वाचनम्
सर्वाष् टीकाः
Murali Krishnamurthy Kopalle Murthy - Intro
Book VI : Yuddha Kanda - Book Of War
Sumantra was unable to console Kausalya, who lied on the floor due to her extreme grief over her separation from Rama, even though he tries to avert her grief by telling her that Rama can reside in the forest delightfully, by warding off his agony.
स्रोतः: valmikiramayan.net
भागसूचना
- विभीषणका रावणसे श्रीरामकी अजेयता बताकर सीताको लौटा देनेके लिये अनुरोध करना
विश्वास-प्रस्तुतिः
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः ।
सुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ ॥ १ ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।
इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥ २ ॥
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः ।
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३ ॥
परिघान् पट्टिशान् शूलान् प्रासान् शक्तिपरश्वधान् ।
चापानि च सुबाणानि खड्गांश्च विपुलाम्बुभान् ॥ ४ ॥
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः ।
सुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ ॥ १ ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।
इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥ २ ॥
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः ।
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३ ॥
परिघान् पट्टिशान् शूलान् प्रासान् शक्तिपरश्वधान् ।
चापानि च सुबाणानि खड्गांश्च विपुलाम्बुभान् ॥ ४ ॥
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ५ ॥
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः ।
सुप्तघ्नो यज्ञकोपश्च महापार्श्व महोदरौ ॥
अग्निकेतुश्च दुर्धर्षो रश्मिमकेतुश्च राक्षसः ।
इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः ।
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥
परिघान् पट्टिशा न्शूलान् प्रासां शक्तिपरश्वधान् ।
चापानि च सुबाणानि खड्गांश्च विपुलाम्बुभान् ॥
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥
मूलम् - VR
ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः । सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥ ६-९-१ अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः । इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥ ६-९-२ प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः । धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥ ६-९-३ परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् । चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥ ६-९-४ प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः । अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥ ६-९-५
अनुवाद (हिन्दी)
तत्पश्चात् निकुम्भ, रभस, महाबली सूर्यशत्रु, सुप्तघ्न, यज्ञकोप, महापार्श्व, महोदर, दुर्जय अग्निकेतु, राक्षस रश्मिकेतु, महातेजस्वी बलवान् रावणकुमार इन्द्रजित् , प्रहस्त, विरूपाक्ष, महाबली वज्रदंष्ट्र, धूम्राक्ष, अतिकाय और निशाचर दुर्मुख—ये सब राक्षस अत्यन्त कुपित हो हाथोंमें परिघ, पट्टिश, शूल, प्रास, शक्ति, फरसे, धनुष, बाण तथा पैनी धारवाले बड़े-बड़े खड्ग लिये उछलकर रावणके सामने आये और अपने तेजसे उद्दीप्त-से होकर वे सब-के-सब उससे बोले— ॥ १—५ ॥
अनुवाद (कन्नड)
अनन्तर निकुम्भ, रभस, महाबली सूर्य शत्रु, सुप्तघ्न, यज्ञकोप, महापार्श्व, महोदर,दुर्जय, अग्निकेतु, राक्षस रश्मिकेतु, महातेजस्वी बलवन्त रावणकुमार इन्द्रजितु, प्रहस्त, विरूपाक्ष, महाबलि वज्रदंष्ट्र, धूम्राक्ष, अतिकाय मत्तु निशाचर दुर्मुख - इवरॆल्ल राक्षसरु अत्यन्त कुपितरागि कैगळल्लि परिघ, पट्टिश, शूल, प्रास, शक्ति, कॊडलि, धनुर्बाण हागू हरितवाद दॊड्ड-दॊड्ड खड्गगळन्नॆत्तिकॊण्डु कुणियुत्ता रावणन ऎदुरिगॆ बन्दु, तम्म तेजदिन्द उरियुत्ता ऎल्लरू अवनल्लि हेळिदर.॥1-5॥
विश्वास-प्रस्तुतिः
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ।
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ।
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६ ॥
अनुवाद (हिन्दी)
‘हमलोग आज ही राम, सुग्रीव, लक्ष्मण और उस कायर हनुमान् को भी मार डालेंगे, जिसने लङ्कापुरी जलायी है’ ॥ ६ ॥
अनुवाद (कन्नड)
नावु इन्दे राम, सुग्रीव, लक्ष्मण मत्तु लङ्कॆयन्नु सुट्ट हेडियाद हनुमन्तनन्नू कॊन्दुहाकुवॆवु.॥6॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
6. adya = now itself; vadhiSyaamaH = we shall kill; raamam = Rama; sahalakSmaNam = along with Lakshmana; sugriivam ca = and Sugreeva; kR^ipaNam = and the pitiable; hanuumantam = Hanuma; yena = by whom; la.nkaa = Lanka; pradharSitaa = was attacked.
