वाचनम्
सर्वाष् टीकाः
Murali Krishnamurthy Kopalle Murthy - Intro
Book II : Ayodhya Kanda - Book Of Ayodhya
Establishing the greatness of Rama, Sumitra of gracious speech, assuages Kausalya’s grief.
स्रोतः: valmikiramayan.net
भागसूचना
- सुमित्राका कौसल्याको आश्वासन देना
विश्वास-प्रस्तुतिः
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।
इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १ ॥
सर्वाष् टीकाः
मूलम्
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।
इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १ ॥
मूलम् - VR
विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् । इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् ॥ २-४४-१
अनुवाद (हिन्दी)
नारियोंमें श्रेष्ठ कौसल्याको इस प्रकार विलाप करती देख धर्मपरायणा सुमित्रा यह धर्मयुक्त बात बोली— ॥ १ ॥
अनुवाद (कन्नड)
नारियरल्लि श्रेष्ठळाद कौसल्यॆयु ई प्रकार विलपिसुवुदन्नु नोडि धर्मपरायण सुमित्रॆयु हीगॆ धर्मयुक्तवाद मातन्नु हेळिदळु.॥1॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
1. sumitraa = Sumitra; sthitaa = devoted; dharma = to righteousness; abraviit = spoke; idam vaakyam = these words; dharmam = which were virtuous; taam kausalyaam = to that Kausalya; vilapantiim = who was wailing; tathaa = thus; pramadottamaam = and who was best among women.
अनुवादः
Sumitra, who was devoted to righteousness spoke the following words, which were virtuous, to the celebrated Kausalya, the foremost among women, who had been wailing as aforesaid
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः ।
किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २ ॥
सर्वाष् टीकाः
मूलम्
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः ।
किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २ ॥
मूलम् - VR
तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः । किम् ते विलपितेन एवम् कृपणम् रुदितेन वा ॥ २-४४-२
अनुवाद (हिन्दी)
‘आर्ये! तुम्हारे पुत्र श्रीराम उत्तम गुणोंसे युक्त और पुरुषोंमें श्रेष्ठ हैं । उनके लिये इस प्रकार विलाप करना और दीनतापूर्वक रोना व्यर्थ है, इस तरह रोने-धोनेसे क्या लाभ? ॥ २ ॥
अनुवाद (कन्नड)
आर्यळे! निन्न पुत्र श्रीरामनु उत्तम गुणगळिन्द युक्तनागि, पुरुषरल्लि श्रेष्ठनागिद्दानॆ. अवनिगागि हीगॆ विलापमाडुवुदु, दीनळागि अळुवुदु व्यर्थवागिदॆ, ई रीति अळुवुदरिन्द एनु प्रयोजन.॥2॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
aarye = “Oh; the venerable one! tava = your; saH putraH = that son Rama; yuktaH = is endowed with; sadguNaiaH = excellent virtues; purushhottamaH = and foremost among men; kim = what is the use in; te = your; vilapitena = lamenting; evam = thus; ruditenavaa = or weeping ; kR^ipaNam = piteously?”
अनुवादः
“That son of yours, oh the venerable one, is endowed with excellent virtues and is the foremost among men. What is the use in your lamenting in this way or in weeping piteously?”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः ।
साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ ३ ॥
शिष्टैराचरिते सम्यक्शश्वत् प्रेत्य फलोदये ।
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ ४ ॥
सर्वाष् टीकाः
मूलम्
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः ।
साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ ३ ॥
शिष्टैराचरिते सम्यक्शश्वत् प्रेत्य फलोदये ।
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ ४ ॥
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः ।
साधुकुर्वन्महात्मानं पितरं सत्यवादिनम् ॥
शिष्टैराचरिते सम्यक्शश्वत् प्रेत्य फलोदये ।
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यःकदाचनः ॥
मूलम् - VR
यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः । साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् ॥ २-४४-३ शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये । रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ २-४४-४
अनुवाद (हिन्दी)
‘बहिन! जो राज्य छोड़कर अपने महात्मा पिताको भलीभाँति सत्यवादी बनानेके लिये वनमें चले गये हैं, वे तुम्हारे महाबली श्रेष्ठ पुत्र श्रीराम उस उत्तम धर्ममें स्थित हैं, जिसका सत्पुरुषोंने सर्वदा और सम्यक् प्रकारसे पालन किया है तथा जो परलोकमें भी सुखमय फल प्रदान करनेवाला है । ऐसे धर्मात्माके लिये कदापि शोक नहीं करना चाहिये ॥ ३-४ ॥
अनुवाद (कन्नड)
अक्का! राज्यवन्नु बिट्टु महात्मा तन्न तन्दॆयन्नु सत्यवादियागिसलु वनक्कॆ होद, निन्न आ महाबलि श्रेष्ठपुत्र श्रीरामनु सत्पुरुषरु सदाकाल, चॆन्नागि पालिसिद, परलोकदल्लियू सुखमय फलवन्नु कॊडुव उत्तमधर्मदल्लि स्थितनागिरुवनु. इन्तह धर्मात्मनिगागि ऎन्दिगू शोक माडबारदु.॥3-4॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
3;4. aarye = Oh; noble lady! yaH = Which; tava putraH = your son; mahaabalaH = having mighty strength; kurvan = proving;apitaram = his father; mahaatmaanam = the high-soled; saadhu = perfectly;satyavaadinam = true-speaking; tyaktvaa = by renouncing; raajyam = the throne; sthitaH = standing firmly; dharme = in righteousness; aacharite = which is practiced; shashvat = always; samyak = perfectly;sishhyaiH = by disciples; phalodaye = which gives fruits; pretya = even after death; saH = that; raamaH = Rama; shreshhTaH = the most excellent; na kadaachana = never; shochya = deserves to be lamented. "
अनुवादः
“Oh, noble lady! Your son is having mighty strength. He proved his high- soled father perfectly truthful by renouncing his throne. He stood firmly in righteousness, which is always practiced perfectly by disciples and which gives fruits even after death. That Rama, the most excellent man, never deserves to be lamented.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः ।
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥
सर्वाष् टीकाः
मूलम्
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः ।
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥
मूलम् - VR
वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः । दयावान् सर्व भूतेषु लाभः तस्य महात्मनः ॥ २-४४-५
अनुवाद (हिन्दी)
‘निष्पाप लक्ष्मण समस्त प्राणियोंके प्रति दयालु हैं । वे सदा श्रीरामके प्रति उत्तम बर्ताव करते हैं, अतः उन महात्मा लक्ष्मणके लिये यह लाभकी ही बात है ॥ ५ ॥
अनुवाद (कन्नड)
निष्पाप लक्ष्मणनु समस्त प्राणिगळ कुरितु दयाळु आगिद्दानॆ. सदा रामन कुरितु उत्तमवागि वर्तिसुत्तिद्दानॆ. आद्दरिन्द आ महात्मा लक्ष्मणनिगागि इदु लाभप्रदवे आगिदॆ.॥5॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
5. lakshhmaNaH = Lakshmana; anaghaH = the faultless man; dayavaan = and the compassionate man; sarva bhuuteshhu = towards all beings; sadaa = always; vartate = conducts; vR^ittim = his behaviour; uttamaam = excellently;asmin = in the case of Rama. LaabhaH = It is beneficial; tasya = to him(Rama); mahaatmanaH = the high-soled man."
