[चत्वारिंशः सर्गः]
सर्वाष् टीकाः
भागसूचना
- वानरों, रीछों और राक्षसोंकी बिदाई
विश्वास-प्रस्तुतिः
तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ १ ॥
अनुवाद (हिन्दी)
इस तरह वहाँ सुखपूर्वक निवास करते हुए रीछों, वानरों और राक्षसोंमेंसे सुग्रीवको सम्बोधित करके महातेजस्वी श्रीरघुनाथजीने इस प्रकार कहा— ॥ १ ॥
अनुवाद (कन्नड)
हीगॆ अल्लि सुखवागि वासिसुव करडि, वानररु, राक्षसरल्लि सुग्रीवनन्नु सम्बोधिसि महातेजस्वी श्रीरघुनाथनु हीगॆ हेळिदनु.॥1॥
विश्वास-प्रस्तुतिः
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।
पालयस्व सहामात्यै राज्यं निहतकण्टकम् ॥ २ ॥
सर्वाष् टीकाः
मूलम्
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।
पालयस्व सहामात्यै राज्यं निहतकण्टकम् ॥ २ ॥
अनुवाद (हिन्दी)
‘सौम्य! अब तुम देवताओं तथा असुरोंके लिये भी दुर्जय किष्किन्धापुरीको जाओ और वहाँ मन्त्रियोंके साथ रहकर अपने निष्कण्टक राज्यका पालन करो ॥ २ ॥
अनुवाद (कन्नड)
सौम्य! ईग नीनु देवतॆगळिगॆ मत्तु असुररिगू दुर्जय वाद किष्किन्धॆगॆ होगु मत्तु अल्लि मन्त्रिगळॊन्दिगॆ इद्दु, तन्न निष्कण्टक राज्यवन्नु पालिसु.॥2॥
विश्वास-प्रस्तुतिः
अङ्गदं च महाबाहो प्रीत्या परमया युतः ।
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ३ ॥
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।
कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥ ४ ॥
वीरं शतबलिं चैव मैन्दं द्विविदमेव च ।
गजं गवाक्षं गवयं शरभं च महाबलम् ॥ ५ ॥
ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् ।
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
अङ्गदं च महाबाहो प्रीत्या परमया युतः ।
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ३ ॥
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।
कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥ ४ ॥
वीरं शतबलिं चैव मैन्दं द्विविदमेव च ।
गजं गवाक्षं गवयं शरभं च महाबलम् ॥ ५ ॥
ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् ।
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ६ ॥
अनुवाद (हिन्दी)
‘महाबाहो! अङ्गद और हनुमान् को भी तुम अत्यन्त प्रेमपूर्ण दृष्टिसे देखना । महाबली नल, अपने श्वशुर वीर सुषेण, बलवानोंमें श्रेष्ठ तार, दुर्धर्ष वीर कुमुद, महाबली नील, वीर शतबलि, मैन्द, द्विविद, गज, गवाक्ष, गवय, महाबली शरभ, महान् बल-पराक्रमसे युक्त दुर्जय वीर ऋक्षराज जाम्बवान् तथा गन्धमादनपर भी तुम प्रेमपूर्ण दृष्टि रखना ॥ ३—६ ॥
अनुवाद (कन्नड)
