०८३ शृङ्गिबेरपुरे भरतवासः

वाचनम्
सर्वाष् टीकाः
Murali Krishnamurthy Kopalle Murthy - Intro

Book II : Ayodhya Kanda - Book Of Ayodhya

Leaving Ayodhya early next morning, accompanied by family-priests, ministers, archers, elephants, cavalry, artisans, army and citizens and covering a long distance, Bharata arrives at the bank of Ganga River at Sringaberapura ruled by guha and, encamping the army there, breaks journey for offering libations to his deceased father on the bank of the Ganaga and also to give rest to the retinue.

स्रोतः: valmikiramayan.net

भागसूचना
  1. भरतकी वनयात्रा और शृङ्गवेरपुरमें रात्रिवास
विश्वास-प्रस्तुतिः

ततः समुत्थितः कल्यमास्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतः शीघ्रं रामदर्शनकाम्यया ॥ १ ॥

सर्वाष् टीकाः
मूलम्

ततः समुत्थितः कल्यमास्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतः शीघ्रं रामदर्शनकाम्यया ॥ १ ॥


ततः समुत्थितः कल्पमास्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतः शीघ्रंरामदर्शनकाम्यया ॥

मूलम् - VR

ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् । प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥ २-८३-१

अनुवाद (हिन्दी)

तदनन्तर प्रातःकाल उठकर भरतने उत्तम रथपर आरूढ़ हो श्रीरामचन्द्रजीके दर्शनकी इच्छासे शीघ्रतापूर्वक प्रस्थान किया ॥ १ ॥

अनुवाद (कन्नड)

अनन्तर प्रातःकाल ऎद्द भरतनु उत्तम रथदल्लि आरूढनागि श्रीरामचन्द्रन दर्शनद इच्छॆयिन्द शीघ्रवागि हॊरटनु.॥1॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

1. tataH = thereafter; bharataH = Bharata; samutthitaH = rose up; kaalayam = at day-break; aasthaaya = mounted; syandanottamam = on an excellent chariot; prayayau = and procedded; shiighra = quickly; raamadarshanakaaNkshayaa = with a desire to see Rama.

अनुवादः

Bharata rose up at day-break, mounted on excellent chariot and went quickly with a desire to see Rama.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोहिताः ।
अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ॥ २ ॥

सर्वाष् टीकाः
मूलम्

अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोहिताः ।
अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ॥ २ ॥


अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोहितः ।
अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ॥

मूलम् - VR

अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः । अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥ २-८३-२

अनुवाद (हिन्दी)

उनके आगे-आगे सभी मन्त्री और पुरोहित घोड़े जुते हुए रथोंपर बैठकर यात्रा कर रहे थे । वे रथ सूर्यदेवके रथके समान तेजस्वी दिखायी देते थे ॥ २ ॥

अनुवाद (कन्नड)

अवन मुन्दॆ-मुन्दॆ ऎल्ल मन्त्रिगळु, पुरोहितरु कुदुरॆ हूडिद रथगळल्लि कुळितु प्रयाणिसुत्तिद्दरु. आ रथगळु सूर्यन रथदन्तॆ तेजस्वियागि काणुत्तिद्दवु.॥2॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

2. sarve = all; mantra purodhasaH = the ministers and priests; adhiruuhya = ascended; rathaan = chariots; yuktaam = yoked; hayaiH = with horses; suurya rathopamaan = resembling those of the sun; prayayuH = and went; agrataH = ahead; tasya = of him.

अनुवादः

All the ministers and priests ascended, chariots yoked with horses, resembling those of the sun, and went ahead of Bharata.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

नवनागसहस्राणि कल्पितानि यथाविधि ।
अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ॥ ३ ॥

सर्वाष् टीकाः
मूलम्

नवनागसहस्राणि कल्पितानि यथाविधि ।
अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ॥ ३ ॥

मूलम् - VR

नव नाग सहस्राणि कल्पितानि यथा विधि । अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥ २-८३-३

अनुवाद (हिन्दी)

यात्रा करते हुए इक्ष्वाकुकुलनन्दन भरतके पीछे-पीछे विधिपूर्वक सजाये गये नौ हजार हाथी चल रहे थे ॥

अनुवाद (कन्नड)

प्रयाण माडुत्तिद्द इक्ष्वाकु कुलनन्दन भरतन हिन्दॆ क्रमवागि अलङ्करिसिद ऒम्भत्तु साविर आनॆगळु नडॆयुत्तिद्दवु.॥3॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

3. nava naagasraaNi = nine thousand elephants; kalpitaani = well-arranged; yathaavidhi = suitably; anvayuH = accompanied; yaantam = the moving; bharatam = Bharata; ikshvaaku kulanandanam = the joy of Ikshvaku dynasty.

