०९२ आरम्भः

[द्विनवतितमः सर्गः]

भागसूचना
  1. श्रीरामके अश्वमेध-यज्ञमें दान-मानकी विशेषता
विश्वास-प्रस्तुतिः

तत् सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ॥ १ ॥

मूलम्

तत् सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ॥ १ ॥

अनुवाद (हिन्दी)

इस प्रकार सब सामग्री पूर्णरूपसे भेजकर भरतके बड़े भाई श्रीरामने उत्तम लक्षणोंसे सम्पन्न तथा कृष्णसार मृगके समान काले रंगवाले एक घोड़ेको छोड़ा ॥ १ ॥

विश्वास-प्रस्तुतिः

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य च ।
ततोऽभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिषम् ॥ २ ॥

मूलम्

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य च ।
ततोऽभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिषम् ॥ २ ॥

अनुवाद (हिन्दी)

ऋत्विजोंसहित लक्ष्मणको उस अश्वकी रक्षाके लिये नियुक्त करके श्रीरघुनाथजी सेनाके साथ नैमिषारण्यको गये ॥ २ ॥

विश्वास-प्रस्तुतिः

यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।
प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत् ॥ ३ ॥

मूलम्

यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।
प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत् ॥ ३ ॥

अनुवाद (हिन्दी)

वहाँ बने हुए अत्यन्त अद्भुत यज्ञ-मण्डपको देखकर महाबाहु श्रीरामको अनुपम प्रसन्नता प्राप्त हुई और वे बोले—‘बहुत सुन्दर है’ ॥ ३ ॥

विश्वास-प्रस्तुतिः

नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।
आनिन्युरुपहारांश्च तान् रामः प्रत्यपूजयत् ॥ ४ ॥

मूलम्

नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।
आनिन्युरुपहारांश्च तान् रामः प्रत्यपूजयत् ॥ ४ ॥

अनुवाद (हिन्दी)

नैमिषारण्यमें निवास करते समय श्रीरामचन्द्रजीके पास भूमण्डलके सभी नरेश भाँति-भाँतिके उपहार ले आये और श्रीरामचन्द्रजीने उन सबका स्वागत-सत्कार किया ॥ ४ ॥

विश्वास-प्रस्तुतिः

अन्नपानादिवस्त्राणि सर्वोपकरणानि च ।
भरतः सहशत्रुघ्नो नियुक्तो राजपूजने ॥ ५ ॥

मूलम्

अन्नपानादिवस्त्राणि सर्वोपकरणानि च ।
भरतः सहशत्रुघ्नो नियुक्तो राजपूजने ॥ ५ ॥

अनुवाद (हिन्दी)

उन्हें अन्न, पान, वस्त्र तथा अन्य सब आवश्यक सामान दिये गये । शत्रुघ्नसहित भरत उन राजाओंके स्वागत-सत्कारमें नियुक्त किये गये थे ॥ ५ ॥

विश्वास-प्रस्तुतिः

वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
परिवेषणं च विप्राणां प्रयताः सम्प्रचक्रिरे ॥ ६ ॥

मूलम्

वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
परिवेषणं च विप्राणां प्रयताः सम्प्रचक्रिरे ॥ ६ ॥

अनुवाद (हिन्दी)

सुग्रीवसहित महामनस्वी वानर परम पवित्र एवं संयतचित्त हो उस समय वहाँ ब्राह्मणोंको भोजन परोसते थे ॥ ६ ॥

विश्वास-प्रस्तुतिः

विभीषणश्च रक्षोभिर्बहुभिः सुसमाहितः ।
ऋषीणामुग्रतपसां किङ्करः समपद्यत ॥ ७ ॥

मूलम्

विभीषणश्च रक्षोभिर्बहुभिः सुसमाहितः ।
ऋषीणामुग्रतपसां किङ्करः समपद्यत ॥ ७ ॥

अनुवाद (हिन्दी)

