०१० पौलस्त्य-वर-दानम्

[दशमः सर्गः]

सर्वाष् टीकाः
भागसूचना
  1. रावण आदिकी तपस्या और वर-प्राप्ति
विश्वास-प्रस्तुतिः

अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।
कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ १ ॥

सर्वाष् टीकाः
मूलम्

अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।
कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ १ ॥


अथाब्रमीन्मुनिं रामः कथं ते भ्रातरो वने ।
कीदृशन्तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥

अनुवाद (हिन्दी)

इतनी कथा सुनकर श्रीरामचन्द्रजीने अगस्त्य मुनिसे पूछा—‘ब्रह्मन्! उन तीनों महाबली भाइयोंने वनमें किस प्रकार और कैसी तपस्या की?’ ॥ १ ॥

अनुवाद (कन्नड)

इल्लियवरॆगिन कथॆ केळि श्रीरामनु अगस्त्यरल्लि केळिदनु - ब्राह्मण श्रेष्ठरे! आ मूवरू महाबलि राक्षसरु वनदल्लि हेगॆ तपस्सु माडुत्तिद्दरु.॥1॥

विश्वास-प्रस्तुतिः

अगस्त्यस्त्वब्रवीत् तत्र रामं सुप्रीतमानसम् ।
तांस्तान् धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

अगस्त्यस्त्वब्रवीत् तत्र रामं सुप्रीतमानसम् ।
तांस्तान् धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ २ ॥

अनुवाद (हिन्दी)

तब अगस्त्यजीने अत्यन्त प्रसन्नचित्तवाले श्रीरामसे कहा—‘रघुनन्दन! उन तीनों भाइयोंने वहाँ पृथक्-पृथक् धर्मविधियोंका अनुष्ठान किया ॥ २ ॥

अनुवाद (कन्नड)

अत्यन्त प्रसन्नचित्तराद अगस्त्यरु श्रीरामनल्लि हेळिदरु- रघुनन्दन! आ मूवरू सहोदररू बेरॆ-बेरॆ धर्मविधिगळन्नु अनुष्ठान माडिदरु.॥2॥

विश्वास-प्रस्तुतिः

कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।
तताप ग्रीष्मकाले तु पञ्चाग्नीन् परितः स्थितः ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।
तताप ग्रीष्मकाले तु पञ्चाग्नीन् परितः स्थितः ॥ ३ ॥


कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।
तताप ग्रीष्मकाले तु पञ्चाग्नीन् परितं स्थितः ॥

अनुवाद (हिन्दी)

‘कुम्भकर्ण अपनी इन्द्रियोंको संयममें रखकर प्रतिदिन धर्मके मार्गमें स्थित हो गर्मीके दिनोंमें अपने चारों ओर आग जला धूपमें बैठकर पञ्चाग्निका सेवन करने लगा ॥ ३ ॥

विश्वास-प्रस्तुतिः

मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।
नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।
नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ४ ॥

अनुवाद (हिन्दी)

‘फिर वर्षा-ऋतुमें खुले मैदानमें वीरासनसे बैठकर मेघोंके बरसाये हुए जलसे भीगता रहा और जाड़ेके दिनोंमें प्रतिदिन जलके भीतर रहने लगा ॥ ४ ॥

अनुवाद (कन्नड)

कुम्भकर्णनु तन्न इन्द्रियगळन्नु नियन्त्रिसि प्रतिदिन धर्ममार्गदल्लि स्थितनागि बेसिगॆयल्लि पञ्चाग्निगळ नडुवॆ कुळितु घोर तपस्सन्नाचरिसिदनु.॥3-4॥

विश्वास-प्रस्तुतिः

एवं वर्षसहस्राणि दश तस्यापचक्रमुः ।
धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

एवं वर्षसहस्राणि दश तस्यापचक्रमुः ।
धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ५ ॥

अनुवाद (हिन्दी)

‘इस प्रकार सन्मार्गमें स्थित हो धर्मके लिये प्रयत्नशील हुए उस कुम्भकर्णके दस हजार वर्ष बीत गये ॥ ५ ॥

अनुवाद (कन्नड)

मत्तॆ मळॆगालदल्लि बयलल्लि वीरासनदल्लि कुळितु मळॆ नीरिनल्लि नॆनॆयुत्ता, चळिगालदल्लि नीरिनल्लि मुळुगि तपस्सु माडुत्तिद्दनु.॥5॥

विश्वास-प्रस्तुतिः

विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ६ ॥

अनुवाद (हिन्दी)

‘विभीषण तो सदासे ही धर्मात्मा थे । वे नित्य धर्मपरायण रहकर शुद्ध आचार-विचारका पालन करते हुए पाँच हजार वर्षोंतक एक पैरसे खड़े रहे ॥ ६ ॥

अनुवाद (कन्नड)

विभीषणनु सदा धर्मात्मनागिद्दनु. अवनु नित्य धर्म परायणनागि, शुद्ध आचार विचार पालिसुत्ता ऐदुसाविर वर्ष ऒण्टि कालिनल्लि निन्तु तपस्सु माडिदनु.॥6॥

