०८९ भरतादीनां प्रयागवनगमनम्

वाचनम्
सर्वाष् टीकाः
Murali Krishnamurthy Kopalle Murthy - Intro

Book II : Ayodhya Kanda - Book Of Ayodhya

Having passed the night on the banks of Ganga, Bharata asks Guha to make arrangements for their troops to cross the river by boats. Accordngly, Guha has kept ready five hundred boat with their ferry-men for the purpose. All of them reach the opposite shore of ther river. Encamping the army at the shore in the magnificient woods of Prayaga, Bharata along with the priests and king’s counsellors, approach the hermitage of Bharadwaja.

स्रोतः: valmikiramayan.net

भागसूचना
  1. भरतका सेनासहित गङ्गापार करके भरद्वाजके आश्रमपर जाना
विश्वास-प्रस्तुतिः

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
काल्यमुत्थाय शत्रुघ्नमिदं वचनमब्रवीत् ॥ १ ॥

सर्वाष् टीकाः
मूलम्

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
काल्यमुत्थाय शत्रुघ्नमिदं वचनमब्रवीत् ॥ १ ॥


व्यष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
काल्यमुत्थाय शत्रुघ्नमिदं वचनब्रवीत् ॥

मूलम् - VR

व्युष्य रात्रिम् तु तत्र एव गन्गा कूले स राघवः । भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत् ॥ २-८९-१

अनुवाद (हिन्दी)

शृङ्गवेरपुरमें ही गङ्गाके तटपर रात्रि बिताकर रघुकुलनन्दन भरत प्रातःकाल उठे और शत्रुघ्नसे इस प्रकार बोले— ॥ १ ॥

अनुवाद (कन्नड)

शृङ्गवेरपुरदल्ले गङ्गातीरदल्लि इरुळन्नु कळॆदु रघुकुलनन्दन भरतनु प्रातःकाल ऎद्दु शत्रुघ्ननल्लि ई प्रकार हेळिदनु.॥1॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

1. saH bharataH = that Bharata; raaghavaH = born in Raghu race; uSya = having stayed; raatrim = (that) night; tatra = at that; gangaakuule; eva = bank of Ganga only; utthaaya = woke up; kaalyam = in the early hours; abraviit = and spoke; idam = these words; shatrughnam = to shatrughna.

अनुवादः

Bharata, born in Raghu race, having passed the night in that place on the banks of Ganga, rising at dawn, said to shatrughna as follows:

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ २ ॥

मूलम् - VR

शत्रुघ उत्तिष्ठ किम् शेषे निषाद अधिपतिम् गुहम् । शीघ्रम् आनय भद्रम् ते तारयिष्यति वाहिनीम् ॥ २-८९-२

अनुवाद (हिन्दी)

‘शत्रुघ्न! उठो, क्या सो रहे हो । तुम्हारा कल्याण हो, तुम निषादराज गुहको शीघ्र बुला लाओ, वही हमें गङ्गाके पार उतारेगा’ ॥ २ ॥

अनुवाद (कन्नड)

शत्रुघ्नने! एळु, एकॆ इन्नू मलगिद्दीये? निनगॆ मङ्गळवागलि, नीनु निषाद राजगुहनन्नु बेगने करॆदुकॊण्डु बा, अवने नम्मन्नु गङ्गॆ दाटिसुवनु.॥2॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

2. shatrughna = O; Shatrughna; uttiSTha = wake up! kim = why; sheSe = sleep (longer)?; anaya = Bring; guham = Guha; niSaadhipatim = the king of Nishadhas; shiighram = quickly; bhadram = happiness; te = to you; vaahiniim taarayiSyati = he will convey the army across the river.

अनुवादः

“O, Shatrughna! wake up! Why sleep longer/ Bring guha the king of Nishadhas quickly and be happy. Let him convey the army across the river.”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् ।
इत्येवमब्रवीद् भ्राता शत्रुघ्नो विप्रचोदितः ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् ।
इत्येवमब्रवीद् भ्राता शत्रुघ्नो विप्रचोदितः ॥ ३ ॥

मूलम् - VR

जागर्मि न अहम् स्वपिमि तथैव आर्यम् विचिन्तयन् । इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो अपि प्रचोदितः ॥ २-८९-३

अनुवाद (हिन्दी)

उनसे इस प्रकार प्रेरित होनेपर शत्रुघ्नने कहा—‘भैया! मैं भी आपकी ही भाँति आर्य श्रीरामका चिन्तन करता हुआ जाग रहा हूँ, सोता नहीं हूँ’ ॥ ३ ॥

अनुवाद (कन्नड)

भरतनिन्द हीगॆ प्रेरितनाद शत्रुघ्ननु हेळिदनु - अण्णा! नानू निन्नन्तॆये आर्य श्रीरामनन्नु चिन्तिसुत्ता ऎच्चरनागिये इद्दॆ, मलगिरलिल्ल.॥3॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

3. shatrughno.api = even Shatrughna; bhraataa = the brother; prachoditaH = (thus) urged (by Bharata); abraviit = spoke; ityevam = as follows = aham; na svapinii = I am not sleeping; vichintayan = thinking of; tam = that; aaryam eva = Rama alone; jaagarmi = I am wakeful.

