[अष्टाविंशः सर्गः]
सर्वाष् टीकाः
भागसूचना
- मेघनाद और जयन्तका युद्ध, पुलोमाका जयन्तको अन्यत्र ले जाना, देवराज इन्द्रका युद्धभूमिमें पदार्पण, रुद्रों तथा मरुद्गणोंद्वारा राक्षससेनाका संहार और इन्द्र तथा रावणका युद्ध
विश्वास-प्रस्तुतिः
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।
स्वसैन्यं विद्रुतं चापि लक्षयित्वार्दितं सुरैः ॥ १ ॥
ततः स बलवान् क्रुद्धो रावणस्य सुतस्तदा ।
निवर्त्य राक्षसान् सर्वान् मेघनादो व्यवस्थितः ॥ २ ॥
सर्वाष् टीकाः
मूलम्
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।
स्वसैन्यं विद्रुतं चापि लक्षयित्वार्दितं सुरैः ॥ १ ॥
ततः स बलवान् क्रुद्धो रावणस्य सुतस्तदा ।
निवर्त्य राक्षसान् सर्वान् मेघनादो व्यवस्थितः ॥ २ ॥
अनुवाद (हिन्दी)
सुमाली मारा गया, वसुने उसके शरीरको भस्म कर दिया और देवताओंसे पीड़ित होकर मेरी सेना भागी जा रही है, यह देख रावणका बलवान् पुत्र मेघनाद कुपित हो समस्त राक्षसोंको लौटाकर देवताओंसे लोहा लेनेके लिये स्वयं खड़ा हुआ ॥ १-२ ॥
अनुवाद (कन्नड)
सुमालियु वसुविनिन्द भस्मवादुदन्नू, तन्न सैन्यवु ओडिहोगुत्तिरुवुदन्नू नोडि महाबल शालियाद रावण पुत्र मेघनादनु ऎल्ल सैनिकरन्नु हुरिदुम्बिसुत्ता हिन्दिरुगिसि युद्ध सन्नद्धनागि युद्धक्कॆ बन्दु निन्तनु.॥1-2॥
विश्वास-प्रस्तुतिः
स रथेनाग्निवर्णेन कामगेन महारथः ।
अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥
सर्वाष् टीकाः
मूलम्
स रथेनाग्निवर्णेन कामगेन महारथः ।
अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥
अनुवाद (हिन्दी)
वह महारथी वीर इच्छानुसार चलनेवाले अग्नितुल्य तेजस्वी रथपर आरूढ़ हो वनमें फैलानेवाले प्रज्वलित दावानलके समान उस देवसेनाकी ओर दौड़ा ॥ ३ ॥
अनुवाद (कन्नड)
आ महारथियु स्वेच्छॆयिन्द नडॆयुव अग्नितुल्य तेजस्वी रथवन्नेरि काडिनल्लि हरडुव काड्गिच्चिनन्तॆ देवसैन्यद कडॆगॆ धाविसिदनु.॥3॥
विश्वास-प्रस्तुतिः
ततः प्रविशतस्तस्य विविधायुधधारिणः ।
विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
ततः प्रविशतस्तस्य विविधायुधधारिणः ।
विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ४ ॥
अनुवाद (हिन्दी)
नाना प्रकारके आयुध धारण करके अपनी सेनामें प्रवेश करनेवाले उस मेघनादको देखते ही सब देवता सम्पूर्ण दिशाओंकी ओर भाग चले ॥ ४ ॥
अनुवाद (कन्नड)
नाना प्रकारद आयुधगळन्नु धरिसि तम्म सैन्यदल्लि प्रवेशिसुत्तिरुव मेघनादनन्नु नोडुत्तले देवतॆगळॆल्लरू दशदिक्कुगळिगॆ ओडिहोदरु.॥4॥
विश्वास-प्रस्तुतिः
न बभूव तदा कश्चिद् युयुत्सोरस्य सम्मुखे ।
सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रोऽब्रवीत् सुरान् ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
न बभूव तदा कश्चिद् युयुत्सोरस्य सम्मुखे ।
सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रोऽब्रवीत् सुरान् ॥ ५ ॥
अनुवाद (हिन्दी)
उस समय युद्धकी इच्छावाले मेघनादके सामने कोई भी खड़ा न हो सका । तब भयभीत हुए उन समस्त देवताओंको फटकारकर इन्द्रने उनसे कहा— ॥ ५ ॥
अनुवाद (कन्नड)
आग युद्धद इच्छॆयुळ्ळ मेघनादन ऎदुरिगॆ यारू निल्लदादरु. भयगॊण्ड समस्त देवतॆगळन्नु गदरिसि इन्द्रनु नुडिदनु.॥5॥
विश्वास-प्रस्तुतिः
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।
एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।
एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ६ ॥
न भेतव्यं न गन्तव्यं निवतर्र्ध्वं रणे सुराः ।
एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥
अनुवाद (हिन्दी)
‘देवताओ! भय न करो, युद्ध छोड़कर न जाओ और रणक्षेत्रमें लौट आओ । यह मेरा पुत्र जयन्त, जो कभी किसीसे परास्त नहीं हुआ है, युद्धके लिये जा रहा है’ ॥ ६ ॥
अनुवाद (कन्नड)
देवतॆगळिरा! भयपडबेडि, युद्धवन्नु बिट्टु होगदॆ रणरङ्गक्कॆ मरळि बन्नि. ऎन्दू यारिन्दलू सोलदिरुव ई नन्न पुत्र जयन्त युद्धक्कागि होगुत्तिद्दानॆ.॥6॥
