०१२ पौलस्त्य-विवाहः

[द्वादशः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. शूर्पणखा तथा रावण आदि तीनों भाइयोंका विवाह और मेघनादका जन्म
विश्वास-प्रस्तुतिः

राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभिः सहितस्तदा ।
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ १ ॥

सर्वाष् टीकाः
मूलम्

राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभिः सहितस्तदा ।
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ १ ॥

अनुवाद (हिन्दी)

(अगस्त्यजी कहते हैं—श्रीराम!) अपना अभिषेक हो जानेपर जब राक्षसराज रावण भाइयोंसहित लङ्कापुरीमें रहने लगा, तब उसे अपनी बहिन राक्षसी शूर्पणखाके ब्याहकी चिन्ता हुई ॥ १ ॥

अनुवाद (कन्नड)

(अगस्त्यरु हेळुत्तारॆ - श्रीरामा !) राक्षसेश्वर रावणनु पट्टाभिषेकवाद बळिक लङ्कापुरियल्लि इरतॊडगिदनु. आग सहोदरि शूर्पणखिय विवाहद चिन्तॆ उण्टायितु.॥1॥

विश्वास-प्रस्तुतिः

स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।
ददौ शूर्पणखां नाम विद्युज्जिह्वाय राक्षसः ॥ २ ॥

सर्वाष् टीकाः
मूलम्

स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।
ददौ शूर्पणखां नाम विद्युज्जिह्वाय राक्षसः ॥ २ ॥

अनुवाद (हिन्दी)

उस राक्षसने दानवराज विद्युज्जिह्वको, जो कालकाका पुत्र था, अपनी बहिन शूर्पणखा ब्याह दी ॥ २ ॥

अनुवाद (कन्नड)

आ रावणनु कालकॆय पुत्र दानवराज विज्युज्दिह्वनिगॆ तन्न तङ्गिय मदुवॆ माडिकॊट्टनु.॥2॥

विश्वास-प्रस्तुतिः

अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् ।
तत्रापश्यत् ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।
अपृच्छत् को भवानेको निर्मनुष्यमृगे वने ॥ ४ ॥
अनया मृगशावाक्ष्या कमर्थं सह तिष्ठसि ।

सर्वाष् टीकाः
मूलम्

अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् ।
तत्रापश्यत् ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।
अपृच्छत् को भवानेको निर्मनुष्यमृगे वने ॥ ४ ॥
अनया मृगशावाक्ष्या कमर्थं सह तिष्ठसि ।


अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् ।
तत्रा पश्यत्ततो राम मयं नाम दितेः सुतम् ॥ कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।
अपृच्छत्को भवानेको निर्मनुष्यमृगे वने ॥
अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ।

अनुवाद (हिन्दी)

श्रीराम! बहिनका ब्याह करके राक्षस रावण एक दिन स्वयं शिकार खेलनेके लिये वनमें घूम रहा था । वहाँ उसने दितिके पुत्र मयको देखा । उसके साथ एक सुन्दरी कन्या भी थी । उसे देखकर निशाचर दशग्रीवने पूछा—‘आप कौन हैं, जो मनुष्यों और पशुओंसे रहित इस सूने वनमें अकेले घूम रहे हैं? इस मृगनयनी कन्याके साथ आप यहाँ किस उद्देश्यसे निवास करते हैं?’ ॥ ३-४ १/२ ॥

अनुवाद (कन्नड)

श्रीरामा! तङ्गिय मदुवॆ माडि रावणनु ऒन्दु दिन बेटॆगागि काडिनल्लि तिरुगाडुत्तिद्दनु. अल्लि अवनु दितिपुत्र मयनन्नु नोडिदनु. अव नॊन्दिगॆ ओर्व सुन्दरि कन्यॆयू इद्दळु. अवनन्नु नोडि दशग्रीवनु केळिदनु - नीवु यारु? निर्जन वनवाद ई शून्यवनदल्लि अलॆयुत्तिरुवॆयल्ल! ई मृगनयनी कन्यॆय जॊतॆगॆ नीवु इल्लि याव उद्देशदिन्द वासिसुत्तिरुवॆ.॥3-4½॥