विश्वास-प्रस्तुतिः

समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।
पपात पुष्पवर्षं च तुष्टुवुश्चापि देवताः ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।
पपात पुष्पवर्षं च तुष्टुवुश्चापि देवताः ॥ ७ ॥

अनुवाद (हिन्दी)

‘उनका नियम समाप्त होनेपर अप्सराएँ नृत्य करने लगीं । उनके ऊपर आकाशसे फूलोंकी वर्षा हुई और देवताओंने उनकी स्तुति की ॥ ७ ॥

अनुवाद (कन्नड)

अवन नियम समाप्तवादाग अप्सरॆयरु नृत्यमाडतॊडगिदरु. अवन मेलॆ आकाशदिन्द हूविन मळॆ सुरियितु हागू देवतॆगळु विभीषणनन्नु स्तुतिसिदरु.॥7॥

विश्वास-प्रस्तुतिः

पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।
तस्थौ चोर्ध्वशिरोबाहुः स्वाध्याये धृतमानसः ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।
तस्थौ चोर्ध्वशिरोबाहुः स्वाध्याये धृतमानसः ॥ ८ ॥

अनुवाद (हिन्दी)

‘तदनन्तर विभीषणने अपनी दोनों बाँहें और मस्तक ऊपर उठाकर स्वाध्यायपरायण हो पाँच हजार वर्षोंतक सूर्यदेवकी आराधना की ॥ ८ ॥

अनुवाद (कन्नड)

अनन्तर विभीषणनु ऎरडू कैगळन्नु मेलक्कॆत्ति, स्वाध्याय परायणनागि ऐदुसाविर वर्ष सूर्य नारायणनन्नु आराधिसिदनु.॥8॥

विश्वास-प्रस्तुतिः

एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।
दशवर्षसहस्राणि गतानि नियतात्मनः ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।
दशवर्षसहस्राणि गतानि नियतात्मनः ॥ ९ ॥

अनुवाद (हिन्दी)

‘इस प्रकार मनको वशमें रखनेवाले विभीषणके भी दस हजार वर्ष बड़े सुखसे बीते, मानो वे स्वर्गके नन्दनवनमें निवास करते हों ॥ ९ ॥

अनुवाद (कन्नड)

हीगॆ मनस्सन्नु वशकॊण्ड विभीषणनू कूड हत्तुसाविर वर्ष स्वर्गद नन्दनवनदल्लि इरुवन्तॆ सुखवागि कळॆदनु.॥9॥

विश्वास-प्रस्तुतिः

दशवर्षसहस्रं तु निराहारो दशाननः ।
पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ १० ॥

सर्वाष् टीकाः
मूलम्

दशवर्षसहस्रं तु निराहारो दशाननः ।
पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ १० ॥

अनुवाद (हिन्दी)

‘दशमुख रावणने दस हजार वर्षोंतक लगातार उपवास किया । प्रत्येक सहस्र वर्षके पूर्ण होनेपर वह अपना एक मस्तक काटकर आगमें होम देता था ॥ १० ॥

अनुवाद (कन्नड)

दशमुखनू हत्तुसाविर वर्षगळु ऒन्दे समनॆ उपवास माडिदनु. प्रतियॊन्दु साविर वर्ष पूर्णवादाग अवनु तन्न ऒन्दु मस्तकवन्नु कडिदु अग्नियल्लि आहुति कॊडुत्तिद्दनु.॥10॥

विश्वास-प्रस्तुतिः

एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।
शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।
शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ११ ॥

अनुवाद (हिन्दी)

‘इस तरह एक-एक करके उसके नौ हजार वर्ष बीत गये और नौ मस्तक भी अग्निदेवको भेंट हो गये ॥

अनुवाद (कन्नड)

हीगॆ माडुत्ता ऒम्भत्तु साविर वर्ष कळॆयितु हागू ऒम्भत्तु तलॆगळन्नु अग्निगॆ अर्पिसिदनु.॥11॥

विश्वास-प्रस्तुतिः

अथ वर्षसहस्रे तु दशमे दशमं शिरः ।
छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

अथ वर्षसहस्रे तु दशमे दशमं शिरः ।
छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥ १२ ॥


अथ वर्ष सहस्रे तु दशमे दशमं शिरः ।
छेत्तुकामे धशग्रीवे प्राप्तस्तत्र पितामहः ॥

अनुवाद (हिन्दी)

‘जब दसवाँ सहस्र पूरा हुआ और दशग्रीव अपना दसवाँ मस्तक काटनेको उद्यत हुआ, इसी समय पितामह ब्रह्माजी वहाँ आ पहुँचे ॥ १२ ॥

अनुवाद (कन्नड)

हत्तनॆय साविर वर्ष पूर्णवादाग दशग्रीवनु तन्न हत्तनॆय मस्तकवन्नु कडियलु मुन्दादाग पितामह ब्रह्मदेवरु अल्लिगॆ आगमिसिदरु.॥12॥

विश्वास-प्रस्तुतिः

पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।
तव तावद् दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ १३ ॥

सर्वाष् टीकाः
मूलम्

पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।
तव तावद् दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ १३ ॥

अनुवाद (हिन्दी)