अनुवादः

Nine thousand elephants suitably duly arranged escorted Bharata the joy of the Ikshvaku dynasty, on his journey.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

षष्ठी रथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४ ॥

सर्वाष् टीकाः
मूलम्

षष्ठी रथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४ ॥


षष्टी रथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥

मूलम् - VR

षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥ २-८३-४

अनुवाद (हिन्दी)

यात्रापरायण यशस्वी राजकुमार भरतके पीछे साठ हजार रथ और नाना प्रकारके आयुध धारण करनेवाले धनुर्धर योद्धा भी जा रहे थे ॥ ४ ॥

अनुवाद (कन्नड)

यात्रा परायण यशस्वी राजकुमार भरतन हिन्दॆ अरवत्तु साविर रथगळु, नाना प्रकारद आयुधगळन्नु धरिसिद धनुर्धर योधरु होगुत्तिद्दरु.॥4॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

4. SaSTiH = sixty; ratha sahasraaNi = thousand chariots; dhanvinaH = men wielding bows; vividhaayudhaaH = and various kinds of weapon; anvayuH = followed; yashasvinam = the illustrious; raajaputram = prince; bharatam = Bharata; yaantam = on his journey.

अनुवादः

Sixty thousand chariots filled with archers, furnished with weapons of various kinds, followed the illustrious prince Bharata.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

शतं सहस्राण्यश्वानां समारूढानि राघवम् ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ५ ॥

सर्वाष् टीकाः
मूलम्

शतं सहस्राण्यश्वानां समारूढानि राघवम् ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ५ ॥

मूलम् - VR

शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥ २-८३-५

अनुवाद (हिन्दी)

उसी प्रकार एक लाख घुड़सवार भी उन यशस्वी रघुकुलनन्दन राजकुमार भरतकी यात्राके समय उनका अनुसरण कर रहे थे ॥ ५ ॥

अनुवाद (कन्नड)

हागॆये ऒन्दु लक्ष कुदुरॆ सवाररू आ यशस्वी रघुकुलनन्दन राजपुत्र भरतनन्नु अनुसरिसुत्तिद्दरु.॥5॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

5. shatam = a hundred; sahasraaNi = thousad; ashvaanaam samaaruuDhaani = cavalry; anvayuH = accompanied; yaantam = the moving; bharatam = Bharata; raaghavam = born in Raghu dynasty; satyasandham = who was true to his promise; jitendriyam- and who subdued his senses.

अनुवादः

A hundred thousand cavalry accompanied the moving Bharata, born in Raghu dynasty, who was true to his promise and who subdued his senses.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

कैकेयी च सुमित्रा च
कौसल्या च यशस्विनी ।
रामानयन-सन्तुष्टा
ययुर् यानेन भास्वता ॥ ६ ॥

सर्वाष् टीकाः
मूलम्

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
रामानयनसन्तुष्टा ययुर्यानेन भास्वता ॥ ६ ॥

मूलम् - VR

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥ २-८३-६

अनुवाद (हिन्दी)

कैकेयी, सुमित्रा और यशस्विनी कौसल्या देवी भी श्रीरामचन्द्रजीको लौटा लानेके लिये की जानेवाली उस यात्रासे संतुष्ट हो तेजस्वी रथके द्वारा प्रस्थित हुईं ॥

अनुवाद (कन्नड)

कैकेयि, सुमित्रॆ, यशस्विनी कौसल्यॆयरू कूड श्रीरामनन्नु करॆतरलु होगुव आ यात्रॆयल्लि सन्तुष्टरागि तेजस्वी रथगळल्लि हॊरटरु.॥6॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

6. kaikeyii cha = Kaikeyi; sumitraacha = Sumitra; yashashvinii = and the illustrious; kausalyaacha = Kausalya; yayuH = rode; bhaasvataa yaanena = in a resplendent chariot; ramaanayana samhR^iSTaaH = delighted as they were at the thought of the return of Rama.

अनुवादः

Kaikeyi, Sumitra and the illustrious Kausalya rode in a resplendent chariot, delighted as they were at the thought of Rama’s return.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् ।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ ७ ॥

सर्वाष् टीकाः
मूलम्

प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम् ।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ ७ ॥

मूलम् - VR

प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् । तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥ २-८३-७

अनुवाद (हिन्दी)

ब्राह्मण आदि आर्यों (त्रैवर्णिकों) के समूह मनमें अत्यन्त हर्ष लेकर लक्ष्मणसहित श्रीरामका दर्शन करनेके लिये उन्हींके सम्बन्धमें विचित्र बातें कहते-सुनते हुए यात्रा कर रहे थे ॥ ७ ॥

अनुवाद (कन्नड)

ब्राह्मणादि आर्यर (त्रैवर्णिकर) गुम्पु, मनस्सिनल्लि अत्यन्त हर्षितरागि लक्ष्मण सहित श्रीरामन दर्शन माडलिक्कागि, अवर कुरिताद विचित्र मातुगळन्नु हेळुत्ता-केळुत्ता प्रयाणिसुत्तिद्दरु.॥7॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

7. aarya samghaataashcha = the whole body of noble men; hR^iSTamaanasaaH = with jubiliant hearts; kurvaaNaaH = narrating; chitraaH = marvelous; kathaaH = stories; tasyaiva = of Rama himself; prayaataaH = wnt; draSTum = to behold; raamam = Rama; salakshamaNaH = along with Lakshmana.