विश्वास-प्रस्तुतिः

मयस्तदाब्रवीद् राम पृच्छन्तं तं निशाचरम् ॥ ५ ॥
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं तव ।

सर्वाष् टीकाः
मूलम्

मयस्तदाब्रवीद् राम पृच्छन्तं तं निशाचरम् ॥ ५ ॥
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं तव ।

अनुवाद (हिन्दी)

श्रीराम! इस प्रकार पूछनेवाले उस निशाचरसे मय बोला—‘सुनो, मैं अपना सारा वृत्तान्त तुम्हें यथार्थरूपसे बता रहा हूँ ॥ ५ १/२ ॥

अनुवाद (कन्नड)

श्रीरामा! हीगॆ केळिद आ निशाचरनल्लि मयनु हेळुत्तानॆ - नानु नन्न ऎल्ल वृत्तान्तवन्नु यथार्थवागि तिळिसुत्तेनॆ, केळु.॥5½॥

विश्वास-प्रस्तुतिः

हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ॥ ६ ॥
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।
तस्यां सक्तमना ह्यासं दशवर्षशतान्यहम् ॥ ७ ॥
सा च दैवतकार्येण गता वर्षाश्चतुर्दश ।
तस्याः कृते च हेमायाः सर्वं हेममयं पुरम् ॥ ८ ॥
वज्रवैदूर्यचित्रं च मायया निर्मितं मया ।
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ॥ ६ ॥
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।
तस्यां सक्तमना ह्यासं दशवर्षशतान्यहम् ॥ ७ ॥
सा च दैवतकार्येण गता वर्षाश्चतुर्दश ।
तस्याः कृते च हेमायाः सर्वं हेममयं पुरम् ॥ ८ ॥
वज्रवैदूर्यचित्रं च मायया निर्मितं मया ।
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥ ९ ॥


हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ॥ दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ।
तस्यां सक्तमना ह्यासं दशवर्षशतान्यहम् ॥ सा चदैवतकार्येण गता वर्षाश्चतुर्दश ।
तस्याः कृते च हेमायाः सर्वं हेममयं पुरम् ॥ वज्रवैडूर्यचित्रं च मायया निर्मितं मया ।
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥

अनुवाद (हिन्दी)

‘तात! तुमने पहले कभी सुना होगा, स्वर्गमें हेमा नामसे प्रसिद्ध एक अप्सरा रहती है । उसे देवताओंने उसी प्रकार मुझे अर्पित कर दिया था, जैसे पुलोम दानवकी कन्या शची देवराज इन्द्रको दी गयी थीं । मैं उसीमें आसक्त होकर एक सहस्र वर्षोंतक उसके साथ रहा हूँ । एक दिन वह देवताओंके कार्यसे स्वर्गलोकको चली गयी, तबसे चौदह वर्ष बीत गये । मैंने उस हेमाके लिये मायासे एक नगरका निर्माण किया था, जो सम्पूर्णतः सोनेका बना है । हीरे और नीलमके संयोगसे वह विचित्र शोभा धारण करता है । उसीमें मैं अबतक उसके वियोगसे अत्यन्त दुःखी एवं दीन होकर रहता था ॥ ६—९ ॥

अनुवाद (कन्नड)

अय्या! स्वर्गदलि हेमा ऎम्ब प्रसिद्ध अप्सरॆ इद्दळॆन्दु, नीनु हिन्दॆ ऎन्दादरू केळिरबहुदु. प्रलोम दानवन कन्यॆ शचियन्नु देवेन्द्रनिगॆ कॊट्टन्तॆ, देवतॆगळु आकॆयन्नु ननगॆ अर्पिसिद्दरु. नानु आकॆयल्लि आसक्तनागि ऒन्दु साविरवर्ष आकॆयॊन्दिगॆ इद्दॆ. ऒन्दु दिन अवळु देवतॆगळ कार्यक्कागि स्वर्गक्कॆ होदळु, आगिनिन्द हदिनाल्कु वर्ष कळॆयितु. नानु आ हेमळिगागि मायॆयिन्द ऒन्दु नगरवन्नु पूर्ण बङ्गारदिन्द निर्मिसिद्दॆ. नील, वज्रगळिन्द अदु विचित्रवागि शोभिसुत्तित्तु. अदरल्ले नानु इष्टरवरॆगॆ आकॆय वियोगदिन्द अत्यन्त दीन, दुःखियागि इरुत्तिद्दॆ.॥6-9॥