विश्वास-प्रस्तुतिः
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।
रथेनाद्भुतकल्पेन सङ्ग्रामे सोऽभ्यवर्तत ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।
रथेनाद्भुतकल्पेन सङ्ग्रामे सोऽभ्यवर्तत ॥ ७ ॥
अनुवाद (हिन्दी)
तदनन्तर इन्द्रपुत्र जयन्तदेव अद्भुत सजावटसे युक्त रथपर आरूढ़ हो युद्धके लिये आया ॥ ७ ॥
अनुवाद (कन्नड)
बळिक इन्द्रपुत्र जयन्तनु अद्भुतवाद रथदल्लि कुळितु युद्धक्कागि आगमिसिदनु.॥7॥
विश्वास-प्रस्तुतिः
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।
रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।
रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ८ ॥
अनुवाद (हिन्दी)
फिर तो सब देवता शचीपुत्र जयन्तको चारों ओरसे घेरकर युद्धस्थलमें आये और रावणके पुत्रपर प्रहार करने लगे ॥ ८ ॥
अनुवाद (कन्नड)
मत्तॆ ऎल्ल देवतॆगळु जयन्तनन्नॊडगूडि युद्धरङ्गक्कॆ बन्दु रावण पुत्रनन्नु प्रहरिसतॊडगिदरु.॥8॥
विश्वास-प्रस्तुतिः
तेषां युद्धं समभवत् सदृशं देवरक्षसाम् ।
महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
तेषां युद्धं समभवत् सदृशं देवरक्षसाम् ।
महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥
अनुवाद (हिन्दी)
उस समय देवताओंका राक्षसोंके साथ और महेन्द्रकुमारका रावणपुत्रके साथ उनके बल-पराक्रमके अनुरूप युद्ध होने लगा ॥ ९ ॥
अनुवाद (कन्नड)
आग देवतॆगळु राक्षसरॊन्दिगॆ मत्तु महेन्द्रकुमारनु रावणपुत्रनॊडनॆ अवरवर बल पराक्रमक्कनुरूपवागि युद्ध माडतॊडगिदरु.॥9॥
विश्वास-प्रस्तुतिः
ततो मातलिपुत्रस्य गोमुखस्य स रावणिः ।
सारथेः पातयामास शरान् कनकभूषणान् ॥ १० ॥
सर्वाष् टीकाः
मूलम्
ततो मातलिपुत्रस्य गोमुखस्य स रावणिः ।
सारथेः पातयामास शरान् कनकभूषणान् ॥ १० ॥
अनुवाद (हिन्दी)
रावणकुमार मेघनाद जयन्तके सारथि मातलिपुत्र गोमुखपर सुवर्णभूषित बाणोंकी वर्षा करने लगा ॥ १० ॥
अनुवाद (कन्नड)
रावणकुमार मेघनादनु जयन्तन सारथि मातली पुत्र गोमुखन मेलॆ स्वर्णभूषित बाणगळ मळॆगरॆदनु.॥10॥
विश्वास-प्रस्तुतिः
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।
तं चापि रावणिः क्रुद्धः समन्तात् प्रत्यविध्यत ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।
तं चापि रावणिः क्रुद्धः समन्तात् प्रत्यविध्यत ॥ ११ ॥
अनुवाद (हिन्दी)
शचीपुत्र जयन्तने भी मेघनादके सारथिको घायल कर दिया । तब कुपित हुए मेघनादने जयन्तको भी सब ओरसे क्षत-विक्षत कर दिया ॥ ११ ॥
अनुवाद (कन्नड)
शचीपुत्र जयन्तनू कूड मेघनादन सारथियन्नु गायगॊळिसिदनु. आग कुपितनाद मेघनादनु जयन्तनन्नू कूड ऎल्ल कडॆगळिन्द बाणगळ मूलक क्षत-विक्षतगॊळिसिदनु.॥11॥
विश्वास-प्रस्तुतिः
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।
रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।
रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ १२ ॥
अनुवाद (हिन्दी)
उस समय क्रोधसे भरा हुआ बलवान् मेघनाद इन्द्रपुत्र जयन्तको आँखें फाड़-फाड़कर देखने और बाणोंकी वर्षासे पीड़ित करने लगा ॥ १२ ॥
अनुवाद (कन्नड)
आग क्रोधगॊण्ड बलिष्ठनाद मेघनादनु कण्णुगळन्नु अरळिसि नोडुत्ता जयन्तनन्नु बाणगळ वर्षदिन्द मुच्चिबिट्टनु.॥12॥
विश्वास-प्रस्तुतिः
ततो नानाप्रहरणाञ्छितधारान् सहस्रशः ।
पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
ततो नानाप्रहरणाञ्छितधारान् सहस्रशः ।
पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ १३ ॥
ततो नाना प्रहरणान् शितधारान्सहस्रशः ।
पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥
अनुवाद (हिन्दी)
अत्यन्त कुपित हुए रावणकुमारने देवताओंकी सेनापर भी तीखी धारवाले नाना प्रकारके सहस्रों अस्त्र-शस्त्र बरसाये ॥ १३ ॥
अनुवाद (कन्नड)
अत्यन्त कुपितनाद रावण कुमारनु देवतॆगळ सैन्यद मेलॆयू हरितवाद नाना रीतिय साविरारु अस्त्र-शस्त्रगळ मळॆगरॆदनु.॥13॥