‘पितामह ब्रह्मा अत्यन्त प्रसन्न होकर देवताओंके साथ वहाँ पहुँचे थे । उन्होंने आते ही कहा—दशग्रीव! मैं तुमपर बहुत प्रसन्न हूँ ॥ १३ ॥

अनुवाद (कन्नड)

पितामह ब्रह्मदेवरु अत्यन्त प्रसन्नरागि देवतॆगळॊन्दिगॆ अल्लिगॆ बन्दिद्दरु. अवरु बन्दाक्षण हेळिदरु- दशग्रीव! नानु निन्न मेलॆ प्रसन्ननागिद्देनॆ.॥13॥

विश्वास-प्रस्तुतिः

शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः ।
कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः ।
कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥ १४ ॥

अनुवाद (हिन्दी)

‘धर्मज्ञ! तुम्हारे मनमें जिस वरको पानेकी इच्छा हो, उसे शीघ्र माँगो । बोलो, आज मैं तुम्हारी किस अभिलाषाको पूर्ण करूँ? तुम्हारा परिश्रम व्यर्थ नहीं होना चाहिये’ ॥ १४ ॥

अनुवाद (कन्नड)

धर्मज्ञने! निन्न मनस्सिनल्लिरुव इच्छित वरवन्नु केळु. इन्दु निन्न अभिलाषॆ पूर्णगॊळिसुवॆनु. निन्न परिश्रम व्यर्थवागि होगबारदु.॥14॥

विश्वास-प्रस्तुतिः

अथाब्रवीद् दशग्रीवः प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा देवं हर्षगद‍्गदया गिरा ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

अथाब्रवीद् दशग्रीवः प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा देवं हर्षगद‍्गदया गिरा ॥ १५ ॥

अनुवाद (हिन्दी)

यह सुनकर दशग्रीवकी अन्तरात्मा प्रसन्न हो गयी । उसने मस्तक झुकाकर भगवान् ब्रह्माको प्रणाम किया और हर्ष-गद‍्गदवाणीमें कहा— ॥ १५ ॥

अनुवाद (कन्नड)

इदन्नु केळि दशग्रीवनु सन्तोषगॊण्डु, तलॆबागि ब्रह्मदेवरिगॆ प्रणाम माडि, हर्ष, गद्गद वाणियल्लि हेळिदनु.॥15॥

विश्वास-प्रस्तुतिः

भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम् ।
नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम् ।
नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ १६ ॥

अनुवाद (हिन्दी)

‘भगवन्! प्राणियोंके लिये मृत्युके सिवा और किसीका सदा भय नहीं रहता है; अतएव मैं अमर होना चाहता हूँ; क्योंकि मृत्युके समान दूसरा कोई शत्रु नहीं है’ ॥

अनुवाद (कन्नड)

भगवन्तने! प्राणिगळिगॆ मरणक्किन्त हॆच्चिनदाद भयविरुवुदिल्ल. आद्दरिन्द नानु अमरनागलु बयसुत्तेनॆ; एकॆन्दरॆ मृत्युविगॆ समवाद शत्रु मत्तॊन्दु इरुवुदिल्ल.॥16॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।
नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।
नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥ १७ ॥

अनुवाद (हिन्दी)

‘उसके ऐसा कहनेपर ब्रह्माजीने दशग्रीवसे कहा—‘तुम्हें सर्वथा अमरत्व नहीं मिल सकता; इसलिये दूसरा कोई वर माँगो’ ॥ १७ ॥

अनुवाद (कन्नड)

अवनु हीगॆ हेळिदाग ब्रह्मदेवरु दशग्रीवनल्लि हेळिदरु-निनगॆ सर्वथा अमरत्व सिगलारदु; अदक्कागि बेरॆ वरवन्नु केळु.॥17॥

विश्वास-प्रस्तुतिः

एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा ।
दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा ।
दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥ १८ ॥

अनुवाद (हिन्दी)

‘श्रीराम! लोकस्रष्टा ब्रह्माजीके ऐसा कहनेपर दशग्रीवने उनके सामने हाथ जोड़कर कहा— ॥ १८ ॥

अनुवाद (कन्नड)

श्रीरामा! लोकसृष्टा ब्रह्मदेवरु हीगॆ हेळिदाग दशग्रीवनु कैमुगिदु इन्तॆन्दनु.॥18॥

विश्वास-प्रस्तुतिः

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।
अवध्योऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।
अवध्योऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ १९ ॥

अनुवाद (हिन्दी)

‘सनातन प्रजापते! मैं गरुड़, नाग, यक्ष, दैत्य, दानव, राक्षस तथा देवताओंके लिये अवध्य हो जाऊँ ॥ १९ ॥

अनुवाद (कन्नड)

सनातन प्रजापतिये! नानु गरुड, नाग, यक्ष, दैत्य, दानव, राक्षस हागू देवतॆगळिगू अवध्यनागबेकु.॥19॥

विश्वास-प्रस्तुतिः

नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।
तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥ २० ॥

सर्वाष् टीकाः
मूलम्

नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।
तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥ २० ॥

अनुवाद (हिन्दी)