विश्वास-प्रस्तुतिः

तस्माद् पुराद् दुहितरं गृहीत्वा वनमागतः ।
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥ १० ॥

सर्वाष् टीकाः
मूलम्

तस्माद् पुराद् दुहितरं गृहीत्वा वनमागतः ।
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥ १० ॥


तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ।
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥

अनुवाद (हिन्दी)

‘उसी नगरसे इस कन्याको साथ लेकर मैं वनमें आया हूँ । राजन्! यह मेरी पुत्री है, जो हेमाके गर्भमें ही पली है और उससे उत्पन्न होकर मेरे द्वारा पालित हो बड़ी हुई है ॥ १० ॥

अनुवाद (कन्नड)

अदे नगरदिन्द ई कन्यॆयॊन्दिगॆ नानु वनक्कॆ बन्दिद्देनॆ. राजने! इवळु नन्न मगळु, हेमाळ गर्भदिन्द हुट्टि नन्निन्द पालिसल्पट्टिरुवळु.॥10॥

विश्वास-प्रस्तुतिः

भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् ।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ११ ॥
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ।

सर्वाष् टीकाः
मूलम्

भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् ।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ११ ॥
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ।

अनुवाद (हिन्दी)

‘इसके साथ मैं इसके योग्य पतिकी खोज करनेके लिये आया हूँ । मानकी अभिलाषा रखनेवाले प्रायः सभी लोगोंके लिये कन्याका पिता होना कष्टकारक होता है । (क्योंकि इसके लिये कन्याके पिताको दूसरोंके सामने झुकना पड़ता है ।) कन्या सदा दो कुलोंको संशयमें डाले रहती है ॥ ११ १/२ ॥

अनुवाद (कन्नड)

ईकॆयॊन्दिगॆ इवळिगॆ योग्यपतियन्नु हुडुकुत्ता बन्दिरुवॆनु. सामान्यवागि कन्यापितृत्व कष्टकारकवागिरुत्तदॆ. (एकॆन्दरॆ कन्यॆय तन्दॆयु बेरॆयवर मुन्दॆ तलॆबागबेकागुत्तदॆ) कन्यॆयु सदा ऎरडु कुलगळन्नु संशयदल्लॆ हाकुवळु.॥11½॥

विश्वास-प्रस्तुतिः

पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ॥ १२ ॥
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।

सर्वाष् टीकाः
मूलम्

पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ॥ १२ ॥
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।

अनुवाद (हिन्दी)

‘तात! मेरी इस भार्या हेमाके गर्भसे दो पुत्र भी हुए हैं, जिनमें प्रथम पुत्रका नाम मायावी और दूसरेका दुन्दुभि है ॥ १२ १/२ ॥

अनुवाद (कन्नड)

अय्या! नन्न भार्यॆ हेमाळिन्द मायावी मत्तु दुन्दुभि ऎम्ब इब्बरु गण्डुमक्कळू हुट्टिरुवरु.॥12½॥

विश्वास-प्रस्तुतिः

एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ १३ ॥
त्वामिदानीं कथं तात जानीयां को भवानिति ।

सर्वाष् टीकाः
मूलम्

एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ १३ ॥
त्वामिदानीं कथं तात जानीयां को भवानिति ।


एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥
त्वमिदानीं कथं तात जानीयां को भवानिति ।

अनुवाद (हिन्दी)

तात! तुमने पूछा था, इसलिये मैंने इस तरह अपनी सारी बातें तुम्हें यथार्थरूपसे बता दीं । अब मैं यह जानना चाहता हूँ कि तुम कौन हो? यह मुझे किस तरह ज्ञात हो सकेगा?’ ॥ १३ १/२ ॥

अनुवाद (कन्नड)

अय्या! नीनु केळिद्दरिन्द नन्न ऎल्ल वृत्तान्तवन्नु यथार्थवागि तिळिसिद्देनॆ. नीनु यारु? ऎन्दु तिळियलु नानु बयसुत्तेनॆ.॥13½॥

