[नवतितमः सर्गः]
भागसूचना
- अश्वमेधके अनुष्ठानसे इलाको पुरुषत्वकी प्राप्ति
विश्वास-प्रस्तुतिः
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥
मूलम्
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजी जब पुरूरवाके जन्मकी अद्भुत कथा कह गये, तब लक्ष्मण तथा महायशस्वी भरतने पुनः पूछा— ॥ १ ॥
विश्वास-प्रस्तुतिः
इला सा सोमपुत्रस्य संवत्सरमथोषिता ।
अकरोत् किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥
मूलम्
इला सा सोमपुत्रस्य संवत्सरमथोषिता ।
अकरोत् किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥
अनुवाद (हिन्दी)
‘नरश्रेष्ठ! सोमपुत्र बुधके यहाँ एक वर्षतक निवास करनेके पश्चात् इलाने क्या किया, यह ठीक-ठीक बतानेकी कृपा करें’ ॥ २ ॥
विश्वास-प्रस्तुतिः
तयोस्तद् वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ३ ॥
मूलम्
तयोस्तद् वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ३ ॥
अनुवाद (हिन्दी)
प्रश्न करते समय उन दोनों भाइयोंकी वाणीमें बड़ा माधुर्य था । उसे सुनकर श्रीरामने प्रजापतिपुत्र इलके विषयमें फिर इस प्रकार कथा आरम्भ की— ॥ ३ ॥
विश्वास-प्रस्तुतिः
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ॥ ४ ॥
मूलम्
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ॥ ४ ॥
अनुवाद (हिन्दी)
‘शूरवीर! इल जब एक मासके लिये पुरुषभावको प्राप्त हुए, तब परम बुद्धिमान् महायशस्वी बुधने परम उदार महात्मा संवर्तको बुलाया ॥ ४ ॥
विश्वास-प्रस्तुतिः
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ५ ॥
मूलम्
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ५ ॥
अनुवाद (हिन्दी)
‘भृगुपुत्र च्यवन मुनि, अरिष्टनेमि, प्रमोदन, मोदकर और दुर्वासा मुनिको भी आमन्त्रित किया ॥ ५ ॥
विश्वास-प्रस्तुतिः
एतान् सर्वान् समानीय वाक्यज्ञस्तत्त्वदर्शनः ।
उवाच सर्वान् सुहृदो धैर्येण सुसमाहितान् ॥ ६ ॥
मूलम्
एतान् सर्वान् समानीय वाक्यज्ञस्तत्त्वदर्शनः ।
उवाच सर्वान् सुहृदो धैर्येण सुसमाहितान् ॥ ६ ॥
अनुवाद (हिन्दी)
‘इन सबको बुलाकर बातचीतकी कला जाननेवाले तत्त्वदर्शी बुधने धैर्यसे एकाग्रचित्त रहनेवाले इन सभी सुहृदोंसे कहा— ॥ ६ ॥
विश्वास-प्रस्तुतिः
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।
जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥ ७ ॥
मूलम्
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।
जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥ ७ ॥
अनुवाद (हिन्दी)
‘‘ये महाबाहु राजा इल प्रजापति कर्दमके पुत्र हैं । इनकी जैसी स्थिति है, इसे आप सब लोग जानते हैं । अतः इस विषयमें ऐसा कोई उपाय कीजिये, जिससे इनका कल्याण हो’ ॥ ७ ॥
विश्वास-प्रस्तुतिः
तेषां संवदतामेव द्विजैः सह महात्मभिः ।
कर्दमस्तु महातेजास्तदाश्रममुपागमत् ॥ ८ ॥
मूलम्
तेषां संवदतामेव द्विजैः सह महात्मभिः ।
कर्दमस्तु महातेजास्तदाश्रममुपागमत् ॥ ८ ॥
अनुवाद (हिन्दी)
‘वे सब इस प्रकार बातचीत कर ही रहे थे कि महात्मा द्विजोंके साथ महातेजस्वी प्रजापति कर्दम भी उस आश्रमपर आ पहुँचे ॥ ८ ॥
विश्वास-प्रस्तुतिः
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ओङ्कारश्च महातेजास्तमाश्रममुपागमन् ॥ ९ ॥
मूलम्
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ओङ्कारश्च महातेजास्तमाश्रममुपागमन् ॥ ९ ॥
अनुवाद (हिन्दी)
‘साथ ही पुलस्त्य, क्रतु, वषट्कार तथा महातेजस्वी ओंकार भी उस आश्रमपर पधारे ॥ ९ ॥
विश्वास-प्रस्तुतिः
ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाह्लिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ १० ॥