अनुवादः
“Now itself, we shall kill Rama along with Lakshmana and Sugreeva as well as the pitiable Hanuma by whom Lanka was attacked.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७ ॥
तान् गृहीतायुधान् सर्वान् वारायित्वा विभीषणः ।
अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥
मूलम् - VR
तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः । अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥ ६-९-७
अनुवाद (हिन्दी)
हाथोंमें अस्त्र-शस्त्र लिये खड़े हुए उन सब राक्षसोंको जानेके लिये उद्यत देख विभीषणने रोका और पुनः उन्हें बिठाकर दोनों हाथ जोड़ रावणसे कहा— ॥ ७ ॥
अनुवाद (कन्नड)
कैगळल्लि अस्त्र-शस्त्रगळन्नु हिडिदु निन्तु आ ऎल्ल राक्षसरु हॊरटिरुवुदन्नु नोडि विभीषणनु अवरॆल्लरन्नु तडॆदु कुळ्ळिरिसि, कैमुगिदुकॊण्डु रावणनल्लि हेळिदनु .॥7॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
7. vibhiiSaNaH = Vibhishana; vaarayitvaa = restraining; taan sarvaan = all those; gR^ihiita aayudhaan = who were made to seize weapons; pratyupaveshya = were made to sit again; abraviit = and spoke; vaakyam = (these) words; praanjaliH = with joined palms.
अनुवादः
Vibhishana (Ravana’s youngest half-brother) restraining all those who were made to seize weapons, were made to sit again by saluting them with joined palms and spoke as follows:
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ ८ ॥
सर्वाष् टीकाः
मूलम्
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ ८ ॥
मूलम् - VR
अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते । तस्य विक्रम कालांस् तान् युक्तान् आहुर् मनीषिणः ॥ ६-९-८
अनुवाद (हिन्दी)
‘तात! जो मनोरथ साम, दान और भेद—इन तीन उपायोंसे प्राप्त न हो सके, उसीकी प्राप्तिके लिये नीतिशास्त्रके ज्ञाता मनीषी विद्वानोंने पराक्रम करनेके योग्य अवसर बताये हैं ॥ ८ ॥
अनुवाद (कन्नड)
अण्ण! याव मनोरथवु साम दान मत्तु भेद - ई मूरु उपायगळिन्द ईडेरिसदिद्दरॆ, अदर प्राप्तिगागि पराक्रम तोरुवुदु योग्यवॆन्दु नीतिशास्त्रज्ञ विद्वांसरु तिळिसिरुवरु.॥8॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
8. taata = dear brother; yaH = which; arthaH = act; na shakyate = cannot; praaptum = be accomplished; tribhiH = by three; upaayais api = strategies too; tasya = that act; aahuH = is said; yuktaan = to be suitable; nikramakaalaan = occasion for displaying prowess maniiSiNaH = by wise men.
अनुवादः
“Dear brother! That act which cannot be accomplished by three well-known strategies (viz . conciliation, gift and sowing dissention) , is only then to be accomplished by exhibiting prowess, as stated by wise men.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ।
विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ।
विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥ ९ ॥
मूलम् - VR
प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च । विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ६-९-९
अनुवाद (हिन्दी)
‘तात! जो शत्रु असावधान हों, जिनपर दूसरे-दूसरे शत्रुओंने आक्रमण किया हो तथा जो महारोग आदिसे ग्रस्त होनेके कारण दैवसे मारे गये हों, उन्हींपर भलीभाँति परीक्षा करके विधिपूर्वक किये गये पराक्रम सफल होते हैं ॥ ९ ॥
अनुवाद (कन्नड)
अय्या! याव शत्रुवु प्रमत्तनागिरुवनो, बेरॆ शत्रुगळु आक्रमण माडिरुवरो, महारोगादिगळिन्द ग्रस्तनाद्दरिन्द दैवदिन्द वञ्चितनागिरुवनो, अवन मेलॆ चॆन्नागि परीक्षिसि विधिपूर्वक माडिद पराक्रमवे सलवागुत्तदॆ.॥9॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
9. taata = Oh ; brother; pramatteSu = in respect of indifferent people; abhiyukteShu = in those who have been attacked by an enemy; prahateSu ca = in those who were struck down; daivena = by fate; vikramaaH = the gallantries; kR^itaH = performed; vidhinaa = according to precept; pariikSya = after being examined carefully; sidhyanti = succeed.