‘देववन्द्य पितामह! अन्य प्राणियोंसे मुझे तनिक भी चिन्ता नहीं है । मनुष्य आदि अन्य जीवोंको तो मैं तिनकेके समान समझता हूँ’ ॥ २० ॥

अनुवाद (कन्नड)

देववन्द्य पितामहने! इतर प्राणिगळिन्द ननगॆ ऎळ्ळष्टु भयविल्ल. मनुष्यादि इतर जीविगळन्नु नानु तृणप्रायवॆन्दु तिळियुत्तेनॆ.॥20॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।
उवाच वचनं देवः सह देवैः पितामहः ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।
उवाच वचनं देवः सह देवैः पितामहः ॥ २१ ॥

अनुवाद (हिन्दी)

राक्षस दशग्रीवके ऐसा कहनेपर देवताओंसहित भगवान् ब्रह्माजीने कहा— ॥ २१ ॥

अनुवाद (कन्नड)

दशग्रीव राक्षसनु हीगॆ हेळिदाग देवतॆगळ सहित ब्रह्मदेवरु हीगॆ हेळिदरु.॥21॥

विश्वास-प्रस्तुतिः

भविष्यत्येवमेतत् ते वचो राक्षसपुङ्गव ।
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ २२ ॥

सर्वाष् टीकाः
मूलम्

भविष्यत्येवमेतत् ते वचो राक्षसपुङ्गव ।
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ २२ ॥

अनुवाद (हिन्दी)

राक्षसप्रवर! तुम्हारा यह वचन सत्य होगा ।’ श्रीराम! दशग्रीवसे ऐसा कहकर पितामह फिर बोले— ॥ २२ ॥

अनुवाद (कन्नड)

राक्षसश्रेष्ठने! निन्न मातु निजवागलि. श्रीरामा! पितामहरु पुनः दशग्रीवनल्लि हीगॆ हेळिदरु.॥22॥

विश्वास-प्रस्तुतिः

शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।
हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥ २३ ॥
पुनस्तानि भविष्यन्ति तथैव तव राक्षस ।
वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ २४ ॥
छन्दतस्तव रूपं च मनसा यद् यथेप्सितम् ।

सर्वाष् टीकाः
मूलम्

शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।
हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥ २३ ॥
पुनस्तानि भविष्यन्ति तथैव तव राक्षस ।
वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ २४ ॥
छन्दतस्तव रूपं च मनसा यद् यथेप्सितम् ।

अनुवाद (हिन्दी)

‘निष्पाप राक्षस! सुनो—मैं प्रसन्न होकर पुनः तुम्हें यह शुभ वर प्रदान करता हूँ—तुमने पहले अग्निमें अपने जिन-जिन मस्तकोंका हवन किया है, वे सब तुम्हारे लिये फिर पूर्ववत् प्रकट हो जायँगे । सौम्य! इसके सिवा एक और भी दुर्लभ वर मैं तुम्हें यहाँ दे रहा हूँ—तुम अपने मनसे जब जैसा रूप धारण करना चाहोगे, तुम्हारी इच्छाके अनुसार उस समय तुम्हारा वैसा ही रूप हो जायगा’ ॥ २३-२४ १/२ ॥

अनुवाद (कन्नड)

निष्पाप राक्षसने! केळु, नानु प्रसन्ननागि पुनः निनगॆ ई शुभवरवन्नु कॊडुत्तेनॆ. नीनु मॊदलु अग्नियल्लि होम माडिद निन्न तलॆगळु हिन्दिनन्तॆ प्रकटवागलि. सौम्यने! इदल्लदॆ इन्नॊन्दु दुर्लभ वरवन्नु कॊडुत्तिद्देनॆ - नीनु मनस्सिनल्लि बयसिद रूपवन्नु धरिसबल्लॆ. नीनु कामरूपि यागुवॆ.॥23-24½॥

विश्वास-प्रस्तुतिः

एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ॥ २५ ॥
अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।

सर्वाष् टीकाः
मूलम्

एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ॥ २५ ॥
अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ।

अनुवाद (हिन्दी)

‘पितामह ब्रह्माके इतना कहते ही राक्षस दशग्रीवके वे मस्तक, जो पहले आगमें होम दिये गये थे, फिर नये रूपमें प्रकट हो गये ॥ २५ १/२ ॥

अनुवाद (कन्नड)

ब्रह्मदेवरु हीगॆ हेळिदागले राक्षस दशग्रीवनु मॊदलु अग्नियल्लि होमिसिद तलॆगळु हॊसदागि मूडिदवु.॥25½॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ २६ ॥
विभीषणमथोवाच वाक्यं लोकपितामहः ।

सर्वाष् टीकाः
मूलम्

एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ २६ ॥
विभीषणमथोवाच वाक्यं लोकपितामहः ।

अनुवाद (हिन्दी)

‘श्रीराम! दशग्रीवसे पूर्वोक्त बात कहकर लोकपितामह ब्रह्माजी विभीषणसे बोले— ॥ २६ १/२ ॥

अनुवाद (कन्नड)

श्रीरामा! दशग्रीवनल्लि इन्तु नुडिदु लोकपितामह ब्रह्मदेवरु विभीषणनल्लि इन्तॆन्दरु.॥26½॥