विश्वास-प्रस्तुतिः
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।
महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।
महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ १४ ॥
अनुवाद (हिन्दी)
उसने शतघ्नी, मूसल, प्रास, गदा, खड्ग और फरसे गिराये तथा बड़े-बड़े पर्वत-शिखर भी चलाये ॥ १४ ॥
अनुवाद (कन्नड)
अवनु शतघ्नी, मुसल, प्रास, गदॆ, खड्ग, कॊडलिगळन्नु प्रयोगिसि, जॊतॆगॆ दॊड्ड-दॊड्ड पर्वत शिखरगळन्नु प्रयोगिसिदनु.॥14॥
विश्वास-प्रस्तुतिः
ततः प्रव्यथिताः लोकाः सञ्जज्ञे च तमस्ततः ।
तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
ततः प्रव्यथिताः लोकाः सञ्जज्ञे च तमस्ततः ।
तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ १५ ॥
अनुवाद (हिन्दी)
शत्रुसेनाओंके संहारमें लगे हुए रावणकुमारकी मायासे उस समय चारों ओर अन्धकार छा गया; अतः समस्त लोक व्यथित हो उठे ॥ १५ ॥
अनुवाद (कन्नड)
शत्रुसंहारदल्लि तॊडगिद रावणकुमारनु मायॆयिन्द आग ऎल्लॆडॆ कत्तलु कवियुवन्तॆ माडिदनु. इदरिन्द समस्त लोकगळु दुःखितवादुवु.॥15॥
विश्वास-प्रस्तुतिः
ततस्तद् दैवतबलं समन्तात् तं शचीसुतम् ।
बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
ततस्तद् दैवतबलं समन्तात् तं शचीसुतम् ।
बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ १६ ॥
अनुवाद (हिन्दी)
तब शचीकुमारके चारों ओर खड़ी हुई देवताओंकी वह सेना बाणोंद्वारा पीड़ित हो अनेक प्रकारसे अस्वस्थ हो गयी ॥ १६ ॥
अनुवाद (कन्नड)
आग शचीपुत्रन सुत्तलू निन्तिद्द देवतॆगळ सैन्यवु बाणगळिन्द पीडितवागि विषण्णवायितु.॥16॥
विश्वास-प्रस्तुतिः
नाभ्यजानन्त चान्योन्यं रक्षो वा देवताथवा ।
तत्र तत्र विपर्यस्तं समन्तात् परिधावत ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
नाभ्यजानन्त चान्योन्यं रक्षो वा देवताथवा ।
तत्र तत्र विपर्यस्तं समन्तात् परिधावत ॥ १७ ॥
अनुवाद (हिन्दी)
राक्षस और देवता आपसमें किसीको पहचान न सके । वे जहाँ-तहाँ बिखरे हुए चारों ओर चक्कर काटने लगे ॥ १७ ॥
अनुवाद (कन्नड)
राक्षसरु मत्तु देवतॆगळु परस्पर नोडलागदॆ ऎल्लॆडॆ चदुरिहोगि अलॆयतॊडगिदरु.॥17॥
विश्वास-प्रस्तुतिः
देवा देवान् निजघ्नुस्ते राक्षसान् राक्षसास्तथा ।
सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
देवा देवान् निजघ्नुस्ते राक्षसान् राक्षसास्तथा ।
सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ १८ ॥
अनुवाद (हिन्दी)
अन्धकारसे आच्छादित होकर वे विवेकशक्ति खो बैठे थे । अतः देवता देवताओंको और राक्षस राक्षसोंको ही मारने लगे तथा बहुतेरे योद्धा युद्धसे भाग खड़े हुए ॥ १८ ॥
अनुवाद (कन्नड)
अन्धकारदिन्द आच्छादितरागि अवरु विवेक शक्तियन्नु कळॆदुकॊण्डु देवतॆगळु देवतॆगळन्नु, राक्षसरु राक्षसरन्नु प्रहरिसतॊडगिदरु. अनेक योधरु युद्धदिन्द ओडिहोदरु.॥18॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् ।
दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रोऽपवाहितः ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् ।
दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रोऽपवाहितः ॥ १९ ॥
अनुवाद (हिन्दी)
इसी बीचमें पराक्रमी वीर दैत्यराज पुलोमा युद्धमें आया और शचीपुत्र जयन्तको पकड़कर वहाँसे दूर हटा ले गया ॥ १९ ॥
अनुवाद (कन्नड)
अष्टरल्लि पराक्रमी वीर दैत्यराज पुलोमा युद्धक्कॆ बन्दु शचीपुत्र जयन्तनन्नु हिडिदुकॊण्डु अल्लिन्द दूर कॊण्डुहोदनु.॥19॥
विश्वास-प्रस्तुतिः
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।
आर्यकः स हि तस्यासीत् पुलोमा येन सा शची ॥ २० ॥
सर्वाष् टीकाः
मूलम्
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।
आर्यकः स हि तस्यासीत् पुलोमा येन सा शची ॥ २० ॥
अनुवाद (हिन्दी)
वह शचीका पिता और जयन्तका नाना था, अतः अपने दौहित्रको लेकर समुद्रमें घुस गया ॥ २० ॥