अनुवादः
“The gallantries performed according to the prescribed precept, after being tested, O dear brother, only succeed against those who are indifferent, who have been already attacked by an enemy or who stand struck down by fate.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् ।
जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ ॥ १० ॥
सर्वाष् टीकाः
मूलम्
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् ।
जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ ॥ १० ॥
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् ।
जितरोषं दुराधर्षं तं दर्षयितुमिच्छथ ॥
मूलम् - VR
अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् । जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥ ६-९-१०
अनुवाद (हिन्दी)
‘श्रीरामचन्द्रजी बेखबर नहीं हैं । वे विजयकी इच्छासे आ रहे हैं और उनके साथ सेना भी है । उन्होंने क्रोधको सर्वथा जीत लिया है । अतः वे सर्वथा दुर्जय हैं । ऐसे अजेय वीरको तुमलोग परास्त करना चाहते हो ॥ १० ॥
अनुवाद (कन्नड)
श्रीरामचन्द्रनु तिळिवळिकॆ इल्लदवनल्ल. अवनु विजयद इच्छॆयिन्द बरुत्तिरुवनु मत्तु अवन जॊतॆगॆ सैन्यवू इदॆ. अवनु क्रोधवन्नु सर्वथा गॆद्दुकॊण्डिरुवनु. आद्दरिन्द अवनु सर्वथा दुर्जयनागिद्दानॆ. इन्तह अजेय वीरनन्नु नीवु सोलिसलु बयसुत्तिरुविरि.॥10॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
10. katham = how; icchatha = do you wish; dharSayitum = to attack; tam = that famous; tam = Rama; apramattam = who is attentive; vijigiiSum = who has subdued his anger; duraadharSam = and who is difficult to be conquered.
अनुवादः
“How do you wish to attack that famous Rama, who is always attentive, who has a will to conquer, who is established in strength, who has subdued his anger and who is difficult to be conquered.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् ।
गतिं हनूमतो लोके को विद्यात् तर्कयेत वा ॥ ११ ॥
बलान्यपरिमेयानि वीर्याणि च निशाचराः ।
परेषां सहसावज्ञा न कर्तव्या कथञ्चन ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् ।
गतिं हनूमतो लोके को विद्यात् तर्कयेत वा ॥ ११ ॥
बलान्यपरिमेयानि वीर्याणि च निशाचराः ।
परेषां सहसावज्ञा न कर्तव्या कथञ्चन ॥ १२ ॥
मूलम् - VR
समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् । कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥ ६-९-११ बलानि अपरिमेयानि वीर्याणि च निशा चराः । परेषाम् सहसा अवज्ञा न कर्तव्या कथंचन ॥ ६-९-१२
अनुवाद (हिन्दी)
‘निशाचरो! नदों और नदियोंके स्वामी भयंकर महासागरको जो एक ही छलाँगमें लाँघकर यहाँतक आ पहुँचे थे, उन हनुमान् जी की गतिको इस संसारमें कौन जान सकता है अथवा कौन उसका अनुमान लगा सकता है? शत्रुओंके पास असंख्य सेनाएँ हैं, उनमें असीम बल और पराक्रम है; इस बातको तुमलोग अच्छी तरह जान लो । दूसरोंकी शक्तिको भुलाकर किसी तरह भी सहसा उनकी अवहेलना नहीं करनी चाहिये ॥ ११-१२ ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
11. kaH = who; vidyaat = can know; tarkayeta vaa = or even imagine; loke = in the world; hanumataH = Hanuma’s; gatim = speed; langhayitvaa = in crossing; ghoram = the formidable; samudram = ocean; nada nadii patim = the lord of streams and rivers?
अनुवादः
“Who can conceive or even imagine in this world, that Hanuma’s speed in crossing the formidable ocean, which is the lord of streams and rivers?”
