्तु महायशस्वी भरतनू मॊदले होगिरुवरु.॥9½॥
विश्वास-प्रस्तुतिः
श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥ १० ॥
शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः ।
सर्वाष् टीकाः
मूलम्
श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥ १० ॥
शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः ।
अनुवाद (हिन्दी)
द्वारपालकी बात सुनकर शत्रुघ्न अपने उत्तम आसनसे उठे और धरतीपर माथा टेककर मन-ही-मन श्रीरामकी वन्दना करके तुरंत उनके निवासस्थानकी ओर चल दिये ॥ १० १/२ ॥
अनुवाद (कन्नड)
द्वारपालकन मातन्नु केळि शत्रुघ्ननु तन्न उत्तमासनदिन्द ऎद्दु, मनस्सिनल्ले श्रीरामनिगॆ दण्डवत् नमस्करिसि कूडले अवन निवासद कडॆगॆ हॊरटनु.॥10॥
विश्वास-प्रस्तुतिः
द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ॥ ११ ॥
निवेदयामास तथा भ्रातॄन् स्वान् समुपस्थितान् ।
सर्वाष् टीकाः
मूलम्
द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ॥ ११ ॥
निवेदयामास तथा भ्रातॄन् स्वान् समुपस्थितान् ।
द्वाःस्थस्त्वागम्य रामाय सर्वानेन कृताञ्जलिः ॥
निवेदयामास तथा भ्रातृन्स्वान्समुपस्थितान् ।
अनुवाद (हिन्दी)
द्वारपालने आकर श्रीरामसे हाथ जोड़कर निवेदन किया कि ‘प्रभो! आपके सभी भाई द्वारपर उपस्थित हैं’ ॥ ११ १/२ ॥
अनुवाद (कन्नड)
द्वारपालकनु बन्दु श्रीरामनिगॆ कैमुगिदुकॊण्डु, प्रभो! तम्म ऎल्ल सहोदररु बागिलिगॆ बन्दिरुवरु ऎन्दु निवेदिसिकॊण्डनु.॥11½॥
विश्वास-प्रस्तुतिः
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः ॥ १२ ॥
अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ॥ १३ ॥
एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।

कुमारानागतान् श्रुत्वा चिन्ताव्याकुलितेन्द्रियः ॥
अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ॥
एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।
अनुवाद (हिन्दी)
कुमारोंका आगमन सुनकर चिन्तासे व्याकुल इन्द्रियवाले श्रीरामने नीचे मुख किये दुःखी मनसे द्वारपालको आदेश दिया—‘तुम तीनों राजकुमारोंको जल्दी मेरे पास ले आओ । मेरा जीवन इन्हींपर अवलम्बित है । ये मेरे प्यारे प्राणस्वरूप हैं’ ॥ १२-१३ १/२ ॥
अनुवाद (कन्नड)
कुमारर आगमनवन्नु केळि चिन्तॆयिन्द व्याकुलवाद इन्द्रियगळुळ्ळ श्रीरामनु तलॆतग्गिसिकॊण्डे दुःखितनागि - नीनु मूवरू राजकुमाररन्नु बेगने नन्न बळिगॆ करॆदुकॊण्डु बा. नन्न जीवन इवर मेलॆये अवलम्बिसिदॆ. इवरु नन्न प्रिय प्राणस्वरूपरागिद्दारॆ, ऎन्दु द्वारपालकनिगॆ आदेशिसिदनु.॥12½-13½॥
विश्वास-प्रस्तुतिः
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः ॥ १४ ॥
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।
सर्वाष् टीकाः
मूलम्
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः ॥ १४ ॥
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।
अनुवाद (हिन्दी)
महाराजकी आज्ञा पाकर वे श्वेत वस्त्रधारी कुमार सिर झुकाये हाथ जोड़े एकाग्रचित्त हो भवनके भीतर गये ॥ १४ १/२ ॥
अनुवाद (कन्नड)
महाराजर आज्ञॆ पडॆदु आ श्वेतवस्त्रधारि कुमाररु तलॆतग्गिसिकॊण्डु, कैमुगिदुकॊण्डु एकाग्रचित्तरागि भवनवन्नु प्रवेशिसिदरु.॥14½॥
विश्वास-प्रस्तुतिः
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ॥ १५ ॥
सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।
सर्वाष् टीकाः
मूलम्
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ॥ १५ ॥
सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।
अनुवाद (हिन्दी)
उन्होंने श्रीरामका मुख इस तरह उदास देखा, मानो चन्द्रमापर ग्रह लग गया हो । वह संध्याकालके सूर्यकी भाँति प्रभाशून्य हो रहा था ॥ १५ १/२ ॥
अनुवाद (कन्नड)
चन्द्रनिगॆ ग्रहण हिडिदन्तॆ श्रीरामन उदास मुखवन्नु अवरु नोडिदरु. अदु सन्ध्याकालद सूर्यनन्तॆ प्रभाशून्यवागित्तु.॥15½॥
विश्वास-प्रस्तुतिः