विश्वास-प्रस्तुतिः

विभीषण त्वया वत्स धर्मसंहितबुद्धिना ॥ २७ ॥
परितुष्टोऽस्मि धर्मात्मन् वरं वरय सुव्रत ।

सर्वाष् टीकाः
मूलम्

विभीषण त्वया वत्स धर्मसंहितबुद्धिना ॥ २७ ॥
परितुष्टोऽस्मि धर्मात्मन् वरं वरय सुव्रत ।

अनुवाद (हिन्दी)

‘बेटा विभीषण! तुम्हारी बुद्धि सदा धर्ममें लगी रहनेवाली है, अतः मैं तुमसे बहुत संतुष्ट हूँ । उत्तम व्रतका पालन करनेवाले धर्मात्मन्! तुम भी अपनी रुचिके अनुसार कोई वर माँगो’ ॥ २७ १/२ ॥

अनुवाद (कन्नड)

मगु विभीषणने! निन्न बुद्धि सदा धर्मदल्ले तॊडगिदॆ, आद्दरिन्द नानु निनगॆ बहळ सन्तुष्टनागिद्देनॆ. सुव्रत धर्मात्मने! नीनू कूड तनगॆ अभीष्टवाद वरवन्नु केळु.॥27½॥

विश्वास-प्रस्तुतिः

विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ॥ २८ ॥
वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।
भगवन् कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम् ॥ २९ ॥
प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।

सर्वाष् टीकाः
मूलम्

विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ॥ २८ ॥
वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।
भगवन् कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम् ॥ २९ ॥
प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।

अनुवाद (हिन्दी)

‘तब किरणमालामण्डित चन्द्रमाकी भाँति सदा समस्त गुणोंसे सम्पन्न धर्मात्मा विभीषणने हाथ जोड़कर कहा—‘भगवन्! यदि साक्षात् लोकगुरु आप मुझपर प्रसन्न हैं तो मैं कृतार्थ हूँ । मुझे कुछ भी पाना शेष नहीं रहा । उत्तम व्रतको धारण करनेवाले पितामह! यदि आप प्रसन्न होकर मुझे वर देना ही चाहते हैं तो सुनिये ॥

अनुवाद (कन्नड)

आग किरण मालामण्डित चन्द्रनन्तॆ, समस्त गुणसम्पन्न धर्मात्मा विभीषणनु कै मुगिदु हेळिदनु - भगवन्तने! लोकगुरु नीनु नन्न मेलॆ प्रस्ननागिद्दरॆ नानु कृतार्थनागिद्देनॆ. ननगॆ केळु वुदु यावुदू उळिदिल्ल. सुव्रत पितामहने! नीनु प्रसन्ननागि वर कॊडलु बयसुवॆयादरॆ केळु.॥28-29½॥

विश्वास-प्रस्तुतिः

परमापद‍्गतस्यापि धर्मे मम मतिर्भवेत् ॥ ३० ॥
अशिक्षितं च ब्रह्मास्त्रं भगवन् प्रतिभातु मे ।

सर्वाष् टीकाः
मूलम्

परमापद‍्गतस्यापि धर्मे मम मतिर्भवेत् ॥ ३० ॥
अशिक्षितं च ब्रह्मास्त्रं भगवन् प्रतिभातु मे ।

अनुवाद (हिन्दी)

‘भगवन्! बड़ी-से-बड़ी आपत्तिमें पड़नेपर भी मेरी बुद्धि धर्ममें ही लगी रहे—उससे विचलित न हो और बिना सीखे ही मुझे ब्रह्मास्त्रका ज्ञान हो जाय ॥

अनुवाद (कन्नड)

भगवन्तने ! भारी आपत्तिनल्लि बिद्दरू नन्न बुद्धि धर्मदल्ले तॊडगिरलि, अदरिन्द ऎन्दू विचलित वागदॆ, कलियदॆये ननगॆ ब्रह्मास्त्रद ज्ञान उण्टागली.॥30½॥

विश्वास-प्रस्तुतिः

या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ॥ ३१ ॥
सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये ।
एष मे परमोदारो वरः परमको मतः ॥ ३२ ॥

सर्वाष् टीकाः
मूलम्

या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ॥ ३१ ॥
सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये ।
एष मे परमोदारो वरः परमको मतः ॥ ३२ ॥

अनुवाद (हिन्दी)

‘जिस-जिस आश्रमके विषयमें मेरा जो-जो विचार हो, वह धर्मके अनुकूल ही हो और उस-उस धर्मका मैं पालन करूँ; यही मेरे लिये सबसे उत्तम और अभीष्ट वरदान है ॥ ३१-३२ ॥

अनुवाद (कन्नड)

यावुदे आश्रमद विषयदल्लि नन्न विचार धर्मानुकालवागिरलि हागू आ धर्मवन्नु नानु पालिसुवॆनु; इदे ननगॆ ऎल्लक्किन्त उत्तमवाद वरदानवागिदॆ.॥31-32॥

विश्वास-प्रस्तुतिः

नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ॥ ३३ ॥

सर्वाष् टीकाः
मूलम्

नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ।
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ॥ ३३ ॥

अनुवाद (हिन्दी)