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
निशाचररे! नद-नदिगळ स्वामि भयङ्कर महासमुद्रवन्नु ऒन्दे नॆगॆतक्कॆ हारि इल्लिगॆ बन्दिद्द हनुमन्तन गतियन्नु यारु ताने बल्लरु? अथवा यारु ताने अनुमान माडबल्लनु? शत्रुगळ बळि असङ्ख्य सैन्यविदॆ, अवरल्लि असीम बल मत्तु पराक्रमविदॆ. इदन्नु नीवु चॆन्नागि तिळिदुकॊळ्ळि. बेरॆयवर शक्तियन्नु मरॆतु याव रीतियिन्दलू तत्क्षण अवर अवहेळन माडबारदु.॥11-1.॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
12. nishaacaraaH = O; demons; balaani = the strength; viiryaaNi ca = and the abilities; pareSaam = of the enemies; aparimeyaani = are difficult to be measured; na kartavyaa = they cannot be treated; avajJNyaa = with contempt; sahasaa = hastily; kathamcana = by any means.
अनुवादः
“O, demons! The strength and the abilities of the enemies are difficult to be measured. They cannot be treated with contempt hastily by any means.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
किं च राक्षसराजस्य रामेणापकृतं पुरा ।
आजहार जनस्थानाद् यस्य भार्यां यशस्विनः ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
किं च राक्षसराजस्य रामेणापकृतं पुरा ।
आजहार जनस्थानाद् यस्य भार्यां यशस्विनः ॥ १३ ॥
मूलम् - VR
किम् च राक्षस राजस्य रामेण अपकृतम् पुरा । आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥ ६-९-१३
अनुवाद (हिन्दी)
‘श्रीरामचन्द्रजीने पहले राक्षसराज रावणका कौन-सा अपराध किया था, जिससे उन यशस्वी महात्माकी पत्नीको ये जनस्थानसे हर लाये? ॥ १३ ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
13. kim = what; apakR^itam = offence (was done); puraa = earlier; raakSasaraajasya = to the king of demons; yashashvinaH = by the illustrious; raameNa = Rama; yasya = whose; bhaaryaam = wife; aajahaara = (he) bore away; janasthaanaat = firm janasthana?"
अनुवादः
“What offence was done earlier to the king of demons by the illustrious Rama, whose wife that he bore away from Janasthana?”
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
आ यशस्वी महात्मन पत्नियन्नु जनस्थानदिन्द कद्दुतरलु श्रीराम चन्द्रनु मॊदलु याव अपराधवन्नु माडिद्दनु.॥1.॥
विश्वास-प्रस्तुतिः
खरो यद्यतिवृत्तस्तु स रामेण हतो रणे ।
अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
खरो यद्यतिवृत्तस्तु स रामेण हतो रणे ।
अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ १४ ॥
खरो यद्यतिवृत्तस्तु सा रामेण हतो रणे ।
अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥
मूलम् - VR
खरो यदि अतिवृत्तस् तु रामेण निहतो रणे । अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥ ६-९-१४
अनुवाद (हिन्दी)
‘यदि कहें कि उन्होंने खरको मारा था तो यह ठीक नहीं है; क्योंकि खर अत्याचारी था । उसने स्वयं ही उन्हें मार डालनेके लिये उनपर आक्रमण किया था । इसलिये श्रीरामने रणभूमिमें उसका वध किया; क्योंकि प्रत्येक प्राणीको यथाशक्ति अपने प्राणोंकी रक्षा अवश्य करनी चाहिये ॥ १४ ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
14. kharaH = Khara; ativR^ittaH = who has gone beyond his limits; nihataH yadi = was of course killed; raameNa = by Rama; raNe = in an encounter; praaNaaH = lives; avashyam = certainly; rakSitavyaaH = are to be protected; yathaa balam = according to one’s own strength; praaNinaam = by living beings."
अनुवादः
“Khara, who has gone beyond limits, was of course killed by Rama in an encounter. Lives are certainly to be protected, according to one’s own strength, by living beings.”