अनुवाद (कन्नड)
अवनु शचिय तन्दॆ मत्तु जयन्तन तातनागिद्दनु. आद्दरिन्द तन्न मॊम्मगनन्नु करॆदुकॊण्डु समुद्रदॊळगॆ नुग्गिदनु.॥20॥
विश्वास-प्रस्तुतिः
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।
अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।
अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ २१ ॥
अनुवाद (हिन्दी)
देवताओंको जब जयन्तके गायब होनेकी बात मालूम हुई, तब उनकी सारी खुशी छिन गयी और वे दुःखी होकर चारों ओर भागने लगे ॥ २१ ॥
अनुवाद (कन्नड)
देवतॆगळिगॆ जयन्तनु कण्मरॆयादुदन्नु तिळिदाग अवर उत्साह उडुगि होयितु. अवरु दुःखितरागि दिक्कापालागि ओडतॊडगिदरु.॥21॥
विश्वास-प्रस्तुतिः
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः ।
अभ्यधावत देवांस्तान् मुमोच च महास्वनम् ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः ।
अभ्यधावत देवांस्तान् मुमोच च महास्वनम् ॥ २२ ॥
अनुवाद (हिन्दी)
उधर अपनी सेनाओंसे घिरे हुए रावणकुमार मेघनादने अत्यन्त कुपित हो देवताओंपर धावा किया और बड़े जोरसे गर्जना की ॥ २२ ॥
अनुवाद (कन्नड)
अत्त तन्न सैनिकरिन्द परिवृतनाद रावणकुमार मेघनादनु अत्यन्त कुपितनागि देवतॆगळन्नु आक्रमिसि जोरागि गर्जिसिदनु.॥22॥
विश्वास-प्रस्तुतिः
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।
मातलिं चाह देवेशो रथः समुपनीयताम् ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।
मातलिं चाह देवेशो रथः समुपनीयताम् ॥ २३ ॥
अनुवाद (हिन्दी)
पुत्र लापता हो गया और देवताओंकी सेनामें भगदड़ मच गयी है—यह देखकर देवराज इन्द्रने मातलिसे कहा—‘मेरा रथ ले आओ’ ॥ २३ ॥
अनुवाद (कन्नड)
पुत्रनु कण्मरॆयागि देवतॆगळ सैन्यदल्लि उण्टाद गॊन्दलवन्नु नोडि देवेन्द्रनु मातलिगॆ हेळिदनु - नन्न रथवन्नु सज्जुगॊळिसि तॆगॆदुकॊण्डु बा.॥23॥
विश्वास-प्रस्तुतिः
स तु दिव्यो महाभीमः सज्ज एव महारथः ।
उपस्थितो मातलिना वाह्यमानो महाजवः ॥ २४ ॥
सर्वाष् टीकाः
मूलम्
स तु दिव्यो महाभीमः सज्ज एव महारथः ।
उपस्थितो मातलिना वाह्यमानो महाजवः ॥ २४ ॥
अनुवाद (हिन्दी)
मातलिने एक सजा-सजाया महाभयङ्कर, दिव्य एवं विशाल रथ लाकर उपस्थित कर दिया । उसके द्वारा हाँका जानेवाला वह रथ बड़ा ही वेगशाली था ॥ २४ ॥
अनुवाद (कन्नड)
मातलियु ऒन्दु भयङ्कर दिव्य-विशालवाद रथवन्नु अलङ्करिसि तन्दु निल्लिसिदनु. मातलियु नडॆसुत्तिद्द आ रथवु महावेगशालियागित्तु.॥24॥
विश्वास-प्रस्तुतिः
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।
अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ २५ ॥
सर्वाष् टीकाः
मूलम्
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।
अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ २५ ॥
तत्रो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।
अग्रतो वायुचपला नेदुः परम निःस्वनाः ॥
अनुवाद (हिन्दी)
तदनन्तर उस रथपर बिजलीसे युक्त महाबली मेघ उसके अग्रभागमें वायुसे चञ्चल हो बड़े जोर-जोरसे गर्जना करने लगे ॥ २५ ॥
अनुवाद (कन्नड)
मिञ्चिनिन्द कूडिद महाबलिष्ठवाद मेघगळु आ रथद मुन्दॆ गाळिय हॊडॆतक्कॆ चञ्चलवागि जोरागि गर्जिसतॊडगिदवु.॥25॥
विश्वास-प्रस्तुतिः
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।
ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ २६ ॥
सर्वाष् टीकाः
मूलम्
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।
ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ २६ ॥
अनुवाद (हिन्दी)
देवेश्वर इन्द्रके निकलते ही नाना प्रकारके बाजे बज उठे, गन्धर्व एकाग्र हो गये और अप्सराओंके समूह नृत्य करने लगे ॥ २६ ॥
अनुवाद (कन्नड)
देवेश्वर इन्द्रनु हॊरटाग नाना रीतिय वाद्यगळु मॊळगिदवु, गन्धर्वरु हाडतॊडगिदरॆ, अप्सरॆयरु नृत्यमाडतॊडगिदरु.॥26॥
विश्वास-प्रस्तुतिः