‘क्योंकि जो धर्ममें अनुरक्त हैं, उनके लिये कुछ भी दुर्लभ नहीं है’ यह सुनकर प्रजापति ब्रह्मा पुनः प्रसन्न हो विभीषणसे बोले— ॥ ३३ ॥

अनुवाद (कन्नड)

एकॆन्दरॆ धर्मदल्लि अनुरक्तनादवनिगॆ यावुदू दुर्लभवल्ल. इदन्नु केळि प्रसन्नराद प्रजापति ब्रह्मदेवरु पुनः विभीषणनल्लि हेळिदरु.॥33॥

विश्वास-प्रस्तुतिः

धर्मिष्ठस्त्वं यथा वत्स तथा चैतद् भविष्यति ।
यस्माद् राक्षसयोनौ ते जातस्यामित्रनाशन ॥ ३४ ॥
नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।

सर्वाष् टीकाः
मूलम्

धर्मिष्ठस्त्वं यथा वत्स तथा चैतद् भविष्यति ।
यस्माद् राक्षसयोनौ ते जातस्यामित्रनाशन ॥ ३४ ॥
नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।

अनुवाद (हिन्दी)

‘वत्स! तुम धर्ममें स्थित रहनेवाले हो; अतः जो कुछ चाहते हो, वह सब पूर्ण होगा । शत्रुनाशन! राक्षसयोनिमें उत्पन्न होकर भी तुम्हारी बुद्धि अधर्ममें नहीं लगती है; इसलिये मैं तुम्हें अमरत्व प्रदान करता हूँ ॥ ३४ १/२ ॥

अनुवाद (कन्नड)

वत्स! नीनु धर्मदलि स्थितनागुवॆ, नीनु बयसिदुदॆल्ल पूर्णवागुवुदु. शत्रुनाशकने ! राक्षसयोनियल्लि हुट्टिद्दरू निन्न बुद्धि अधर्मदल्लि ऎन्दू तॊडगलारदु; इदरिन्द निनगॆ नानु अमरत्ववन्नु करुणिसुवॆनु.॥34½॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा कुम्भकर्णाय वरं दातुमवस्थितम् ॥ ३५ ॥
प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् ।

सर्वाष् टीकाः
मूलम्

इत्युक्त्वा कुम्भकर्णाय वरं दातुमवस्थितम् ॥ ३५ ॥
प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् ।

अनुवाद (हिन्दी)

‘विभीषणसे ऐसा कहकर जब ब्रह्माजी कुम्भकर्णको वर देनेके लिये उद्यत हुए, तब सब देवता उनसे हाथ जोड़कर बोले— ॥ ३५ १/२ ॥

अनुवाद (कन्नड)

विभीषणनल्लि हीगॆ हेळि ब्रह्मदेवरु कुम्भकर्णनिगॆ वर कॊडलु हॊरटाग देवतॆगळॆल्ल कैमुगिदु अवरल्लि हीगॆ हेळिदरु.॥35½॥

विश्वास-प्रस्तुतिः

न तावत् कुम्भकर्णाय प्रदातव्यो वरस्त्वया ॥ ३६ ॥
जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।

सर्वाष् टीकाः
मूलम्

न तावत् कुम्भकर्णाय प्रदातव्यो वरस्त्वया ॥ ३६ ॥
जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ।

अनुवाद (हिन्दी)

‘प्रभो! आप कुम्भकर्णको वरदान न दीजिये; क्योंकि आप जानते हैं कि यह दुर्बुद्धि निशाचर किस तरह समस्त लोकोंको त्रास देता है ॥ ३६ १/२ ॥

अनुवाद (कन्नड)

प्रभो! नीवु कुम्भकर्णनिगॆ वर कॊडबेडिरि; एकॆन्दरॆ ई दुर्बद्धि निशाचर समस्त लोकगळिगॆ तॊन्दरॆ कॊडुत्तिरुवुदु नीवु तिळिदे इद्दीरि.॥36½॥

विश्वास-प्रस्तुतिः

नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश ॥ ३७ ॥
अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।

सर्वाष् टीकाः
मूलम्

नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश ॥ ३७ ॥
अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ।


नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश ॥
अनेन भक्षिता ब्रह्मन्ऋषयो मानुषास्तथा ।

अनुवाद (हिन्दी)

‘ब्रह्मन्! इसने नन्दनवनकी सात अप्सराओं, देवराज इन्द्रके दस अनुचरों तथा बहुत-से ऋषियों और मनुष्योंको भी खा लिया है ॥ ३७ १/२ ॥

अनुवाद (कन्नड)

ब्रह्मन्! इवनु नन्दनवनद एळु अप्सरॆयन्नु, देवेन्द्रन हत्तु अनुचररन्नु हागू अनेक ऋषिगळन्नु, मनुष्यरन्नु तिन्दु हाकिरुवनु.॥37½॥

विश्वास-प्रस्तुतिः

अलब्धवरपूर्वेण यत् कृतं राक्षसेन तु ॥ ३८ ॥
यद्येष वरलब्धः स्याद् भक्षयेद् भुवनत्रयम् ।