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
अवनु खरनन्नु कॊन्दिद्दनु ऎन्दु हेळिदरू इदु सरियल्ल; एकॆन्दरॆ खरनु अत्याचारियागिद्दनु. अवनु स्वतः रामनन्नु कॊल्ललु अवन मेलॆ आक्रमण माडिद्दनु. अदक्कागि श्रीरामनु रणरङ्गदल्लि अवनन्नु वधिसिदनु; एकॆन्दरॆ प्रतियॊन्दु प्राणिगू यथाशक्ति तन्न प्राणगळन्नु रक्षिसुवुदु अवश्यवागिदॆ.॥1.॥
विश्वास-प्रस्तुतिः
एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत् ।
आहृता सा परित्याज्या कलहार्थे कृते नु किम् ॥ १५ ॥
सर्वाष् टीकाः
मूलम्
एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत् ।
आहृता सा परित्याज्या कलहार्थे कृते नु किम् ॥ १५ ॥
एतन्निमित्तं वैदेही भयं न सुमहद् भवेत् ।
आहृता सा परित्याज्या कलहार्थे कृते नु किम् ॥
मूलम् - VR
एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् । आहृता सा परित्याज्या कलह अर्थे क्ऱ्ते न किम् ॥ ६-९-१५
अनुवाद (हिन्दी)
‘यदि इसी कारणसे सीताको हरकर लाया गया हो तो उन्हें जल्दी ही लौटा देना चाहिये; अन्यथा हमलोगोंपर महान् भय आ सकता है । जिस कर्मका फल केवल कलह है, उसे करनेसे क्या लाभ? ॥ १५ ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
15. etan nimittam = for this reason; sumahat = a very great; vaidehii bhayam = danger because of Seetha; bhavet = will occur; naH = to us; saa = she; aahR^itaa = who was brought; parityaajyaa = is to be given up; kim = what is the use; kR^ite na = in doing anything; kalaha arthe = with an animosity as an end?.
अनुवादः
“For this reason, a very great danger because of Seetha will occur to us. She, who was brought here, is to be given away. What is the use in doing anything, with an animosity as an end?”
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
इदे कारणदिन्द सीतॆयन्नु कद्दु तन्दिद्दरॆ आकॆयन्नु बेगने हिन्दिरुगिसबेकु. इल्लदिद्दरॆ नम्म मेलॆ महाभय ऎरगलिदॆ. केवल कलहवे कर्मद फलवागिद्दरॆ अदन्नु माडुवुदरिन्द एनु लाभ .॥1.॥
विश्वास-प्रस्तुतिः
न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना ।
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना ।
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १६ ॥
मूलम् - VR
न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना । वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥ ६-९-१६
अनुवाद (हिन्दी)
‘श्रीराम बड़े धर्मात्मा और पराक्रमी हैं । उनके साथ व्यर्थ वैर करना उचित नहीं है । मिथिलेशकुमारी सीताको उनके पास लौटा देना चाहिये ॥ १६ ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
16. na naH kSamam = It is not appropriate; kartum = to make; vairam = enmity; nirarthakam = uselessly; tena = with Rama; viiryavataa = who is valiant; dharma anuvartinaa = and who follows; righteousness = maithilii = (let) Seetha; diiyataam = be given away; asya = to him.
अनुवादः
“It is not appropriate to make enmity uselessly with Rama, who is valiant and who follows righteousness. Let Seetha be given away to him.”
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
श्रीरामनु बहळ धर्मात्मा मत्तु पराक्रमियागिद्दानॆ. अवनॊन्दिगॆ व्यर्थवागि वैरमाडुवुदु उचितवल्ल. मिथिलेशकुमारि सीतॆयन्नु अवन बळि हिन्दिरुगिसबेकु.॥1.॥
विश्वास-प्रस्तुतिः
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् ।
पुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् ।
पुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ १७ ॥
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् ।
पुरीं दारयतो बाणैर्दियतामस्य मैथिली ॥
मूलम् - VR
यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् । पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥ ६-९-१७
अनुवाद (हिन्दी)
‘जबतक हाथी, घोड़े और अनेकों रत्नोंसे भरी हुई लङ्कापुरीका श्रीराम अपने बाणोंद्वारा विध्वंस नहीं कर डालते, तबतक ही मैथिलीको उन्हें लौटा दिया जाय ॥ १७ ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
17. yaavan = before; puriim = the city of Lanka; sagajaam = along with elephants; saashvaam = with horses; bahu ratna samaakulaam = and filled with many riches; daarayate = are shattered; maithilii = (let) Seetha; diiyataam = be given away; asya = to him.
अनुवादः
Before the City of Lanka with its elephants, horses and many riches are shattered by arrows, let Seetha be given away to him."
