[एकोनचत्वारिंशः सर्गः]
सर्वाष् टीकाः
भागसूचना
- राजाओंका श्रीरामके लिये भेंट देना और श्रीरामका वह सब लेकर अपने मित्रों, वानरों, रीछों और राक्षसोंको बाँट देना तथा वानर आदिका वहाँ सुखपूर्वक रहना
विश्वास-प्रस्तुतिः
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।
गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।
गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥ १ ॥
अनुवाद (हिन्दी)
अयोध्यासे प्रस्थित हो वे महामना भूपाल सहस्रों हाथी, घोड़े तथा पैदल-समूहोंसे पृथ्वीको कम्पित करते हुए-से हर्षपूर्वक आगे बढ़ने लगे ॥ १ ॥
अनुवाद (कन्नड)
महात्मनाद आ राजरॆल्लरू साविरारु आनॆ-कुदुरॆ-कालाळुगळिन्द समावृतरागि परम हर्ष दिन्द भूमियन्नु नडुगिसुत्ता अयोध्यॆयिन्द हॊरटरु.॥1॥
विश्वास-प्रस्तुतिः
अक्षौहिण्यो हि तत्रासन् राघवार्थे समुद्यताः ।
भरतस्याज्ञयानेकाः प्रहृष्टबलवाहनाः ॥ २ ॥
सर्वाष् टीकाः
मूलम्
अक्षौहिण्यो हि तत्रासन् राघवार्थे समुद्यताः ।
भरतस्याज्ञयानेकाः प्रहृष्टबलवाहनाः ॥ २ ॥
अनुवाद (हिन्दी)
भरतकी आज्ञासे श्रीरामचन्द्रजीकी सहायताके लिये वहाँ कई अक्षौहिणी सेनाएँ युद्धके लिये उद्यत होकर आयी थीं । उन सबके सैनिक और वाहन हर्ष एवं उत्साहसे भरे हुए थे ॥ २ ॥
अनुवाद (कन्नड)
भरतन आज्ञॆयन्तॆ श्रीरामन सहायक्कागि अनेक अक्षौहिणि सैन्यगळु युद्धक्कागि बन्दिद्दवु. आ ऎल्ल सैनिकरु मत्तु वाहनगळु हर्षोत्साह गॊण्डिद्दवु.॥2॥
विश्वास-प्रस्तुतिः
ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न राम रावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न राम रावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ३ ॥
अनुवाद (हिन्दी)
वे सभी भूपाल बलके घमंडमें भरकर आपसमें इस तरहकी बातें करने लगे—‘हमलोगोंने युद्धमें श्रीराम और रावणको आमने-सामने खड़ा नहीं देखा ॥ ३ ॥
अनुवाद (कन्नड)
आ ऎल्ल भूपालरु दर्पदिन्द परस्पर हीगॆ मातनाडुत्तिद्दरु - नावु युद्धदल्लि श्रीराम मत्तु रावणरु ऎदुरुबदिरागि निन्तिरुवुदन्नु नोडलागलिल्ल.॥3॥
विश्वास-प्रस्तुतिः
भरतेन वयं पश्चात् समानीता निरर्थकम् ।
हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
भरतेन वयं पश्चात् समानीता निरर्थकम् ।
हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥ ४ ॥
अनुवाद (हिन्दी)
‘भरतने (पहले तो सूचना नहीं दी) पीछे युद्ध समाप्त हो जानेपर हमें व्यर्थ ही बुला लिया । यदि सब राजा गये होते तो उनके द्वारा समस्त राक्षसोंका संहार बहुत जल्दी हो गया होता, इसमें संशय नहीं है ॥ ४ ॥
अनुवाद (कन्नड)
भरतनु मॊदले नमगॆ सूचिसदॆ, युद्ध मुगिद मेलॆ नम्मन्नु व्यर्थवागि करॆसिकॊण्डनु. ऎल्ल राजरु अल्लिगॆ होगिद्दरॆ, अवरिन्द समस्त राक्षसर संहारवु बेगने अगुत्तित्तु, इदरल्लि संशयवे इल्ल.॥4॥
विश्वास-प्रस्तुतिः
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।
सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।
सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥ ५ ॥
अनुवाद (हिन्दी)
‘श्रीराम और लक्ष्मणके बाहुबलसे सुरक्षित एवं निश्चिन्त हो हमलोग समुद्रके उस पार सुखपूर्वक युद्ध कर सकते थे’ ॥ ५ ॥
अनुवाद (कन्नड)
श्रीराम मत्तु लक्ष्मणर बाहुबलदिन्द सुरक्षित मत्तु निश्चिन्तरागि नावु समुद्रद आचॆगॆ सुखपूर्वकवागि युद्ध माडुत्तिद्दॆवु.॥5॥
