[त्रिचत्वारिंशः सर्गः]
सर्वाष् टीकाः
भागसूचना
- भद्रका पुरवासियोंके मुखसे सीताके विषयमें सुनी हुई अशुभ चर्चासे श्रीरामको अवगत कराना
विश्वास-प्रस्तुतिः
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।
कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ १ ॥
सर्वाष् टीकाः
मूलम्
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।
कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ १ ॥
भद्रन मुखदिन्द सीतॆय जनापवादद श्रवण ।
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।
कथानां बहुरूपाणां हास्यकाराःसमन्तः ॥
अनुवाद (हिन्दी)
वहाँ बैठे हुए महाराज श्रीरामके पास अनेक प्रकारकी कथाएँ कहनेमें कुशल हास्यविनोद करनेवाले सखा सब ओरसे आकर बैठते थे ॥ १ ॥
अनुवाद (कन्नड)
पुष्पवाटिकॆयल्लि कुळितिरुव महाराजा श्रीरामन बळियल्लि अनेक प्रकारद कथॆगळन्नु हेळुवुदरल्लि कुशलराद, हास्य विनोद माडुव स्नेहितरु बन्दु कुळितरु.॥1॥
विश्वास-प्रस्तुतिः
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुलः ।
सुराजिः कालियो भद्रो दन्तवक्त्रः सुमागधः ॥ २ ॥
सर्वाष् टीकाः
मूलम्
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुलः ।
सुराजिः कालियो भद्रो दन्तवक्त्रः सुमागधः ॥ २ ॥
अनुवाद (हिन्दी)
उन सखाओंके नाम इस प्रकार हैं—विजय, मधुमत्त, काश्यप, मङ्गल, कुल, सुराजि, कालिय, भद्र, दन्तवक्त्र और सुमागध ॥ २ ॥
अनुवाद (कन्नड)
विजय, मधुमत्त, काश्यप, मङ्गल, कुल, सुराजि, कालिय, भद्र, दन्तवक्त्र मत्तु सुमागध ऎन्दु आ स्नेहितर हॆसरित्तु.॥2॥
विश्वास-प्रस्तुतिः
एते कथा बहुविधाः परिहाससमन्विताः ।
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
एते कथा बहुविधाः परिहाससमन्विताः ।
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥ ३ ॥
अनुवाद (हिन्दी)
ये सब लोग बड़े हर्षसे भरकर महात्मा श्रीरघुनाथजीके सामने अनेक प्रकारकी हास्य-विनोदपूर्ण कथाएँ कहा करते थे ॥ ३ ॥
अनुवाद (कन्नड)
इवरॆल्लरू बहळ हर्षदिन्द श्रीरघुनाथन मुन्दॆ अनेक प्रकारद हास्य विनोदपूर्ण कथॆगळन्नु हेळुत्तिद्दरु.॥3॥
विश्वास-प्रस्तुतिः
ततः कथायां कस्याञ्चिद् राघवः समभाषत ।
काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
ततः कथायां कस्याञ्चिद् राघवः समभाषत ।
काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ४ ॥
अनुवाद (हिन्दी)
इसी समय किसी कथाके प्रसङ्गमें श्रीरघुनाथजीने पूछा—‘भद्र! आजकल नगर और राज्यमें किस बातकी चर्चा विशेषरूपसे होती है? ॥ ४ ॥
अनुवाद (कन्नड)
आगले यावुदो कथा प्रसङ्गदल्लि श्रीरामनु केळिदनु-भद्र! इन्दिन दिनगळल्लि नगर मत्तु राज्य दल्लि याव मातिन चर्चॆ विशेषवागि नडॆयुत्तदॆ.॥4॥
विश्वास-प्रस्तुतिः
मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।
किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ॥ ५ ॥
किं नु शत्रुघ्नमुद्दिश्य कैकेयीं किं नु मातरम् ।
वक्तव्यतां च राजानो वने राज्ये व्रजन्ति च ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।
किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ॥ ५ ॥
किं नु शत्रुघ्नमुद्दिश्य कैकेयीं किं नु मातरम् ।
वक्तव्यतां च राजानो वने राज्ये व्रजन्ति च ॥ ६ ॥
अनुवाद (हिन्दी)