अनुवादः

Thus urged by Bhrata, his brother Shatrughna said, “I am not sleeping. Thinking of that Rama alone, I have been wakeful.”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

इति संवदतोरेवमन्योन्यं नरसिंहयोः ।
आगम्य प्राञ्जलिः काले गुहो वचनमब्रवीत् ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

इति संवदतोरेवमन्योन्यं नरसिंहयोः ।
आगम्य प्राञ्जलिः काले गुहो वचनमब्रवीत् ॥ ४ ॥

मूलम् - VR

इति सम्वदतोर् एवम् अन्योन्यम् नर सिम्हयोः । आगम्य प्रान्जलिः काले गुहो भरतम् अब्रवीत् ॥ २-८९-४

अनुवाद (हिन्दी)

वे दोनों पुरुषसिंह जब इस प्रकार परस्पर बातचीत कर रहे थे, उसी समय गुह उपयुक्त वेलामें आ पहुँचा और हाथ जोड़कर बोला— ॥ ४ ॥

अनुवाद (कन्नड)

पुरुषसिंहराद अवरिब्बरू हीगॆ परस्पर मातनाडिकॊळ्ळुत्तिरुवागले गुहनु उपयुक्त समयदल्लि तलुपि कैमुगिदुकॊण्डु नुडिदनु.॥4॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

4. narasimhayoH = (While) those two lions among men; sampadatoH = were talking themsleves; anyonyam = with each other; ityevam = in this manner; guhaH = Guha; aagamya = having come; kaale = in time; abraviit = spoke; praaN^jaliH = with joined palms; bharatam = to Bharata (as follows)

अनुवादः

While those two lions among men were talking themselves with each other thus, Guha came in time and with joined palms, addressed Bharata saying:

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

कच्चित् सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् ।
कच्चिच्च सहसैन्यस्य तव नित्यमनामयम् ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

कच्चित् सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् ।
कच्चिच्च सहसैन्यस्य तव नित्यमनामयम् ॥ ५ ॥

मूलम् - VR

कच्चित् सुखम् नदी तीरे अवात्सीः काकुत्स्थ शर्वरीम् । कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम् ॥ २-८९-५

अनुवाद (हिन्दी)

‘ककुत्स्थकूलभूषण भरतजी! इस नदीके तटपर आप रातमें सुखसे रहे हैं न? सेनासहित आपको यहाँ कोई कष्ट तो नहीं हुआ है? आप सर्वथा नीरोग हैं न?’ ॥

अनुवाद (कन्नड)

ककुत्स्थकुलभूषण भरत! ई नदी तीरदल्लि नीनु सुखवागि मलगिदरल्ल? सेनासहित निनगॆ इल्लि यावुदे कष्टवागलिल्लवल्ल? नीवु सर्वथा निरोगिगळागि इद्दीरल्ल.॥5॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

5. kaakutthsa = O; Bharata; kachchit vaatsiiH = did you pass; sharvariim = the night; sukham = happily; nadiitiire = on the banks of the river?; (I hope); sarvam = all; anaamayam = taavat kachchit = is well indeed; te = to you; saha sainyasya = along with your army.

अनुवादः

“O, Bhrata! Did you pass the night happily on the banks of the river? I hope all is well with your army.”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

गुहस्य तत् तु वचनं श्रुत्वा स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

गुहस्य तत् तु वचनं श्रुत्वा स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥ ६ ॥

मूलम् - VR

गुहस्य तत् तु वचनम् श्रुत्वा स्नेहाद् उदीरितम् । रामस्य अनुवशो वाक्यम् भरतो अपि इदम् अब्रवीत् ॥ २-८९-६

अनुवाद (हिन्दी)

गुहके स्नेहपूर्वक कहे गये इस वचनको सुनकर श्रीरामके अधीन रहनेवाले भरतने यों कहा— ॥ ६ ॥

अनुवाद (कन्नड)

गुहनु स्नेहपूर्वक हेळिद मातन्नु केळि श्रीरामनिगॆ अधीननागिरुव भरतनु इन्तॆन्दनु.॥6॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

6. shrutvaa = hearing; tat = those; vachanam = words; guhasya = of Guha; udiiritam = spoken; snehaat = in affection; bharato.api = Bharata also; anuvashaH = in his devotion; raamasya = to Rama; abraviit = spoke; idam vaakyam = these words.

अनुवादः

Hearing those words of Guha spoken with affection, Bharata also in his devotion to Rama, replied as follows:

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

सुखा नः शर्वरी धीमन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

सुखा नः शर्वरी धीमन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥ ७ ॥


सुखा नः शर्वरी धीमन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्रीभिर्दाशाः सन्तारयन्तु नः ॥

मूलम् - VR

सुखा नः शर्वरी राजन् पूजिताः च अपि ते वयम् । गन्गाम् तु नौभिर् बह्वीभिर् दाशाः सम्तारयन्तु नः ॥ २-८९-७

अनुवाद (हिन्दी)

‘बुद्धिमान् निषादराज! हम सब लोगोंकी रात बड़े सुखसे बीती है । तुमने हमारा बड़ा सत्कार किया । अब ऐसी व्यवस्था करो, जिससे तुम्हारे मल्लाह बहुत-सी नौकाओंद्वारा हमें गङ्गाके पार उतार दें’ ॥ ७ ॥