बहुतेरे राक्षसोंसे घिरे हुए विभीषण अत्यन्त सावधान रहकर उग्र तपस्वी ऋषियोंके सेवाकार्यमें संलग्न थे ॥ ७ ॥

विश्वास-प्रस्तुतिः

उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ ८ ॥

मूलम्

उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ ८ ॥

अनुवाद (हिन्दी)

महाबली नरश्रेष्ठ श्रीरामने सेवकोंसहित महामनस्वी भूपालोंको ठहरनेके लिये बहुमूल्य वासस्थान (खेमे)दिये ॥ ८ ॥

विश्वास-प्रस्तुतिः

एवं सुविहितो यज्ञो ह्यश्वमेधो ह्यवर्तत ।
लक्ष्मणेन सुगुप्ता सा हयचर्या प्रवर्तत ॥ ९ ॥

मूलम्

एवं सुविहितो यज्ञो ह्यश्वमेधो ह्यवर्तत ।
लक्ष्मणेन सुगुप्ता सा हयचर्या प्रवर्तत ॥ ९ ॥

अनुवाद (हिन्दी)

इस प्रकार सुन्दर ढंगसे अश्वमेध-यज्ञका कार्य प्रारम्भ हुआ और लक्ष्मणके संरक्षणमें रहकर घोड़ेके भूमण्डलमें भ्रमणका कार्य भी भलीभाँति सम्पन्न हो गया ॥ ९ ॥

विश्वास-प्रस्तुतिः

ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।
नान्यः शब्दोऽभवत् तत्र हयमेधे महात्मनः ॥ १० ॥
छन्दतो देहि देहीति यावत् तुष्यन्ति याचकाः ।
तावत् सर्वाणि दत्तानि क्रतुमुख्ये महात्मनः ॥ ११ ॥
विविधानि च गौडानि खाण्डवानि तथैव च ।

राजाओंमें सिंहके समान पराक्रमी महात्मा श्रीरघुनाथजीका वह श्रेष्ठ यज्ञ इस प्रकार उत्तम विधिसे होने लगा । उस अश्वमेध-यज्ञमें केवल एक ही बात सब ओर सुनायी पड़ती थी—जबतक याचक संतुष्ट न हों, तबतक उनकी इच्छाके अनुसार सब वस्तुएँ दिये जाओ, इसके सिवा दूसरी बात नहीं सुनायी देती थी । इस प्रकार महात्मा श्रीरामके श्रेष्ठ यज्ञमें नाना प्रकारके गुड़के बने हुए खाद्य पदार्थ और खाण्डव आदि तबतक निरन्तर दिये जाते थे जबतक कि पानेवाले पूर्णतः संतुष्ट होकर बस न कर दें ॥ १०-११ १/२ ॥

विश्वास-प्रस्तुतिः

न निःसृतं भवत्योष्ठाद् वचनं यावदर्थिनाम् ॥ १२ ॥
तावद् वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।

मूलम्

न निःसृतं भवत्योष्ठाद् वचनं यावदर्थिनाम् ॥ १२ ॥
तावद् वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।

अनुवाद (हिन्दी)

जबतक याचकोंके मनकी बात ओठसे बाहर नहीं निकलने पाती थी, तबतक ही राक्षस और वानर उन्हें उनकी अभीष्ट वस्तुएँ दे देते थे । यह बात सबने देखी ॥ १२ १/२ ॥

विश्वास-प्रस्तुतिः

न कश्चिन्मलिनो वापि दीनो वाप्यथवा कृशः ॥ १३ ॥
तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।

मूलम्

न कश्चिन्मलिनो वापि दीनो वाप्यथवा कृशः ॥ १३ ॥
तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।

अनुवाद (हिन्दी)

राजा श्रीरामके उस श्रेष्ठ यज्ञमें हृष्ट-पुष्ट मनुष्य भरे हुए थे, वहाँ कोई भी मलिन, दीन अथवा दुर्बल नहीं दिखायी देता था ॥ १३ १/२ ॥