‘नगर और जनपदके लोग मेरे, सीताके, भरतके, लक्ष्मणके तथा शत्रुघ्न और माता कैकेयीके विषयमें क्या-क्या बातें करते हैं? क्योंकि राजा यदि आचार-विचारसे हीन हों तो वे अपने राज्यमें तथा वनमें (ऋषि-मुनियोंके आश्रममें) भी निन्दाके विषय बन जाते हैं—सर्वत्र उन्हींकी बुराइयोंकी चर्चा होती है’ ॥ ५-६ ॥
अनुवाद (कन्नड)
नगर मत्तु राष्ट्रद जनरु नन्न, सीतॆय, भरतन, लक्ष्मणन, शत्रुघ्नन हागू तायि कैकेयिय विषयदल्लि एनेनु हेळुत्तिरुवरु? एकॆन्दरॆ राजनु आचार-विचारदिन्द हीननादरॆ तन्न राज्यदल्लि, वनदल्लियू (ऋषि-मुनिगळ आश्रमगळल्लि) निन्दॆय विषयनागुत्तानॆ. ऎल्लॆडॆ अवन कॆट्टतनद्दे चर्चॆ नडॆयुत्तदॆ.॥5-6॥
विश्वास-प्रस्तुतिः
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।
स्थिताः शुभाः कथा राजन् वर्तन्ते पुरवासिनाम् ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।
स्थिताः शुभाः कथा राजन् वर्तन्ते पुरवासिनाम् ॥ ७ ॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीके ऐसा कहनेपर भद्र हाथ जोड़कर बोला—‘महाराज! आजकल पुरवासियोंमें आपको लेकर सदा अच्छी ही चर्चाएँ चलती हैं’ ॥ ७ ॥
अनुवाद (कन्नड)
श्रीरामचन्द्रनु हीगॆ केळिदाग भद्रनु कैमुगिदु नुडिदनु - महाराज! इन्दिन दिनगळल्लि पुरवासिगळल्लि निन्न कुरितु सदा ऒळ्ळॆय चर्चॆये नडॆयुत्तिदॆ.॥7॥
विश्वास-प्रस्तुतिः
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।
भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।
भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ ८ ॥
अनुवाद (हिन्दी)
‘सौम्य! पुरुषोत्तम! दशग्रीववधसम्बन्धी जो आपकी विजय है, उसको लेकर नगरमें सब लोग अधिक बातें किया करते हैं’ ॥ ८ ॥
अनुवाद (कन्नड)
सौम्य! पुरुषोत्तम! दशग्रीव वधॆय सम्बन्धी निन्न विजयद कुरितागिये नगरदल्लि ऎल्ल जनरु हॆच्चागि मातुगळन्नाडुत्तारॆ.॥8॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।
कथयस्व यथातत्त्वं सर्वं निरवशेषतः ॥ ९ ॥
शुभाशुभानि वाक्यानि कान्याहुः पुरवासिनः ।
श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च ॥ १० ॥
सर्वाष् टीकाः
मूलम्
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।
कथयस्व यथातत्त्वं सर्वं निरवशेषतः ॥ ९ ॥
शुभाशुभानि वाक्यानि कान्याहुः पुरवासिनः ।
श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च ॥ १० ॥
अनुवाद (हिन्दी)
भद्रके ऐसा कहनेपर श्रीरघुनाथजीने कहा—‘पुरवासी मेरे विषयमें कौन-कौन-सी शुभ या अशुभ बातें कहते हैं, उन सबको यथार्थरूपसे पूर्णतः बताओ । इस समय उनकी शुभ बातें सुनकर जिन्हें वे शुभ मानते हैं उनका मैं आचरण करूँगा और अशुभ बातें सुनकर जिन्हें वे अशुभ समझते हैं, उन कृत्योंको त्याग दूँगा ॥ ९-१० ॥
अनुवाद (कन्नड)
भद्रनु हीगॆ हेळिदाग श्रीराम केळिदनु - पुरवासिगळु नन्न विषयदल्लि याव-याव शुभ अथवा अशुभ मातुगळन्नाडुत्तारॆ? अदॆल्लवन्नु यथार्थवागि ऎल्लवन्नु तिळिसु. ईग अवर शुभ मातुगळन्नु केळि अदन्नु शुभवॆन्दु तिळियुत्तारो अदन्नु नानु आचरिसुवॆनु. अशुभ मातुगळन्नु केळि अदु अशुभवॆन्दु तिळियुत्तारो, अदन्नु त्यजिसि बिडुवॆ.॥9-10॥
विश्वास-प्रस्तुतिः
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।
कथयन्ति यथा पौराः पापा जनपदेषु च ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।
कथयन्ति यथा पौराः पापा जनपदेषु च ॥ ११ ॥
अनुवाद (हिन्दी)
‘तुम विश्वस्त और निश्चिन्त होकर बेखटके कहो । पुरवासी और जनपदके लोग मेरे विषयमें किस प्रकार अशुभ चर्चाएँ करते हैं’ ॥ ११ ॥
अनुवाद (कन्नड)