अनुवाद (कन्नड)

धीमन्तनाद गुहने! नम्मॆल्लर रात्रियु सुखवागि कळॆयितु. नीनु नमगॆ भारी सत्कार माडिरुवॆ. ईग निन्न बॆस्तरु अनेक नौकॆगळन्नु तन्दु नम्मन्नु गङ्गॆयन्नु दाटिसुव व्यवस्थॆ माडु.॥7॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

7. raajan = O; king!; sharvarii = the night; sukhaa = passed pleasantly; naH = for us; were treated hospitably; te = by you; dashaaH = (Let) your fisher man; naH samtaarayantu = ferry us across; gaN^gaam = GangaRiver; bahviibhiH = countless; naubhiH = boats;

अनुवादः

“O, king! The night passed leasantly fo r us. We were treated hospitably by you. Let your fisher-men ferry us across Ganga River on your courtless boats.”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

ततो गुहः सन्त्वरितः श्रुत्वा भरतशासनम् ।
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

ततो गुहः सन्त्वरितः श्रुत्वा भरतशासनम् ।
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ ८ ॥


ततो गुहः सन्त्वरितः श्रुत्वा भरतशासनम् ।
प्रतिप्रविष्य नगरं तं ज्ञातिजनमब्रवीत् ॥

मूलम् - VR

ततो गुहः सम्त्वरितः श्रुत्वा भरत शासनम् । प्रतिप्रविश्य नगरम् तम् ज्नाति जनम् अब्रवीत् ॥ २-८९-८

अनुवाद (हिन्दी)

भरतका यह आदेश सुनकर गुह तुरंत अपने नगरमें गया और भाई-बन्धुओंसे बोला— ॥ ८ ॥

अनुवाद (कन्नड)

भरतन आदेशवन्नु केळि गुहनु कूडले तन्न नगरक्कॆ होगि बन्धु-बान्धवरल्लि हेळिदनु.॥8॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

8. shrutvaa = hearing; bharata shaasanam = Bharata’s command; guhaH = Guha; tataH = then; pratipravishya = returned; nagaram = to the city; samtvaritam = in all haste; abraviit = and spoke; tam = to those; jJNaatijanam = multitude of his people (as follows):

अनुवादः

Hearing Bharata’s command, Guha returned to the city in all haste and spoke to those multitude of his people (as follows):

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा ।
नावः समुपकर्षध्वं तारयिष्यामि वाहिनीम् ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा ।
नावः समुपकर्षध्वं तारयिष्यामि वाहिनीम् ॥ ९ ॥

मूलम् - VR

उत्तिष्ठत प्रबुध्यध्वम् भद्रम् अस्तु हि वः सदा । नावः समनुकर्षध्वम् तारयिष्याम वाहिनीम् ॥ २-८९-९

अनुवाद (हिन्दी)

‘उठो, जागो, सदा तुम्हारा कल्याण हो । नौकाओंको खींचकर घाटपर ले आओ । भरतकी सेनाको गङ्गाजीके पार उतारूँगा’ ॥ ९ ॥

अनुवाद (कन्नड)

एळि ऎद्देळि, सदा निमगॆ मङ्गळवागलि, दोणिगळन्नु तीरदल्लि तन्दु निल्लिसिरि. भरतन सैन्यवन्नु गङ्गॆयन्नु दाटिसबेकागिदॆ.॥9॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

9. uttiSThata = rise; prabudhyadhvam = awake; bhadram = and may prosperity; sadaa = ever; astu = attend; vaH = you; samanukarSadhvam = duly haul; naavaH = the boats; (to the bank); taarayiSyaama = let us carry across; vaahiniim = the army.

अनुवादः

“Rise, awake and may prosperity ever attend you! Duly haul the boats to the bank. Let us carry the army across the river.”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्येव समानिन्युः समन्ततः ॥ १० ॥

सर्वाष् टीकाः
मूलम्

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्येव समानिन्युः समन्ततः ॥ १० ॥

मूलम् - VR

ते तथा उक्ताः समुत्थाय त्वरिताः राज शासनात् । पन्च नावाम् शतान्य् एव समानिन्युः समन्ततः ॥ २-८९-१०

अनुवाद (हिन्दी)

गुहके इस प्रकार कहनेपर अपने राजाकी आज्ञासे सभी मल्लाह शीघ्र ही उठ खड़े हुए और चारों ओरसे पाँच सौ नौकाएँ एकत्र कर लाये ॥ १० ॥

अनुवाद (कन्नड)

गुहनु हीगॆ हेळिदाग तन्न ऒडॆयन अप्पणॆयन्तॆ ऎल्ल बॆस्तरु ऎद्दु निन्तु, ऎल्लॆडॆगळिन्द ऐदुनूरु दोणिगळन्नु ऒट्टुगूडिसिदरु.॥10॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

10. lathaa = thus; uktaaH = spoken; tvaritaaH = (rising) immediatley; raajashaasanaat = on the command of their king; te = they; samaaninyuH = brought together; aashu = quickly; pancha shataani = five hundred; naavaami = boatsamantataH = from very quarter.