विश्वास-प्रस्तुतिः

एवमुक्तं तु तद् रक्षो विनीतमिदमब्रवीत् ॥ १४ ॥
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।
मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

एवमुक्तं तु तद् रक्षो विनीतमिदमब्रवीत् ॥ १४ ॥
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।
मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ॥ १५ ॥

अनुवाद (हिन्दी)

मयासुरके इस प्रकार कहनेपर राक्षस रावण विनीतभावसे यों बोला—‘मैं पुलस्त्यके पुत्र विश्रवाका बेटा हूँ । मेरा नाम दशग्रीव है । मैं जिन विश्रवा मुनिसे उत्पन्न हुआ हूँ, वे ब्रह्माजीसे तीसरी पीढ़ीमें पैदा हुए हैं’ ॥ १४-१५ ॥

अनुवाद (कन्नड)

मयासुरनु हीगॆ केळिदाग रावणनु विनीतवागि हेळिदनु - नानु पुलस्त्यन पुत्र विश्रवस्सुविन मगनागिद्देनॆ. विश्रवस्सुविनिन्द हुट्टिद नानु ब्रह्मदेवरिन्द मूरनॆयवनागिद्देनॆ. नन्न हॆसरु रावणनॆन्दु.॥14-15॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।
महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ॥ १६ ॥
दातुं दुहितरं तस्मै रोचयामास तत्र वै ।

सर्वाष् टीकाः
मूलम्

एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।
महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ॥ १६ ॥
दातुं दुहितरं तस्मै रोचयामास तत्र वै ।

अनुवाद (हिन्दी)

श्रीराम! राक्षसराजके ऐसा कहनेपर दानव मय महर्षि विश्रवाके उस पुत्रका परिचय पाकर बहुत प्रसन्न हुआ और उसके साथ वहाँ उसने अपनी पुत्रीका विवाह कर देनेकी इच्छा की ॥ १६ १/२ ॥

अनुवाद (कन्नड)

श्रीरामा! राक्षसेश्वरनु हीगॆ हेळिदाग दानव मयनु महर्षि विश्रवस्सुविन आ पुत्रन परिचय पडॆदु बहळ सन्तोषगॊण्डु तन्न मगळ मदुवॆयन्नु आतनॊन्दिगॆ माडिकॊडलु इच्छिसिदनु.॥16½॥

विश्वास-प्रस्तुतिः

करेण तु करं तस्या ग्राहयित्वा मयस्तदा ॥ १७ ॥
प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।

सर्वाष् टीकाः
मूलम्

करेण तु करं तस्या ग्राहयित्वा मयस्तदा ॥ १७ ॥
प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।

अनुवाद (हिन्दी)

इसके बाद दैत्यराज मय अपनी बेटीका हाथ रावणके हाथमें देकर हँसता हुआ उस राक्षसराजसे इस प्रकार बोला— ॥ १७ १/२ ॥

अनुवाद (कन्नड)

बळिक दैत्यराज मयनु तन्न पुत्रिय कैयन्नु रावणन कैयल्लिट्टुकॊट्टु नगुत्ता आ राक्षस राजनल्लि इन्तॆन्दनु.॥17½॥

विश्वास-प्रस्तुतिः

इयं ममात्मजा राजन् हेमयाप्सरसा धृता ॥ १८ ॥
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ।

सर्वाष् टीकाः
मूलम्

इयं ममात्मजा राजन् हेमयाप्सरसा धृता ॥ १८ ॥
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ।

अनुवाद (हिन्दी)

‘राजन्! यह मेरी बेटी है, जिसे हेमा अप्सराने अपने गर्भमें धारण किया था । इसका नाम मन्दोदरी है । इसे तुम अपनी पत्नीके रूपमें स्वीकार करो’ ॥ १८ १/२ ॥

अनुवाद (कन्नड)

राजने! अप्सरॆय गर्भदल्लि धरिसिद ईकॆ नन्न मगळागिद्दाळॆ. इवळ हॆसरु मण्डोदरी. ईकॆयन्नु नीनु तन्न पत्नियागिसि स्वीकरिसु.॥18½॥

विश्वास-प्रस्तुतिः

बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ॥ १९ ॥
प्रज्वाल्य तत्र चैवाग्निमकरोत् पाणिसङ्ग्रहम् ।