अनुवादः
“Lakshmana, the faultless man and the compassionate man towards all beings, always renders the best form of service to Rama. His conduct is beneficial to the high-soled Rama.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
अरण्यवासे यद् दुःखं जानन्त्येव सुखोचिता ।
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ६ ॥
सर्वाष् टीकाः
मूलम्
अरण्यवासे यद् दुःखं जानन्त्येव सुखोचिता ।
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ६ ॥
मूलम् - VR
अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता । अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् ॥ २-४४-६
अनुवाद (हिन्दी)
‘विदेहनन्दिनी सीता भी जो सुख भोगनेके ही योग्य है, वनवासके दुःखोंको भलीभाँति सोच-समझकर ही तुम्हारे धर्मात्मा पुत्रका अनुसरण करती है ॥ ६ ॥
अनुवाद (कन्नड)
सुखवन्नु अनुभविसलु योग्यळाद विदेहनन्दिनी सीतॆयू कूड वनवासद दुःखगळन्नु चॆन्नागि तिळिदुकॊण्डे निन्न धर्मात्मा पुत्रनन्नु अनुसरिसुवळु.॥6॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
6. “vaidehi = Sita; sukhochitaa = who was habituated to comforts; jaanatiivai = even after knowing; duHkham = the pain; yat = whatever; anugachchhati = is accompanying; tava = your; aatmajam = son; dharmaatmaanam = the virtuous soled.”
अनुवादः
Sita, who was habituated to comforts, even after knowing the pain whatsoever, is accompanying your virtuous- soled son."
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः ।
धर्मः सत्यव्रतपरः किं न प्राप्तस्तवात्मजः ॥ ७ ॥
सर्वाष् टीकाः
मूलम्
कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः ।
धर्मः सत्यव्रतपरः किं न प्राप्तस्तवात्मजः ॥ ७ ॥
मूलम् - VR
कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः । दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः ॥ २-४४-७
अनुवाद (हिन्दी)
‘जो प्रभु संसारमें अपनी कीर्तिमयी पताका फहरा रहे हैं और सदा सत्यव्रतके पालनमें तत्पर रहते हैं, उन धर्मस्वरूप तुम्हारे पुत्र श्रीरामको कौन-सा श्रेय प्राप्त नहीं हुआ है ॥ ७ ॥
अनुवाद (कन्नड)
जगत्तिनल्लि तन्न कीर्तिमय पताकॆयन्नु हाराडिसुत्तिरुव, सदा सत्यव्रतद पालनॆयल्लि तत्परनाद धर्मस्वरूपी स्वामियाद निन्न पुत्र श्रीरामनिगॆ याव श्रेयस्सु ताने प्राप्तवागलिल्ल.॥7॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
7. yaH = Who; prabhuH = the capable man; bhramayati = fluttering; pataakam = the banner; kiirti bhuutaam = of fame; loke = in the world; tava aatmajaH = that son of yours; dharmaHsatyavrata paraH = who is engrossed in virtue and is pledged to the vow of truthfulness; kim = what; na praptaH = has not been secured(by him)?"
अनुवादः
“What has not been secured by your capable son, who is rich in virtue and is engrossed in the vow of truthfulness, and the banner of whose fame flutters though out the world?”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् ।
न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ॥८ ॥
सर्वाष् टीकाः
मूलम्
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् ।
न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ॥८ ॥
मूलम् - VR
व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् । न गात्रम् अंशुभिः सूर्यः सम्तापयितुम् अर्हति ॥ २-४४-८
अनुवाद (हिन्दी)
‘श्रीरामकी पवित्रता और उत्तम माहात्म्यको जानकर निश्चय ही सूर्य अपनी किरणोंद्वारा उनके शरीरको संतप्त नहीं कर सकते ॥ ८ ॥
अनुवाद (कन्नड)
श्रीरामन पवित्रतॆ मत्तु उत्तम माहात्म्यवन्नु तिळिदु सूर्यनू तन्न किरणगळिन्द खण्डितवागि अवन शरीरवन्नु सन्तप्त माडलारनु.॥8॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
8. viG^yaaya = Having known; shoucham = purity; uttamam = and the mighty; maahaatmayam = magnanimity; raamasya = of Rama; suuryaH = the sun; vyaktam = will assuredly; na arhati = not be able; santaapayitum = to torment; gaatram = his body; amshubhiH = with his rays."