विश्वास-प्रस्तुतिः

ये च तत्र महात्मानो मुनयश्चिरजीविनः ॥ १४ ॥
नास्मरंस्तादृशं यज्ञं दानौघसमलङ्कृतम् ।

मूलम्

ये च तत्र महात्मानो मुनयश्चिरजीविनः ॥ १४ ॥
नास्मरंस्तादृशं यज्ञं दानौघसमलङ्कृतम् ।

अनुवाद (हिन्दी)

उस यज्ञमें जो चिरजीवी महात्मा मुनि पधारे थे, उन्हें ऐसे किसी भी यज्ञका स्मरण नहीं था, जिसमें दानकी ऐसी धूम रही हो । वह यज्ञ दानराशिसे पूर्णतः अलंकृत दिखायी देता था ॥ १४ १/२ ॥

विश्वास-प्रस्तुतिः

यः कृत्यवान् सुवर्णेन सुवर्णं लभते स्म सः ॥ १५ ॥
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।

मूलम्

यः कृत्यवान् सुवर्णेन सुवर्णं लभते स्म सः ॥ १५ ॥
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।

अनुवाद (हिन्दी)

जिसे सुवर्णकी आवश्यकता थी, वह सुवर्ण पाता था, धन चाहनेवालेको धन मिलता था और रत्नकी इच्छावालेको रत्न ॥ १५ १/२ ॥

विश्वास-प्रस्तुतिः

हिरण्यानां सुवर्णानां रत्नानामथ वाससाम् ॥ १६ ॥
अनिशं दीयमानानां राशिः समुपदृश्यते ।

मूलम्

हिरण्यानां सुवर्णानां रत्नानामथ वाससाम् ॥ १६ ॥
अनिशं दीयमानानां राशिः समुपदृश्यते ।

अनुवाद (हिन्दी)

वहाँ निरन्तर दिये जानेवाले चाँदी, सोने, रत्न और वस्त्रोंके ढेर लगे दिखायी देते थे ॥ १६ १/२ ॥

विश्वास-प्रस्तुतिः

न शक्रस्य न सोमस्य यमस्य वरुणस्य च ॥ १७ ॥
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।

मूलम्

न शक्रस्य न सोमस्य यमस्य वरुणस्य च ॥ १७ ॥
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।

अनुवाद (हिन्दी)

वहाँ आये हुए तपस्वी मुनि कहते थे कि ऐसा यज्ञ तो पहले कभी इन्द्र, चन्द्रमा, यम और वरुणके यहाँ भी नहीं देखा गया ॥ १७ १/२ ॥

विश्वास-प्रस्तुतिः

सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ॥ १८ ॥
वासोधनान्नकामेभ्यः पूर्णहस्ता ददुर्भृशम् ।

मूलम्

सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ॥ १८ ॥
वासोधनान्नकामेभ्यः पूर्णहस्ता ददुर्भृशम् ।

अनुवाद (हिन्दी)

वानर और राक्षस सर्वत्र हाथोंमें देनेकी सामग्री लिये खड़े रहते थे और वस्त्र, धन तथा अन्नकी इच्छा रखनेवाले याचकोंको अधिक-से-अधिक देते थे ॥ १८ १/२ ॥

विश्वास-प्रस्तुतिः

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।
संवत्सरमथो साग्रं वर्तते न च हीयते ॥ १९ ॥

मूलम्

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।
संवत्सरमथो साग्रं वर्तते न च हीयते ॥ १९ ॥

अनुवाद (हिन्दी)

राजसिंह भगवान् श्रीरामका ऐसा सर्वगुणसम्पन्न यज्ञ एक वर्षसे भी अधिक कालतक चलता रहा । उसमें कभी किसी बातकी कमी नहीं हुई ॥ १९ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें बानबेवाँ सर्ग पूरा हुआ ॥ ९२ ॥