रुद्रैर्वसुभिरादित्यैरश्विभ्यां समरुद्गणैः ।
वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २७ ॥
सर्वाष् टीकाः
मूलम्
रुद्रैर्वसुभिरादित्यैरश्विभ्यां समरुद्गणैः ।
वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २७ ॥
अनुवाद (हिन्दी)
तत्पश्चात् रुद्रों, वसुओं, आदित्यों, अश्विनीकुमारों और मरुद्गणोंसे घिरे हुए देवराज इन्द्र नाना प्रकारके अस्त्र-शस्त्र साथ लिये पुरीसे बाहर निकले ॥ २७ ॥
अनुवाद (कन्नड)
बळिक रुद्ररु, वसुगळु, आदित्यरु, अश्विनी कुमाररु, मरुद्गणरु इवरिन्द परिवृतनाद देवेन्द्रनु नाना रीतिय अस्त्र-शस्त्रगळॊन्दिगॆ अमरापुरियिन्द हॊरगॆ हॊरटनु.॥27॥
विश्वास-प्रस्तुतिः
निर्गच्छतस्तु शक्रस्य परुषः पवनो ववौ ।
भास्करो निष्प्रभश्चैव महोल्काश्च प्रपेदिरे ॥ २८ ॥
सर्वाष् टीकाः
मूलम्
निर्गच्छतस्तु शक्रस्य परुषः पवनो ववौ ।
भास्करो निष्प्रभश्चैव महोल्काश्च प्रपेदिरे ॥ २८ ॥
अनुवाद (हिन्दी)
इन्द्रके निकलते ही प्रचण्ड वायु चलने लगी । सूर्यकी प्रभा फीकी पड़ गयी और आकाशसे बड़ी-बड़ी उल्काएँ गिरने लगीं ॥ २८ ॥
अनुवाद (कन्नड)
इन्द्रनु हॊरडुत्तले प्रचण्ड वायु बीसितु. सूर्यनु मङ्कादनु. आकाशदिन्द ऎल्लॆडॆ उल्कॆगळु बीळतॊडगिदवु.॥28॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।
आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ २९ ॥
सर्वाष् टीकाः
मूलम्
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।
आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ २९ ॥
अनुवाद (हिन्दी)
इसी बीचमें प्रतापी वीर दशग्रीव भी विश्वकर्माके बनाये हुए दिव्य रथपर सवार हुआ ॥ २९ ॥
अनुवाद (कन्नड)
आगले प्रतापी वीर दशग्रीवनू कूड विश्वकर्मनिन्द निर्मित दिव्यरथवन्नु हत्तिदनु.॥29॥
विश्वास-प्रस्तुतिः
पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः ।
येषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ ३० ॥
सर्वाष् टीकाः
मूलम्
पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः ।
येषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ ३० ॥
अनुवाद (हिन्दी)
उस रथमें रोंगटे खड़े कर देनेवाले विशालकाय सर्प लिपटे हुए थे । उनकी निःश्वास-वायुसे वह रथ उस युद्धस्थलमें ज्वलित-सा जान पड़ता था ॥ ३० ॥
अनुवाद (कन्नड)
अवन रथदल्लि रोमाञ्चकर विशालकाय सर्पगळु सुत्तिकॊण्डिद्दवु. अवुगळ उसुरिन गाळियिन्द आ रथवु युद्धरङ्गदल्लि उरियुत्तिदॆये ऎन्दु अनिसुत्तित्तु.॥30॥
विश्वास-प्रस्तुतिः
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः ।
समराभिमुखो दिव्यो महेन्द्रं सोऽभ्यवर्तत ॥ ३१ ॥
सर्वाष् टीकाः
मूलम्
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः ।
समराभिमुखो दिव्यो महेन्द्रं सोऽभ्यवर्तत ॥ ३१ ॥
अनुवाद (हिन्दी)
दैत्यों और निशाचरोंने उस रथको सब ओरसे घेर रखा था । समराङ्गणकी ओर बढ़ता हुआ रावणका वह दिव्य रथ महेन्द्रके सामने जा पहुँचा ॥ ३१ ॥
अनुवाद (कन्नड)
दैत्यरु मत्तु निशाचररु आ रथवन्नु सुत्तुवरॆदिद्दरु. समराङ्गणक्कॆ हॊरट रावणन आ दिव्यरथवु महेन्द्रन ऎदुरिगॆ बन्दितु.॥31॥
विश्वास-प्रस्तुतिः
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।
सोऽपि युद्धाद् विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३२ ॥
सर्वाष् टीकाः
मूलम्
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।
सोऽपि युद्धाद् विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३२ ॥
अनुवाद (हिन्दी)
रावण अपने पुत्रको रोककर स्वयं ही युद्धके लिये खड़ा हुआ । तब रावणपुत्र मेघनाद युद्धस्थलसे निकलकर चुपचाप अपने रथपर जा बैठा ॥ ३२ ॥
अनुवाद (कन्नड)
रावणनु तन्न पुत्रनन्नु तडॆदु स्वतः युद्धक्कॆ सिद्धनादनु. आग रावणपुत्र मेघनादनु युद्धदिन्द हॊरटु होगि तन्न रथदल्लि कुळितिकॊण्डनु.॥32॥
विश्वास-प्रस्तुतिः
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।