अनुवादः
“Having known the purity and magnanimity of Rama , the sun assuredly will not be able to torment Rama’s body with his rays.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः ।
राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥ ९ ॥
सर्वाष् टीकाः
मूलम्
शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः ।
राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥ ९ ॥
मूलम् - VR
शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः । राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः ॥ २-४४-९
अनुवाद (हिन्दी)
‘सभी समयोंमें वनोंसे निकली हुई उचित सरदी और गरमीसे युक्त सुखद एवं मङ्गलमय वायु श्रीरघुनाथजीकी सेवा करेगी ॥ ९ ॥
अनुवाद (कन्नड)
ऎल्ल कालगळल्लि चळि मत्तु सॆकॆयिन्द कूडिद सुखमय हागू मङ्गलमय वायुवु श्रीरघुनाथन सेवॆ माडुवुदु.॥9॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
9. shivaH = Auspicious; sukhaH = and delightful; anilaH = breeze; yuktashiitoshhNaH = of moderate heat and cold; viniHsR^itaH = blowing; kaananebhyaH = from woods; sarveshhu kaaleshhu = at all times; sevishhyati = will render service; raaghavam = to Rama."
अनुवादः
“Auspicious and delightful breeze of moderate heat and cold, blowing from woods at all times , will render service to Rama”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।
घर्मघ्नः संस्पृशन् शीतश्चन्द्रमा ह्लादयिष्यति ॥ १० ॥
सर्वाष् टीकाः
मूलम्
शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।
घर्मघ्नः संस्पृशन् शीतश्चन्द्रमा ह्लादयिष्यति ॥ १० ॥
शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।
धर्मघ्नः संस्पृशन् छीतश्चन्द्रमा ह्लादयिष्यति ॥
मूलम् - VR
शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् । रश्मिभिः संस्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥ २-४४-१०
अनुवाद (हिन्दी)
‘रात्रिकालमें धूपका कष्ट दूर करनेवाले शीतल चन्द्रमा सोते हुए निष्पाप श्रीरामका अपने किरणरूपी करोंसे आलिङ्गन और स्पर्श करके उन्हें आह्लाद प्रदान करेंगे ॥ १० ॥
अनुवाद (कन्नड)
रात्रियल्लि बिसिलिन कष्ट दूरगॊळिसुव शीत चन्द्रनु मलगिरुव निष्पाप श्रीरामनन्नु तन्न किरणरूपी करगळिन्द आलिङ्गिसि, स्पर्शिसि रामनिगॆ आह्लादवन्नु कॊडुवनु.॥10॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
10. samspR^ishan = gently touching;rashmibhiH = with its rays; shiitaaiH = which are cool; shayaanam = when he is reposing; raatrou = at night; abhiparishhvajan = and embracing him ; piteva = like his father; chandraH = the moon; ahlaadayishhyati = will refresh him."
अनुवादः
“Gently touching with its cool rays when he is reposing at night and embracing him like a father, the moon will refresh Rama”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ ११ ॥
सर्वाष् टीकाः
मूलम्
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ ११ ॥
अनुवाद (हिन्दी)
‘श्रीरामके द्वारा रणभूमिमें तिमिध्वज (शम्बर)-के पुत्र दानवराज सुबाहुको मारा गया देख विश्वामित्रजीने उन महातेजस्वी वीरको बहुत-से दिव्यास्त्र प्रदान किये थे ॥ ११ ॥
अनुवाद (कन्नड)
श्रीरामनु रणभूमियल्लि तिमिध्वज (शम्बरन) पुत्र दानवेन्द्र सुबाहुवन्नु कॊन्दिरुवुदन्नु नोडि विश्वामित्ररु आ महातेजस्वी वीररामनिगॆ बहळष्टु दिव्यास्त्रगळन्नु करुणिसिद्दरु.॥11॥
विश्वास-प्रस्तुतिः
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।
असन्त्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यते ॥ १२ ॥
सर्वाष् टीकाः
मूलम्
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।
असन्त्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यते ॥ १२ ॥
अनुवाद (हिन्दी)
‘वे पुरुषसिंह श्रीराम बड़े शूरवीर हैं । वे अपने ही बाहुबलका आश्रय लेकर जैसे महलमें रहते थे, उसी तरह वनमें भी निडर होकर रहेंगे ॥ १२ ॥
अनुवाद (कन्नड)
आ पुरुषसिंह श्रीरामनु बहळ शूरवीरनागिरुवनु. अवनु तन्न बाहुबलवन्नु आश्रयिसि अरमनॆयल्लि इरुवन्तॆये काडिनल्लू निर्भयनागि इरुवनु.॥12॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
11;12. dR^ishhTvaa = Seeing; timidhvajasutam = Subahu; the son of Shambarasura; daanavendram = the chief of demons ; hatam = being killed; raNe = in battle; brahmaa = Brahma ;the god of creation; dadan = gave; yasmai = to which Rama; mahanjase = the man with great splendor; divyaani = the celestial ; astraaNi = weapons; saH = that Rama; shuuraH = the hero; purushha vyaaghraH = and the tiger among men; aashritaH = relying; svabaahubalam = on the strength of his own arms; nivatsyasi = will dwell; asantrastaH = fearlessly; araNyastho. api = even when living in the forest; veshmamiiva = as his own palace."
अनुवादः
“Formerly, when Rama killed Subahu the son of Sambarasura the chief of demons, Brahma being delighted , gave celestial weapons to Rama, the man with great splendor. Rama the hero and the tiger among men, relying on the strength of his own arms, will dwell fearlessly in the forest as if in his own palace”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः ।
कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ १३ ॥
सर्वाष् टीकाः
मूलम्
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः ।
कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ १३ ॥
मूलम् - VR
यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः । कथम् न प्ऱ्^थिवी तस्य शासने स्थातुमर्हति ॥ २-४४-१३
अनुवाद (हिन्दी)
‘जिनके बाणोंका लक्ष्य बनकर सभी शत्रु विनाशको प्राप्त होते हैं, उनके शासनमें यह पृथ्वी और यहाँके प्राणी कैसे नहीं रहेंगे? ॥ १३ ॥
अनुवाद (कन्नड)
यार बाणगळिगॆ गुरियागि ऎल्ल शत्रुगळु विनाशरागुवरो, अवन शासनदल्लि ई पृथिवी मत्तु इल्लिय प्राणिगळु हेगॆ सुखवागि इरलाररु.॥13॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
13. yasya = Whose; ishhupadam = aim of arrows; aasaadya = obtains;yaanti = getting into; vinaasham = destruction; shatrvaH = of enemies; tasya = in such Rama’s; shaasane = rule; katham = why; pR^ithivii = earth; naarhati = cannot; sthaatum = be stable?"