अनुवादः

The whole body of noble men with their jubiliant hearts followed Bharata to see Rama again as also Lakshmana, recounting the marvelous exploits of that hero to each other saying:

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ ८ ॥

सर्वाष् टीकाः
मूलम्

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ ८ ॥

अनुवाद (हिन्दी)

(वे आपसमें कहते थे—) ‘हमलोग दृढ़ताके साथ उत्तम व्रतका पालन करनेवाले तथा संसारका दुःख दूर करनेवाले, स्थितप्रज्ञ, श्यामवर्ण महाबाहु श्रीरामका कब दर्शन करेंगे? ॥ ८ ॥

अनुवाद (कन्नड)

(अवरु परस्पर आडिकॊळ्ळुत्तिद्दरु -) दृढतॆयिन्द उत्तम व्रतवन्नु पालिसुव हागू जगत्तिन दुःखवन्नु दूरगॊळिसुव, स्थितप्रज्ञ, श्यामवर्ण, महाबाहु श्रीरामनन्नु नावु यावाग दर्शिसुवॆ.॥8॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

8. kadaa = when; drakSyaamahe = shall we see; mahaabaahum = the mighty armed prince; maghashyaamam = of the hue of a dark cloud; sthira sattvam = whose courage is unshakable; dR^iDhavratam = of inflexible purpose; raamam = Rama; shokanaashanam = who banished sorrow; jagataH = from the earth?

अनुवादः

“When shall we see the mighty armed prince, of the hue of dark cloud, whose courage is unshakable, of inflexible purpose Rama, who banished sorrow from the earth?”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

दृष्ट एव हि नः शोकमपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ ९ ॥

सर्वाष् टीकाः
मूलम्

दृष्ट एव हि नः शोकमपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ ९ ॥

मूलम् - VR

दृष्टएव हि नः शोकम् अपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥ २-८३-९

अनुवाद (हिन्दी)

‘जैसे सूर्यदेव उदय लेते ही सारे जगत् का अन्धकार हर लेते हैं, उसी प्रकार श्रीरघुनाथजी हमारी आँखोंके सामने पड़ते ही हमलोगोंका सारा शोक-संताप दूर कर देंगे’ ॥ ९ ॥

अनुवाद (कन्नड)

सूर्यनु उदयिसिदाग जगत्तिन अन्धकारवन्नु इल्लवागिसुवन्तॆ श्रीरघुनाथनु नम्म कण्णिगॆ बिद्दाग नम्म ऎल्ल शोक-सन्ताप दूरगॊळिसुवनु.॥9॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

9. raaghavaH = (As soon as) Rama; dR^iSTa eva = is seen; apaneSyatihi = he will indeed remove; naH = our; shokam = sorrow; tamaH iva = like darkness; sarvasya = of the entire; lokasya = world (is removed); samudyan = at the rising; bhaaskaraH = sun.

अनुवादः

“Beholding Rama, our entire sorrow will indeed be dispelled, as darkness of the entire earth is dispelled at the rising of the sun.”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः ।
परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा ॥ १० ॥

सर्वाष् टीकाः
मूलम्

इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः ।
परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा ॥ १० ॥

मूलम् - VR

इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥ २-८३-१०

अनुवाद (हिन्दी)

इस प्रकारकी बातें कहते और अत्यन्त हर्षसे भरकर एक-दूसरेका आलिङ्गन करते हुए अयोध्याके नागरिक उस समय यात्रा कर रहे थे ॥ १० ॥

अनुवाद (कन्नड)

हीगॆ मातुगळन्नाडुत्ता, अत्यन्त हर्षदिन्द ऒब्बरु मत्तॊब्बरन्नु आलिङ्गिसिकॊळ्ळुत्ता अयोध्यॆय नागरिकरु आग प्रयाण माडुत्तिद्दरु.॥10॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

10. te = those; naagarikaaH janaaH = citizens; kathayantaH = recounting; shubhaaH = the auspicious; kathaaH = stories; ityevam = as aforesaid; pariSvajaanaashcha = embracing; anyonyam = each other; samprahR^iSTaaH = joyfully; yayuH = went along.