महाबाहो! अङ्गद मत्तु हनुमन्तनन्नु नीनु अत्यन्त प्रेमपूर्ण दृष्टियिन्द नोडु. महाबलि नळ, निन्न माव वीरसुषेण, बलिष्ठरल्लि श्रेष्ठतार, दुर्दर्षवीर कुमुद, महाबलि नील, वीर शतबलि, मैन्द, द्विविद, गज, गवाक्ष, गवय, महाबलि शरभ, महा बल-पराक्रमदिन्द कूडिद दुर्जय वीर ऋक्षराज जाम्बवन्त हागू गन्धमादनन इवरॆल्लर मेलॆ नीनु प्रेम दृष्टि इरिसु.॥3-6॥
विश्वास-प्रस्तुतिः
ऋषभं च सुविक्रान्तं प्लवङ्गं च सुपाटलम् ।
केसरिं शरभं शुम्भं शङ्खचूडं महाबलम् ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
ऋषभं च सुविक्रान्तं प्लवङ्गं च सुपाटलम् ।
केसरिं शरभं शुम्भं शङ्खचूडं महाबलम् ॥ ७ ॥
अनुवाद (हिन्दी)
‘परम पराक्रमी ऋषभ, वानर, सुपाटल, केसरी, शरभ, शुम्भ तथा महाबली शङ्खचूडको भी प्रेमपूर्ण दृष्टिसे देखना ॥ ७ ॥
अनुवाद (कन्नड)
परम पराक्रमि ऋषभ, वानर, सुपाटल, केसरी, शरभ, शुम्भ हागू महाबली शङ्खचूड इवरन्नु प्रेमपूर्ण दृष्टियिन्द नोडु.॥7॥
विश्वास-प्रस्तुतिः
ये ये च सुमहात्मानो मदर्थे त्यक्तजीविताः ।
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
ये ये च सुमहात्मानो मदर्थे त्यक्तजीविताः ।
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ८ ॥
ये ये मे सुमहात्मानो मदर्थे त्यक्तजीविताः ।
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥
अनुवाद (हिन्दी)
‘इनके सिवा जिन-जिन महामनस्वी वानरोंने मेरे लिये अपने प्राणोंकी बाजी लगा दी थी, उन सबपर तुम प्रेमदृष्टि रखना । कभी उनका अप्रिय न करना’ ॥ ८ ॥
अनुवाद (कन्नड)
इवरल्लदॆ याव - याव महामनस्वी वानररु ननगागि तम्म प्राणगळन्नु पणक्किट्टिद्दरो, अवरॆल्लर मेलॆ नीनु प्रेमदृष्टि इरिसु. ऎन्दिगू अवर अप्रिय माडबेड.॥8॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा च सुग्रीवमाश्लिष्य च पुनः पुनः ।
विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्त्वा च सुग्रीवमाश्लिष्य च पुनः पुनः ।
विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ९ ॥
अनुवाद (हिन्दी)
ऐसा कहकर श्रीरामने सुग्रीवको बारम्बार हृदयसे लगाया और फिर मधुर वाणीमें विभीषणसे कहा— ॥ ९ ॥
अनुवाद (कन्नड)
हीगॆ हेळि श्रीरामनु सुग्रीवनन्नु पुनः पुनः आलिङ्गिसिकॊण्डु, मत्तॆ मधुर वाणियल्लि विभीषणनल्लि हेळिदनु.॥9॥
विश्वास-प्रस्तुतिः
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।
पुरस्य राक्षसानां च भ्रातुर्वैश्रवणस्य च ॥ १० ॥
सर्वाष् टीकाः
मूलम्
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।
पुरस्य राक्षसानां च भ्रातुर्वैश्रवणस्य च ॥ १० ॥
अनुवाद (हिन्दी)
‘राक्षसराज! तुम धर्मपूर्वक लङ्काका शासन करो । मैं तुम्हें धर्मज्ञ मानता हूँ । तुम्हारे नगरके लोग, सब राक्षस तथा तुम्हारे भाई कुबेर भी तुम्हें धर्मज्ञ ही समझते हैं ॥ १० ॥
अनुवाद (कन्नड)