अनुवादः
“How can earth cannot be under the command of Rama, to whose aim of arrows, the enemies fall an easy prey?”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता ।
निवृत्तारण्यवासः स्वं क्षिप्रं राज्यमवाप्स्यति ॥ १४ ॥
सर्वाष् टीकाः
मूलम्
या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता ।
निवृत्तारण्यवासः स्वं क्षिप्रं राज्यमवाप्स्यति ॥ १४ ॥
मूलम् - VR
या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता । निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति ॥ २-४४-१४
अनुवाद (हिन्दी)
‘श्रीरामकी जैसी शारीरिक शोभा है, जैसा पराक्रम है और जैसी कल्याणकारिणी शक्ति है, उससे जान पड़ता है कि वे वनवाससे लौटकर शीघ्र ही अपना राज्य प्राप्त कर लेंगे ॥ १४ ॥
अनुवाद (कन्नड)
रामनल्लिरुव शोभॆयिन्द, पराक्रमदिन्द, कल्याणकारिणी शक्तियिन्द अवनु शीघ्रवागिये वनवासदिन्द बन्दु तन्न राज्यवन्नु पडॆयुवनु ऎन्दु अनिसुत्तदॆ.॥14॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
14. yaa = which; shriiH = splendor; raamasya = of Rama; yaa = which; shouryamcha = velour; kalyaana sattvataa = the beneficent strength that resides in him; avaapsyati = will procure; saH = that Rama; svam raajyam = his own kingdom; kshhipram = soon; nivR^ittaaraNya vaasaH = after completion of his exile in the forest."
अनुवादः
“The splendor endowed with Rama, the valor that is in him and the beneficent strength that resides in him lead one to believe that when he completes the term of his exile in the forest, he will speedily regain his kingdom.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्नः प्रभोः प्रभुः ।
श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा ॥ १५ ॥
दैवतं देवतानां च भूतानां भूतसत्तमः ।
तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे ॥ १६ ॥
सर्वाष् टीकाः
मूलम्
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्नः प्रभोः प्रभुः ।
श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा ॥ १५ ॥
दैवतं देवतानां च भूतानां भूतसत्तमः ।
तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे ॥ १६ ॥
सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ।
श्रियाः श्रीश्च भवेदग्र्याकीर्त्याः कीर्तिः क्षमाक्षमा ॥
दैवतं दैवतानां च भूतानां भूतसत्तमः ।
तस्य के ह्यगुणा देविवने वाप्यथवा पुरे ॥
मूलम् - VR
सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः । श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा ॥ २-४४-१५ दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः । तस्य केह्यगुणा देवि वने वा प्यथवा पुरे ॥ २-४४-१६
अनुवाद (हिन्दी)
‘देवि! श्रीराम सूर्यके भी सूर्य (प्रकाशक) और अग्निके भी अग्नि (दाहक) हैं । वे प्रभुके भी प्रभु, लक्ष्मीकी भी उत्तम लक्ष्मी और क्षमाकी भी क्षमा हैं । इतना ही नहीं—वे देवताओंके भी देवता तथा भूतोंके भी उत्तम भूत हैं । वे वनमें रहें या नगरमें, उनके लिये कौन-से चराचर प्राणी दोषावह हो सकते हैं ॥ १५-१६ ॥
अनुवाद (कन्नड)
देवि! श्रीरामनु सूर्यनिगू सूर्य (प्रकाशक)नु, अग्निगू अग्नि(दाहक)यु आगिरुवनु. अवनु प्रभुगळिगू ऒडॆयनु, लक्ष्मिगू उत्तम श्रीयु, क्षमॆगू क्षमॆयु आगिद्दानॆ. इष्टे अल्ल अवनु देवतॆगळिगू देवतॆयागिद्दानॆ. प्राणगळिगू उत्तमप्राणनु. अवनु काडिनल्लिरलि, नगरदल्लिरलि अवनिगॆ याव चराचर प्राणि दोषावह आगबल्लदु.॥15-16॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
15;16. devi = Oh; Kausalya!; bhavet = He becomes; suuryaH = illuminator; suuryasyaapi = of even the sun; agniH = fire; (revealer) ; agneH = of fire; prabhuH = the ruler; prabhoH = of rules; shriiH = the splendor; shriyashcha = of splendor; agryaa = the foremost; kiirtiH = glory(essence); kiirtyaaH = of glory; kshhamaa kshhamaa = the forbearance of forbearance; daivatam = the god; daivataanaam = of gods; bhuutasattamaH = the foremost being; bhuutaanaam = of beings. ke hi = Indeed what; aguNaaH = handicaps(for him); vanevaapi = in the forest; athavaa = or; pure = in Ayodhya?"