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
आनॆ, कुदुरॆ मत्तु अनेक रत्नगळिन्द तुम्बिद लङ्कॆयन्नु श्रीरामनु तन्न बाणगळिन्द विध्वस्थ माडिबिडुव मॊदले मैथिलियन्नु मरळि कळिसिकॊडबेकु.॥1.॥
विश्वास-प्रस्तुतिः
यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी ।
नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम् ॥ १८ ॥
सर्वाष् टीकाः
मूलम्
यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी ।
नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम् ॥ १८ ॥
मूलम् - VR
यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी । न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥ ६-९-१८
अनुवाद (हिन्दी)
‘जबतक अत्यन्त भयंकर, विशाल और दुर्जय वानर-वाहिनी हमारी लङ्काको पददलित नहीं कर देती, तभीतक सीताको वापस कर दिया जाय ॥ १८ ॥
अनुवाद (कन्नड)
अत्यन्त भयङ्कर विशाल मत्तु दुर्जय वानर सैन्यवु नम्म लङ्कॆयन्नु गॆद्दुकॊळ्ळुव मॊदले सीतॆयन्नु हिन्दक्कॆ कळिसिकॊडबेकु.॥18॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
18. na yaavat taavat = not so long as; mahatii = the huge; harivaahinii = army of monkeys; sughoraa = which is very dangerous; durdharSaa = and unconquerable; naavaskandati = attacks; naH = our; la.nkaam = Lanka; siitaa = (let) Seetha; pradiiyataam = be given away.
अनुवादः
“Not so long as the huge army of monkeys which is very dangerous and unconquerable attacks our Lanka, let Seetha be given away.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः ।
रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः ।
रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥ १९ ॥
मूलम् - VR
विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः । रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥ ६-९-१९
अनुवाद (हिन्दी)
‘यदि श्रीरामकी प्राणवल्लभा सीताको हमलोग स्वयं ही नहीं लौटा देते हैं तो यह लङ्कापुरी नष्ट हो जायगी और समस्त शूरवीर राक्षस मार डाले जायँगे ॥ १९ ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
19. dayitaa = (If) the beloved; patnii = wife; raamasya = of Rama; na diiyate yadi = is not given away; svayam = of your own accord; la.nkaa purii = the City of Lanka; vinshyet hi = will indeed; perish; sarve = all; shuuraaH = the valiant; raakSasaashca = demons too(will perish).
अनुवादः
“If the beloved wife of Rama is not given away of your own accord, the city of Lanka will indeed perish. All our valiant demons too will Perish.”
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
श्रीरामन प्राणवल्लभॆ सीतॆयन्नु नावागिये हिन्दिरुगिसदिद्दरॆ ई लङ्कापुरियु नाशवागि, समस्त शूरवीर राक्षसरु सत्तुहोदारु.॥1.॥
विश्वास-प्रस्तुतिः
प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम ।
हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥ २० ॥
सर्वाष् टीकाः
मूलम्
प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम ।
हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥ २० ॥
मूलम् - VR
प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम । हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥ ६-९-२०
अनुवाद (हिन्दी)
‘आप मेरे बड़े भाई हैं । अतः मैं आपको विनयपूर्वक प्रसन्न करना चाहता हूँ । आप मेरी बात मान लें । मैं आपके हितके लिये सच्ची बात कहता हूँ—आप श्रीरामचन्द्रजीको उनकी सीता वापस कर दें ॥ २० ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
20. prasaadaye = I am propitiating; tvaam = you; bandhutvaat = because of my relationship; kuruSva = act on; mama = my; vachanam = words; aham = I; bruumi = am telling; hitam = the beneficial; tvaham tu = and the truthful (word); maithilii = (let) Seetha; diiyataam = be given away; asya = to him.
अनुवादः
“I am propitiating you because of my relationship. Act on my words. I am telling you beneficial as well as truthful word. Let Seetha be given away to him.”