सर्वाष् टीकाः
मूलम्

बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ॥ १९ ॥
प्रज्वाल्य तत्र चैवाग्निमकरोत् पाणिसङ्ग्रहम् ।

अनुवाद (हिन्दी)

श्रीराम! तब दशग्रीवने ‘बहुत अच्छा’ कहकर मयासुरकी बात मान ली । फिर वहाँ उसने अग्निको प्रज्वलित करके मन्दोदरीका पाणिग्रहण किया ॥ १९ १/२ ॥

अनुवाद (कन्नड)

श्रीरामा! आग दशग्रीवनु ‘हागे आगलि’ ऎन्दु हेळि मयासुरन मातन्नु ऒप्पिकॊण्डनु. मत्तॆ अल्लि अग्नियन्नु स्थापिसि मन्दॊदरिय पाणिग्रहण माडिदनु.॥19½॥

विश्वास-प्रस्तुतिः

स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ॥ २० ॥
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।

सर्वाष् टीकाः
मूलम्

स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ॥ २० ॥
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।

अनुवाद (हिन्दी)

रघुनन्दन! यद्यपि तपोधन विश्रवासे रावणको जो क्रूर-प्रकृति होनेका शाप मिला था, उसे मयासुर जानता था; तथापि रावणको ब्रह्माजीके कुलका बालक समझकर उसने उसको अपनी कन्या दे दी ॥ २० १/२ ॥

अनुवाद (कन्नड)

रघुनन्दन ! तपोधन विश्रवसनिन्द रावणनिगॆ क्रूरप्रकृतियवनागु ऎन्दु शपिसिद्दुदु मयासुर तिळिदिद्द; आदरू रावणनु ब्रह्मदेवर कुलद बालकनॆन्दु अवनिगॆ तन्न कन्यॆयन्नु कॊट्टिद्दनु.॥20½॥

विश्वास-प्रस्तुतिः

अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ॥ २१ ॥
परेण तपसा लब्धां जघ्निवाल्ँ लक्ष्मणं यया ।

सर्वाष् टीकाः
मूलम्

अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ॥ २१ ॥
परेण तपसा लब्धां जघ्निवाल्ँ लक्ष्मणं यया ।


अमोघां तस्य शक्तिं च प्रददौ परमाद्भुतम् ॥
परेण तपसा लब्धां जघ्निवां ल्लक्ष्मणं यया ।

अनुवाद (हिन्दी)

साथ ही उत्कृष्ट तपस्यासे प्राप्त हुई एक परम अद्भुत अमोघ शक्ति भी प्रदान की, जिसके द्वारा रावणने लक्ष्मणको घायल किया था ॥ २१ १/२ ॥

अनुवाद (कन्नड)

जॊतॆगॆ उत्तम तपस्सिनिन्द प्राप्तवाद ऒन्दु परमाद्भुत अमोघ शक्तियन्नु पडॆदिद्दनु. अदरिन्द रावणनु लक्ष्मणनन्नु गायगॊळिसिद्दनु.॥21½॥

विश्वास-प्रस्तुतिः

एवं स कृत्वा दारान् वै लङ्काया ईश्वरः प्रभुः ॥ २२ ॥
गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।

सर्वाष् टीकाः
मूलम्

एवं स कृत्वा दारान् वै लङ्काया ईश्वरः प्रभुः ॥ २२ ॥
गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।

अनुवाद (हिन्दी)

इस प्रकार दारपरिग्रह (विवाह) करके प्रभावशाली लङ्केश्वर रावण लङ्कापुरीमें गया और अपने दोनों भाइयोंके लिये भी दो भार्याएँ उनका विवाह कराकर ले आया ॥

अनुवाद (कन्नड)

हीगॆ विवाह माडिकॊण्डु प्रभावशाली लङ्केश्वर रावणनु लङ्कॆगॆ तॆरळि, तन्न इब्बरू तम्मन्दिरिगॆ मदुवॆ माडि इब्बरू पत्नियरन्नु करॆदुकॊण्डु बन्दनु.॥22½॥

विश्वास-प्रस्तुतिः

वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ॥ २३ ॥
तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।

