[एकपञ्चाशः सर्गः]
भागसूचना
- मार्गमें सुमन्त्रका दुर्वासाके मुखसे सुनी हुई भृगुऋषिके शापकी कथा कहकर तथा भविष्यमें होनेवाली कुछ बातें बताकर दुःखी लक्ष्मणको शान्त करना
विश्वास-प्रस्तुतिः
तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।
तद् वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥
मूलम्
तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।
तद् वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥
अनुवाद (हिन्दी)
तब महात्मा लक्ष्मणकी प्रेरणासे सुमन्त्रजी दुर्वासाजीकी कही हुई बात उन्हें सुनाने लगे— ॥ १ ॥
विश्वास-प्रस्तुतिः
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥
मूलम्
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥
अनुवाद (हिन्दी)
‘लक्ष्मण! पहलेकी बात है, अत्रिके पुत्र महामुनि दुर्वासा वसिष्ठजीके पवित्र आश्रमपर रहकर वर्षाके चार महीने बिता रहे थे ॥ २ ॥
विश्वास-प्रस्तुतिः
तमाश्रमं महातेजाः पिता ते सुमहायशाः ।
पुरोहितं महात्मानं दिदृक्षुरगमत् स्वयम् ॥ ३ ॥
मूलम्
तमाश्रमं महातेजाः पिता ते सुमहायशाः ।
पुरोहितं महात्मानं दिदृक्षुरगमत् स्वयम् ॥ ३ ॥
अनुवाद (हिन्दी)
‘एक दिन आपके महातेजस्वी और महान् यशस्वी पिता उस आश्रमपर अपने पुरोहित महात्मा वसिष्ठजीका दर्शन करनेके लिये स्वयं ही गये ॥ ३ ॥
विश्वास-प्रस्तुतिः
स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ४ ॥
मूलम्
स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ४ ॥
अनुवाद (हिन्दी)
‘वहाँ उन्होंने वसिष्ठजीके वामभागमें बैठे हुए एक महामुनिको देखा, जो अपने तेजसे मानो सूर्यके समान देदीप्यमान हो रहे थे ॥ ४ ॥
विश्वास-प्रस्तुतिः
तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभ्यवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥ ५ ॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह ।
मूलम्
तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभ्यवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥ ५ ॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह ।
अनुवाद (हिन्दी)
‘तब राजाने उन दोनों तापसशिरोमणि महर्षियोंका विनयपूर्वक अभिवादन किया । उन दोनोंने भी स्वागतपूर्वक आसन देकर पाद्य एवं फल-मूल समर्पित करके राजाका सत्कार किया । फिर वे वहाँ मुनियोंके साथ बैठे ॥ ५ १/२ ॥
विश्वास-प्रस्तुतिः
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ॥ ६ ॥
बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ।
मूलम्
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ॥ ६ ॥
बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ।
अनुवाद (हिन्दी)
‘वहाँ बैठे हुए महर्षियोंकी दोपहरके समय तरह-तरहकी अत्यन्त मधुर कथाएँ हुईं ॥ ६ १/२ ॥
विश्वास-प्रस्तुतिः
ततः कथायां कस्याञ्चित् प्राञ्जलिः प्रग्रहो नृपः ॥ ७ ॥
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।
मूलम्
ततः कथायां कस्याञ्चित् प्राञ्जलिः प्रग्रहो नृपः ॥ ७ ॥
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।
अनुवाद (हिन्दी)