मूलम्
ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाह्लिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ १० ॥
अनुवाद (हिन्दी)
‘परस्पर मिलनेपर वे सभी महर्षि प्रसन्नचित्त हो बाह्लिकदेशके स्वामी राजा इलका हित चाहते हुए भिन्न-भिन्न प्रकारकी राय देने लगे ॥ १० ॥
विश्वास-प्रस्तुतिः
कर्दमस्त्वब्रवीद् वाक्यं सुतार्थं परमं हितम् ।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥
मूलम्
कर्दमस्त्वब्रवीद् वाक्यं सुतार्थं परमं हितम् ।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥
अनुवाद (हिन्दी)
‘तब कर्दमने पुत्रके लिये अत्यन्त हितकर बात कही—‘ब्राह्मणो! आपलोग मेरी बात सुनें, जो इस राजाके लिये कल्याणकारिणी होगी ॥ ११ ॥
विश्वास-प्रस्तुतिः
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।
नाश्वमेधात् परो यज्ञः प्रियश्चैव महात्मनः ॥ १२ ॥
मूलम्
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।
नाश्वमेधात् परो यज्ञः प्रियश्चैव महात्मनः ॥ १२ ॥
अनुवाद (हिन्दी)
‘‘मैं भगवान् शङ्करके सिवा दूसरे किसीको ऐसा नहीं देखता, जो इस रोगकी दवा कर सके तथा अश्वमेध-यज्ञसे बढ़कर दूसरा कोई ऐसा यज्ञ नहीं है, जो महात्मा महादेवजीको प्रिय हो ॥ १२ ॥
विश्वास-प्रस्तुतिः
तस्माद् यजामहे सर्वे पार्थिवार्थे दुरासदम् ।
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ॥ १३ ॥
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।
मूलम्
तस्माद् यजामहे सर्वे पार्थिवार्थे दुरासदम् ।
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ॥ १३ ॥
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।
अनुवाद (हिन्दी)
‘‘अतः हम सब लोग राजा इलके हितके लिये उस दुष्कर यज्ञका अनुष्ठान करें ।’ कर्दमके ऐसा कहनेपर उन सभी श्रेष्ठ ब्राह्मणोंने भगवान् रुद्रकी आराधनाके लिये उस यज्ञका अनुष्ठान ही अच्छा समझा ॥ १३ १/२ ॥
विश्वास-प्रस्तुतिः
संवर्तस्य तु राजर्षिः शिष्यः परपुरञ्जयः ॥ १४ ॥
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।
मूलम्
संवर्तस्य तु राजर्षिः शिष्यः परपुरञ्जयः ॥ १४ ॥
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।
अनुवाद (हिन्दी)
‘संवर्तके शिष्य तथा शत्रुनगरीपर विजय पानेवाले सुप्रसिद्ध राजर्षि मरुत्तने उस यज्ञका आयोजन किया ॥ १४ १/२ ॥
विश्वास-प्रस्तुतिः
ततो यज्ञो महानासीद् बुधाश्रमसमीपतः ॥ १५ ॥
रुद्रश्च परमं तोषमाजगाम महायशाः ।
मूलम्
ततो यज्ञो महानासीद् बुधाश्रमसमीपतः ॥ १५ ॥
रुद्रश्च परमं तोषमाजगाम महायशाः ।
अनुवाद (हिन्दी)
‘फिर तो बुधके आश्रमके निकट वह महान् यज्ञ सम्पन्न हुआ तथा उससे महायशस्वी रुद्रदेवको बड़ा संतोष प्राप्त हुआ ॥ १५ १/२ ॥
विश्वास-प्रस्तुतिः
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ॥ १६ ॥
उमापतिर्द्विजान् सर्वानुवाच इलसन्निधौ ।
मूलम्
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ॥ १६ ॥
उमापतिर्द्विजान् सर्वानुवाच इलसन्निधौ ।
अनुवाद (हिन्दी)
‘यज्ञ समाप्त होनेपर परमानन्दसे परिपूर्णचित्त हुए भगवान् उमापतिने इलके पास ही उन सब ब्राह्मणोंसे कहा— ॥ १६ १/२ ॥
विश्वास-प्रस्तुतिः
प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ॥ १७ ॥
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।
मूलम्
प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ॥ १७ ॥
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।
अनुवाद (हिन्दी)
‘‘द्विजश्रेष्ठगण! मैं तुम्हारी भक्ति तथा इस अश्वमेध-यज्ञके अनुष्ठानसे बहुत प्रसन्न हूँ । बताओ, मैं बाह्लिकनरेश इलका कौन-सा शुभ एवं प्रिय कार्य करूँ?’ ॥ १७ १/२ ॥