सर्वाष् टीकाः
मूलम्

वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ॥ २३ ॥
तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ।

अनुवाद (हिन्दी)

विरोचनकुमार बलिकी दौहित्रीको, जिसका नाम वज्रज्वाला था, रावणने कुम्भकर्णकी पत्नी बनाया ॥ २३ १/२ ॥

अनुवाद (कन्नड)

विरोचनकुमार बलिय मॊम्मगळु वज्रज्वाला ऎम्बुवळन्नु कुम्भकर्णनिगागि पत्नियागिसिदनु.॥23½॥

विश्वास-प्रस्तुतिः

गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ॥ २४ ॥
सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।

सर्वाष् टीकाः
मूलम्

गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ॥ २४ ॥
सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ।

अनुवाद (हिन्दी)

गन्धर्वराज महात्मा शैलूषकी कन्या सरमाको, जो धर्मके तत्त्वको जाननेवाली थी, विभीषणने अपनी पत्नीके रूपमें प्राप्त किया ॥ २४ १/२ ॥

अनुवाद (कन्नड)

गन्धर्वराज महात्मा शैलूषन कन्यॆ सरमॆयन्नु धर्मज्ञनाद विभीषणनिगॆ मदुवॆ माडिदनु.॥24½॥

विश्वास-प्रस्तुतिः

तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि ॥ २५ ॥
सरस्तदा मानसं तु ववृधे जलदागमे ।
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ॥ २६ ॥
सरो मा वर्धयस्वेति ततः सा सरमाभवत् ।

सर्वाष् टीकाः
मूलम्

तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि ॥ २५ ॥
सरस्तदा मानसं तु ववृधे जलदागमे ।
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ॥ २६ ॥
सरो मा वर्धयस्वेति ततः सा सरमाभवत् ।

अनुवाद (हिन्दी)

वह मानसरोवरके तटपर उत्पन्न हुई थी । जब उसका जन्म हुआ, उस समय वर्षा-ऋतुका आगमन होनेसे मान-सरोवर बढ़ने लगा । तब उस कन्याकी माताने पुत्रीके स्नेहसे करुणक्रन्दन करते हुए उस सरोवरसे कहा—‘सरो मा वर्धयस्व’ (हे सरोवर! तुम अपने जलको बढ़ने न दो) । उसने घबराहटमें ‘सरः मा’ ऐसा कहा था; इसलिये उस कन्याका नाम सरमा हो गया ॥ २५-२६ १/२ ॥

अनुवाद (कन्नड)

आ सरमॆयु मानस सरोवरद तीरदल्लि हुट्टिद्दळु. अवळु हुट्टुवाग वर्षाऋतुवि निन्दागि मानस सरोवर उक्कतॊडगितु. आग ई कन्यॆय तायि सरोवरदल्लि बेडिकॊण्डळु - ‘सरोमा वर्धयस्व’ (हे सरोवरवे ! नीनु बॆळॆयबेड) ऎन्दु हेळबेकागित्तु, आदरॆ गाबरियिन्द ‘सरः मा’ ऎन्दु हेळिदळु. अदरिन्द आ कन्यॆय हॆसरु सरमा ऎन्दायितु.॥25-26½॥

विश्वास-प्रस्तुतिः

एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ॥ २७ ॥
स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने ।

सर्वाष् टीकाः
मूलम्

एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ॥ २७ ॥
स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने ।


एवं ते कृतदारा वै रेमीरे तत्र राक्षसाः ॥
स्वां स्वां भार्यामुपादय गन्धर्वा इव नन्दने ।

अनुवाद (हिन्दी)

इस प्रकार वे तीनों राक्षस विवाहित होकर अपनी-अपनी स्त्रीको साथ ले नन्दनवनमें विहार करनेवाले गन्धर्वोंके समान लङ्कामें सुखपूर्वक रमण करने लगे ॥

अनुवाद (कन्नड)

हीगॆ आ मूवरू राक्षसरु विवाहितरागि तम्म- तम्म पत्नियरॊन्दिगॆ नन्दनवनदल्लि विहरिसुव गन्धर्वरन्तॆ लङ्कॆयल्लि रमिसतॊडगिदरु.॥27½॥