अनुवादः
“Oh, Kausalya! Rama is the illuminator of even the sun, fire of fire, the ruler of rules, the splendor of splendor, the foremost glory of glory, the forbearance of forbearance, the god of gods and the foremost being of all the beings. Indeed, what handicaps are there for him in the forest or in Ayodhya?”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।
क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १७ ॥
सर्वाष् टीकाः
मूलम्
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।
क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १७ ॥
पृथिव्या सह वैदेह्या श्रियाच पुरुषर्षभः ।
क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यति ॥
मूलम् - VR
पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः । क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते ॥ २-४४-१७
अनुवाद (हिन्दी)
‘पुरुषशिरोमणि श्रीराम शीघ्र ही पृथ्वी, सीता और लक्ष्मी—इन तीनोंके साथ राज्यपर अभिषिक्त होंगे ॥ १७ ॥
अनुवाद (कन्नड)
पुरुषश्रेष्ठ श्रीरामनु बेगने पृथिवी, सीतॆ मत्तु लक्ष्मी - ई मूवरॊन्दिगॆ राज्यदल्लि अभिषिक्तनागुवनु.॥17॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
17. raamaH = Rama; purushharrshhabhaH = the best among men; abhishhekshyate = will be installed on the throne; kshhipram = soon; pR^ithivyaasaha = along with the Mother Earth(the consort of Lord Vishnu); vaidehyaa = Sita(princess of Vaideha kingdom)shriyaacha = and Lakshmi (the goddess of Fortune another consort oh Vishnu)"
अनुवादः
“Rama the best among men will be installed on the throne soon along with the Mother Earth (the consort of lord Vishnu), Sita the princess of Videha kingdom and Lakshmi ( the goddess of fortune another consort of Vishnu)”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
दुःखजं विसृजत्यश्रु निष्क्रामन्तमुदीक्ष्य यम् ।
अयोध्यायां जनः सर्वः शोकवेगसमाहतः ॥ १८ ॥
कुशचीरधरं वीरं गच्छन्तमपराजितम् ।
सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम् ॥ १९ ॥
सर्वाष् टीकाः
मूलम्
दुःखजं विसृजत्यश्रु निष्क्रामन्तमुदीक्ष्य यम् ।
अयोध्यायां जनः सर्वः शोकवेगसमाहतः ॥ १८ ॥
कुशचीरधरं वीरं गच्छन्तमपराजितम् ।
सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम् ॥ १९ ॥
मूलम् - VR
दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् । समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः ॥ २-४४-१८ कुशचीरधरम् देवम् गच्छन्तमपराजितम् । सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् ॥ २-४४-१९
अनुवाद (हिन्दी)
जिनको नगरसे निकलते देख अयोध्याका सारा जनसमुदाय शोकके वेगसे आहत हो नेत्रोंसे दुःखके आँसू बहा रहा है, कुश और चीर धारण करके वनको जाते हुए जिन अपराजित नित्यविजयी वीरके पीछे-पीछे सीताके रूपमें साक्षात् लक्ष्मी ही गयी है, उनके लिये क्या दुर्लभ है? ॥ १८-१९ ॥
अनुवाद (कन्नड)
यारु नगरदिन्द हॊरडुवुदन्नु नोडि अयोध्यॆय ऎल्ल जनसमुदायवु शोकद वेगदिन्द आहतवागि कण्णुगळिन्द दुःखद कण्णीरु हरिसुत्तिवॆयो, नारुमडियन्नु धरसि वनक्कॆ होगुत्तिरुव अपराजित नित्यविजयी वीरन हिन्दॆ- हिन्दॆ सीतॆय रूपदल्लि साक्षात् लक्ष्मिये होगिरुवळो, आ रामनिगागि एनु ताने दुर्लभवागिदॆ.॥18-19॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
18;19. udikshhya = Seeing; yam = which Rama; nishhkraamantam = departing; sarve = all; janaaH = the people; ayodhyaam = in Ayodhya; shoka vega samaahataaH = smitten as they were with upsurge of grief; visR^ijanti = shedding; ashruH = tears; duHkhajam = born of agony; devam = which Rama; gachchhantam = is departing; kushachiira dharam = clad in a garment of the sacred Kusa grass; anugataa = followed by; lakshmiH = the goddess of fortune; siiteva = as Sita; tasya = for such Rama; kimnaama = which; durlabham = is difficult to obtain?"
अनुवादः
“Seeing Rama departing, all the people in Ayodhya smitten as they were with upsurge of grief shed tears born of agony. The goddess of fortune as Sita followed the invincible hero even as he departed for the forest, clad in a garment of the sacred Kusa grass. Indeed, what can be difficult for him to obtain?”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम् ।
लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम् ॥ २० ॥
सर्वाष् टीकाः
मूलम्
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम् ।
लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम् ॥ २० ॥
अनुवाद (हिन्दी)
‘जिनके आगे धनुर्धारियोंमें श्रेष्ठ लक्ष्मण स्वयं बाण और खड्ग आदि अस्त्र लिये जा रहे हैं, उनके लिये जगत् में कौन-सी वस्तु दुर्लभ है? ॥ २० ॥
अनुवाद (कन्नड)
यार मुन्दॆ धनुर्धररल्लि श्रेष्ठ लक्ष्मणनु स्वयं बाण मत्तु खड्गवे मॊदलाद अस्त्रगळन्नु धरिसि होगुत्तिरुवनो आ रामनिगॆ जगत्तिनल्लि याव वस्तु दुर्लभवागिदॆ.॥20॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
20. lakshmanaH = Lakshmana; dhanurgraha varaH = the best among the holders of bow; svayam = himself; baaNa khadgaastrabhR^it = wearing arrows; sword and missiles; vrajati = walking ; agre = in front; yasya = of whom; tasya = to that Rama; kimnaama = what is ;durlabham = difficult to obtain?"