शस्त्राणि वर्षतां तेषां मेघानामिव संयुगे ॥ ३३ ॥
सर्वाष् टीकाः
मूलम्
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।
शस्त्राणि वर्षतां तेषां मेघानामिव संयुगे ॥ ३३ ॥
अनुवाद (हिन्दी)
फिर तो देवताओंका राक्षसोंके साथ घोर युद्ध होने लगा । जलकी वर्षा करनेवाले मेघोंके समान देवता युद्धस्थलमें अस्त्र-शस्त्रोंकी वर्षा करने लगे ॥ ३३ ॥
अनुवाद (कन्नड)
मत्तॆ देवतॆगळ मत्तु राक्षसर घोर युद्ध नडॆयितु. मेघगळु मळॆ सुरिसुवन्तॆ देवतॆगळु युद्धदल्लि अस्त्र-शस्त्रगळ मळॆगरॆदरु.॥33॥
विश्वास-प्रस्तुतिः
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।
नाज्ञायत तदा राजन् युद्धं केनाभ्यपद्यत ॥ ३४ ॥
सर्वाष् टीकाः
मूलम्
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।
नाज्ञायत तदा राजन् युद्धं केनाभ्यपद्यत ॥ ३४ ॥
अनुवाद (हिन्दी)
राजन्! दुष्टात्मा कुम्भकर्ण नाना प्रकारके अस्त्र-शस्त्र लिये किसके साथ युद्ध करता था, इसका पता नहीं लगता था (अर्थात् मतवाला होनेके कारण अपने और पराये सभी सैनिकोंके साथ जूझने लगता था) ॥ ३४ ॥
अनुवाद (कन्नड)
राजने! दुष्टात्मा कुम्भकर्णनू नाना रीतिय अस्त्रशस्त्रगळिन्द यारॊडनॆ युद्ध माडुत्तिद्दनो तिळियुत्तिरलिल्ल. अर्थात् उन्मत्तनाद कारण तन्नवर परर सैन्यदॊन्दिगॆ कादाडुत्तिद्दनु.॥34॥
विश्वास-प्रस्तुतिः
दन्तैः पादैर्भुजैर्हस्तैः शक्तितोमरमुद्गरैः ।
येन तेनैव सङ्क्रुद्धस्ताडयामास देवताः ॥ ३५ ॥
सर्वाष् टीकाः
मूलम्
दन्तैः पादैर्भुजैर्हस्तैः शक्तितोमरमुद्गरैः ।
येन तेनैव सङ्क्रुद्धस्ताडयामास देवताः ॥ ३५ ॥
अनुवाद (हिन्दी)
वह अत्यन्त कुपित हो दाँत, लात, भुजा, हाथ, शक्ति, तोमर और मुद्गर आदि जो ही पाता उसीसे देवताओंको पीटता था ॥ ३५ ॥
अनुवाद (कन्नड)
अवनु अत्यन्त कुपितनागि हल्लु, ऒदॆ, भुज, कै, शक्ति, तोमर, मुद्गर मॊदलादवुगळु एनु सिगुवुदो अदरिन्दले देवतॆगळन्नु बडियुत्तिद्दनु.॥35॥
विश्वास-प्रस्तुतिः
स तु रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।
प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ ३६ ॥
सर्वाष् टीकाः
मूलम्
स तु रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।
प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ ३६ ॥
स तु रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।
प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रॆೖर्निरन्तरम् ॥
अनुवाद (हिन्दी)
वह निशाचर महाभयङ्कर रुद्रोंके साथ भिड़कर घोर युद्ध करने लगा । संग्राममें रुद्रोंने अपने अस्त्र-शस्त्रोंद्वारा उसे ऐसा क्षत-विक्षत कर दिया था कि उसके शरीरमें थोड़ी-सी भी जगह बिना घावके नहीं रह गयी थी ॥ ३६ ॥
अनुवाद (कन्नड)
आ निशाचरनु महाभयङ्कर रुद्ररॊन्दिगॆ घोरयुद्ध माडतॊडगिदनु. सङ्ग्रामदल्लि रुद्ररु तम्म अस्त्र-शस्त्रगळिन्द अवन इडी शरीरवन्नु क्षत-विक्षतगॊळिसिदरु.॥36॥
विश्वास-प्रस्तुतिः
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।
विद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७ ॥
सर्वाष् टीकाः
मूलम्
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।
विद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७ ॥
अनुवाद (हिन्दी)
कुम्भकर्णका शरीर शस्त्रोंसे व्याप्त हो खूनकी धारा बहा रहा था । उस समय वह बिजली तथा गर्जनासे युक्त जलकी धारा गिरानेवाले मेघके समान जान पड़ता था ॥
अनुवाद (कन्नड)
कुम्भकर्णन शरीरवु शस्त्रगळिन्द तुम्बिहोगि रक्तद हॊळॆये हरियुत्तित्तु. आग अवनु मिञ्चिनिन्द कूडिद, गर्जिसुत्तिरुव कप्पाद मोडदन्तॆ कण्डु बरुत्तिद्दनु.॥37॥
विश्वास-प्रस्तुतिः
ततस्तद् राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।
रणे विद्रावितं सर्वं नानाप्रहरणैस्तदा ॥ ३८ ॥
सर्वाष् टीकाः
मूलम्
ततस्तद् राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।
रणे विद्रावितं सर्वं नानाप्रहरणैस्तदा ॥ ३८ ॥