अनुवादः

Rising immediately on hearing the command of their king, they quickly brought together five hundred boats from every quarter.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

अन्याः स्वस्तिकविज्ञेया महाघण्टाधरावराः ।
शोभमानाः पताकिन्यो युक्तवाहाः सुसंहताः ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

अन्याः स्वस्तिकविज्ञेया महाघण्टाधरावराः ।
शोभमानाः पताकिन्यो युक्तवाहाः सुसंहताः ॥ ११ ॥

मूलम् - VR

अन्याः स्वस्तिक विज्नेया महा घण्डा धरा वराः । शोभमानाः पताकिन्यो युक्त वाताः सुसम्हताः ॥ २-८९-११

अनुवाद (हिन्दी)

इन सबके अतिरिक्त कुछ स्वस्तिक नामसे प्रसिद्ध नौकाएँ थीं; जो स्वस्तिकके चिह्नोंसे अलंकृत होनेके कारण उन्हीं चिह्नोंसे पहचानी जाती थीं । उनपर ऐसी पताकाएँ फहरा रही थीं, जिनमें बड़ी-बड़ी घण्टियाँ लटक रही थीं । स्वर्ण आदिके बने हुए चित्रोंसे उन नौकाओंकी विशेष शोभा हो रही थी । उनमें नौका खेनेके लिये बहुत-से डाँड़ लगे हुए थे तथा चतुर नाविक उन्हें चलानेके लिये तैयार बैठे थे । वे सभी नौकाएँ बड़ी मजबूत बनी थीं ॥ ११ ॥

अनुवाद (कन्नड)

इवॆल्लवुगळल्लदॆ कॆलवु स्वस्तिक हॆसरिन प्रसिद्ध नौकॆगळिद्दवु. अवु स्वस्तिक चिह्नॆगळिन्द अलङ्कृतवाद कारण अदे चिह्नॆगळिन्द गुरुतिसलागुत्तित्तु. अवुगळल्लि पताकॆगळु हाराडुत्तिद्दु, दॊड्ड दॊड्ड गण्टॆगळु तूगुहाकिद्दरु. स्वर्णादिगळिन्द कॊरॆद चित्रगळिन्द आ नौकॆगळ शोभॆ विशेषवागित्तु. अवुगळन्नु नडॆसलु अनेक हुट्टुगळिद्दु, चतुर नाविकरु सिद्धरागि कुळितिद्दरु. आ ऎल्ल नौकॆगळु गट्टिमुट्टागिद्दवु.॥11॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

11. anyaaH = some; varaaH = excellent boats; mahaaghanTaadharaaH = possessing large bells; svastikavijJNaayaaH = were marked with Swastika; susamhataah = well-kept together; yukta vaataaH = with appropriate sails; shobhamaanaaH = and adorned; pataakaabhiH = with flags.

अनुवादः

Some excellent boats, possessing large bells were marked with Sawstika, well-kept together with appropriate sails and adorned with flags.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ॥ १२ ॥

सर्वाष् टीकाः
मूलम्

ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ॥ १२ ॥

मूलम् - VR

ततः स्वस्तिक विज्नेयाम् पाण्डु कम्बल सम्वृताम् । सनन्दि घोषाम् कल्याणीम् गुहो नावम् उपाहरत् ॥ २-८९-१२

अनुवाद (हिन्दी)

उन्हींमेंसे एक कल्याणमयी नाव गुह स्वयं लेकर आया, जिसमें श्वेत कालीन बिछे हुए थे तथा उस स्वस्तिक नामवाली नावपर माङ्गलिक शब्द हो रहा था ॥ १२ ॥

अनुवाद (कन्नड)

अवुगळल्लिन ऒन्दु मङ्गलमय नौकॆयन्नु गुहनु स्वतः तॆगॆदुकॊण्डु बन्दनु. अदरल्लि बॆळ्ळगिन रत्नगम्बळि हासित्तु हागू आ स्वस्तिक नावॆयल्लि माङ्गलिक शब्दगळु आगुत्तित्तु.॥12॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

12. tataH = then; guhaH = Guha; upaaharat = brought; naavam = one boat; svastika viJJneyaam = also adorned with Swastika; paaN^DukambaLa samvR^itaam = covered with white canvas; sanandighosSaam = covered with white canvas; sanandighoSaam = re-ecohing with acclamations; kalyaaNaam = and beautiful.

अनुवादः

Then, Guha brought there one boat also adorned with Swastika, was covered with white canvas, re-echoing with acclamations and which was beautiful.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

तामारुरोह भरतः शत्रुघ्नश्च महाबलः ।
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ॥ १३ ॥
पुरोहितश्च तत् पूर्वं गुरवो ब्राह्मणाश्च ये ।
अनन्तरं राजदारास्तथैव शकटापणाः ॥ १४ ॥

सर्वाष् टीकाः
मूलम्

तामारुरोह भरतः शत्रुघ्नश्च महाबलः ।
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ॥ १३ ॥
पुरोहितश्च तत् पूर्वं गुरवो ब्राह्मणाश्च ये ।
अनन्तरं राजदारास्तथैव शकटापणाः ॥ १४ ॥

मूलम् - VR

ताम् आरुरोह भरतः शत्रुघ्नः च महा बलः । कौसल्या च सुमित्रा च याः च अन्या राज योषितः ॥ २-८९-१३ पुरोहितः च तत् पूर्वम् गुरवे ब्राह्मणाः च ये । अनन्तरम् राज दाराः तथैव शकट आपणाः ॥ २-८९-१४