विश्वास-प्रस्तुतिः
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ६ ॥
अनुवाद (हिन्दी)
ये तथा और भी बहुत-सी बातें कहते हुए वे सहस्रों नरेश बड़े हर्षके साथ अपने-अपने राज्यको गये ॥
अनुवाद (कन्नड)
इवरु इन्नू बहळष्टु मातुगळन्नाडुत्ता साविरारु राजरु बहळ हर्षदिन्द तम्म-तम्म राज्यगळिगॆ तॆरळिदरु.॥6॥
विश्वास-प्रस्तुतिः
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।
समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ ७ ॥
यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।
रामस्य प्रियकामार्थमुपहारं नृपा ददुः ॥ ८ ॥
अश्वान् यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।
चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥ ९ ॥
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।
अजाविकं च विविधं रथांस्तु विविधान् बहून् ॥ १० ॥

उनके अपने-अपने प्रसिद्ध राज्य समृद्धिशाली, सुख और आनन्दसे परिपूर्ण, धन-धान्यसे सम्पन्न तथा रत्न आदिसे भरे-पूरे थे । उन राज्यों तथा नगरोंमें जाकर उन नरेशोंने श्रीरामचन्द्रजीका प्रिय करनेकी इच्छासे नाना प्रकारके रत्न और उपहार भेजे । घोड़े, सवारियाँ, रत्न, मतवाले हाथी, उत्तम चन्दन, दिव्य आभूषण, मणि, मोती, मूँगे, रूपवती दासियाँ, नाना प्रकारकी बकरियाँ और भेड़ें तथा तरह-तरहके बहुत-से रथ भेंट किये ॥ ७—१० ॥
अनुवाद (कन्नड)
अवर प्रसिद्ध राज्यगळु समृद्धिशालि, सुख-आनन्ददिन्द परिपूर्ण, धन-धान्यगळिन्द सम्पन्न हागू रत्नादिगळिन्द तुम्बि तुळुकुत्तिद्दवु. आ राज्य, नगरगळिगॆ होगि आ राजरु श्रीरामन प्रियमाडुव इच्छॆयिन्द नाना रीतिय रत्नादिगळन्नु उडुगॊरॆयागि अवनिगॆ कळिसिदरु. कुदुरॆ, वाहनगळु, रत्नगळु, मत्तगज, उत्तम चन्दन, दिव्य आभूषण, मणि, मुत्तु, हवळ, सुन्दर दासियरु, नाना प्रकारद आडु-कुरिगळन्नु, हागू बगॆ-बगॆय अनेक रथगळन्नु काणिकॆयागि कळिसिकॊट्टरु.॥7-10॥
विश्वास-प्रस्तुतिः
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।
आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥ ११ ॥
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।
तानि रत्नानि चित्राणि रामाय समुपानयन् ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।
आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥ ११ ॥
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।
तानि रत्नानि चित्राणि रामाय समुपानयन् ॥ १२ ॥
अनुवाद (हिन्दी)
महाबली भरत, लक्ष्मण और शत्रुघ्न उन रत्नोंको लेकर पुनः अपनी पुरीमें लौट आये । रमणीय पुरी अयोध्यामें आकर उन तीनों पुरुषप्रवर बन्धुओंने ये विचित्र रत्न श्रीरामको समर्पित कर दिये ॥ ११-१२ ॥
अनुवाद (कन्नड)
महाबलि भरत, लक्ष्मण, शत्रुघ्नरु आ रत्नगळन्नु ऎत्तिकॊण्डु अयोध्यॆगॆ बन्दरु. रमणीय अयोध्यापुरिगॆ बन्दु आ मूवरू सहोदररु आ विचित्र रत्नगळन्नु श्रीरामनिगॆ अर्पिसिदरु.॥11-12॥
विश्वास-प्रस्तुतिः
प्रतिगृह्य च तत् सर्वं रामः प्रीतिसमन्वितः ।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ ॥
विभीषणाय च ददौ तथान्येभ्योऽपि राघवः ।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
प्रतिगृह्य च तत् सर्वं रामः प्रीतिसमन्वितः ।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ ॥