अनुवाद (हिन्दी)
तदनन्तर घोर युद्धमें लगी हुई उस सारी राक्षससेनाको रणभूमिमें नाना प्रकारके अस्त्र-शस्त्र धारण करनेवाले रुद्रों और मरुद्गणोंने मार भगाया ॥ ३८ ॥
अनुवाद (कन्नड)
बळिक घोर युद्धदल्लि तॊडगिद्द राक्षस सैन्यवन्नु युद्धरङ्गदल्लि नाना रीतिय अस्त्र-शस्त्रगळिन्द रुद्ररु मत्तु मरद्गणरु हॊडॆदु ओडिसिदरु.॥38॥
विश्वास-प्रस्तुतिः
केचिद् विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।
वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ३९ ॥
सर्वाष् टीकाः
मूलम्
केचिद् विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।
वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ३९ ॥
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।
वाहनेष्ववसक्ताश्च स्मिता एवापरे रणे ॥
अनुवाद (हिन्दी)
कितने ही निशाचर मारे गये । कितने ही कटकर धरतीपर लोटने और छटपटाने लगे और बहुत-से राक्षस प्राणहीन हो जानेपर भी उस रणभूमिमें अपने वाहनोंपर ही चिपटे रहे ॥ ३९ ॥
अनुवाद (कन्नड)
ऎष्टो निशाचररु सत्तुहोदरु, ऎष्टो जनरु शरीर तुण्डु-तुण्डुगळागि नॆलक्कॊरगिदरु. ऎष्टो राक्षसरु प्राणहीनरादरू तम्म वाहनक्कॆ अण्टिकॊण्डिद्दरु.॥39॥
विश्वास-प्रस्तुतिः
रथान् नागान् खरानुष्ट्रान् पन्नगांस्तुरगांस्तथा ।
शिशुमारान् वराहांश्च पिशाचवदनानपि ॥ ४० ॥
तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुत्थिताः ।
देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ ४१ ॥
सर्वाष् टीकाः
मूलम्
रथान् नागान् खरानुष्ट्रान् पन्नगांस्तुरगांस्तथा ।
शिशुमारान् वराहांश्च पिशाचवदनानपि ॥ ४० ॥
तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुत्थिताः ।
देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ ४१ ॥
अनुवाद (हिन्दी)
कुछ राक्षस रथों, हाथियों, गदहों, ऊँटों, सर्पों, घोड़ों, शिशुमारों, वराहों तथा पिशाचमुख वाहनोंको दोनों भुजाओंसे पकड़कर उनसे लिपटे हुए निश्चेष्ट हो गये थे । कितने ही जो पहलेसे मूर्छित होकर पड़े थे, मूर्च्छा दूर होनेपर उठे, किंतु देवताओंके शस्त्रोंसे छिन्न-भिन्न हो मौतके मुखमें चले गये ॥ ४०-४१ ॥
अनुवाद (कन्नड)
कॆलवु राक्षसरु रथ, आनॆ, कत्तॆ, ऒण्टॆ, सर्प, कुदुरॆ, शिशुमार, हन्दि, पिशाचमुख मुन्ताद वाहनगळन्नु अप्पिकॊण्डु निश्चेष्टितरागिद्दरु. ऎष्टो जनरु मॊदले मूर्छितरागिद्दु, मूर्छॆतळॆदु ऎद्दाग देवतॆगळ आयुधगळिन्द मृत्युमुखरादरु.॥40-41॥
विश्वास-प्रस्तुतिः
चित्रकर्म इवाभाति सर्वेषां रणसम्प्लवः ।
निहतानां प्रसुप्तानां राक्षसानां महीतले ॥ ४२ ॥
सर्वाष् टीकाः
मूलम्
चित्रकर्म इवाभाति सर्वेषां रणसम्प्लवः ।
निहतानां प्रसुप्तानां राक्षसानां महीतले ॥ ४२ ॥
अनुवाद (हिन्दी)
प्राणोंसे हाथ धोकर धरतीपर पड़े हुए उन समस्त राक्षसोंका इस तरह युद्धमें मारा जाना जादू-सा आश्चर्यजनक जान पड़ता था ॥ ४२ ॥
अनुवाद (कन्नड)
प्राणगळन्नु कळॆदुकॊण्डु नॆलक्कॆ बिद्द समस्त राक्षसरु ई रीतियागि युद्धदल्लि हतरादुदु इन्द्रजालदन्तॆ आश्चर्यजनकवागित्तु.॥42॥
विश्वास-प्रस्तुतिः
शोणितोदकनिष्पन्दा काकगृध्रसमाकुला ।
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४३ ॥
सर्वाष् टीकाः
मूलम्
शोणितोदकनिष्पन्दा काकगृध्रसमाकुला ।
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४३ ॥
अनुवाद (हिन्दी)
युद्धके मुहानेपर खूनकी नदी बह चली, जिसके भीतर अनेक प्रकारके शस्त्र ग्राहोंका भ्रम उत्पन्न करते थे । उस नदीके तटपर चारों ओर गीध और कौए छा गये थे ॥ ४३ ॥
अनुवाद (कन्नड)
युद्धरङ्गदल्लि रक्तद हॊळॆ हरिदवु, अदरल्लि अनेक रीतिय अस्त्र-शस्त्रगळु मॊसळॆगळो ऎम्ब भ्रमॆ उण्टागुत्तित्तु. आ रक्त नदिय दडदल्लि ऎल्लॆडॆ रणहद्दु, कागॆगळु आवरिसिकॊण्डिद्दवु.॥43॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।
निरीक्ष्य तु बलं सर्वं दैवतैर्विनिपातितम् ॥ ४४ ॥
