०८० बलाद् अरजो-भोगः

[अशीतितमः सर्गः]

भागसूचना
  1. राजा दण्डका भार्गव-कन्याके साथ बलात्कार
विश्वास-प्रस्तुतिः

एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥

मूलम्

एतदाख्याय रामाय महर्षिः कुम्भसम्भवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥

अनुवाद (हिन्दी)

महर्षि कुम्भज श्रीरामसे इतनी कथा कहकर फिर इसीका अवशिष्ट अंश इस तरह कहने लगे— ॥ १ ॥

विश्वास-प्रस्तुतिः

ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत् तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥

मूलम्

ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत् तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥

अनुवाद (हिन्दी)

‘काकुत्स्थ! तदनन्तर राजा दण्डने मन और इन्द्रियोंको काबूमें रखकर बहुत वर्षोंतक वहाँ अकण्टक राज्य किया ॥ २ ॥

विश्वास-प्रस्तुतिः

अथ काले तु कस्मिंश्चिद् राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ३ ॥

मूलम्

अथ काले तु कस्मिंश्चिद् राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ३ ॥

अनुवाद (हिन्दी)

‘तत्पश्चात् किसी समय राजा मनोरम चैत्रमासमें शुक्राचार्यके रमणीय आश्रमपर आया ॥ ३ ॥

विश्वास-प्रस्तुतिः

तत्र भार्गवकन्यां स रूपेणप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥ ४ ॥

मूलम्

तत्र भार्गवकन्यां स रूपेणप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥ ४ ॥

अनुवाद (हिन्दी)

‘वहाँ शुक्राचार्यकी सर्वोत्तम सुन्दरी कन्या, जिसके रूपकी इस भूतलपर कहीं तुलना नहीं थी, वनप्रान्तमें विचर रही थी । दण्डने उसे देखा ॥ ४ ॥

विश्वास-प्रस्तुतिः

स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ५ ॥

मूलम्

स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ५ ॥

अनुवाद (हिन्दी)

‘उसे देखते ही वह अत्यन्त खोटी बुद्धिवाला राजा कामदेवके बाणोंसे पीड़ित हो पास जाकर उस डरी हुई कन्यासे बोला— ॥ ५ ॥

विश्वास-प्रस्तुतिः

कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे ।
पीडितोऽहमनङ्गेन पृच्छामि त्वां शुभानने ॥ ६ ॥

मूलम्

कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे ।
पीडितोऽहमनङ्गेन पृच्छामि त्वां शुभानने ॥ ६ ॥

अनुवाद (हिन्दी)

‘‘सुश्रोणि! तुम कहाँसे आयी हो अथवा शुभे! तुम किसकी पुत्री हो? शुभानने! मैं कामदेवसे पीड़ित हूँ; इसलिये तुम्हारा परिचय पूछता हूँ’’ ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं त्विदम् ॥ ७ ॥

मूलम्

तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं त्विदम् ॥ ७ ॥

अनुवाद (हिन्दी)

‘मोहसे उन्मत्त होकर वह कामी राजा जब इस प्रकार पूछने लगा, तब भृगुकन्याने विनयपूर्वक उसे इस प्रकार उत्तर दिया— ॥ ७ ॥

विश्वास-प्रस्तुतिः

भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥

मूलम्

भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥

अनुवाद (हिन्दी)

‘‘राजेन्द्र! तुम्हें ज्ञात होना चाहिये कि मैं पुण्यकर्मा शुक्रदेवताकी ज्येष्ठ पुत्री हूँ । मेरा नाम अरजा है । मैं इसी आश्रममें निवास करती हूँ ॥ ८ ॥

विश्वास-प्रस्तुतिः

मा मां स्पृश बलाद् राजन् कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ॥ ९ ॥

मूलम्

मा मां स्पृश बलाद् राजन् कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ॥ ९ ॥

अनुवाद (हिन्दी)

‘‘राजन्! बलपूर्वक मेरा स्पर्श न करो । मैं पिताके अधीन रहनेवाली कुमारी कन्या हूँ । राजेन्द्र! मेरे पिता तुम्हारे गुरु हैं और तुम उन महात्माके शिष्य हो ॥ ९ ॥

विश्वास-प्रस्तुतिः

व्यसनं सुमहत् क्रुद्धः स ते दद्यान्महातपाः ।
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ॥ १० ॥
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।
अन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम् ॥ ११ ॥