अनुवादः

Thus did the citizens of Ayodhya recount happily of Rama’s glorious deeds, and they embraced each other as they went along.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

ये च तत्रापरे सर्वे सम्मता ये च नैगमाः ।
रामं प्रतिययुर्हृष्टाः सर्वाः प्रकृतयः शुभाः ॥ ११ ॥

सर्वाष् टीकाः
मूलम्

ये च तत्रापरे सर्वे सम्मता ये च नैगमाः ।
रामं प्रतिययुर्हृष्टाः सर्वाः प्रकृतयः शुभाः ॥ ११ ॥

मूलम् - VR

ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः । रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥ २-८३-११

अनुवाद (हिन्दी)

उस नगरमें जो दूसरे सम्मानित पुरुष थे, वे सब लोग तथा व्यापारी और शुभ विचारवाले प्रजाजन भी बड़े हर्षके साथ श्रीरामसे मिलनेके लिये प्रस्थित हुए ॥ ११ ॥

अनुवाद (कन्नड)

आ नगरदल्लिद्द इतर सम्मानित ऎल्ल पुरुषरू, व्यापारिगळू, शुभ विचारवुळ्ळ प्रजाजनरू कूड बहळ हर्षदिन्द श्रीरामनन्नु काणलु हॊरटरु.॥11॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

11. ye = which; apare = others; sammataaH = who were held in high esteem; tatra = there; ye = which; naigamaaH = merchants; tathaa = and; sarvaaH = all; prakR^itayaH = common people; yayuH = proceeded; hR^iSTaaH = merrily; raamam = to join Rama.

अनुवादः

Those others who were held in high esteem, merchants and all common people proceeded merrily to join Rama.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः ।
सूत्रकर्मविशेषज्ञा ये च शस्त्रोपजीविनः ॥ १२ ॥
मायूरकाः क्राकचिका वेधका रोचकास्तथा ।
दन्तकाराः सुधाकारा ये च गन्धोपजीविनः ॥ १३ ॥
सुवर्णकाराः प्रख्यातास्तथा कम्बलकारकाः ।
स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास्तथा ॥ १४ ॥
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।
शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा ॥ १५ ॥
समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः ।
गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ १६ ॥

सर्वाष् टीकाः
मूलम्

मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः ।
सूत्रकर्मविशेषज्ञा ये च शस्त्रोपजीविनः ॥ १२ ॥
मायूरकाः क्राकचिका वेधका रोचकास्तथा ।
दन्तकाराः सुधाकारा ये च गन्धोपजीविनः ॥ १३ ॥
सुवर्णकाराः प्रख्यातास्तथा कम्बलकारकाः ।
स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास्तथा ॥ १४ ॥
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।
शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा ॥ १५ ॥
समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः ।
गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ १६ ॥


मणिकाराश्च ये केचित्कुम्भकाराश्च शोभनाः ।
सूत्रकर्मविशेषज्ञा ये च शस्त्रोपजीविनः ॥ मायूरकाः क्राकचिका वेधका रोचकास्तथा ।
दन्तकाराः सुधाकारा ये च गन्धोपजीविनः ॥ सुवर्णकाराः प्रख्यातस्तथा कम्बलकारकाः ।
स्नापकोष्णोदका वैद्याधूपकाःशौण्डिकास्तथा ॥ रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।
शैलूषाश्चसह स्त्रीभिर्यान्तिः कैवर्तकास्तथा ॥ समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः ।
गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥

मूलम् - VR

मणि काराः च ये केचित् कुम्भ काराः च शोभनाः । सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥ २-८३-१२ मायूरकाः क्राकचिका रोचका वेधकाः तथा । दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥ २-८३-१३ सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः । स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥ २-८३-१४ रजकाः तुन्न वायाः च ग्राम घोष महत्तराः । शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥ २-८३-१५ समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः । गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥ २-८३-१६

अनुवाद (हिन्दी)

जो कोई मणिकार (मणियोंको सानपर चढ़ाकर चमका देनेवाले), अच्छे कुम्भकार, सूतका ताना-बाना करके वस्त्र बनानेकी कलाके विशेषज्ञ, शस्त्र निर्माण करके जीविका चलानेवाले, मायूरक (मोरकी पाँखोंसे छत्र-व्यजन आदि बनानेवाले), आरेसे चन्दन आदिकी लकड़ी चीरनेवाले, मणि-मोती आदिमें छेद करनेवाले, रोचक (दीवारों और वेदी आदिमें शोभाका सम्पादन करनेवाले), दन्तकार (हाथीके दाँत आदिसे नाना प्रकारकी वस्तुओंका निर्माण करनेवाले), सुधाकार (चूना बनानेवाले), गन्धी, प्रसिद्ध सोनार, कम्बल और कालीन बनानेवाले, गरम जलसे नहलानेका काम करनेवाले, वैद्य, धूपक (धूपन-क्रियाद्वारा जीविका चलानेवाले), शौण्डिक (मद्यविक्रेता), धोबी, दर्जी, गाँवों तथा गोशालाओंके महतो, स्त्रियोंसहित नट, केवट तथा समाहितचित्त सदाचारी वेदवेत्ता सहस्रों ब्राह्मण बैलगाड़ियोंपर चढ़कर वनकी यात्रा करनेवाले भरतके पीछे-पीछे गये ॥ १२—१६ ॥

अनुवाद (कन्नड)