अनुवाद (हिन्दी)

उसपर सबसे पहले पुरोहित, गुरु और ब्राह्मण बैठे । तत्पश्चात् उसपर भरत, महाबली शत्रुघ्न, कौसल्या, सुमित्रा, कैकेयी तथा राजा दशरथकी जो अन्य रानियाँ थीं, वे सब सवार हुईं । तदनन्तर राजपरिवारकी दूसरी स्त्रियाँ बैठीं । गाड़ियाँ तथा क्रय-विक्रयकी सामग्रियाँ दूसरी-दूसरी नावोंपर लादी गयीं ॥ १३-१४ ॥

अनुवाद (कन्नड)

अदरल्लि मॊदलिगॆ पुरोहितरु, गुरुगळु, ब्राह्मणरु कुळितरु, बळिक अदर मेलॆ भरत, महाबलि शत्रुघ्न, कौसल्यॆ, सुमित्रॆ, कैकेयि हागू दशरथन इतर राणियरु हीगॆ ऎल्लरू हत्तिदरु. बळिक राजपरिवारद स्त्रीयरु कुळितरु. बण्डिगळु हागू क्रय-विक्रयद समग्रिगळन्नु बेरॆ-बेरॆ नौकॆगळल्लि हेरलायितु.॥13-14॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

13; 14. bharataH = Bharata; aaruroha = ascended; taam = it; shatrughnaH = Shatrughna; mahaabalaH = the exceedingly strong man; kausalyaacha = Kausalya; sumitraacha = Sumitra; yaaH = and whatever; anyaaH = other; raaja yoSitaH = royal women; (mounted the boats); tatpuurvam = Prior to them; purohitashcha = Vasisha; the royal priest; ye = and whatever; guravaH = elderly; braahmaNaashcha = Brahmanas; anantaram = thereafter; raaa daaraaH = the king’s wives; tathaiva = and; shakaTaavaNaaH = the bullock-carts and the provisions.

अनुवादः

Vasishta, the royal priest and whatever elderly Brahmanas were present there ascended the boats, even before Bharata, Shatrughna, Kausalya, Sumitra. Whatever royal women were present also took theri seats. Thereafter followed the king’s wives a well as bullock- carts and provisions.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्तु दिवमस्पृशत् ॥ १५ ॥

सर्वाष् टीकाः
मूलम्

आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्तु दिवमस्पृशत् ॥ १५ ॥

मूलम् - VR

आवासम् आदीपयताम् तीर्थम् च अप्य् अवगाहताम् । भाण्डानि च आददानानाम् घोषः त्रिदिवम् अस्पृशत् ॥ २-८९-१५

अनुवाद (हिन्दी)

कुछ सैनिक बड़ी-बड़ी मशालें जलाकर* अपने खेमोंमें छूटी हुई वस्तुओंको सँभालने लगे । कुछ लोग शीघ्रतापूर्वक घाटपर उतरने लगे तथा बहुत-से सैनिक अपने-अपने सामानको ‘यह मेरा है, यह मेरा है’ इस तरह पहचानकर उठाने लगे । उस समय जो महान् कोलाहल मचा, वह आकाशमें गूँज उठा ॥ १५ ॥

\* यहाँ ‘आवासमादीपयताम्’ का अर्थ कुछ टीकाकारोंने यह किया है कि ‘वे अपने आवासस्थानमें आग लगाने लगे । ‘आवश्यक वस्तुओंको लाद लेनेके बाद जो मामूली झोंपड़े और नगण्य वस्तुएँ शेष रह जाती हैं, उनमें छावनी उखाड़ते समय आग लगा देना—यह सेनाका धर्म बताया गया है । इसके दो रहस्य हैं, किसी शत्रुपक्षीय व्यक्तिके लिये अपना कोई निशान न छोड़ना—यह सैनिक नीति है । दूसरा यह है कि इस तरह आग लगाकर जानेसे विजय-लक्ष्मीकी प्राप्ति होती है—ऐसा उनका परम्परागत विश्वास है ।

अनुवाद (कन्नड)

कॆलवु सैनिकरु सम्प्रदायदन्तॆ तम्म तात्कालिक गुडारगळल्लि दीपगळन्नु हॊत्तिसि इट्टरु. कॆलवु सैनिकरु तम्म-तम्म वस्तुगळन्नु इदु नन्नदु, इदु नन्नदु ऎन्दु हेळुत्ता ऎत्तिकॊळ्ळुत्तिद्दरु. कॆलवरु नदी तीरक्कॆ लगुबगॆयिन्द नडॆदरु. आग उण्टाद कोलाहलवु आकाशदल्लि प्रतिध्वनिसितु.॥15॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

15. ghoSaH = the sound; aadiipayataam = of men; setting fire; aavaasam = to the huts; avagaahataam = and of those who were desecending; tiirthamchaa api = the stone-steps (leading to the boat); aadadaanaam = and those who were transporting; bhaaN^Daani = their effects; who were transporting; bhaaN^Daani = their effects; aspR^ishat- touched; tridvam = the sky.

अनुवादः

The sound of men setting fire to the huts, of those who were descending the steps leading to the boat and those who were transporting their effects touched the sky.