अनुवादः
“What can be difficult to obtain for, to whose front indeed walks Lakshmana himself the best among the holders of bow wielding arrows, sword and missiles?”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
निवृत्तवनवासं तं द्रष्टासि पुनरागतम् ।
जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते ॥ २१ ॥
सर्वाष् टीकाः
मूलम्
निवृत्तवनवासं तं द्रष्टासि पुनरागतम् ।
जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते ॥ २१ ॥
अनुवाद (हिन्दी)
‘देवि! मैं तुमसे सत्य कहती हूँ । तुम वनवासकी अवधि पूर्ण होनेपर यहाँ लौटे हुए श्रीरामको फिर देखोगी, इसलिये तुम शोक और मोह छोड़ दो ॥ २१ ॥
अनुवाद (कन्नड)
देवि! नीनु वनवासद अवधि पूर्णवागि इल्लिगॆ मरळि बन्द श्रीरामनन्नु मत्तॆ नोडुवि ऎम्बुदु नानु निन्नल्लि निजवन्ने हेळुवॆनु. अदक्कागि नीनु शोक, मोहवन्नु बिडु.॥21॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
21. devi = oh; Kausalya! ; drashhTaasi = you can see; tam = that Rama; aagatam = when he comes; punaH = again; nivRitta vanavaasam = having completed the period of dwelling in the forest. jahi = abandon; shokamcha = grief ; mohamcha = and infatuation; braviimi = I tell; te = you; satyam = the truth "
अनुवादः
“Oh, Kausalya! I tell you the truth : you can see Rama coming back, on having completed the term of his exile in the forest . Abandon grief and infatuation.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
शिरसा चरणावेतौ वन्दमानमनिन्दिते ।
पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥ २२ ॥
सर्वाष् टीकाः
मूलम्
शिरसा चरणावेतौ वन्दमानमनिन्दिते ।
पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥ २२ ॥
मूलम् - VR
शिरसा चरणावेतौ वन्दमानमनिन्दिते । पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् ॥ २-४४-२२
अनुवाद (हिन्दी)
‘कल्याणि! अनिन्दिते! तुम नवोदित चन्द्रमाके समान अपने पुत्रको पुनः अपने चरणोंमें मस्तक रखकर प्रणाम करते देखोगी ॥ २२ ॥
अनुवाद (कन्नड)
कल्याणि! अनिन्दिते! नीनु नवोदित चन्द्रनन्तॆ निन्न पुत्रनन्नु पुनः निन्न चरणगळल्लि तलॆयन्निट्टु नमस्कार माडुवुदन्नु नोडुवि.॥22॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
22. kalyaaNi = Oh; auspicious Kausalya! anindite = the irreproachable one! Drakshhyasi = you will be able to see; putram = your son; chandramiva = like the moon; uditam = who has risen; vandamaanam = saluting respectfully; etou = these; charaNou = feet; sirasaa = with the head."
अनुवादः
“Oh, auspicious Kausalya, the irreproachable one! You will be able to see your son, like the rising moon, saluting respectfully your feet, by bowing his head.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् ।
समुत्स्रक्ष्यसि नेत्राभ्यां शीघ्रमानन्दजं जलम् ॥ २३ ॥
सर्वाष् टीकाः
मूलम्
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् ।
समुत्स्रक्ष्यसि नेत्राभ्यां शीघ्रमानन्दजं जलम् ॥ २३ ॥
मूलम् - VR
पुनः प्रविष्टम् द्ऱ्^ष्ट्वा तमभिषिक्तम् महाश्रियम् । समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः ॥ २-४४-२३
अनुवाद (हिन्दी)
‘राजभवनमें प्रविष्ट होकर पुनः राजपदपर अभिषिक्त हुए अपने पुत्रको बड़ी भारी राजलक्ष्मीसे सम्पन्न देखकर तुम शीघ्र ही अपने नेत्रोंसे आनन्दके आँसू बहाओगी ॥ २३ ॥
अनुवाद (कन्नड)
राजभवनदल्लि प्रवेशिसि पुनः राजनागि अभिषिक्तनाद निन्न पुत्रनु अतुल राजलक्ष्मियिन्द सम्पन्ननाद श्रीरामनन्नु नोडि नीनु शीघ्रवागिये कण्णुगळिन्द आनन्दद अश्रुगळन्नु हरिसुवॆ.॥23॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
23. dR^ishhTvaa = seeing; tam = that Rama; mahaashhriyam = with great splendor pravishhTam = appearing ; punaH = again; abhishhiktam = having been coroneted; samutsryakshhasi = you will be shedding ; kshhipram = soon; payaH = tears; aanandajam = born of joy; netraabhyaam = from your eyes."
अनुवादः
“Seeing Rama shining with great splendor appearing before you again, having been coroneted, you will be shedding soon tears of joy from your eyes "
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
मा शोको देवि दुःखं वा न रामे दृष्यतेऽशिवम् ।
क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम् ॥ २४ ॥
सर्वाष् टीकाः
मूलम्
मा शोको देवि दुःखं वा न रामे दृष्यतेऽशिवम् ।
क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम् ॥ २४ ॥
मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम् ।
क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम् ॥
मूलम् - VR
मा शोको देवि दुःखम् वा न राअमे दृअह्य्ऱ्Wऽशिवम् । क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् ॥ २-४४-२४
अनुवाद (हिन्दी)
‘देवि! श्रीरामके लिये तुम्हारे मनमें शोक और दुःख नहीं होना चाहिये; क्योंकि उनमें कोई अशुभ बात नहीं दिखायी देती । तुम सीता और लक्ष्मणके साथ अपने पुत्र श्रीरामको शीघ्र ही यहाँ उपस्थित देखोगी ॥ २४ ॥
अनुवाद (कन्नड)
देवि! श्रीरामनिगागि निन्न मनस्सिनल्लि शोक मत्तु दुःख आगबारदु; एकॆन्दरॆ अवनल्लि यावुदे अशुभवाद मातु कण्डुबरुवुदिल्ल. नीनु सीता-लक्ष्मणनॊन्दिगॆ निन्न पुत्र श्रीरामनन्नु बेगने इल्लि नोडुवॆ.॥24॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
24. devi = Oh; Kausalya! maa = Do not have; shokaH = grief; duHkhamvaa = or uneasiness. ashivam = Ill luck; na dR^ishyate = is not being seen; raame = in Rama; tvam = you; drakshhyasi = will be able to see; kshhipram = soon; putram = your son; sa siitam = along with Sita; saha lakshhmaNam = together with Lakshmana.”
अनुवादः
“Oh, Kausalya! Do not have uneasiness or grief. Rama has no ill luck. You will be able to see soon your son along with Sita, accompanied by Lakshmana”.