विभीषणाय च ददौ तथान्येभ्योऽपि राघवः ।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ १४ ॥
अनुवाद (हिन्दी)
उन सबको ग्रहण करके महात्मा श्रीरामने बड़ी प्रसन्नताके साथ उपकारी वानरराज सुग्रीव और विभीषणको तथा अन्य राक्षसों और वानरोंको भी बाँट दिया; क्योंकि उन्हींसे घिरे रहकर भगवान् श्रीरामने युद्धमें विजय प्राप्त की थी ॥ १३-१४ ॥
अनुवाद (कन्नड)
अदॆल्लवन्नु स्वीकरिसि महात्मा श्रीरामनु बहळ सन्तोषदिन्द उपकारी वानरराज सुग्रीव मत्तु विभीषणरन्नु हागू इतर राक्षसरिगॆ, वानररिगॆ अदन्नु हञ्चिबिट्टनु; एकॆन्दरॆ अवरिन्द सुत्तुवरॆदु श्रीरामनु युद्धदल्लि विजय प्राप्ति माडि कॊण्डिद्दनु.॥13-14॥
विश्वास-प्रस्तुतिः
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।
शिरोभिर्धारयामासुर्भुजेषु च महाबलाः ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।
शिरोभिर्धारयामासुर्भुजेषु च महाबलाः ॥ १५ ॥
अनुवाद (हिन्दी)
उन सभी महाबली वानरों और राक्षसोंने श्रीरामचन्द्रजीके दिये हुए वे रत्न अपने मस्तक और भुजाओंमें धारण कर लिये ॥ १५ ॥
अनुवाद (कन्नड)
आ ऎल्ल महाबली वानररु मत्तु राक्षसरु श्रीरामचन्द्रनु कॊट्टिरुव आ रत्नगळन्नु तम्म मस्तक मत्तु भुजगळल्लि धरिसिकॊण्डरु.॥15॥
विश्वास-प्रस्तुतिः
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।
अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ॥ १६ ॥
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।
अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः ॥ १७ ॥
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ ।
अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।
अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ॥ १६ ॥
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।
अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः ॥ १७ ॥
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ ।
अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ १८ ॥
अनुवाद (हिन्दी)
तत्पश्चात् इक्ष्वाकुनरेश महापराक्रमी महारथी कमलनयन श्रीरामने महाबाहु हनुमान् और अङ्गदको गोदमें बैठाकर सुग्रीवसे इस प्रकार कहा—‘सुग्रीव! अङ्गद तुम्हारे सुपुत्र हैं और पवनकुमार हनुमान् मन्त्री । वानरराज! ये दोनों मेरे लिये मन्त्रीका भी काम देते थे और सदा मेरे हितसाधनमें लगे रहते थे । इसलिये और विशेषतः तुम्हारे नाते ये मेरी ओरसे विविध आदर-सत्कार एवं भेंट पानेके योग्य हैं’ ॥ १६—१८ ॥
अनुवाद (कन्नड)
अनन्तर इक्ष्वाकु नरेश महापराक्रमि, महारथि कमलनयन श्रीरामनु महाबाहु हनुमान् हागू अङ्गदरन्नु तॊडॆयल्लि कुळ्ळिरिसिकॊण्डु सुग्रीवनल्लि हीगॆ हेळिदनु- सुग्रीवने! अङ्गदनु निन्न सुपुत्रनागिद्दानॆ. पवनकुमार हनुमन्तनु मन्त्रि. वानरराजने! इवरिब्बरू ननगॆ मन्त्रिगळ कॆलस माडुत्तिद्दरु हागू सदा नन्न हितसाधनॆयल्ले तॊडगिरुत्तिद्दरु. अदक्कागि विशेषवागि निन्निन्दागि इवरु नन्निन्द विविध आदर सत्कार हागू उडुगॊरॆ पडॆयलु योग्यरागिद्दारॆ.॥16-18॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा व्यवमुच्याङ्गाद् भूषणानि महायशाः ।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