टिप्पनी

It has been a convention among Indian troops in the past to burn whatever is removing their essential things and tents while leaving a halting place in the course of their march to a destination. The idea is not to leave any trace of their whereabouts for the enemy. The practise was also believed to bring triumph to the troops who resorted to it.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः ।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः ।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥ १६ ॥

मूलम् - VR

पताकिन्यः तु ता नावः स्वयम् दाशैर् अधिष्ठिताः । वहन्त्यो जनम् आरूढम् तदा सम्पेतुर् आशुगाः ॥ २-८९-१६

अनुवाद (हिन्दी)

उन सभी नावोंपर पताकाएँ फहरा रही थीं । सबके ऊपर खेनेवाले कई मल्लाह बैठे थे । वे सब नौकाएँ उस समय चढ़े हुए मनुष्योंको तीव्रगतिसे पार ले जाने लगीं ॥ १६ ॥

अनुवाद (कन्नड)

आ ऎल्ल दोणिगळ मेलॆ पताकॆगळु हाराडुत्तिद्दवु. ऎल्लदरल्लि बॆस्तरु कुळितिद्दरु. आ ऎल्ल नौकॆगळु अदरल्लि कुळित जनरन्नु तीव्रगतियिन्द दाटिसुत्तिद्दवु.॥16॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

16. taam naavaH = those boats; pataakinyaH = possessing flags; adhiSThitaaH = administered; daashaiH = by the fisher-men; svayam = themselves; tadaa = then; sampetuH = ran; aashugaaH = speedily; rahantyaH = carrying; aaruuDhamjanam = the passengers.

अनुवादः

Thos boats, adorned with flags, steered by fisher-men themselves ran speedily, duly carrying those passengers.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

नारीणामभिपूर्णास्तु काश्चित् काश्चित् तु वाजिनाम् ।
काश्चित् तत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

नारीणामभिपूर्णास्तु काश्चित् काश्चित् तु वाजिनाम् ।
काश्चित् तत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ १७ ॥

मूलम् - VR

नारीणाम् अभिपूर्णाः तु काश्चित् काश्चित् तु वाजिनाम् । कश्चित् तत्र वहन्ति स्म यान युग्यम् महा धनम् ॥ २-८९-१७

अनुवाद (हिन्दी)

कितनी ही नौकाएँ केवल स्त्रियोंसे भरी थीं, कुछ नावोंपर घोड़े थे तथा कुछ नौकाएँ गाड़ियों, उनमें जोते जानेवाले घोड़े, खच्चर, बैल आदि वाहनों तथा बहुमूल्य रत्न आदिको ढो रही थीं ॥ १७ ॥

अनुवाद (कन्नड)

अनेक नौकॆगळु स्त्रीयरिन्दले तुम्बिद्दवु. कॆलवुगळल्लि कुदुरॆगळु, कॆलवुगळल्लि बण्डिगळु, गाडि-रथक्कॆ हूडुव कुदुरॆ, हेसरगत्तॆ, ऎत्तुगळु मॊदलादवुगळु, वाहनगळु, अमूल्य रत्नादिगळन्नु हेरलागित्तु.॥17॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

17. kaashchit = some; adhipuurNaaH = were filled; naariiNaam = with women; atra = there; kaashchit = and some; (were loaded) vaajinaam = with horses; kaashchit = some; vahantisma = ferried animals of draught; mahaadhanam = of great value.

अनुवादः

Some were filled with women. Some were loaded with horses and some of them ferried animals of draught of great value.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

तास्तु गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ता काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

तास्तु गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ता काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ १८ ॥

मूलम् - VR

ताः स्म गत्वा परम् तीरम् अवरोप्य च तम् जनम् । निवृत्ताः काण्ड चित्राणि क्रियन्ते दाश बन्धुभिः ॥ २-८९-१८

अनुवाद (हिन्दी)

वे दूसरे तटपर पहुँचकर वहाँ लोगोंको उतारकर जब लौटीं, उस समय मल्लाहबन्धु जलमें उनकी विचित्र गतियोंका प्रदर्शन करने लगे ॥ १८ ॥

अनुवाद (कन्नड)

अवु आचॆय दडक्कॆ तलुपि अल्लि जनरन्नु इळिसि मरळुवाग बॆस्तरु नीरिनल्लि अवुगळ विचित्र गतिगळन्नु प्रदर्शिसतॊडगिदरु.॥18॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

18. gatvaa = having reached; param tiiram = the opposite shore; taaH = those boats; avaropya = cleared; tam janam = those people; nivR^ittaaHsma = and returened; kriyantesma = (the boats) were plied; kaanDachitraaNi = as toy-boats made of bamboo; daashabandubhiH = by the kinsfolk of guha.