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
त्वयाऽशेषो जनश्चायं समाश्वास्यो यतोऽनघे ।
कमिदानीमिदं देवि करोषि हृदि विक्लवम् ॥ २५ ॥
सर्वाष् टीकाः
मूलम्
त्वयाऽशेषो जनश्चायं समाश्वास्यो यतोऽनघे ।
कमिदानीमिदं देवि करोषि हृदि विक्लवम् ॥ २५ ॥
त्वयाशेषो जनश्चायं समाश्वास्यो यतोनघे ।
किमिदानिमिदं देवि करोषि हृदि विक्लवम् ॥
मूलम् - VR
त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे । किमिदानीमिदम् देवि करोषि हृदि विक्लबम् ॥ २-४४-२५
अनुवाद (हिन्दी)
‘पापरहित देवि! तुम्हें तो इन सब लोगोंको धैर्य बँधाना चाहिये, फिर स्वयं ही इस समय अपने हृदयमें इतना दुःख क्यों करती हो? ॥ २५ ॥
अनुवाद (कन्नड)
पापरहित देवि! नीनादरो ई ऎल्ल जनरिगॆ धैर्य कॊडबेकु; हीगिद्दरू स्वतः नीने ईग तन्न हृदयदल्लि इष्टॊन्दु एकॆ दःखिसुत्तिरुवॆ.॥25॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
25. devi = “Oh; queen; anaghe = the faultless! Yadaa = Whereas; janaH = people; samaashvaasaH = are to be consoled; tvayaa = by you; idaaniim = now; karoshhi = you are promoting; viklabam = grief; hR^idi = in your heart ; kim = what ; idam = is this ?”
अनुवादः
“Oh, the faultless queen! While people are to be consoled by you at this moment, why are you fostering grief in your heart?”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः ।
नहि रामात् परो लोके विद्यते सत्पथे स्थितः ॥ २६ ॥
सर्वाष् टीकाः
मूलम्
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः ।
नहि रामात् परो लोके विद्यते सत्पथे स्थितः ॥ २६ ॥
मूलम् - VR
नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः । न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥ २-४४-२६
अनुवाद (हिन्दी)
‘देवि! तुम्हें शोक नहीं करना चाहिये; क्योंकि तुम्हें रघुकुलनन्दन राम-जैसा बेटा मिला है । श्रीरामसे बढ़कर सन्मार्गमें स्थिर रहनेवाला मनुष्य संसारमें दूसरा कोई नहीं है ॥ २६ ॥
अनुवाद (कन्नड)
देवि! नीनु शोकिसबारदु; एकॆन्दरॆ निनगॆ रघुकुलनन्दन रामनन्तह मगनु सिक्किरुवनु. श्रीरामनिगिन्त मिगिलागि सन्मार्गदल्लि स्थिरवागिरुव मनुष्य जगत्तिनल्लि बेरॆ यारू इल्ल.॥26॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
26. devi = oh; queen! YasyaaH = which; te = to you; raaghavaH = Rama; sutaaH = is your son; tvam = you as such; naarhaa = are not deserving; shochitum = to aggrieve. navidyate = None is there; loke = in the world; paraH = other; raamaat = than Rama; sthitaH = who is established; satpathe = in right path."
अनुवादः
“Oh,queen! You, whose son is Rama, ought not to grieve, for none is established in right path in the world than Rama.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।
मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी ॥ २७ ॥
सर्वाष् टीकाः
मूलम्
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।
मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी ॥ २७ ॥
मूलम् - VR
अभिवादयमानम् तम् दृष्ट्वा ससुहृदम् सुतम् । मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी ॥ २-४४-२७
अनुवाद (हिन्दी)
‘जैसे वर्षाकालके मेघोंकी घटा जलकी वृष्टि करती है, उसी प्रकार तुम सुहृदोंसहित अपने पुत्र श्रीरामको अपने चरणोंमें प्रणाम करते देख शीघ्र ही आनन्दपूर्वक आँसुओंकी वर्षा करोगी ॥ २७ ॥
अनुवाद (कन्नड)
वर्षाकालदल्लि मेघगळु नीरन्नु मळॆगरॆयु वन्तॆये सुहृदरॊन्दिगॆ निन्न पुत्र श्रीरामनू निन्न चरणगळल्लि नमस्करिसुवुदन्नु नोडि नीनु आनन्दवागि हर्षाश्रुगळ मळॆगरॆयुवॆ.॥27॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
27. dR^ishhTvaa = seeing; tam sutam = that son; sa suhR^idam = along with friends ; abhivaadamaanau = saluting; mokshhyase = you will be shedding; ashru = tears; mudaa = with joy; kshhipram = soon; megharekheva = like a line of clouds; vaarshhikii = belonging to rainy season "
अनुवादः
“Seeing your son saluting with his friends, you will at once begin to shed tears, like a line of clouds in a rainy season”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ।
कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २८ ॥
सर्वाष् टीकाः
मूलम्
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ।
कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २८ ॥
मूलम् - VR
पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः । पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति ॥ २-४४-२८
अनुवाद (हिन्दी)
‘तुम्हारे वरदायक पुत्र पुनः शीघ्र ही अयोध्यामें आकर अपने मोटे-मोटे कोमल हाथोंद्वारा तुम्हारे दोनों पैरोंको दबायँगे ॥ २८ ॥
अनुवाद (कन्नड)
वरदायकनाद निन्न पुत्रनु पुनः शीघ्रवागिये अयोध्यॆगॆ बन्दु तन्न पुष्टवाद कोमल कैगळिन्द निन्न ऎरडू कालुगळन्नु ऒत्तुवनु.॥28॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
28. te putraH = Your son; varadaH = who is the bestower of boons; kshhipram = soon; punaraagataH = returning; ayodhyaam = to Ayodhya; piidayishhyati = will press; charaNou = your feet; paaNibhyaam = with his hands; mR^idu piinaabhyaam = which are gentle but muscular."