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ १६ ॥
अनुवाद (हिन्दी)
उन्होंने बारम्बार देखा बुद्धिमान् श्रीरामके दोनों नेत्रोंमें आँसू भर आये थे और उनके मुखारविन्दकी शोभा छिन गयी थी ॥ १६ ॥
अनुवाद (कन्नड)
बुद्धिवन्त श्रीरामनु ऎरडू कण्णुगळल्लि कम्बनि तुम्बित्तु, अवर मुखारविन्दद शोभॆ कळॆदुहोदुदन्नु अवरु पदे-पदे नोडिदरु.॥16॥
विश्वास-प्रस्तुतिः
ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।
तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।
तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥ १७ ॥
अनुवाद (हिन्दी)
तदनन्तर उन तीनों भाइयोंने तुरंत श्रीरामके चरणोंमें मस्तक रखकर प्रणाम किया । फिर वे सब-के-सब प्रेममें समाधिस्थ-से होकर पड़ गये । उस समय श्रीराम आँसू बहा रहे थे ॥ १७ ॥
अनुवाद (कन्नड)
बळिक मूवरू सहोदररु कूडले श्रीरामनचरणगळल्लि मस्तकवन्निट्टु वन्दिसिदरु. मत्तॆ अवरॆल्लरू प्रेमसमाधिस्थरागि बिद्दुबिट्टरु. आग श्रीरामनु कण्णीरु हरिसुत्तिद्दनु.॥17॥
विश्वास-प्रस्तुतिः
तान् परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।
आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
तान् परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।
आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥ १८ ॥
अनुवाद (हिन्दी)
महाबली रघुनाथजीने दोनों भुजाओंसे उठाकर उन सबका आलिङ्गन किया और कहा—‘इन आसनोंपर बैठो ।’ जब वे बैठ गये, तब उन्होंने फिर कहा— ॥ १८ ॥
अनुवाद (कन्नड)
महाबलि रघुनाथनु ऎरडू भुजगळिन्द ऎब्बिसि अवरॆल्लरन्नु आलिङ्गिसिकॊण्डनु. ई आसनदल्लि कुळितुकॊळ्ळि ऎन्दु हेळिदाग अवरु कुळितुकॊण्डाग मत्तॆ नुडिदनु.॥18॥
विश्वास-प्रस्तुतिः
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ १९ ॥
अनुवाद (हिन्दी)
‘राजकुमारो! तुमलोग मेरे सर्वस्व हो । तुम्हीं मेरे जीवन हो और तुम्हारे द्वारा सम्पादित इस राज्यका मैं पालन करता हूँ ॥ १९ ॥
अनुवाद (कन्नड)
राजकुमाररे! नीवु नन्न सर्वस्वरागिद्दीरि. नीवे नन्न जीवनरागिद्दीरि हागू निम्मिन्दले सम्पादित ई राज्यवन्नु नानु पालिसुत्तिद्देनॆ.॥19॥
विश्वास-प्रस्तुतिः
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।
सम्भूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥ २० ॥
सर्वाष् टीकाः
मूलम्
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।
सम्भूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥ २० ॥
अनुवाद (हिन्दी)
‘नरेश्वरो! तुम सभी शास्त्रोंके ज्ञाता और उनमें बताये कर्तव्यका पालन करनेवाले हो । तुम्हारी बुद्धि भी परिपक्व है । इस समय मैं जो कार्य तुम्हारे सामने उपस्थित करनेवाला हूँ, उसका तुम सबको मिलकर सम्पादन करना चाहिये’ ॥ २० ॥
अनुवाद (कन्नड)
नरेश्वररे ! नीवु ऎल्ल शास्त्रगळ ज्ञानिगळागिद्दु, अवुगळल्लि हेळिद कर्तव्यगळन्नु पालिसुववरागिद्दीरि. निम्म बुद्धि परिपक्ववागिदॆ. ईग नानु निम्म मुन्दॆ इडुव कार्यवन्नु नीवॆल्लरू सेरि नन्न समस्यॆगॆ मार्ग हुडुकबेकागिदॆ.॥20॥
विश्वास-प्रस्तुतिः
तथा वदति काकुत्स्थे अवधानपरायणाः ।
उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
तथा वदति काकुत्स्थे अवधानपरायणाः ।
उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥ २१ ॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीके ऐसा कहनेपर सभी भाई चौकन्ने हो गये । सबका चित्त उद्विग्न हो गया और सभी सोचने लगे—‘न जाने महाराज हमसे क्या कहेंगे?’ ॥ २१ ॥
अनुवाद (कन्नड)
श्रीरामचन्द्रनु हीगॆ हेळिदाग ऎल्ल सहोदररु आश्चर्यपट्टरु. ऎल्लर चित्त उद्विग्नवायितु मत्तु महाराजरु नम्मल्लि एनु हेळुवरो तिळियदु ऎन्दु योचिसतॊडगिदरु.॥21॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें चौवालीसवाँ सर्ग पूरा हुआ ॥ ४४ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि नलवत्तनाल्कनॆय सर्ग पूर्णवायितु.॥44॥