‘तदनन्तर किसी कथाके प्रसङ्गमें महाराजने हाथ जोड़कर अत्रिके तपोधन पुत्र महात्मा दुर्वासाजीसे विनयपूर्वक पूछा— ॥ ७ १/२ ॥
विश्वास-प्रस्तुतिः
भगवन् किम्प्रमाणेन मम वंशो भविष्यति ॥ ८ ॥
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।
मूलम्
भगवन् किम्प्रमाणेन मम वंशो भविष्यति ॥ ८ ॥
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।
अनुवाद (हिन्दी)
‘भगवन्! मेरा वंश कितने समयतक चलेगा? मेरे रामकी कितनी आयु होगी तथा अन्य सब पुत्रोंकी भी आयु कितनी होगी? ॥ ८ १/२ ॥
विश्वास-प्रस्तुतिः
रामस्य च सुता ये स्युस्तेषामायुः कियद् भवेत् ॥ ९ ॥
काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम ।
मूलम्
रामस्य च सुता ये स्युस्तेषामायुः कियद् भवेत् ॥ ९ ॥
काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम ।
अनुवाद (हिन्दी)
‘श्रीरामके जो पुत्र होंगे, उनकी आयु कितनी होगी? भगवन्! आप इच्छानुसार मेरे वंशकी स्थिति बताइये’ ॥ ९ १/२ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु ॥ १० ॥
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।
मूलम्
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु ॥ १० ॥
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।
अनुवाद (हिन्दी)
‘राजा दशरथका यह वचन सुनकर महातेजस्वी दुर्वासा मुनि कहने लगे— ॥ १० १/२ ॥
विश्वास-प्रस्तुतिः
शृणु राजन् पुरा वृत्तं तदा देवासुरे युधि ॥ ११ ॥
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥ १२ ॥
मूलम्
शृणु राजन् पुरा वृत्तं तदा देवासुरे युधि ॥ ११ ॥
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥ १२ ॥
अनुवाद (हिन्दी)
‘राजन्! सुनिये, प्राचीन कालकी बात है, एक बार देवासुर-संग्राममें देवताओंसे पीड़ित हुए दैत्योंने महर्षि भृगुकी पत्नीकी शरण ली । भृगुपत्नीने उस समय दैत्योंको अभय दिया और वे उनके आश्रमपर निर्भय होकर रहने लगे ॥ ११-१२ ॥
विश्वास-प्रस्तुतिः
तया परिगृहीतांस्तान् दृष्ट्वा क्रुद्धः सुरेश्वरः ।
चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ॥ १३ ॥
मूलम्
तया परिगृहीतांस्तान् दृष्ट्वा क्रुद्धः सुरेश्वरः ।
चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ॥ १३ ॥
अनुवाद (हिन्दी)
‘भृगुपत्नीने दैत्योंको आश्रय दिया है, यह देखकर कुपित हुए देवेश्वर भगवान् विष्णुने तीखी धारवाले चक्रसे उनका सिर काट लिया ॥ १३ ॥
विश्वास-प्रस्तुतिः
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ ॥
मूलम्
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ ॥
अनुवाद (हिन्दी)
‘अपनी पत्नीका वध हुआ देख भार्गववंशके प्रवर्तक भृगुजीने सहसा कुपित हो शत्रुकुलनाशन भगवान् विष्णुको शाप दिया ॥ १४ ॥
विश्वास-प्रस्तुतिः
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूिर्च्छतः ।
तस्मात् त्वं मानुषे लोके जनिष्यसि जनार्दन ॥ १५ ॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।
मूलम्
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूिर्च्छतः ।
तस्मात् त्वं मानुषे लोके जनिष्यसि जनार्दन ॥ १५ ॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।
अनुवाद (हिन्दी)