अनुवादः
“Your son the bestower of boons, will soon return to Ayodhya, and touch your feet with his gentle but muscular hands "
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् ।
मुदास्रैः प्रोक्षसे पुत्रं मेघराजिरिवाचलम् ॥ २९ ॥
सर्वाष् टीकाः
मूलम्
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् ।
मुदास्रैः प्रोक्षसे पुत्रं मेघराजिरिवाचलम् ॥ २९ ॥
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् ।
मुदास्त्रैः प्रोक्ष्यसे पुत्रं मेघराजिरिवाचलम् ॥
मूलम् - VR
अभिवाद्य नमस्यन्तम् शूरम् ससुहृदम् सुतम् । मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् ॥ २-४४-२९
अनुवाद (हिन्दी)
‘जैसे मेघमाला पर्वतको नहलाती है, उसी प्रकार तुम अभिवादन करके नमस्कार करते हुए सुहृदोंसहित अपने शूरवीर पुत्रका आनन्दके आँसुओंसे अभिषेक करोगी’ ॥ २९ ॥
अनुवाद (कन्नड)
सुहृदर सहित निन्न शूरवीर पुत्रनु निनगॆ अभिवादनमाडुत्तिरुवाग मेघगळु पर्वतगळन्नु तोयिसुवन्तॆ नीनु आनन्दाश्रुगळिन्द अभिषेक माडुवि.॥29॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
29. sutam = your son; shuuram = the hero; sa suhR^idam = along with his friends; abhivaadya = saluting respectfully; namasyantam = in adoration; prokshhyasi = you will sprinkle; astraiH = tears; mudaa = with joy; achalamiva = like on a mountain; megharaajiH = by a line of clouds.”
अनुवादः
“When your son the hero along with his friends salute you respectfully in adoration, you will sprinkle tears of joy in the same way as a line of clouds pour rain on the mountain.”
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
आश्वासयन्ती विविधैश्च वाक्यै-
र्वाक्योपचारे कुशलानवद्या ।
रामस्य तां मातरमेवमुक्त्वा
देवी सुमित्रा विरराम रामा ॥ ३० ॥
सर्वाष् टीकाः
मूलम्
आश्वासयन्ती विविधैश्च वाक्यै-
र्वाक्योपचारे कुशलानवद्या ।
रामस्य तां मातरमेवमुक्त्वा
देवी सुमित्रा विरराम रामा ॥ ३० ॥
मूलम् - VR
आश्वासयन्ती विविधैश्च वाक्यै । र्वाक्योपचारे कुशलानाद्या । रामस्य ताम् मातरमेवमुक्त्वा । देवी सुमित्राविरराम रामा ॥ २-४४-३०
अनुवाद (हिन्दी)
बातचीत करनेमें कुशल, दोषरहित तथा रमणीय रूपवाली देवी सुमित्रा इस प्रकार तरह-तरहकी बातोंसे श्रीराममाता कौसल्याको आश्वासन देती हुई उपर्युक्त बातें कहकर चुप हो गयीं ॥ ३० ॥
अनुवाद (कन्नड)
मातिनल्लि कुशलळाद, दोष रहित हागू रमणीय रूपवुळ्ळ देवी सुमित्रॆयु हीगॆ बगॆ-बगॆय मातुगळिन्द श्रीराममातॆ कौसल्यॆयन्नु समाधानपडिसि सुम्मनादळु.॥30॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
30. sumitra = Sumitra; devii = the queen; kushalaa = skilled; vaakyopachaare = in employment of words; anavadyaa = who is faultless; raamaa = and charming; evam = thus; aashvaasayantii = consoled; raamasya = Rama’s; taam maataram = that mother; uktvaa = by speaking; vividhaiH = with various; vaakyaiH = words; viraraama = and stopped.
अनुवादः
Sumitra the queen, skilled in her employment of words, who is faultless and charming, thus consoled Rama’s mother with various words and finally stopped speaking.
स्रोतः: valmikiramayan.net
विश्वास-प्रस्तुतिः
निशम्य तल्लक्ष्मणमातृवाक्यं
रामस्य मातुर्नरदेवपत्न्याः ।
सद्यः शरीरे विननाश शोकः
शरद्गतो मेघ इवाल्पतोयः ॥ ३१ ॥
सर्वाष् टीकाः
मूलम्
निशम्य तल्लक्ष्मणमातृवाक्यं
रामस्य मातुर्नरदेवपत्न्याः ।
सद्यः शरीरे विननाश शोकः
शरद्गतो मेघ इवाल्पतोयः ॥ ३१ ॥
मूलम् - VR
निशम्य तल् लक्ष्मण मातृ वाक्यम् । रामस्य मातुर् नर देव पत्न्याः । सद्यः शरीरे विननाश शोकः । शरद् गतः मेघैव अल्प तोयः ॥ २-४४-३१
अनुवाद (हिन्दी)
लक्ष्मणकी माताका वह वचन सुनकर महाराज दशरथकी पत्नी तथा श्रीरामकी माता कौसल्याका सारा शोक उनके शरीर (मन) में ही तत्काल विलीन हो गया । ठीक उसी तरह, जैसे शरद् ऋतुका थोड़े जलवाला बादल शीघ्र ही छिन्न-भिन्न हो जाता है ॥ ३१ ॥
अनुवाद (कन्नड)
लक्ष्मणन तायिय मातन्नु केळि दशरथन पत्नी, श्रीरामन तायि कौसल्यॆय ऎल्ल शोकवू मनस्सिनल्ले विलीनवायितु. शरद्ऋतुविन अल्प नीरुळ्ळ मोडगळु बेगने भिन्न-भिन्नवागुवन्तॆ आकॆय शोकवु हारिहोयितु.॥31॥
Murali Krishnamurthy Kopalle Murthy
पदच्छेदः
31. nishamya = after hearing; tat = those; lakshmanamaatru vaakyam = words of Lakshmana’s mother; shokaH = the agony; raamasya maatuH = of Rama’s mother; naradeva patnyaaH = and the wife of Dasaratha; sadyaH = quickly; vinanaasha = disappeared; shariire = in her body; megha iva = like a cloud; alpatoyaH = with a little water ; sharadgataH = disappears in autumn .
अनुवादः
Hearing those words of Sumitra the mother of Lakshmana, the agony of Kausalya Rama’s mother and the wife of Dasaratha quickly disappeared in the same way as an autumnal cloud with a little water in it disappears quickly.
स्रोतः: valmikiramayan.net
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येऽयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके अयोध्याकाण्डमें चौवालीसवाँ सर्ग पूरा हुआ ॥ ४४ ॥
अनुवाद (समाप्तिः) (कन्नड)
श्रीवाल्मीकि विरचित आर्षरामायण आदिकाव्यद अयोध्याकाण्डदल्लि नलवत्तनाल्कनॆय सर्ग पूर्णवायितु.॥44॥