अनुवादः

Having reached the opposite shore, thsoe boats cleared those people and on the return journey, the kinsfolk of guha plied them as easily as toy- boats made of bamboo.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः ।
तरन्तः स्म प्रकाशन्ते सपक्षा इव पर्वताः ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः ।
तरन्तः स्म प्रकाशन्ते सपक्षा इव पर्वताः ॥ १९ ॥

मूलम् - VR

सवैजयन्ताः तु गजा गज आरोहैः प्रचोदिताः । तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ २-८९-१९

अनुवाद (हिन्दी)

वैजयन्ती पताकाओंसे सुशोभित होनेवाले हाथी महावतोंसे प्रेरित होकर स्वयं ही नदी पार करने लगे । उस समय वे पंखधारी पर्वतोंके समान प्रतीत होते थे ॥

अनुवाद (कन्नड)

वैजयन्ती पताकॆगळिन्द सुशोभितवाद आनॆगळु मावुतरिन्द प्रेरितवागि नदियन्नु दाटलु तॊडगिदवु. आग अवु रॆक्कॆगळुळ्ळ पर्वतदन्तॆ कण्डुबरुत्तित्तु.॥19॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

19. gajaaroha prachoditaaH = goaded on by their mahots; gajaaH = elephants; savaijayantaaH = adorned with flags; tarantaH = swimming across the river; prakaashantesma iva = looked like; sadhvajaaH = winged; parvataaH = mountains.

अनुवादः

Goaded on by their mahouts, elephants adorned with their flags, swimming across the river, looked life winged mountains.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे ।
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥ २० ॥

सर्वाष् टीकाः
मूलम्

नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे ।
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥ २० ॥

मूलम् - VR

नावः च आरुरुहुः तु अन्ये प्लवैः तेरुः तथा अपरे । अन्ये कुम्भ घटैः तेरुर् अन्ये तेरुः च बाहुभिः ॥ २-८९-२०

अनुवाद (हिन्दी)

कितने ही मनुष्य नावोंपर बैठे थे और कितने ही बाँस तथा तिनकोंसे बने हुए बेड़ोंपर सवार थे । कुछ लोग बड़े-बड़े कलशों, कुछ छोटे घड़ों और कुछ अपनी बाहुओंसे ही तैरकर पार हो रहे थे ॥ २० ॥

अनुवाद (कन्नड)

ऎष्टो जनरु दोणिगळल्लि कुळितिद्दरॆ कॆलवरु बिदिरिनिन्द माडिद तॆप्पगळन्नेरिदरु. कॆलवु जनरु दॊड्ड-दॊड्ड मडकॆगळन्नु आसरॆयागिट्टुकॊण्डु ईजिये दाटुत्तिद्दरु.॥20॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

20. anye = some; aaruruhshcha = ascended; naavaH = boats; apare = some others; teruH = crossed; plavaiH = by rafts; tathaa = in the same manner; anye = some others; teruH = swam across kumbhaghaTaiH = with the help of big and small earthen vessels; anye = some other; terushcha = swam; baahibhiH = with arms.

अनुवादः

Some ascended boats. Some others crossed the river by rafts in the same manner. Some others swam across with the help of big and small earthen vessels. The rest swam with arms.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

सा पुण्या ध्वजिनी गङ्गां दाशैः सन्तारिता स्वयम् ।
मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

सा पुण्या ध्वजिनी गङ्गां दाशैः सन्तारिता स्वयम् ।
मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥ २१ ॥

मूलम् - VR

सा पुण्या ध्वजिनी गन्गाम् दाशैः सम्तारिता स्वयम् । मैत्रे मुहूर्ते प्रययौ प्रयाग वनम् उत्तमम् ॥ २-८९-२१

अनुवाद (हिन्दी)

इस प्रकार मल्लाहोंकी सहायतासे वह सारी पवित्र सेना गङ्गाके पार उतारी गयी । फिर वह स्वयं मैत्र* नामक मुहूर्तमें उत्तम प्रयागवनकी ओर प्रस्थित हो गयी ॥ २१ ॥

\* दो-दो घड़ी (दण्ड) का एक मुहूर्त होता है । दिनमें कुल पंद्रह मुहूर्त बीतते हैं । इनमेंसे तीसरे मुहूर्तको ‘मैत्र’ कहते हैं । बृहस्पतिने पंद्रह मुहूर्तोंके नाम इस प्रकार गिनाये हैं—रौद्र, सार्प, मैत्र, पैत्र, वासव, आप्य, वैश्व, ब्राह्म, प्राज, ईश, ऐन्द्र, ऐन्द्राग्न, नैर्ऋत, वारुणार्यमण तथा भगी । जैसा कि वचन है—
रौद्रः सार्पस्तथा मैत्रः पैत्रो वासव एव च ।
आप्यो वैश्वस्तथा ब्राह्मः प्राजेशैन्द्रास्तथैव च ॥
ऐन्द्राग्नो नैर्ऋतश्चैव वारुणार्यमणो भगी ।
एतेऽह्नि क्रमशो ज्ञेया मुहूर्ता दश पश्च च ॥

अनुवाद (कन्नड)

ई प्रकार बॆस्तर सहायदिन्द आ पवित्र सैन्यवु गङ्गॆयन्नु दाटितु. मत्तॆ आ सैन्यवु मैत्र ऎम्ब मुहूर्तदल्लि प्रयागद कडॆगॆ हॊरटितु.॥21॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

21. samtaaritaa = having been made to cross; gaNgaam = River Ganga; daashaiH = by the fishermen; svayam = themselves; saa puNyaa = that holy; dhvajinii = army; prayaryau = that holy; dhvajinii = army; prayayau = reached; uttamam = the magnificient; prayaagavanam = woods of Prayaga; maitre muhuurte = at the hour of maitra.