सर्वाष् टीकाः
मूलम्

अलब्धवरपूर्वेण यत् कृतं राक्षसेन तु ॥ ३८ ॥
यद्येष वरलब्धः स्याद् भक्षयेद् भुवनत्रयम् ।

अनुवाद (हिन्दी)

‘पहले वर न पानेपर भी इस राक्षसने जब इस प्रकार प्राणियोंके भक्षणका क्रूरतापूर्ण कर्म कर डाला है, तब यदि इसे वर प्राप्त हो जाय, उस दशामें तो यह तीनों लोकोंको खा जायगा ॥ ३८ १/२ ॥

अनुवाद (कन्नड)

वर पडॆयदॆये ई राक्षसनु हीगॆ प्राणिगळन्नु तिन्दु क्रूर कर्ममाडुत्तिरुवनादरॆ, वर प्राप्त वादाग इवनु मूरु लोकगळन्नु तिन्दु बिडुवनु.॥38½॥

विश्वास-प्रस्तुतिः

वरव्याजेन मोहोऽस्मै दीयताममितप्रभ ॥ ३९ ॥
लोकानां स्वस्ति चैवं स्याद् भवेदस्य च सम्मतिः ।

सर्वाष् टीकाः
मूलम्

वरव्याजेन मोहोऽस्मै दीयताममितप्रभ ॥ ३९ ॥
लोकानां स्वस्ति चैवं स्याद् भवेदस्य च सम्मतिः ।

अनुवाद (हिन्दी)

‘अमिततेजस्वी देव! आप वरके बहाने इसको मोह प्रदान कीजिये । इससे समस्त लोकोंका कल्याण होगा और इसका भी सम्मान हो जायगा’ ॥ ३९ १/२ ॥

अनुवाद (कन्नड)

अमित तेजस्वी देवने! नीवु वरद नॆपदल्लि इवनिगॆ मोह उण्टुमाडिरि. इदरिन्द समस्त लोकगळ मङ्गळवादीतु मत्तु इन सम्मानवू आगुवुदु.॥39½॥

विश्वास-प्रस्तुतिः

एवमुक्तः सुरैर्ब्रह्माचिन्तयत् पद्मसम्भवः ॥ ४० ॥
चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ।

सर्वाष् टीकाः
मूलम्

एवमुक्तः सुरैर्ब्रह्माचिन्तयत् पद्मसम्भवः ॥ ४० ॥
चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ।

अनुवाद (हिन्दी)

‘देवताओंके ऐसा कहनेपर कमलयोनि ब्रह्माजीने सरस्वतीका स्मरण किया । उनके चिन्तन करते ही देवी सरस्वती पास आ गयीं ॥ ४० १/२ ॥

अनुवाद (कन्नड)

देवतॆगळु हीगॆ हेळिदाग पद्मसम्भवनु सरस्वतियन्नु स्मरिसिदनु, स्मरिसुत्तले देवी सरस्वतियु बळिगॆ बन्दळु.॥40½॥

विश्वास-प्रस्तुतिः

प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ॥ ४१ ॥
इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।

सर्वाष् टीकाः
मूलम्

प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ॥ ४१ ॥
इयमस्म्यागता देव किं कार्यं करवाण्यहम् ।

अनुवाद (हिन्दी)

उनके पार्श्वभागमें खड़ी हो सरस्वतीने हाथ जोड़कर कहा—‘देव! यह मैं आ गयी । मेरे लिये क्या आज्ञा है? मैं कौन-सा कार्य करूँ?’ ॥ ४१ १/२ ॥

अनुवाद (कन्नड)

अवर बळियल्लि निन्तिरुव सरस्वतियु कैमुगिदु, देव! नानु बन्दिरुवॆनु, ननगेनु अप्पणॆ? नानु याव कार्य माडलि.॥41½॥

विश्वास-प्रस्तुतिः

प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् ॥ ४२ ॥
वाणि त्वं राक्षसेन्द्रस्य भव वाग्देवतेप्सिता ।

सर्वाष् टीकाः
मूलम्

प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् ॥ ४२ ॥
वाणि त्वं राक्षसेन्द्रस्य भव वाग्देवतेप्सिता ।

अनुवाद (हिन्दी)

‘तब प्रजापतिने वहाँ आयी हुई सरस्वतीदेवीसे कहा—‘वाणि! तुम राक्षसराज कुम्भकर्णकी जिह्वापर विराजमान हो देवताओंके अनुकूल वाणीके रूपमें प्रकट होओ’ ॥

अनुवाद (कन्नड)

अल्लिगॆ बन्दिरुव सरस्वति देवियल्लि प्रजापतिगळु हेळिदरु-वाग्देवते! नीनु राक्षसेन्द्र कुम्भकर्णन नालिगॆयल्लि नॆलॆसु, देवतॆगळिगॆ अनुकूलवाद वाणियिन्द प्रकटळागु.॥42½॥

विश्वास-प्रस्तुतिः

तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ॥ ४३ ॥
कुम्भकर्ण महाबाहो वरं वरय यो मतः ।

सर्वाष् टीकाः
मूलम्

तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ॥ ४३ ॥
कुम्भकर्ण महाबाहो वरं वरय यो मतः ।

अनुवाद (हिन्दी)