मणिकाररू, कुम्बाररू, दारतॆगॆदु बट्टॆगळन्नु नेयुवुदरल्लि निपुणराद नॆय्गॆयवरु, शस्त्रगळन्नु तयारिसि जीवन नडॆसुववरू, नविलुगरिगळिन्द बीसणिगॆगळन्नू चामरगळन्नू माडुववरू, गरगसदिन्द मरवन्नु कॊय्दु जीविसुववरु, मणि-मुत्तुगळिगॆ रन्ध्रमाडुववरू, मनॆगळन्नु अलङ्करिसुववरू, आनॆय दन्तदिन्द मनोहर चित्रगळन्नु माडुववरू, गारॆ कॆलसदवरू, सुगन्ध द्रव्यगळन्नु तयारिसुववरू, चिन्नद कॆलस माडुव अक्कसालिगरू, अभ्यञ्जन माडिसुवरू, मैयॊत्तुववरू, कम्बळिगळन्नु नेयुववरू, वैद्यरू, उत्तमोत्तमवाद धूपगळन्नु तयारिसुववरू, मद्यवन्नु तयारिसुववरू, अगसरू, दर्जिगळू, गोपालकरू, स्त्रीयरिन्द कूडिद मत्तु स्त्रीयरिन्दले जीवन नडॆसुव नटरू, बॆस्तरू, बेटॆगाररू, कम्माररू, बडगिगळू हागू सदाचार सम्पन्नराद वेदविदराद साविरारु ब्राह्मणरु ऎत्तिन गाडिगळल्लि कुळितु श्रीरामनन्नु सन्दर्शिसलु भरतनन्नु अनुसरिसि हॊरटरु.॥12-16॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

12; 13; 14; 15. ye = which; kechit = some; maNikaaraaH = lapidaries; shobhanaaH = good; kumbhakaaraashcha = potters; ye = which; shastropajiivanaH = those who lived by manufacture of arms; suutrakarma kR^itashchaiva = carpenters; maayuurakaaH = those who made various articles from peacock-feathers; kraakachikaaH = sawyers; rochakaaH = workers in artificial ornaments; vedhakaaH = those who pierced gems; pearls etc; tathaa = and dantakaaraaH = those who made articles of ivory; sudhaakaraaH = those who prepared lime; tathaa = and; gandhopajiivanaH = those who lived by perfumery; prakhyaataaH = highly reputed; suvarnakaaraaH = goldsmiths; tathaa = and; kambaladhaavakaaH = weavers of blankets and other wollen goods; snaapakoSNodakaaH = those who provided hot water baths for others; vaidyaaH = physicians; shauN^DikaaH = distillers and venders of spirituous liquors; dhuupakaaH = fumigaters; rajakaaH = washer-men; tunnavaayaashcha = tailors; graamaghoSamahattaraaH = chiefs of villages and hamlets; shailuuSaaH = dancers; striibhiH saha = with their women-folk; tathaa = and; kaivartakaaH = fisher men; yayuH = started on the journey.

अनुवादः

Some lapidaries, skilled potters, those who lived by manufacture of arms, carpenters, those who made various articles from peacock-feather, sawyers, workers in artificial ornaments, those who pierced gems, pearls etc, those who made articles of ivory, those who lived by perfumery, highly reputed goldsmiths, weavers of blankets and other wollen goods, those who provided hot-water baths for other, physicians, distillers and vendors of spirituous liquors, fumigators, washer-men, tailors, chiefs of villages and hamlets, dancers with their women-folk and fishermen started on the journey.

स्रोतः: valmikiramayan.net

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

16. sahasrashaH = thousands; braahmaNaaH = of Brahmanas; samaahitaaH = well-composed; vR^itta sammataaH = renowned for their virtuous conduct; veda vidaH = versed in sacred scriptures; yaantam = riding; gorathaiH = on bullock-carts; anujagmuH = accompanied; bharatam = Bharata.

अनुवादः

Thousands of Brahmanas, well-composed, renowned for their virtuous conduct, versed in sacred scriptures and riding on bullock-carts, accompanied Bharata.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपिनः ।
सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥ १७ ॥

सर्वाष् टीकाः
मूलम्

सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपिनः ।
सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥ १७ ॥


सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनः ।
सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥

मूलम् - VR

सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः । सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥ २-८३-१७

अनुवाद (हिन्दी)

सबके वेश सुन्दर थे । सबने शुद्ध वस्त्र धारण कर रखे थे तथा सबके अङ्गोंमें ताँबेके समान लाल रंगका अङ्गराग लगा था । वे सब-के-सब नाना प्रकारके वाहनोंद्वारा धीरे-धीरे भरतका अनुसरण कर रहे थे ॥ १७ ॥

अनुवाद (कन्नड)

ऎल्लरू शुद्ध वस्त्रगळन्नुट्टु सुन्दर वेष भूषणगळिन्द ताम्रदन्तॆ कॆम्पाद अङ्गरागवन्नु पूसिकॊण्डु, नाना प्रकारद वाहनगळल्लि निधानवागि भरतनन्नु अनुसरिसुत्तिद्दरु.॥17॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

17. te sarve = all of them; suveSaaH = attired in; shuddhavasanaaH = clean and fair raiment; taamra mR^iSTaanulepanaaH = anointed with pure red sandal-paste; vividhaiH = mounted on various kinds; yaanaiH = of vehicles; anvayuH = allowed; bharatam = Bharata; shanaiH = trangquilly.