इत्युक्त्वा व्यवमुच्याङ्गाद् भूषणानि महायशाः ।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १९ ॥
इत्युक्त्वाव्यपमुच्याङ्गाद्भूषणानि महायशाः ।
स बन्ध महार्हाणि तदाङ्गदहनूमतोः ॥
अनुवाद (हिन्दी)
ऐसा कहकर महायशस्वी श्रीरामने अपने शरीरसे बहुमूल्य आभूषण उतारकर उन्हें अङ्गद तथा हनुमान् के अङ्गोंमें बाँध दिया ॥ १९ ॥
अनुवाद (कन्नड)
हीगॆ हेळि महायशस्वी श्रीरामनु तन्न मैमेलिन्द बहुमूल्य आभूषण तॆगॆदु अदन्नु अङ्गद हागू हनुमन्तरिगॆ तॊडिसिदनु.॥19॥
विश्वास-प्रस्तुतिः
आभाष्य च महावीर्यान् राघवो यूथपर्षभान् ।
नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ २० ॥
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।
जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ २१ ॥
बलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।
दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ २२ ॥
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।
सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ॥ २३ ॥
युष्माभिरुद्धृतश्चाहं व्यसनात् काननौकसः ।
धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ २४ ॥

आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ।
नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।
जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ॥
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।
दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥(श्लोक - 23)
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामपिबन्निव ।
सुहृदोमे भवन्तश्च शरीरं भ्रातरस्तथा ॥
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।
धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥
अनुवाद (हिन्दी)
इसके बाद श्रीरघुनाथजीने महापराक्रमी वानरयूथपतियों—नील, नल, केसरी, कुमुद, गन्धमादन, सुषेण, पनस, वीर मैन्द, द्विविद, जाम्बवान्, गवाक्ष, विनत, धूम्र, बलीमुख, प्रजङ्घ, महाबली संनाद, दरीमुख, दधिमुख और यूथप इन्द्रजानुको बुलाकर उनकी ओर दोनों नेत्रोंसे इस प्रकार देखा, मानो वे उन्हें नेत्रपुटोंद्वारा पी रहे हों । उन्होंने स्नेहयुक्त मधुर वाणीमें उनसे कहा—‘वानरवीरो! आपलोग मेरे सुहृद्, शरीर और भाई हैं । आपने ही मुझे संकटसे उबारा है । आप-जैसे श्रेष्ठ सुहृदोंको पाकर राजा सुग्रीव धन्य हैं’ ॥ २०—२४ ॥
अनुवाद (कन्नड)
बळिक श्रीरघुनाथनु महापराक्रमि वानर सेनापतिगळाद नील, नळ, केसरी, कुमुद, गन्धमादन, सुषेण, पनस, वीरमैन्द, द्विविद, जाम्बवन्त, गवाक्ष, विनत, धूम्र, बलिमुख, प्रजङ्घ, महाबलि सन्नाद, दधिमुख, दरीमुख मत्तु इन्द्रजानु इवरन्नु करॆदु अवरन्नु कण्णुगळिन्दले कुडिदुबिडुवनो ऎम्बन्तॆ नोडिदनु. अवनु स्नेहयुक्त मधुर वाणियिन्द अवरल्लि हेळिदनु - वानर वीररे! नीवु ननगॆ सुहृद, शरीर मत्तु सहोदररागिद्दीरि. नीवे नन्नन्नु सङ्कटदिन्द ऎत्तिरुविरि. निम्मन्तह श्रेष्ठ सुहृदरन्नु पडॆदु सुग्रीवराजनु धन्यनागिद्दानॆ.॥20-24॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ २५ ॥
सर्वाष् टीकाः
मूलम्
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ २५ ॥
अनुवाद (हिन्दी)
ऐसा कहकर नरश्रेष्ठ श्रीरघुनाथजीने उन्हें यथायोग्य आभूषण और बहुमूल्य हीरे दिये तथा उनका आलिङ्गन किया ॥ २५ ॥