विश्वास-प्रस्तुतिः

ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ॥ २८ ॥
स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।

सर्वाष् टीकाः
मूलम्

ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ॥ २८ ॥
स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ।

अनुवाद (हिन्दी)

तदनन्तर कुछ कालके बाद मन्दोदरीने अपने पुत्र मेघनादको जन्म दिया, जिसे आपलोग इन्द्रजित् के नामसे पुकारते थे ॥ २८ १/२ ॥

अनुवाद (कन्नड)

अनन्तर कॆल कालदल्लि मन्दोदरियु मेघनादनिगॆ जन्मवित्तळु, अवनन्नु जनरु इन्द्रजितु ऎन्दू करॆयुत्तिद्दरु.॥28½॥

विश्वास-प्रस्तुतिः

जातमात्रेण हि पुरा तेन रावणसूनुना ॥ २९ ॥
रुदता सुमहान् मुक्तो नादो जलधरोपमः ।

सर्वाष् टीकाः
मूलम्

जातमात्रेण हि पुरा तेन रावणसूनुना ॥ २९ ॥
रुदता सुमहान् मुक्तो नादो जलधरोपमः ।

अनुवाद (हिन्दी)

पूर्वकालमें उस रावणपुत्रने पैदा होते ही रोते-रोते मेघके समान गम्भीर नाद किया था ॥ २९ १/२ ॥

अनुवाद (कन्नड)

आ रावणपुत्रनु हुट्टुत्तले अळुवाग मेघदन्तॆ गम्भीर नाद माडिद्दनु.॥29½॥

विश्वास-प्रस्तुतिः

जडीकृता च सा लङ्का तस्य नादेन राघव ॥ ३० ॥
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।

सर्वाष् टीकाः
मूलम्

जडीकृता च सा लङ्का तस्य नादेन राघव ॥ ३० ॥
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ।

अनुवाद (हिन्दी)

रघुनन्दन! उस मेघतुल्य नादसे सारी लङ्का जडवत् स्तब्ध रह गयी थी; इसलिये पिता रावणने स्वयं ही उसका नाम मेघनाद रखा ॥ ३० १/२ ॥

अनुवाद (कन्नड)

रघुनन्दन! आ मेघदन्तह नाददिन्द इडी लङ्कॆ जडदन्तॆ स्थब्दवागित्तु; अदरिन्द रावणने स्वतः अवन हॆसरु मेघनादनॆन्दु इट्टनु.॥30½॥

विश्वास-प्रस्तुतिः

सोऽवर्धत तदा राम रावणान्तःपुरे शुभे ॥ ३१ ॥
रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।
मातापित्रोर्महाहर्षं जनयन् रावणात्मजः ॥ ३२ ॥

सर्वाष् टीकाः
मूलम्

सोऽवर्धत तदा राम रावणान्तःपुरे शुभे ॥ ३१ ॥
रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।
मातापित्रोर्महाहर्षं जनयन् रावणात्मजः ॥ ३२ ॥


सोऽवर्धत तदा राम रावणान्तःपुरे शुभे ॥ रक्षमाणो वरस्त्रीभिश्फन्नः काष्ठैरिवानलः ।
मातापित्रोर्महाहर्षं जनयन् रावणात्मजः ॥

अनुवाद (हिन्दी)

श्रीराम! उस समय वह रावणकुमार रावणके सुन्दर अन्तःपुरमें माता-पिताको महान् हर्ष प्रदान करता हुआ श्रेष्ठ नारियोंसे सुरक्षित हो काष्ठसे आच्छादित हुई अग्निके समान बढ़ने लगा ॥ ३१-३२ ॥

अनुवाद (कन्नड)

श्रीरामा! आग आ रावण कुमारनु रावणन सुन्दर अन्तःपुरदल्लि तन्दॆ-तायियरिगॆ हर्षवन्नुण्टु माडुत्ता श्रेष्ठनारियरिन्द सुरक्षितनागि कट्टिगॆयल्लि अडगिद बॆङ्कियन्तॆ बॆळॆदनु.॥31-32॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः ॥ १२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें बारहवाँ सर्ग पूरा हुआ ॥ १२ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि हन्नॆरडनॆय सर्ग पूर्णवायितु. ॥12॥