अनुवादः

All of them, attired in clean and fair raiment, anointed with pure red sandal-paste, mounted on various kinds of vehicles, followed Bharata tranquilly.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम् ।
भ्रातुरानयने यातं भरतं भ्रातृवत्सलम् ॥ १८ ॥

सर्वाष् टीकाः
मूलम्

प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम् ।
भ्रातुरानयने यातं भरतं भ्रातृवत्सलम् ॥ १८ ॥


प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम् ।
भ्रातुरानयने यान्तं भरतं भ्रातृवत्सम् ॥

मूलम् - VR

प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् । भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥ २-८३-१८

अनुवाद (हिन्दी)

हर्ष और आनन्दमें भरी हुई वह सेना भाईको बुलानेके लिये प्रस्थित हुए कैकेयीकुमार भ्रातृवत्सल भरतके पीछे-पीछे चलने लगी ॥ १८ ॥

अनुवाद (कन्नड)

हर्ष- आनन्ददिन्द कूडिद आ सैन्यवु अण्णनन्नु करॆतरलु हॊरट कैकेयी कुमार भ्रातृवत्सल भरतन हिन्दॆ-हिन्दॆ नडॆयतॊडगितु.॥18॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

18. prahR^iSTamuditaaH = exceedingly pleased and cheerful; saa senaa = that army; anvayaat = escorted; kaikeyiisutam = the son of Kaikeyi (Bharata); bhraatR^ivatsalam = who had affection for his brother; yaantam = who had set out; saanvayaat = along with hs family; aanayane = to bring; bhraatuH = his brother.

अनुवादः

Exceedingly pleased and cheerful, that army escorted the son of Kaikeyi- Bharta who was affectionate towards his brother and who had set out along with his family to bring his brother, Rama.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गां शृङ्गवेरपुरं प्रति ॥ १९ ॥

सर्वाष् टीकाः
मूलम्

ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गां शृङ्गवेरपुरं प्रति ॥ १९ ॥

अनुवाद (हिन्दी)

इस प्रकार रथ, पालकी, घोड़े और हाथियोंके द्वारा बहुत दूरतकका मार्ग तय कर लेनेके बाद वे सब लोग शृङ्गवेरपुरमें गङ्गाजीके तटपर जा पहुँचे ॥ १९ ॥

अनुवाद (कन्नड)

ई प्रकार रथ, पल्लक्किगळु, कुदुरॆ, आनॆगळु इवुगळिन्द बहळ दूर दारि नडॆद बळिक अवरॆल्लरू शृङ्गवेरपुरद गङ्गातीरक्कॆ तलुपिदरु.॥19॥

विश्वास-प्रस्तुतिः

यत्र रामसखा वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशं तं परिपालयन् ॥ २० ॥

सर्वाष् टीकाः
मूलम्

यत्र रामसखा वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशं तं परिपालयन् ॥ २० ॥

अनुवाद (हिन्दी)

जहाँ श्रीरामचन्द्रजीका सखा वीर निषादराज गुह सावधानीके साथ उस देशकी रक्षा करता हुआ अपने भाई-बन्धुओंके साथ निवास करता था ॥ २० ॥

अनुवाद (कन्नड)

अल्लि श्रीरामचन्द्रन सखनाद वीर निषादराज गुहनु ऎच्चरिकॆयिन्द आ देशवन्नु रक्षिसुत्ता तन्न बन्धु-बान्धवरॊन्दिगॆ वासिसुत्तिद्दनु.॥20॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

19; 20. te = they; gatvaa = having gone; duuram = a long; adhraanam = course; ratha yaanaashva = kuN^jaraiH = on chariots; carts; horses and elephants; samaaseduH = reached; gaNgaam = the River Ganga; shR^iN^giberapuram prati = close to the city of Shrigaberapura; yatra = where; viiraH = the valiant; guhaH = Guha; raamasakhaH = a bosom friend of Rama; vR^itaH = along with; j^NaatigaNaiH = multitude of his relatives; paripaalayan = was ruling; tam = that; desham = region; apramaadena = carefully.