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
नीवु नन्न अण्णनागिरुविरि. आद्दरिन्द नानु निम्मन्नु विनयपूर्वक सन्तोषगॊळिसलु बयसुत्तिरुवॆनु. नीवु नन्न मातन्नु ऒप्पिकॊळ्ळि. नानु निम्म हितक्कागि निजवाद मातन्नु हेळुवॆनु. नीवु श्रीरामनिगॆ अवन सीतॆयन्नु हिन्दिरुगिसिरि.॥2.॥
विश्वास-प्रस्तुतिः
पुरा शरत्सूर्यमरीचिसन्निभान्
नवाग्रपुङ्खान् सुदृढान् नृपात्मजः ।
सृजत्यमोघान् विशिखान् वधाय ते
प्रदीयतां दाशरथाय मैथिली ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
पुरा शरत्सूर्यमरीचिसन्निभान्
नवाग्रपुङ्खान् सुदृढान् नृपात्मजः ।
सृजत्यमोघान् विशिखान् वधाय ते
प्रदीयतां दाशरथाय मैथिली ॥ २१ ॥
पुरा शूरत्सूर्यमरीचि सन्न्निभान्
नवाग्ररपुङ्खान् सुदृढान् नृपात्मजः ।
सृजत्यमोघान् विशिखान् वधाय ते
प्रदीयतां दाशरथाय मैथिली ॥
मूलम् - VR
पुरा शरत् सूर्य मरीच्चि सम्निभान् । नव अग्र पुन्खान् सुदृढान् नृप आत्मजः । सृजति अमोघान् विशिखान् वधाय ते । प्रदीयताम् दाशरथाय मैथिली ॥ ६-९-२१
अनुवाद (हिन्दी)
‘राजकुमार श्रीराम जबतक आपके वधके लिये शरत्कालके सूर्यकी किरणोंके समान तेजस्वी, उज्ज्वल अग्रभाग एवं पंखोंसे सुशोभित, सुदृढ़ तथा अमोघ बाणोंकी वर्षा करें, उसके पहले ही आप उन दशरथनन्दनकी सेवामें मिथिलेशकुमारी सीताको सौंप दें ॥ २१ ॥
अनुवाद (कन्नड)
राजकुमार श्रीरामनु निम्म वधॆगागि शरत्कालद सूर्यकिरणगळन्तॆ तेजस्वी, उज्वल अग्रभागवुळ्ळ, गरिगळिन्द सुशोभित, सुदृढ, अमोघ बाणगळ मळॆगरॆयुव मॊदले नीवु आ दशरथनन्दनन सेवॆयल्लि मिथिलेशकुमारि सीतॆयन्नु ऒप्पिसिबिडिरि.॥21॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
21. puraa = before; nR^ipa aatmajaH = Rama the prince; sR^ijati = discharges; te vadhaaya te = for your destruction; sudR^iDhaan = very strong; vishikhaan = arrows; sharat suurya mariicci samnibhaan = equal to the rays of autumnal sun; nava agra punkhaan- provided with new heads and shafts; amoghaan = which are unfailing; maithilii = (let) Seetha; pradiiyataam = be given away; daasharathaaya = to Rama.
अनुवादः
“Before Rama the prince discharges for your destruction, very strong and unfailing arrows equal to the rays of autumnal sun and provided with new heads and shafts, let Seetha be given away to Rama.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
त्यजाशु कोपं सुखधर्मनाशनं
भजस्व धर्मं रतिकीर्तिवर्धनम् ।
प्रसीद जीवेम सपुत्रबान्धवाः
प्रदीयतां दाशरथाय मैथिली ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
त्यजाशु कोपं सुखधर्मनाशनं
भजस्व धर्मं रतिकीर्तिवर्धनम् ।
प्रसीद जीवेम सपुत्रबान्धवाः
प्रदीयतां दाशरथाय मैथिली ॥ २२ ॥
मूलम् - VR
त्यजस्व कोपम् सुख धर्म नाशनम् । भजस्व धर्मम् रति कीर्ति वर्धनम् । प्रसीद जीवेम सपुत्र बान्धवाः । प्रदीयताम् दाशरथाय मैथिली ॥ ६-९-२२
अनुवाद (हिन्दी)
‘भैया! आप क्रोधको त्याग दें; क्योंकि वह सुख और धर्मका नाश करनेवाला है । धर्मका सेवन कीजिये; क्योंकि वह सुख और सुयशको बढ़ानेवाला है । हमपर प्रसन्न होइये, जिससे हम पुत्र और बन्धु-बान्धवोंसहित जीवित रह सकें । इसी दृष्टिसे मेरी प्रार्थना है कि आप दशरथनन्दन श्रीरामके हाथमें मिथिलेशकुमारी सीताको लौटा दें’ ॥ २२ ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
22. tyaja = abandon; aashu = soon; kopam = anger; sukha dharma naashanam = which destroys; happiness and piety; bhajasva = resort to; dharmam = righteousness; rati kiirti vardhanam = which augments joy and fame; prasiida = become placid; jiivema = we shall live; saputra baandhavaaH = with our sons and relatives; maithilii = (let) Seetha; pradiiyataam = be given away; daasharathaaya = to Rama.