‘जनार्दन! मेरी पत्नी वधके योग्य नहीं थी । परंतु आपने क्रोधसे मूर्च्छित होकर उसका वध किया है, इसलिये आपको मनुष्यलोकमें जन्म लेना पड़ेगा और वहाँ बहुत वर्षोंतक आपको पत्नी-वियोगका कष्ट सहना पड़ेगा’ ॥ १५ १/२ ॥
विश्वास-प्रस्तुतिः
शापाभिहतचेतास्तु स्वात्मना भावितोऽभवत् ॥ १६ ॥
अर्चयामास तं देवं भृगुः शापेन पीडितः ।
मूलम्
शापाभिहतचेतास्तु स्वात्मना भावितोऽभवत् ॥ १६ ॥
अर्चयामास तं देवं भृगुः शापेन पीडितः ।
अनुवाद (हिन्दी)
‘परंतु इस प्रकार शाप देकर उनके चित्तमें बड़ा पश्चात्ताप हुआ । उनकी अन्तरात्माने भगवान् से उस शापको स्वीकार करानेके लिये उन्हींकी आराधना करनेको प्रेरित किया । इस तरह शापकी विफलताके भयसे पीड़ित हुए भृगुने तपस्याद्वारा भगवान् विष्णुकी आराधना की ॥ १६ १/२ ॥
विश्वास-प्रस्तुतिः
तपसाऽऽराधितो देवो ह्यब्रवीद् भक्तवत्सलः ॥ १७ ॥
लोकानां सम्प्रियार्थं तु तं शापं गृह्यमुक्तवान् ।
मूलम्
तपसाऽऽराधितो देवो ह्यब्रवीद् भक्तवत्सलः ॥ १७ ॥
लोकानां सम्प्रियार्थं तु तं शापं गृह्यमुक्तवान् ।
अनुवाद (हिन्दी)
‘तपस्याद्वारा उनके आराधना करनेपर भक्तवत्सल भगवान् विष्णुने संतुष्ट होकर कहा—‘महर्षे! सम्पूर्ण जगत् का प्रिय करनेके लिये मैं उस शापको ग्रहण कर लूँगा’ ॥
विश्वास-प्रस्तुतिः
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ॥ १८ ॥
इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ॥ १९ ॥
मूलम्
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ॥ १८ ॥
इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ॥ १९ ॥
अनुवाद (हिन्दी)
‘इस तरह पूर्वजन्ममें (विष्णु-नामधारी वामन अवतारके समय) महातेजस्वी भगवान् विष्णुको भृगु ऋषिका शाप प्राप्त हुआ था । दूसरोंको मान देनेवाले नृपश्रेष्ठ! वे ही इस भूतलपर आकर तीनों लोकोंमें राम-नामसे विख्यात आपके पुत्र हुए हैं ॥ १८-१९ ॥
विश्वास-प्रस्तुतिः
तत् फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।
अयोध्यायाः पती रामो दीर्घकालं भविष्यति ॥ २० ॥
मूलम्
तत् फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।
अयोध्यायाः पती रामो दीर्घकालं भविष्यति ॥ २० ॥
अनुवाद (हिन्दी)
‘भृगुके शापसे होनेवाला पत्नी-वियोगरूप जो महान् फल है, वह उन्हें अवश्य प्राप्त होगा । श्रीराम दीर्घकालतक अयोध्याके राजा होकर रहेंगे ॥ २० ॥
विश्वास-प्रस्तुतिः
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ २१ ॥
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।
मूलम्
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ २१ ॥
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।
अनुवाद (हिन्दी)
‘उनके अनुयायी भी बहुत सुखी और धन-धान्यसे सम्पन्न होंगे । श्रीराम ग्यारह हजार वर्षोंतक राज्य करके अन्तमें ब्रह्मलोक (वैकुण्ठ या साकेतधाम)-को पधारेंगे ॥ २१ १/२ ॥
विश्वास-प्रस्तुतिः
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ॥ २२ ॥
राजवंशांश्च बहुशो बहून् संस्थापयिष्यति ।
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ॥ २३ ॥
मूलम्
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ॥ २२ ॥
राजवंशांश्च बहुशो बहून् संस्थापयिष्यति ।