निश्चिन्तनागि, निर्भयनागि, यावुदे आतङ्क इल्लदॆ ऎल्लवन्नु हेळु. पुरजनरु, देशद प्रजॆगळु नन्न विषयदल्लि याव रीतिय अशुभ चर्चॆमाडुवरो अदन्नु तिळिसु.॥11॥
विश्वास-प्रस्तुतिः
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ १२ ॥
अनुवाद (हिन्दी)
श्रीरघुनाथजीके ऐसा कहनेपर भद्रने हाथ जोड़कर एकाग्रचित्त हो उन महाबाहु श्रीरामसे यह परम सुन्दर बात कही— ॥ १२ ॥
अनुवाद (कन्नड)
श्रीरघुनाथनु हीगॆ हेळिदाग भद्रनु कैमुगिदु एकाग्रचित्तनागि महाबाहु श्रीरामनल्लि सुरुचिरवाद मातुगळन्नु हेळतॊडगिदनु.॥12॥
विश्वास-प्रस्तुतिः
शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम् ।
चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम् ।
चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ १३ ॥
अनुवाद (हिन्दी)
‘राजन्! सुनिये, पुरवासी मनुष्य चौराहोंपर, बाजारमें, सड़कोंपर तथा वन और उपवनमें भी आपके विषयमें किस प्रकार शुभ और अशुभ बातें कहते हैं? यह बता रहा हूँ ॥ १३ ॥
अनुवाद (कन्नड)
राजने! चौकगळल्लियू, बीदि-बीदिगळल्लियू, अङ्गडिगळल्लियू, उद्यान-उपवनगळल्लियू जनरु निन्न विषयवागि शुभ-अशुभवाद याव मातुगळनाडुवरो अदन्नु केळु.॥13॥
विश्वास-प्रस्तुतिः
दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम् ।
अश्रुतं पूर्वकैः कैश्चिद् देवैरपि सदानवैः ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम् ।
अश्रुतं पूर्वकैः कैश्चिद् देवैरपि सदानवैः ॥ १४ ॥
अनुवाद (हिन्दी)
‘वे कहते हैं ‘श्रीरामने समुद्रपर पुल बाँधकर दुष्कर कर्म किया है । ऐसा कर्म तो पहलेके किन्हीं देवताओं और दानवोंने भी नहीं सुना होगा ॥ १४ ॥
अनुवाद (कन्नड)
अवरु हेळुत्तारॆ - श्रीरामनु समुद्रक्कॆ सेतुवॆ कट्टि दुष्कर कर्म माडिदनु. इन्तह कार्य मॊदलु यावुदे देव-दानवरु माडिदुदु नावु केळिल्ल.॥14॥
विश्वास-प्रस्तुतिः
रावणाश्च दुराधर्षो हतः सबलवाहनः ।
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
रावणाश्च दुराधर्षो हतः सबलवाहनः ।
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ १५ ॥
रावणश्च दुराधर्षो हतः सबलवाहनः ।
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥
अनुवाद (हिन्दी)
‘श्रीरामद्वारा दुर्धर्ष रावण सेना और सवारियोंसहित मारा गया तथा राक्षसोंसहित रीछ और वानर भी वशमें कर लिये गये ॥ १५ ॥
अनुवाद (कन्नड)
श्रीरामनु दुर्धर्ष रावणनन्नु सैन्य परिवारदॊन्दिगॆ वधिसिदनु हागू राक्षसर सहित करडि, वानररन्नु अवनिगॆ अधीनरादरु.॥15॥
विश्वास-प्रस्तुतिः
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ ॥
अनुवाद (हिन्दी)
‘परंतु एक बात खटकती है, युद्धमें रावणको मारकर श्रीरघुनाथजी सीताको अपने घर ले आये । उनके मनमें सीताके चरित्रको लेकर रोष या अमर्ष नहीं हुआ ॥ १६ ॥
अनुवाद (कन्नड)
आदरॆ इल्लॊन्दु दोषविदॆ, युद्धदल्लि रावणनन्नु कॊन्दु श्रीरामनु सीतॆयन्नु अरमनॆगॆ करॆतन्दनु. आदरॆ अवन मनस्सिनल्लि सीतॆय चारित्र्यद कुरितु कोपवागली, संशयवागली उण्टागले इल्ल.॥16॥
विश्वास-प्रस्तुतिः
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ १७ ॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।
रक्षसां वशमापन्नां कथं रामो न कुत्स्यति ॥ १८ ॥
अस्माकमपि दारेषु सहनीयं भविष्यति ।
यथा हि कुरुते राजा प्रजास्तमनुवर्तते ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ १७ ॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।