अनुवाद (कन्नड)
हीगॆ हेळि नरश्रेष्ठ श्रीरामनु अवरिगॆ यथायोग्य आभूषण मत्तु बहुमूल्य रत्नादिगळन्नु कॊट्टु, अवरन्नु अप्पिकॊण्डनु.॥25॥
विश्वास-प्रस्तुतिः
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ २६ ॥
सर्वाष् टीकाः
मूलम्
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ २६ ॥
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च लानि च ॥
अनुवाद (हिन्दी)
मधुके समान पिङ्गल वर्णवाले वे वानर वहाँ सुगन्धित मधु पीते, राजभोग वस्तुओंका उपभोग करते और स्वादिष्ट फल-मूल खाते थे ॥ २६ ॥
अनुवाद (कन्नड)
जेनिनन्तह पिङ्गळ वर्णवुळ्ळ आ वानररु अल्लि मधु सेविसुत्ता, राजभोग वस्तुगळन्नु अनुभविसुत्ता, स्वादिष्ट फल-मूलगळन्नु तिन्नुत्तिद्दरु.॥26॥
विश्वास-प्रस्तुतिः
एवं तेषां निवसतां मासः साग्रो ययौ तदा ।
मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥ २७ ॥
सर्वाष् टीकाः
मूलम्
एवं तेषां निवसतां मासः साग्रो ययौ तदा ।
मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥ २७ ॥
अनुवाद (हिन्दी)
इस प्रकार निवास करते हुए उन वानरोंका वहाँ एक महीनेसे अधिक समय बीत गया; परंतु श्रीरघुनाथजीके प्रति भक्तिके कारण उन्हें वह समय एक मुहूर्तके समान ही जान पड़ा ॥ २७ ॥
अनुवाद (कन्नड)
हीगॆ वासिसुत्ता वानररु ऒन्दु तिङ्गळिगिन्तलू हॆच्चु समय कळॆयितु. आदरू श्रीरामन कुरितु इरुव भक्तियिन्दागि अष्टु समय ऒन्दु मुहूर्तदन्तॆ कण्डितु.॥27॥
विश्वास-प्रस्तुतिः
रामोऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।
राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥ २८ ॥
सर्वाष् टीकाः
मूलम्
रामोऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।
राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥ २८ ॥
अनुवाद (हिन्दी)
श्रीराम भी इच्छानुसार रूप धारण करनेवाले उन वानरों, महापराक्रमी राक्षसों तथा महाबली रीछोंके साथ बड़े आनन्दसे समय बिताते थे ॥ २८ ॥
अनुवाद (कन्नड)
श्रीरामनू कूड कामरूपिगळाद वानररॊन्दिगॆ, महापराक्रमि राक्षसरॊन्दिगॆ हागू महाबली करडिगळॊन्दिगॆ आनन्ददिन्द समय कळॆयुत्तिद्दनु.॥28॥
विश्वास-प्रस्तुतिः
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ २९ ॥
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ ३० ॥
सर्वाष् टीकाः
मूलम्
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ २९ ॥
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ ३० ॥
अनुवाद (हिन्दी)
इस तरह उनका शिशिर-ऋतुका दूसरा महीना भी सुखपूर्वक बीत गया । इक्ष्वाकुवंशी नरेशोंकी उस सुरम्य राजधानीमें वे वानर और राक्षस बड़े हर्ष और प्रेमसे रहते थे । श्रीरामके प्रेमपूर्वक सत्कारसे उनका वह समय सुखपूर्वक बीत रहा था ॥ २९-३० ॥
अनुवाद (कन्नड)
हीगॆ अवर शिशिरऋतुविन इन्नॊन्दु तिङ्गळू सुखवागि कळॆयितु. इक्ष्वाकुवंशी राजर आ सुरम्य राजधानियल्लि आ वानर, राक्षसरु बहळ हर्ष मत्तु प्रेमदिन्द इरुत्तिद्दरु. श्रीरामन प्रेमपूर्वक सत्कारदिन्द अवर आ समय सुखवागि कळॆयुत्तित्तु.॥29-30॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें उनतालीसवाँ सर्ग पूरा हुआ ॥ ३९ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तरकाण्डदल्लि मूवत्तॊम्भत्तनॆय सर्ग पूर्णवायितु.॥39॥