अनुवादः

Having gone for a considerable distance in their chariots, carts, horses and elephants, they reached the River Ganga close to the city of Shringaberapura, where the valiant Guha, a bosom friend of Rama along with multitude of relatives was ruling that region carefully.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम् ।
व्यवतिष्ठत सा सेना भरतस्यानुयायिनी ॥ २१ ॥

सर्वाष् टीकाः
मूलम्

उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम् ।
व्यवतिष्ठत सा सेना भरतस्यानुयायिनी ॥ २१ ॥

मूलम् - VR

उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् । व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥ २-८३-२१

अनुवाद (हिन्दी)

चक्रवाकोंसे अलंकृत गङ्गातटपर पहुँचकर भरतका अनुसरण करनेवाली वह सेना ठहर गयी ॥ २१ ॥

अनुवाद (कन्नड)

चक्रवाकगळिन्द अलङ्कृत गङ्गातीरक्कॆ तलुपि भरत नन्नु अनुसरिसि बन्द सैन्यवु अल्लि तङ्गितु.॥21॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

21. saa senaa = that army; bharasya = anuyaayinii = which was accompanying Bharata; upetya = arrived at; tiiram = the bank; gaN^gaayaaH = of Ganga River; alaN^kR^itam = beautified; chakravaakaiH = with charka birds; vyavaatiSThata = and was stationed there.

अनुवादः

That army, which was accompanying Bharata, arrived at the bank of Ganga River, looking beautiful as it was with Charka* birds and stopped there.

टिप्पनी

Chakra bird: zoological name= Anas casarca.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

निरीक्ष्यानुत्थितां सेनां तां च गङ्गां शिवोदकाम् ।
भरतः सचिवान् सर्वानब्रवीद् वाक्यकोविदः ॥ २२ ॥

सर्वाष् टीकाः
मूलम्

निरीक्ष्यानुत्थितां सेनां तां च गङ्गां शिवोदकाम् ।
भरतः सचिवान् सर्वानब्रवीद् वाक्यकोविदः ॥ २२ ॥


नीरीक्ष्यानुस्थितां सेनां तां च गङ्गां शिवोदकाम् ।
भरतः सचिवान्सर्वानब्रवीद्वाक्यकोविदः ॥

मूलम् - VR

निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् । भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥ २-८३-२२

अनुवाद (हिन्दी)

पुण्यसलिला भागीरथीका दर्शन करके अपनी उस सेनाको शिथिल हुई देख बातचीत करनेकी कलामें कुशल भरतने समस्त सचिवोंसे कहा— ॥ २२ ॥

अनुवाद (कन्नड)

पुण्यसलिलॆ भागीरथिय दर्शन पडॆदु तन्न सैन्यवु बळलिरुवुदन्नु नोडि मातिनल्लि कुशलनाद भरतनु समस्त सेनापतिगळल्लि हेळिदनु.॥22॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

22. niriikshya = seeing; senaam = the army; anugataam = which accompanied him; taam gaN^gaam cha = and that River Ganga; shivodakaam = with propitious waters; bharataH = Bharata; vaakya kovidaH = the master of words; abraviit = spoke; sarvam = to all; sachivaan = the ministers (as follows):

अनुवादः

Seeing the army behind, which accompanied him and the River Ganga in front with its propitious waters, Bharata who was skillful in words, spoke to all his officers (as follows):

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

निवेशयत मे सैन्यमभिप्रायेण सर्वतः ।
विश्रान्ताः प्रतरिष्यामः श्व इमां सागरङ्गमाम् ॥ २३ ॥

सर्वाष् टीकाः
मूलम्

निवेशयत मे सैन्यमभिप्रायेण सर्वतः ।
विश्रान्ताः प्रतरिष्यामः श्व इमां सागरङ्गमाम् ॥ २३ ॥

मूलम् - VR

निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः । विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥ २-८३-२३

अनुवाद (हिन्दी)

‘आपलोग मेरे सैनिकोंको उनकी इच्छाके अनुसार यहाँ सब ओर ठहरा दीजिये । आज रातमें विश्राम कर लेनेके बाद हम सब लोग कल सबेरे इन सागर-गामिनी नदी गङ्गाजीको पार करेंगे ॥ २३ ॥

अनुवाद (कन्नड)

नीवु निम्म सैनिकरिगॆ अवर इच्छॆगनुसार इल्लि ऎल्लॆडॆ निल्लिसि बिडिरि. इन्दु रात्रि नावॆल्लरू इल्लि विश्रान्ति पडॆदु, नाळॆ बॆळिग्गॆ ई सागरगामिनी नदियन्नु दाटोण.॥23॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

23. abhi praayeNa = It is my will; me sainyam = that my army; niveshayata = should take rest; sarvataH = by all means; vishraantaaH = after taking rest; idaamim = now; pratariSyaamaH = we shall cross; nadiim = the river; shvaH = tomorrow.

अनुवादः

“It is my will that my army should take rest by all means. When they are refreshed we shall cross the river tomorrow.”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।
और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ २४ ॥

सर्वाष् टीकाः
मूलम्

दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।
और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ २४ ॥

मूलम् - VR

दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः । और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥ २-८३-२४

अनुवाद (हिन्दी)

‘यहाँ ठहरनेका एक और प्रयोजन है—मैं चाहता हूँ कि गङ्गाजीमें उतरकर स्वर्गीय महाराजके पारलौकिक कल्याणके लिये जलाञ्जलि दे दूँ’ ॥ २४ ॥

अनुवाद (कन्नड)

इल्लि तङ्गुव इन्नॊन्दु प्रयोजन - गङ्गॆयल्लि स्नानमाडि स्वर्गस्थ तन्दॆयवर पारलौकिक श्रेयस्सिगागि जलाञ्जलियन्नु कॊडबेकॆन्दु बयसुत्तिद्देनॆ.॥24॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

24. avatiirya = descending into; nadiim = the river; ichchhami = I wish; datum cha = to make offering; udakam = of sacred water; ourdhvadehanimittaartham = for the infinitive spirit relating to the state after death; mahiipateH = of the king; svargatasya = who has gone to heaven.