अनुवादः
“Abandon soon your anger, which destroys happiness and piety. Resort to righteousness, which augments joy and fame. Become placid so that we may live with our sons and relatives. Let Seetha be given away to Rama.”
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
अण्णा! नीवु क्रोधवन्नु बिडिरि; एकॆन्दरॆ अदु सुख मत्तु धर्मद नाश माडुवन्तहुदु. धर्मवन्नु सेविसु, एकॆन्दरॆ अदु सुख मत्तु यशवन्नु हॆच्चिसुत्तदॆ. नम्म मेलॆ प्रसन्ननागु, अदरिन्द नावु मक्कळु, बन्धुबान्धवरॊन्दिगॆ सुखवागि जीविसि इरबल्लॆवु. इदे दृष्टियिन्द नीवु दशरथनन्दन श्रीरामन कैगॆ मैथिलियन्नु ऒप्पिसि बिडि, इदे नन्न प्रार्थनॆयागिदॆ.॥2.॥
विश्वास-प्रस्तुतिः
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥ २३ ॥
विभीषणवचः शृत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥
मूलम् - VR
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥ ६-९-२३
अनुवाद (हिन्दी)
विभीषणकी यह बात सुनकर राक्षसराज रावण उन सब सभासदोंको विदा करके अपने महलमें चला गया ॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
23. shrutvaa = having; vibhiiSaNaH vachaH = Vibhishana’s words; raavaNaH = Ravana; raakSaseshvaraH = the king of demons; visarjayitvaa = left; sarvaan = all; taan = of them; pravivesha = and entered; svakam = his own; gR^iham = house.
अनुवादः
After hearing Vibhishana’s words, Ravana the king of demons left all of them and entered his own palace.
स्रोतः: valmikiramayan.net
अनुवाद (कन्नड)
विभीषणन ई मातन्नु केळि राक्षसराज रावणनु आ ऎल्ल सभासदरन्नु बीळ्कॊट्टु तन्न भवनक्कॆ नडॆदनु.॥2.॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
1-5. tataH = then; nikumbhaH = Nikumbha; rabhasaH = Rabhasa; mahaabalaH = exceedingly strong; suurya shatruH = Suryasatru; suptaghnaH = Suptaghna; yaGYa kopaH = Yajnakopa; mahaapaarsva mahodarau = Mahaparsva and Mahodara; durdharshhaH = the unconquerable raakSasaaH = demons; agniketuH ca = Agniketu and; rashmiketuH ca = Rasmiketu; tataH = then; balavaan = pweful; mahaatejaa = and endowed with great energy; raavaNaatmajaH = son of Ravana; indrajichya = Indrajit; athaH = and; prahasthaH = Prahasta; viruupaakSaH; Virupaksha; mahaabalaH = the extraordinarily strong; vajradamSTraH = Vajradamstra; dhuumraakSashcha = Dhumraksha; atikaayashcha = Atikaya; raakSasaH = and the demon; durmukhashchaiva = named Durmukha; pragR^ihya = carrying; pathishaan = iron clubs; parighaan = sharp-edged spears; shuulaan = spikes; praasaan = darts; shaktiparashvathaan = javelins and axes; chaapaani = bows; sabaaNaani = with excellent arrows; khadgaamshcha = and swords; vipulaambubhaan = shining like a vast expanse of water; sarve = who were all; parama kruddhaaH = extremely enraged; pradiiptaaH iva = flaming as it were; tejasaaH = with glory; raakSasaaH = (those)demons; samutpatya = rose up abruvan = (and) spoke; raavaNam = to Ravana (as follows).
अनुवादः
Then, Nikumbha, Rabhasa, the exceedingly strong Surya satru, Suptaghna, Yaj~akopa, Mahaparsva and Mahodara, the unconquerable demons Agniketu and Rasmiketu, then the powerful son of Ravana named Indrajit endowed with great energy, Prahasta and Virupaksha, Vajradamstra who was extraordinarily strong, Dhumarksha and Atikaya and the demon by name Durmukha, carrying iron clubs, sharp-edged spears, spikes, darts, javelins and axes, bows with excellent arrows and swords shining like a vast expanse of water, and who were all extremely enraged, and flaming as it were with glory, those demons rose up and spoke to Ravana (as follows).
स्रोतः: valmikiramayan.net
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः ॥ ९ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें नवाँ सर्ग पूरा हुआ ॥ ९ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद युद्धकाण्डदल्लि ऒम्भत्तनॆय सर्ग पूर्णवायितु.॥9॥