राक्षसराजने! नीनु धर्मदिन्द लङ्कॆय राज्यवाळु. नीनु धर्मज्ञनॆन्दु नानु तिळियुत्तेनॆ. निन्न नगरद ऎल्ल राक्षसरु हागू निन्न अण्ण कुबेरनू निन्नन्नु धर्मज्ञनॆन्दे तिळियुत्तारॆ.॥10॥
विश्वास-प्रस्तुतिः
मा च बुद्धिमधर्मे त्वं कुर्या राजन् कथञ्चन ।
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
मा च बुद्धिमधर्मे त्वं कुर्या राजन् कथञ्चन ।
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ ११ ॥
अनुवाद (हिन्दी)
‘राजन्! तुम किसी तरह भी अधर्ममें मन न लगाना । जिनकी बुद्धि ठीक है, वे राजा निश्चय ही दीर्घकालतक पृथ्वीका राज्य भोगते हैं ॥ ११ ॥
अनुवाद (कन्नड)
राजने! नीनु याव रीतियल्लि अधर्मक्कॆ मनकॊडबेड. सरियाद बुद्धि इरुव राजने निश्चयवागि दीर्घकालद वरॆगॆ राज्यवाळुवनु.॥11॥
विश्वास-प्रस्तुतिः
अहं च नित्यशो राजन् सुग्रीवसहितस्त्वया ।
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
अहं च नित्यशो राजन् सुग्रीवसहितस्त्वया ।
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ १२ ॥
अनुवाद (हिन्दी)
‘राजन्! तुम सुग्रीवसहित मुझे सदा याद रखना । अब निश्चिन्त होकर प्रसन्नतापूर्वक यहाँसे जाओ’ ॥ १२ ॥
अनुवाद (कन्नड)
राजने! नीनु सुग्रीवन सहित नन्नन्नु सदा स्मरिसुत्तिरु. ईग निश्चिन्तनागि सन्तोषदिन्द इल्लिन्द दयमाडिसु.॥12॥
विश्वास-प्रस्तुतिः
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।
साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।
साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥ १३ ॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीका यह भाषण सुनकर रीछों, वानरों और राक्षसोंने ‘धन्य-धन्य’ कहकर उनकी बारम्बार प्रशंसा की ॥ १३ ॥
अनुवाद (कन्नड)
श्रीरामचन्द्रन ई मातन्नु केळि करडिगळु, वानररु, राक्षसरु धन्य-धन्य ऎन्दु हेळुत्ता श्रीरामनन्नु पदे-पदे प्रशंसिसिदरु.॥13॥
विश्वास-प्रस्तुतिः
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।
माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।
माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ॥ १४ ॥
अनुवाद (हिन्दी)
वे बोले—‘महाबाहु श्रीराम! स्वयम्भू ब्रह्माजीके समान आपके स्वभावमें सदा परम मधुरता रहती है । आपकी बुद्धि और पराक्रम अद्भुत हैं’ ॥ १४ ॥
अनुवाद (कन्नड)
अवरु हेळिदरु - महाबाहु श्रीरामा! स्वयम्भू ब्रह्मनन्तॆ निन्न स्वभावदल्लि सदा मधुरतॆये इरुत्तदॆ. निन्न बुद्धि मत्तु पराक्रम अद्भुतवागिदॆ.॥14॥
विश्वास-प्रस्तुतिः
तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ।
हनूमान् प्रणतो भूत्वा राघवं वाक्यमब्रवीत् ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ।
हनूमान् प्रणतो भूत्वा राघवं वाक्यमब्रवीत् ॥ १५ ॥
अनुवाद (हिन्दी)