अनुवादः

“Meanwhile, descending into the river, I desire to make offering of the sacred water as libation for the infinite spirit relating to the state after death, to the king Dasaratha who has gone to heaven.”

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः ।
न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक् पृथक् ॥ २५ ॥

सर्वाष् टीकाः
मूलम्

तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः ।
न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक् पृथक् ॥ २५ ॥

मूलम् - VR

तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः । न्यवेशयंस् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥ २-८३-२५

अनुवाद (हिन्दी)

उनके इस प्रकार कहनेपर सभी मन्त्रियोंने ‘तथास्तु’ कहकर उनकी आज्ञा स्वीकार की और समस्त सैनिकोंको उनकी इच्छाके अनुसार भिन्न-भिन्न स्थानोंपर ठहरा दिया ॥ २५ ॥

अनुवाद (कन्नड)

भरतनु हीगॆ हेळिदाग ऎल्ल मन्त्रिगळु ‘हागॆये आगलि’ ऎन्दु हेळि, अवन आज्ञॆयन्नु शिरसावहिसि, समस्त सैनिकरन्नु अवर इच्छानुसार बेरॆ-बेरॆ स्थानगळल्लि इरिसिदरु.॥25॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

25. evam = thus; bruvataH = spoken; tasya = by him; amaatyaaH = the officers; uktvaa = replied; samaahitaaH = attentively; tatheti = “Be it so”; pr^ithak = and each; nyaveshayan = encamped; svena svena = their respective; taam = forces; chhandena = in accord with his pleasure.

अनुवादः

Hearing these words from Bharata, the officers attentively answered, “Be it so” and each of them encamped their respective forces in accord with his pleasure.

स्रोतः: valmikiramayan.net

विश्वास-प्रस्तुतिः

निवेश्य गङ्गामनु तां महानदीं
चमूं विधानैः परिबर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो
विचिन्तमानो भरतो निवर्तनम् ॥ २६ ॥

सर्वाष् टीकाः
मूलम्

निवेश्य गङ्गामनु तां महानदीं
चमूं विधानैः परिबर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो
विचिन्तमानो भरतो निवर्तनम् ॥ २६ ॥

मूलम् - VR

निवेश्य गन्गाम् अनु ताम् महा नदीम् । चमूम् विधानैः परिबर्ह शोभिनीम् । उवास रामस्य तदा महात्मनो । विचिन्तयानो भरतः निवर्तनम् ॥ २-८३-२६

अनुवाद (हिन्दी)

महानदी गङ्गाके तटपर खेमे आदिसे सुशोभित होनेवाली उस सेनाको व्यवस्थापूर्वक ठहराकर भरतने महात्मा श्रीरामके लौटनेके विषयमें विचार करते हुए उस समय वहीं निवास किया ॥ २६ ॥

अनुवाद (कन्नड)

ध्वज पताकादिगळिन्द सुशोभितवाद चतुरङ्गबलवन्नु गङ्गानदिय समीपदल्लि यथाविधियागि निल्लिसि, श्रीरामनन्नु अयोध्यॆगॆ करॆतरलु एनु माडबेकॆन्दु चिन्तिसुत्ता महात्मनाद भरतनु अल्लि वासिसिदनु.॥26॥

Murali Krishnamurthy Kopalle Murthy

पदच्छेदः

26. niveshya = having encaped; vidhaanaiH = mentienlously; chamuuve = the army; paribarhashobhiniim = which looked lovely with its surrounding equipment (like tents; furnishings etc); gaN^gaam anu = along Ganga; taam = that; mahaanadiim = great river; bharataH = Bharata; uvaasa = halted; tadaa = then; vichintayaanaH = reflecting; nivartanam = how to bring back; mahaatmanaH = the magnanimous; raamasya = Rama.

अनुवादः

Having meticulously arranged for encampment of the army which looked lovely along Ganga that great river with the surrounding equipment (like tunts, furnishings etc), Bharata halted then, reflecting as to how to bring back the magnanimous Rama.

स्रोतः: valmikiramayan.net

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येऽयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके अयोध्याकाण्डमें तिरासीवाँ सर्ग पूरा हुआ ॥ ८३ ॥

अनुवाद (समाप्तिः) (कन्नड)

श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद अयोध्याकाण्डदल्लि ऎम्भत्तमूरनॆय सर्ग पूर्णवायितु.॥83॥