विश्वास-प्रस्तुतिः
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ॥ १८ ॥
प्रसादयन्ति देवेशं यथा स्यात् पुरुषस्त्विला ।
मूलम्
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ॥ १८ ॥
प्रसादयन्ति देवेशं यथा स्यात् पुरुषस्त्विला ।
अनुवाद (हिन्दी)
‘देवेश्वर शिवके ऐसा कहनेपर वे सब ब्राह्मण एकाग्रचित्त हो उन देवाधिदेवको इस तरह प्रसन्न करनेकी चेष्टा करने लगे, जिससे नारी इला सदाके लिये पुरुष इल हो जाय ॥ १८ १/२ ॥
विश्वास-प्रस्तुतिः
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ॥ १९ ॥
इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।
मूलम्
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ॥ १९ ॥
इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।
अनुवाद (हिन्दी)
‘तब प्रसन्न हुए महातेजस्वी महादेवजीने इलाको सदाके लिये पुरुषत्व प्रदान कर दिया और ऐसा करके वे वहीं अन्तर्धान हो गये ॥ १९ १/२ ॥
विश्वास-प्रस्तुतिः
निवृत्ते हयमेधे च गते चादर्शनं हरे ॥ २० ॥
यथागतं द्विजाः सर्वे तेऽगच्छन् दीर्घदर्शिनः ।
मूलम्
निवृत्ते हयमेधे च गते चादर्शनं हरे ॥ २० ॥
यथागतं द्विजाः सर्वे तेऽगच्छन् दीर्घदर्शिनः ।
अनुवाद (हिन्दी)
‘अश्वमेध-यज्ञ समाप्त होनेपर जब महादेवजी दर्शन देकर अदृश्य हो गये, तब वे सब दीर्घदर्शी ब्राह्मण जैसे आये थे, वैसे लौट गये ॥ २० १/२ ॥
विश्वास-प्रस्तुतिः
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ॥ २१ ॥
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।
मूलम्
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ॥ २१ ॥
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।
अनुवाद (हिन्दी)
‘राजा इलने बाह्लिकदेशको छोड़कर मध्य-देशमें (गङ्गा-यमुनाके संगमके निकट) एक परम उत्तम एवं यशस्वी नगर बसाया, जिसका नाम था प्रतिष्ठानपुर* ॥ २१ १/२ ॥
पादटिप्पनी
- प्रयागसे पूर्व गङ्गाके तटपर बसा हुआ वर्तमान झूँसी नामक स्थान ही प्राचीनकालका प्रतिष्ठानपुर है ।
विश्वास-प्रस्तुतिः
शशबिन्दुश्च राजर्षिर्बाह्लिं परपुरञ्जयः ॥ २२ ॥
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।
मूलम्
शशबिन्दुश्च राजर्षिर्बाह्लिं परपुरञ्जयः ॥ २२ ॥
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।
अनुवाद (हिन्दी)
‘शत्रुनगरीपर विजय पानेवाले राजर्षि शशबिन्दुने बाह्लिकदेशका राज्य ग्रहण किया और प्रजापति कर्दमके पुत्र बलवान् राजा इल प्रतिष्ठानपुरके शासक हुए ॥
विश्वास-प्रस्तुतिः
स काले प्राप्तवाल्ँ लोकमिलो ब्राह्ममनुत्तमम् ॥ २३ ॥
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।
मूलम्
स काले प्राप्तवाल्ँ लोकमिलो ब्राह्ममनुत्तमम् ॥ २३ ॥
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।
अनुवाद (हिन्दी)
‘समय आनेपर राजा इल शरीर छोड़कर परम उत्तम ब्रह्मलोकको प्राप्त हुए और इलाके पुत्र राजा पुरूरवाने प्रतिष्ठानपुरका राज्य प्राप्त किया ॥ २३ १/२ ॥
विश्वास-प्रस्तुतिः
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ २४ ॥
मूलम्
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ २४ ॥
अनुवाद (हिन्दी)
‘पुरुषश्रेष्ठ भरत और लक्ष्मण! अश्वमेध-यज्ञका ऐसा ही प्रभाव है । जो स्त्रीरूप हो गये थे, उन राजा इलने इस यज्ञके प्रभावसे पुरुषत्व प्राप्त कर लिया तथा और भी दुर्लभ वस्तुएँ हस्तगत कर लीं’ ॥ २४ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवतितमः सर्गः ॥ ९० ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें नब्बेवाँ सर्ग पूरा हुआ ॥ ९० ॥