वानर और राक्षस जब ऐसा कह रहे थे, उसी समय हनुमान् जी विनम्र होकर श्रीरघुनाथजीसे बोले— ॥ १५ ॥
अनुवाद (कन्नड)
वानररु, राक्षसरु हीगॆ हेळुत्तिद्दागले हनुमन्तनु विनम्रनागि श्रीरामनल्लि हेळिदनु.॥15॥
विश्वास-प्रस्तुतिः
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।
भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।
भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥ १६ ॥
अनुवाद (हिन्दी)
‘महाराज! आपके प्रति मेरा महान् स्नेह सदा बना रहे । वीर! आपमें ही मेरी निश्चल भक्ति रहे । आपके सिवा और कहीं मेरा आन्तरिक अनुराग न हो ॥ १६ ॥
अनुवाद (कन्नड)
महाराजा! निन्न कुरितु नन्न महास्नेह सदा इरलि. वीरने! निन्नल्ले ननगॆ निश्चलभक्ति इरलि. नीनल्लदॆ बेरॆ यावुदरल्लियू नन्न आन्तरिक अनुराग इल्लदिरलि.॥16॥
विश्वास-प्रस्तुतिः
यावद् रामकथा वीर चरिष्यति महीतले ।
तावच्छरीरे वत्स्यन्तु प्राणा मम न संशयः ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
यावद् रामकथा वीर चरिष्यति महीतले ।
तावच्छरीरे वत्स्यन्तु प्राणा मम न संशयः ॥ १७ ॥
अनुवाद (हिन्दी)
‘वीर श्रीराम! इस पृथ्वीपर जबतक रामकथा प्रचलित रहे, तबतक निःसंदेह मेरे प्राण इस शरीरमें ही बसे रहें ॥ १७ ॥
अनुवाद (कन्नड)
वीर राघव! ई पृथिवियल्लि रामकथॆ प्रचलितविरुव तनक निःसन्देहवागि नन्न प्राण ई शरीरदल्लिरलि.॥17॥
विश्वास-प्रस्तुतिः
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन ।
तन्ममाप्सरसो राम श्रावयेयुर्नरर्षभ ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन ।
तन्ममाप्सरसो राम श्रावयेयुर्नरर्षभ ॥ १८ ॥
अनुवाद (हिन्दी)
‘रघुकुलनन्दन नरश्रेष्ठ श्रीराम! आपका जो यह दिव्य चरित्र और कथा है, इसे अप्सराएँ मुझे गाकर सुनाया करें ॥ १८ ॥
अनुवाद (कन्नड)
रघुकुलनन्दन वरश्रेष्ठ रामा! निन्न ई दिव्य चरित्रॆ मत्तु कथॆयन्नु अप्सरॆयरु ननगॆ हाडि केळिसलि.॥18॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।
उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।
उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ १९ ॥
अनुवाद (हिन्दी)
‘वीर प्रभो! आपके उस चरितामृतको सुनकर मैं अपनी उत्कण्ठाको उसी तरह दूर करता रहूँगा, जैसे वायु बादलोंकी पंक्तिको उड़ाकर दूर ले जाती है’ ॥ १९ ॥
अनुवाद (कन्नड)
वीर प्रभो! निन्न ई चरित्रॆयन्नु केळि वायु मोडगळन्नु हारिसिकॊण्डु दूर ऒय्युवन्तॆ नानु नन्न उत्कण्ठतॆयन्नु दूरगॊळिसुत्ता इरुवॆनु.॥19॥
विश्वास-प्रस्तुतिः
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।
उत्थाय सस्वजे स्नेहाद् वाक्यमेतदुवाच ह ॥ २० ॥
सर्वाष् टीकाः
मूलम्
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।