सर्वाष् टीकाः
मूलम्
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।
निरीक्ष्य तु बलं सर्वं दैवतैर्विनिपातितम् ॥ ४४ ॥
अनुवाद (हिन्दी)
इसी बीचमें प्रतापी दशग्रीवने जब देखा कि देवताओंने हमारे समस्त सैनिकोंको मार गिराया है, तब उसके क्रोधकी सीमा न रही ॥ ४४ ॥
अनुवाद (कन्नड)
देवतॆगळु तम्म सैनिकरन्नु कॊन्दु हाकिदुदन्नु प्रतापि दशग्रीवनु नोडिदाग क्रोधदिन्द उरिदॆद्दनु.॥44॥
विश्वास-प्रस्तुतिः
स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् ।
त्रिदशान् समरे निघ्नन् शक्रमेवाभ्यवर्तत ॥ ४५ ॥
सर्वाष् टीकाः
मूलम्
स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् ।
त्रिदशान् समरे निघ्नन् शक्रमेवाभ्यवर्तत ॥ ४५ ॥
अनुवाद (हिन्दी)
वह समुद्रके समान दूरतक फैली हुई देवसेनामें घुस गया और समराङ्गणमें देवताओंको मारता एवं धराशायी करता हुआ तुरंत ही इन्द्रके सामने जा पहुँचा ॥ ४५ ॥
अनुवाद (कन्नड)
अवनु समुद्रदन्तॆ दूरदवरॆगॆ हरडि कॊण्डिद्द देवसैन्यवन्नु नुग्गि समराङ्गणदल्लि देवतॆगळन्नु कॊन्दु धराशायियागिसि, कूडले देवेन्द्रन मुन्दॆ बन्दनु.॥45॥
विश्वास-प्रस्तुतिः
ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् ।
यस्य विस्फारनिर्घोषैः स्तनन्ति स्म दिशो दश ॥ ४६ ॥
सर्वाष् टीकाः
मूलम्
ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् ।
यस्य विस्फारनिर्घोषैः स्तनन्ति स्म दिशो दश ॥ ४६ ॥
अनुवाद (हिन्दी)
तब इन्द्रने जोर-जोरसे टङ्कार करनेवाले अपने विशाल धनुषको खींचा । उसकी टङ्कार-ध्वनिसे दसों दिशाएँ प्रतिध्वनित हो उठीं ॥ ४६ ॥
अनुवाद (कन्नड)
आग इन्द्रनु जोरागि धनुष्टङ्कार माडिदनु. आ धनुष्टङ्कारद ध्वनि दशदिक्कुगळल्लियू प्रतिध्वनिसितु.॥46॥
विश्वास-प्रस्तुतिः
तद् विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।
पातयामास स शरान् पावकादित्यवर्चसः ॥ ४७ ॥
सर्वाष् टीकाः
मूलम्
तद् विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।
पातयामास स शरान् पावकादित्यवर्चसः ॥ ४७ ॥
तद्विकृष्य महच्चापिमिन्द्रो रावणमूर्धनि ।
पातयामास स शरान् पावकादित्यवर्चसः ॥
अनुवाद (हिन्दी)
उस विशाल धनुषको खींचकर इन्द्रने रावणके मस्तकपर अग्नि और सूर्यके समान तेजस्वी बाण मारे ॥ ४७ ॥
अनुवाद (कन्नड)
आ विशाल धनुस्सन्नु सॆळॆदु इन्द्रनु रावणन तलॆय मेलॆ सूर्याग्नियन्तह तेजस्वी बाणगळन्नु प्रयोगिसिदनु.॥47॥
विश्वास-प्रस्तुतिः
तथैव च महाबाहुर्दशग्रीवो निशाचरः ।
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४८ ॥
सर्वाष् टीकाः
मूलम्
तथैव च महाबाहुर्दशग्रीवो निशाचरः ।
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४८ ॥
अनुवाद (हिन्दी)
इसी प्रकार महाबाहु निशाचर दशग्रीवने भी अपने धनुषसे छूटे हुए बाणोंकी वर्षासे इन्द्रको ढक दिया ॥ ४८ ॥
अनुवाद (कन्नड)
हीगॆ महाबाहु निशाचर दशग्रीवनू कूड तन्न धनुस्सिनिन्द बिट्ट बाणवर्षदिन्द इन्द्रनन्नु मुच्चिबिट्टनु.॥48॥
विश्वास-प्रस्तुतिः
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।
नाज्ञायत तदा किञ्चित् सर्वं हि तमसा वृतम् ॥ ४९ ॥
सर्वाष् टीकाः
मूलम्
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।
नाज्ञायत तदा किञ्चित् सर्वं हि तमसा वृतम् ॥ ४९ ॥
अनुवाद (हिन्दी)
वे दोनों घोर युद्धमें तत्पर हो जब बाणोंकी वृष्टि करने लगे, उस समय सब ओर सब कुछ अन्धकारसे आच्छादित हो गया । किसीको किसी भी वस्तुकी पहचान नहीं हो पाती थी ॥ ४९ ॥
अनुवाद (कन्नड)
अवरिब्बरू युद्धदल्लि तत्पररागि बाणगळ मळॆगरॆदाग ऎल्लॆडॆ कत्तलु कवियितु. यारिगू एनू काणदायितु.॥49॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डेऽष्टाविंशः सर्गः ॥ २८ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें अट्ठाईसवाँ सर्ग पूरा हुआ ॥ २८ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि इप्पत्तॆण्टनॆय सर्ग पूर्णवायितु. ॥28॥