अनुवादः

Having made to cross River Ganga by the fisher-men themselves, that holy army reached the magnificient woods of Prayaga at the hour of Maitra.

टिप्पनी

The hour of early hours. A Muhurta, loosely translated as an hour, really consist of 48 minutes. There are fifteen such Muhurtas in a day. They are named in order by Brihaspati as Randra, Sarpa, maitra, Paitra, Vasava, Apya, Vaisva, Brahma, Praja, Isha, Sindra, Aindragna, Nairta, Varunaryamana and Bhagi.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

आश्वासयित्वा च चमूं महात्मा
निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य-
मृत्विक्सदस्यैर्भरतः प्रतस्थे ॥ २२ ॥

सर्वाष् टीकाः
मूलम्

आश्वासयित्वा च चमूं महात्मा
निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य-
मृत्विक्सदस्यैर्भरतः प्रतस्थे ॥ २२ ॥


आश्वासयित्वा च चमूं महात्मा
निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्यं-
ऋत्विक् सदस्यैर्भरतः प्रतस्थे ॥

मूलम् - VR

आश्वासयित्वा च चमूम् महात्मा । निवेशयित्वा च यथा उपजोषम् । द्रष्टुम् भरद्वाजम् ऋषि प्रवर्यम् । ऋत्विग् वृतः सन् भरतः प्रतस्थे ॥ २-८९-२२

अनुवाद (हिन्दी)

वहाँ पहुँचकर महात्मा भरत सेनाको सुखपूर्वक विश्रामकी आज्ञा दे उसे प्रयागवनमें ठहराकर स्वयं ऋत्विजों तथा राजसभाके सदस्योंके साथ ऋषिश्रेष्ठ भरद्वाजका दर्शन करनेके लिये गये ॥ २२ ॥

अनुवाद (कन्नड)

अल्लिगॆ तलुपि महात्मा भरतनु सैन्यक्कॆ सुखवागि विश्रान्ति पडॆयलु आज्ञापिसिदनु. अवरन्नु प्रयागदल्लि निल्लिसि स्वतः ऋत्विजरु, राजसभॆय सदस्यरॊन्दिगॆ ऋषिश्रेष्ठ भरद्वाजरन्नु दर्शिसलु हॊरटरु.॥22॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

22. mahaatmaa = the high souled; bharataH = Bharata; aashvaasayitvaa chamnum = made the army to rest; niveshayitvaa = by encamping it; yathopajoSam = according to its inclination; pratasthe = and set out; R^itvigvR^itassan = along with the priests and the king’s counsellors; draSTum = to see; bharadvaajam = Bharadwaja; R^iSivaryam = the foremost of sages.

अनुवादः

The high-souled Bharata made the army to rest, by encamping it according to its inclination and set out along with the priests and king’s counsellors to meet Bharadwaja, the foremost of sages.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

स ब्राह्मणस्याश्रममभ्युपेत्य
महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षदेशं
महद्वनं विप्रवरस्य रम्यम् ॥ २३ ॥

सर्वाष् टीकाः
मूलम्

स ब्राह्मणस्याश्रममभ्युपेत्य
महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षदेशं
महद्वनं विप्रवरस्य रम्यम् ॥ २३ ॥

मूलम् - VR

स ब्राह्मणस्याश्रममभ्युपेत्य । महात्मनो देवपुरोहितस्य । ददर्श रम्योटजवृक्षषण्डं । महद्वनं विप्रवरस्य रम्यम् ॥ २-८९-२३

अनुवाद (हिन्दी)

देवपुरोहित महात्मा ब्राह्मण भरद्वाज मुनिके आश्रमपर पहुँचकर भरतने उन विप्रशिरोमणिके रमणीय एवं विशाल वनको देखा, जो मनोहर पर्णशालाओं तथा वृक्षावलियोंसे सुशोभित था ॥ २३ ॥

अनुवाद (कन्नड)

देव पुरोहितराद महात्मा ब्राह्मण भरद्वाज मुनिय आश्रमक्कॆ तलुपि भरतनु आ विप्र शिरोमणिय रमणीय हागू विशालवनवन्नु नोडिदनु. अदु मनोहर पर्णशालॆगळिन्द, निबिडवाद वृक्षगळिन्द सुशोभितवागित्तु.॥23॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

abhyupetya = approaching; aashramam = the hermitage; braahmaNasya = of that Brahmana; mahaatmanaH = the hight-souled; deva purohitasya = and the family- priest of gods; saH = Bharata; dadarsha = saw; mahat vanam = and extensive grove; vipravarasya = of the chief of ascities; ramyam = which was enchanting; ramyoTaja vR^ikSaSaNDam = with its leafy huts and treees.

अनुवादः

Approaching the hermitage of that high-souled Brahmana and the family priest of gods, Bharata saw an extensive and enchanting grove with its leafy huts and tress the chief of ascatics.

स्रोतः: valmikiramayan.net

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येऽयोध्याकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके अयोध्याकाण्डमें नवासीवाँ सर्ग पूरा हुआ ॥ ८९ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद अयोध्याकाण्डदल्लि ऎम्भत्तॊम्भत्तनॆय सर्ग पूर्णवायितु॥89॥