उत्थाय सस्वजे स्नेहाद् वाक्यमेतदुवाच ह ॥ २० ॥
अनुवाद (हिन्दी)
हनुमान् जी के ऐसा कहनेपर श्रीरघुनाथजीने श्रेष्ठ सिंहासनसे उठकर उन्हें हृदयसे लगा लिया और स्नेहपूर्वक इस प्रकार कहा— ॥ २० ॥
अनुवाद (कन्नड)
हनुमन्तनु हीगॆ हेळिदाग श्रीरघुनाथनु श्रेष्ठ सिंहासनदिन्द ऎद्दु अवनन्नु बिगिदप्पिकॊण्डु स्नेहपूर्वक हीगॆ हेळिदनु.॥20॥
विश्वास-प्रस्तुतिः
एवमेतत् कपिश्रेष्ठ भविता नात्र संशयः ।
चरिष्यति कथा यावदेषा लोके च मामिका ॥ २१ ॥
तावत् ते भविता कीर्तिः शरीरेऽप्यसवस्तथा ।
लोका हि यावत्स्थास्यन्ति तावत् स्थास्यन्ति मे कथाः ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
एवमेतत् कपिश्रेष्ठ भविता नात्र संशयः ।
चरिष्यति कथा यावदेषा लोके च मामिका ॥ २१ ॥
तावत् ते भविता कीर्तिः शरीरेऽप्यसवस्तथा ।
लोका हि यावत्स्थास्यन्ति तावत् स्थास्यन्ति मे कथाः ॥ २२ ॥
अनुवाद (हिन्दी)
‘कपिश्रेष्ठ! ऐसा ही होगा, इसमें संशय नहीं है । संसारमें मेरी कथा जबतक प्रचलित रहेगी, तबतक तुम्हारी कीर्ति अमिट रहेगी और तुम्हारे शरीरमें प्राण भी रहेंगे ही । जबतक ये लोक बने रहेंगे, तबतक मेरी कथाएँ भी स्थिर रहेंगी ॥ २१-२२ ॥
अनुवाद (कन्नड)
कपिश्रेष्ठने! हागॆये आगुवुदु, इदरल्लि संशयवे इल्ल. प्रपञ्चदल्लि नन्न कथॆ प्रचलित विरुव तनक निन्न कीर्ति स्थिरवागिरुवुदु मत्तु निन्न शरीरदल्लि प्राणगळु इरुववु. ई जगत्तु इरुव तनक नन्न कथॆगळू स्थिरवागिरुववु.॥21-22॥
विश्वास-प्रस्तुतिः
एकैकस्योपकारस्य प्राणान् दास्यामि ते कपे ।
शेषस्येहोपकाराणां भवाम ऋणिनो वयम् ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
एकैकस्योपकारस्य प्राणान् दास्यामि ते कपे ।
शेषस्येहोपकाराणां भवाम ऋणिनो वयम् ॥ २३ ॥
अनुवाद (हिन्दी)
‘कपे! तुमने जो उपकार किये हैं, उनमेंसे एक-एकके लिये मैं अपने प्राण निछावर कर सकता हूँ । तुम्हारे शेष उपकारोंके लिये तो मैं ऋणी ही रह जाऊँगा ॥ २३ ॥
अनुवाद (कन्नड)
कपिये! नीनु माडिद ऒन्दॊन्दु उपकारगळन्नु प्राणद हङ्गन्नु तॊरॆदु तीरिसबेकागिदॆ. ऎल्ल उपकारगळन्नु तीरिसुवुदॆन्तु? उळिद निन्न उपकारगळिगॆ ऋणि गळागिये इरुत्तवॆ.॥23॥
विश्वास-प्रस्तुतिः
मदङ्गे जीर्णतां यातु यत् त्वयोपकृतं कपे ।
नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् ॥ २४ ॥
सर्वाष् टीकाः
मूलम्
मदङ्गे जीर्णतां यातु यत् त्वयोपकृतं कपे ।
नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् ॥ २४ ॥
अनुवाद (हिन्दी)
‘कपिश्रेष्ठ! मैं तो यही चाहता हूँ कि तुमने जो-जो उपकार किये हैं, वे सब मेरे शरीरमें ही पच जायँ । उनका बदला चुकानेका मुझे कभी अवसर न मिले; क्योंकि पुरुषमें उपकारका बदला पानेकी योग्यता आपत्तिकालमें ही आती है (मैं नहीं चाहता कि तुम भी संकटमें पड़ो और मैं तुम्हारे उपकारका बदला चुकाऊँ)’ ॥ २४ ॥