‘तब ‘बहुत अच्छा’ कहकर सरस्वती कुम्भकर्णके मुखमें समा गयीं । इसके बाद प्रजापतिने उस राक्षससे कहा—‘महाबाहु कुम्भकर्ण! तुम भी अपने मनके अनुकूल कोई वर माँगो’ ॥ ४३ १/२ ॥

अनुवाद (कन्नड)

‘हागॆये आगलि’ ऎन्दु हेळि सरस्वतियु कुम्भकर्णन बायन्नु सेरिदळु. बळिक प्रजापतिगळु आ राक्षसनल्लि - महाबाहु कुम्भकर्णने! निन्न मनस्सिगॆ बन्द वरवन्नु केळु ऎन्दु हेळिदरु.॥43½॥

विश्वास-प्रस्तुतिः

कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ॥ ४४ ॥
स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।
एवमस्त्विति तं चोक्त्वा प्रायाद् ब्रह्मा सुरैःसमम् ॥ ४५ ॥

सर्वाष् टीकाः
मूलम्

कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ॥ ४४ ॥
स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ।
एवमस्त्विति तं चोक्त्वा प्रायाद् ब्रह्मा सुरैःसमम् ॥ ४५ ॥

अनुवाद (हिन्दी)

‘उनकी बात सुनकर कुम्भकर्ण बोला—‘देवदेव! मैं अनेकानेक वर्षोंतक सोता रहूँ । यही मेरी इच्छा है ।’ तब ‘एवमस्तु (ऐसा ही हो)’ कहकर ब्रह्माजी देवताओंके साथ चले गये ॥ ४४-४५ ॥

अनुवाद (कन्नड)

अवर मातन्नु केळि कुम्भकर्णनु हेळिदनु - देवदेवा! नानु अनेक वर्षगळवरॆगॆ मलगिये इरुवॆनु. इदे नन्न इच्छॆयागिदॆ. आग ‘हागॆये आगलि’ ऎन्दु हेळि ब्रह्मदेवरु देवतॆगळॊन्दिगॆ हॊरटु होदरु.॥44-45॥

विश्वास-प्रस्तुतिः

देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् ॥ ४६ ॥
विमुक्तोऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ॥ ४७ ॥

सर्वाष् टीकाः
मूलम्

देवी सरस्वती चैव राक्षसं तं जहौ पुनः ।
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् ॥ ४६ ॥
विमुक्तोऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ।
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ॥ ४७ ॥

अनुवाद (हिन्दी)

‘फिर सरस्वतीदेवीने भी उस राक्षसको छोड़ दिया । ब्रह्माजीके साथ देवताओंके आकाशमें चले जानेपर जब सरस्वतीजी उसके ऊपरसे उतर गयीं, तब दुष्टात्मा कुम्भकर्णको चेत हुआ और वह दुःखी होकर इस प्रकार चिन्ता करने लगा ॥ ४६-४७ ॥

अनुवाद (कन्नड)

मत्तॆ सरस्वतियु राक्षसनन्नु बिट्टु देवतॆगळॊन्दिगॆ तॆरळिदाग दुष्टात्मा कुम्भकर्णनु ऎच्चरगॊण्डु, दुःखितनागि हीगॆ योचिस तॊडगिदनु.॥46-47॥

विश्वास-प्रस्तुतिः

ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।
अहं व्यामोहितो देवैरिति मन्ये तदागतैः ॥ ४८ ॥

सर्वाष् टीकाः
मूलम्

ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ।
अहं व्यामोहितो देवैरिति मन्ये तदागतैः ॥ ४८ ॥

अनुवाद (हिन्दी)

‘अहो! आज मेरे मुँहसे ऐसी बात क्यों निकल गयी । मैं समझता हूँ, ब्रह्माजीके साथ आये हुए देवताओंने ही उस समय मुझे मोहमें डाल दिया था’ ॥ ४८ ॥

अनुवाद (कन्नड)

अय्यो! इन्दु नन्न बायियिन्द इन्तह मातु एकॆ हॊरटितु? ब्रह्मदेवरॊन्दिगॆ बन्दिरुव देवतॆगळे आग नन्नन्नु मोहगॊळिसिदरॆन्दु नानु तिळियुत्तेनॆ.॥48॥

विश्वास-प्रस्तुतिः

एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम् ॥ ४९ ॥

सर्वाष् टीकाः
मूलम्

एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम् ॥ ४९ ॥

अनुवाद (हिन्दी)

‘इस प्रकार वे तीनों तेजस्वी भ्राता वर पाकर श्लेष्मातकवन (लसोड़ेके जंगल)-में गये और वहाँ सुखपूर्वक रहने लगे ॥ ४९ ॥

अनुवाद (कन्नड)

हीगॆ आ मूवरू तेजस्वी सहोदररु वर पडॆदु श्लॆष्मातक (चळ्ळॆहण्णिन) वनक्कॆ होगि सुखवागि इरतॊडगिदरु.॥49॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशमः सर्गः ॥ १० ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें दसवाँ सर्ग पूरा हुआ ॥ १० ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद उत्तर काण्डदल्लि हत्तनॆय सर्ग पूर्णवायितु. ॥10॥