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ॥ २३ ॥
अनुवाद (हिन्दी)
‘परम दुर्जय वीर श्रीराम समृद्धिशाली अश्वमेध-यज्ञोंका बारम्बार अनुष्ठान करके बहुत-से राजवंशोंकी स्थापना करेंगे । श्रीरघुनाथजीको सीताके गर्भसे दो पुत्र प्राप्त होंगे’ ॥ २२-२३ ॥
विश्वास-प्रस्तुतिः
स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ २४ ॥
मूलम्
स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ २४ ॥
अनुवाद (हिन्दी)
‘ये सब बातें कहकर उन महातेजस्वी महामुनिने राजवंशके विषयमें भूत और भविष्यकी सारी बातें बतायीं । इसके बाद वे चुप हो गये ॥ २४ ॥
विश्वास-प्रस्तुतिः
तूष्णीम्भूते तदा तस्मिन् राजा दशरथो मुनौ ।
अभिवाद्य महात्मानौ पुनरायात् पुरोत्तमम् ॥ २५ ॥
मूलम्
तूष्णीम्भूते तदा तस्मिन् राजा दशरथो मुनौ ।
अभिवाद्य महात्मानौ पुनरायात् पुरोत्तमम् ॥ २५ ॥
अनुवाद (हिन्दी)
‘उन दुर्वासा मुनिके चुप हो जानेपर महाराज दशरथ भी दोनों महात्माओंको प्रणाम करके फिर अपने उत्तम नगरमें लौट आये ॥ २५ ॥
विश्वास-प्रस्तुतिः
एतद् वचो मया तत्र मुनिना व्याहृतं पुरा ।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद् भविष्यति ॥ २६ ॥
मूलम्
एतद् वचो मया तत्र मुनिना व्याहृतं पुरा ।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद् भविष्यति ॥ २६ ॥
अनुवाद (हिन्दी)
‘इस प्रकार पूर्वकालसे दुर्वासा मुनिकी कही हुई ये सब बातें मैंने वहाँ सुनीं और अपने हृदयमें धारण कर लीं (उन्हें किसीपर प्रकट नहीं किया) । वे बातें असत्य नहीं होंगी ॥ २६ ॥
विश्वास-प्रस्तुतिः
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।
अन्यत्र न त्वयोध्यायां मुनेस्तु वचनं यथा ॥ २७ ॥
मूलम्
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।
अन्यत्र न त्वयोध्यायां मुनेस्तु वचनं यथा ॥ २७ ॥
अनुवाद (हिन्दी)
‘जैसा दुर्वासा मुनिका वचन है, उसके अनुसार श्रीरघुनाथजी सीताके दोनों पुत्रोंका अयोध्यासे बाहर अभिषेक करेंगे, अयोध्यामें नहीं ॥ २७ ॥
विश्वास-प्रस्तुतिः
एवं गते न सन्तापं कर्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ २८ ॥
मूलम्
एवं गते न सन्तापं कर्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ २८ ॥
अनुवाद (हिन्दी)
‘नरश्रेष्ठ रघुनन्दन! विधाताका ऐसा ही विधान होनेके कारण आपको सीता तथा रघुनाथजीके लिये संताप नहीं करना चाहिये । आप धैर्य धारण करें’ ॥ २८ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २९ ॥
मूलम्
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २९ ॥
अनुवाद (हिन्दी)
सूत सुमन्त्रके मुखसे यह अत्यन्त अद्भुत बात सुनकर लक्ष्मणको अनुपम हर्ष प्राप्त हुआ । वे बोले—‘बहुत ठीक, बहुत ठीक’ ॥ २९ ॥
विश्वास-प्रस्तुतिः
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ ३० ॥
मूलम्
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ ३० ॥
अनुवाद (हिन्दी)
मार्गमें सुमन्त्र और लक्ष्मण इस प्रकारकी बातें कर ही रहे थे कि सूर्य अस्ताचलको चले गये । तब उन दोनोंने केशिनी नदीके तटपर रात बितायी ॥ ३० ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें इक्यावनवाँ सर्ग पूरा हुआ ॥ ५१ ॥