अनुवाद (कन्नड)
कपिश्रेष्ठने! नीनु माडिद उपकारगळॆल्ल नन्न शरीरदल्ले जीर्णवागि होगलॆन्दे नानु बयसुवॆनु. अदन्नु तीरिसुव अवकाशवे ननगॆ बारदिरलि; एकॆन्दरॆ पुरुषनल्लि उपकारद लाभ पडॆयुव योग्यतॆ आपत्कालदल्ले बरुत्तदॆ. (नीनु सङ्कटदल्लि बिद्दु, नानु निन्न उपकार तीरिसुवुदन्नु नानु बयसुवुदिल्ल..॥24॥
विश्वास-प्रस्तुतिः
ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात् स राघवः ।
वैदूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ २५ ॥
सर्वाष् टीकाः
मूलम्
ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात् स राघवः ।
वैदूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ २५ ॥
अनुवाद (हिन्दी)
इतना कहकर श्रीरघुनाथजीने अपने कण्ठसे एक चन्द्रमाके समान उज्ज्वल हार निकाला, जिसके मध्यभागमें वैदूर्यमणि थी । उसे उन्होंने हनुमान् जी के गलेमें बाँध दिया ॥ २५ ॥
अनुवाद (कन्नड)
इष्टु हेळि श्रीरघुनाथनु तन्न कॊरळिनल्लिद्द चन्द्रनन्तॆ उज्वलवाद नडुविनल्लि वैडूर्यविद्द ऒन्दु हारवन्नु तॆगॆदु हनुमन्तन कॊरळिगॆ कट्टिदनु.॥25॥
विश्वास-प्रस्तुतिः
तेनोरसि निबद्धेन हारेण महता कपिः ।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ २६ ॥
सर्वाष् टीकाः
मूलम्
तेनोरसि निबद्धेन हारेण महता कपिः ।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ २६ ॥
अनुवाद (हिन्दी)
वक्षःस्थलसे सटे हुए उस विशाल हारसे हनुमान् जी उसी तरह सुशोभित हुए, जैसे सुवर्णमय गिरिराजसुमेरुके शिखरपर चन्द्रमाका उदय हुआ हो ॥ २६ ॥
अनुवाद (कन्नड)
वक्षःस्थळक्कॆ अण्टिकॊण्ड आ विशालहारदिन्द सुवर्णमय सुमेरुविन शिखरदल्लि चन्द्रन उदयवादन्तॆ हनुमन्तनु शोभिसिदनु.॥26॥
विश्वास-प्रस्तुतिः
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।
प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ २७ ॥
सर्वाष् टीकाः
मूलम्
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।
प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ २७ ॥
अनुवाद (हिन्दी)
श्रीरघुनाथजीके ये विदाईके शब्द सुनकर वे महाबली वानर एक-एक करके उठे और उनके चरणोंमें सिर झुकाकर प्रणाम करके वहाँसे चल दिये ॥ २७ ॥
अनुवाद (कन्नड)
श्रीरघुनाथन ई बीळ्कॊडिगॆय मातन्नु केळि आ महाबलि वानररु ऒब्बॊब्बरागि ऎद्दु, श्रीरामन चरणगळिगॆ शिरबागि वन्दिसि अल्लिन्द हॊरटरु.॥27॥
विश्वास-प्रस्तुतिः
सुग्रीवः स च रामेण निरन्तरमुरोगतः ।
विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ॥ २८ ॥
सर्वाष् टीकाः
मूलम्
सुग्रीवः स च रामेण निरन्तरमुरोगतः ।
विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ॥ २८ ॥
अनुवाद (हिन्दी)