मूलम्

व्यसनं सुमहत् क्रुद्धः स ते दद्यान्महातपाः ।
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ॥ १० ॥
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ।
अन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम् ॥ ११ ॥

अनुवाद (हिन्दी)

‘‘नरश्रेष्ठ! वे महातपस्वी हैं । यदि कुपित हो जायँ तो तुम्हें बड़ी भारी विपत्तिमें डाल सकते हैं । यदि मुझसे तुम्हें दूसरा ही काम लेना हो (अर्थात् यदि तुम मुझे अपनी भार्या बनाना चाहते हो) तो धर्मशास्त्रोक्त सन्मार्गसे चलकर मेरे महातेजस्वी पितासे मुझको माँग लो । अन्यथा तुम्हें अपने स्वेच्छाचारका बड़ा भयानक फल भोगना पड़ेगा ॥ १०-११ ॥

विश्वास-प्रस्तुतिः

क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ।
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ १२ ॥

मूलम्

क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ।
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ १२ ॥

अनुवाद (हिन्दी)

‘‘मेरे पिता अपनी क्रोधाग्निसे सारी त्रिलोकीको भी दग्ध कर सकते हैं; अतः सुन्दर अङ्गोंवाले नरेश! तुम बलात्कार न करो । तुम्हारे याचना करनेपर पिताजी मुझे अवश्य तुम्हारे हाथमें सौंप देंगे’’ ॥ १२ ॥

विश्वास-प्रस्तुतिः

एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥

मूलम्

एवं ब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥

अनुवाद (हिन्दी)

‘जब अरजा ऐसी बातें कह रही थीं, उस समय कामके अधीन हुए दण्डने मदोन्मत्त होकर दोनों हाथ सिरपर जोड़ लिये और इस प्रकार उत्तर दिया— ॥ १३ ॥

विश्वास-प्रस्तुतिः

प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥

मूलम्

प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥

अनुवाद (हिन्दी)

‘‘सुन्दरी! कृपा करो । समय न बिताओ । वरानने! तुम्हारे लिये मेरे प्राण निकले जा रहे हैं ॥ १४ ॥

विश्वास-प्रस्तुतिः

त्वां प्राप्य तु वधो वापि पापं वापि सुदारुणम् ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ १५ ॥

मूलम्

त्वां प्राप्य तु वधो वापि पापं वापि सुदारुणम् ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ १५ ॥

अनुवाद (हिन्दी)

‘‘तुम्हें प्राप्त कर लेनेपर मेरा वध हो जाय अथवा मुझे अत्यन्त दारुण दुःख प्राप्त हो तो भी कोई चिन्ता नहीं है । भीरु! मैं तुम्हारा भक्त हूँ । अत्यन्त व्याकुल हुए मुझ अपने सेवकको स्वीकार करो’’ ॥ १५ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु तां कन्यां दोर्भ्यां प्राप्य बलाद‍्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ १६ ॥

मूलम्

एवमुक्त्वा तु तां कन्यां दोर्भ्यां प्राप्य बलाद‍्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ १६ ॥

अनुवाद (हिन्दी)

‘ऐसा कहकर उस बलवान् नरेशने उस भार्गव-कन्याको बलपूर्वक दोनों भुजाओंमें भर लिया । वह उसकी पकड़से छूटनेके लिये छटपटाने लगी तो भी उसने अपनी इच्छाके अनुसार उसके साथ समागम किया ॥ १६ ॥

विश्वास-प्रस्तुतिः

तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥

मूलम्

तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥

अनुवाद (हिन्दी)

‘वह अत्यन्त दारुण एवं महाभयंकर अनर्थ करके दण्ड तुरंत ही अपने उत्तम नगर मधुमन्तको चला गया ॥ १७ ॥

विश्वास-प्रस्तुतिः

अरजापि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षते सुसन्त्रस्ता पितरं देवसन्निभम् ॥ १८ ॥

मूलम्

अरजापि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षते सुसन्त्रस्ता पितरं देवसन्निभम् ॥ १८ ॥

अनुवाद (हिन्दी)

‘अरजा भी भयभीत हो रोती हुई आश्रमके पास ही अपने देवतुल्य पिताके आनेकी राह देखने लगी’ ॥ १८ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डेऽशीतितमः सर्गः ॥ ८० ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें अस्सीवाँ सर्ग पूरा हुआ ॥ ८० ॥