रक्षसां वशमापन्नां कथं रामो न कुत्स्यति ॥ १८ ॥
अस्माकमपि दारेषु सहनीयं भविष्यति ।
यथा हि कुरुते राजा प्रजास्तमनुवर्तते ॥ १९ ॥
अनुवाद (हिन्दी)
‘उनके हृदयमें सीता-सम्भोगजनित सुख कैसा लगता होगा? पहले रावणने बलपूर्वक सीताको गोदमें उठाकर उनका अपहरण किया था, फिर वह उन्हें लङ्कामें भी ले गया और वहाँ उसने अन्तःपुरके क्रीडा-कानन अशोकवनिकामें रखा । इस प्रकार राक्षसोंके वशमें होकर वे बहुत दिनोंतक रहीं तो भी श्रीराम उनसे घृणा क्यों नहीं करते हैं । अब हमलोगोंको भी स्त्रियोंकी ऐसी बातें सहनी पड़ेंगी; क्योंकि राजा जैसा करता है, प्रजा भी उसीका अनुकरण करने लगती है’ ॥ १७—१९ ॥
अनुवाद (कन्नड)
सीता समागमदिन्द अवनिगॆ ऎन्तह सुखवु ताने सिगुत्तदॆ? रावणनादरो सीतॆयन्नु बलात्कारवागि तॊडॆय मेलॆ कुळ्ळिरिसिकॊण्डु अपहरिसि लङ्कॆगॆ करॆदुकॊण्डु होदनु. अल्लि अवनु अन्तःपुरद क्रीडाकाननवाद अशोकवनदल्लि आकॆयन्नु इरिसिदनु. हीगॆ राक्षसर वशदल्लि अनेक दिनगळिद्दरू कूड श्रीरामनिगॆ आकॆय कुरितु तिरस्कार एकॆ उण्टागलिल्ल? ईग नमगू पत्नियर इन्तह मातन्नु सहिस बेकादीतु; एकॆन्दरॆ राजनु माडिदन्तॆ प्रजॆयु अदन्नु अनुकरण माडतॊडगुवरु.॥17-19॥
विश्वास-प्रस्तुतिः
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।
नगरेषु च सर्वेषु राजन् जनपदेषु च ॥ २० ॥
सर्वाष् टीकाः
मूलम्
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।
नगरेषु च सर्वेषु राजन् जनपदेषु च ॥ २० ॥
अनुवाद (हिन्दी)
‘राजन्! इस प्रकार सारे नगर और जनपदमें पुरवासी मनुष्य बहुत-सी बातें कहते हैं’ ॥ २० ॥
अनुवाद (कन्नड)
राजने! हीगॆ इडी नगर मत्तु देशद जनरु अनेक मातुगळन्नाडुवरु.॥20॥
विश्वास-प्रस्तुतिः
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।
उवाच सुहृदः सर्वान् कथमेतद् वदन्तु माम् ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।
उवाच सुहृदः सर्वान् कथमेतद् वदन्तु माम् ॥ २१ ॥
अनुवाद (हिन्दी)
भद्रकी यह बात सुनकर श्रीरघुनाथजीने अत्यन्त पीड़ित होकर समस्त सुहृदोंसे पूछा—‘आपलोग भी मुझे बतावें, यह कहाँतक ठीक है’ ॥ २१ ॥
अनुवाद (कन्नड)
भद्रन ई मातन्नु केळि श्रीरामनु अत्यन्त दुःखितनागि समस्त सुहृदयरल्लि केळिदनु - ई मातु ऎष्टु सत्यवागिदॆ? ऎम्बुदन्नु नीवु तिळिसिरि.॥21॥
विश्वास-प्रस्तुतिः
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥
अनुवाद (हिन्दी)
तब सबने धरतीपर मस्तक टेककर श्रीरामचन्द्रजीको प्रणाम करके दीनतापूर्ण वाणीमें कहा—‘प्रभो! भद्रका यह कथन ठीक है, इसमें तनिक भी संशय नहीं है’ ॥
अनुवाद (कन्नड)
आग ऎल्लरू दीर्घदण्ड नमस्कार माडि श्रीरामनिगॆ दीनवाणियल्लि हेळिदरु-प्रभो! भद्रन ई मातु वास्तववागिदॆ. इदरल्लि यावुदे संशयविल्ल.॥22॥
विश्वास-प्रस्तुतिः
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।
विसर्जयामास तदा वयस्यान् शत्रुसूदनः ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।
विसर्जयामास तदा वयस्यान् शत्रुसूदनः ॥ २३ ॥
अनुवाद (हिन्दी)
सबके मुखसे यह बात सुनकर शत्रुसूदन श्रीरामने तत्काल उन सब सुहृदोंको विदा कर दिया ॥ २३ ॥
अनुवाद (कन्नड)
ऎल्लरिन्द ई मातन्नु केळि शत्रुसूदन श्रीरामनु तत्काल आ ऎल्ल सुहृदरन्नु बीळ्कॊट्टनु.॥23॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें तैंतालीसवाँ सर्ग पूरा हुआ ॥ ४३ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि नलवत्तमूरनॆय सर्ग पूर्णवायितु.॥43॥