सुग्रीव और धर्मात्मा विभीषण श्रीरामके हृदयसे लग गये और उनका गाढ़ आलिंगन करके विदा हुए । उस समय वे सब-के-सब नेत्रोंसे आँसू बहाते हुए श्रीरामके भावी विरहसे व्यथित हो उठे थे ॥ २८ ॥
अनुवाद (कन्नड)
सुग्रीव मत्तु धर्मात्मा विभीषणरू बहळ हॊत्तु श्रीरामनन्नु गाढवागि आलिङ्गिसिकॊण्डिद्दु, बीळ्कॊण्डरु. आग अवरॆल्लरू कण्णुगळिन्द कम्बनि हरिसुत्ता, श्रीरामन भावी विरहदिन्द व्यथितरागिद्दरु.॥28॥
विश्वास-प्रस्तुतिः
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।
सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ २९ ॥
सर्वाष् टीकाः
मूलम्
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।
सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ २९ ॥
अनुवाद (हिन्दी)
श्रीरामको छोड़कर जाते समय वे सभी दुःखसे किंकर्तव्यविमूढ़ तथा अचेत-से हो रहे थे । किसीके गलेसे आवाज नहीं निकलती थी और सभीके नेत्रोंसे अश्रु झर रहे थे ॥ २९ ॥
अनुवाद (कन्नड)
श्रीरामनन्नु बिट्टु होगुवाग अवरॆल्लरू दुःखदिन्द किङ्कर्तव्य विमूढरागि ऎच्चरविल्लदन्तादरु. यार बायिन्दलू शब्द हॊरडुत्तिरलिल्ल, ऎल्लर कण्णुगळिन्द कण्णीरु हरियुत्तित्तु.॥29॥
विश्वास-प्रस्तुतिः
कृतप्रसादास्तेनैवं राघवेण महात्मना ।
जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ ३० ॥
सर्वाष् टीकाः
मूलम्
कृतप्रसादास्तेनैवं राघवेण महात्मना ।
जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ ३० ॥
अनुवाद (हिन्दी)
महात्मा श्रीरघुनाथजीके इस प्रकार कृपा एवं प्रसन्नतापूर्वक विदा देनेपर वे सब वानर विवश हो उसी प्रकार अपने-अपने घरको गये, जैसे जीवात्मा विवशतापूर्वक शरीर छोड़कर परलोकको जाता है ॥ ३० ॥
अनुवाद (कन्नड)
महात्मा श्रीरघुनाथनु हीगॆ कृपापूर्वक, सन्तोषदिन्द बीळ्कॊट्टाग आ वानररॆल्लरू, जीवात्मनु विवशतॆयिन्द शरीर बिट्टु परलोकक्कॆ होगुवन्तॆ तम्म-तम्म मनॆगळिगॆ तॆरळिदरु.॥30॥
विश्वास-प्रस्तुतिः
ततस्तु ते राक्षसऋक्षवानराः
प्रणम्य रामं रघुवंशवर्धनम् ।
वियोगजाश्रुप्रतिपूर्णलोचनाः
प्रतिप्रयातास्तु यथा निवासिनः ॥ ३१ ॥
सर्वाष् टीकाः
मूलम्
ततस्तु ते राक्षसऋक्षवानराः
प्रणम्य रामं रघुवंशवर्धनम् ।
वियोगजाश्रुप्रतिपूर्णलोचनाः
प्रतिप्रयातास्तु यथा निवासिनः ॥ ३१ ॥
अनुवाद (हिन्दी)
वे राक्षस, रीछ और वानर रघुवंशवर्धन श्रीरामको प्रणाम करके नेत्रोंमें वियोगके आँसू लिये अपने-अपने निवासस्थानको लौट गये ॥ ३१ ॥
अनुवाद (कन्नड)
आ राक्षसरु करडिगळु, वानररु रघुवंशवर्धन श्रीरामनिगॆ प्रणाममाडि, कण्णुगळल्लि वियोगद कम्बनि तुम्बिकॊण्डु तम्म-तम्म निवासगळिगॆ मरळि हॊरटुहोदरु.॥31॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें चालीसवाँ सर्ग पूरा हुआ ॥ ४० ॥