०३९ सुग्रीव-विभीषणादि-माननम्

[एकोनचत्वारिंशः सर्गः]

भागसूचना
  1. राजाओंका श्रीरामके लिये भेंट देना और श्रीरामका वह सब लेकर अपने मित्रों, वानरों, रीछों और राक्षसोंको बाँट देना तथा वानर आदिका वहाँ सुखपूर्वक रहना
विश्वास-प्रस्तुतिः

ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।
गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥ १ ॥

मूलम्

ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।
गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥ १ ॥

अनुवाद (हिन्दी)

अयोध्यासे प्रस्थित हो वे महामना भूपाल सहस्रों हाथी, घोड़े तथा पैदल-समूहोंसे पृथ्वीको कम्पित करते हुए-से हर्षपूर्वक आगे बढ़ने लगे ॥ १ ॥

विश्वास-प्रस्तुतिः

अक्षौहिण्यो हि तत्रासन् राघवार्थे समुद्यताः ।
भरतस्याज्ञयानेकाः प्रहृष्टबलवाहनाः ॥ २ ॥

मूलम्

अक्षौहिण्यो हि तत्रासन् राघवार्थे समुद्यताः ।
भरतस्याज्ञयानेकाः प्रहृष्टबलवाहनाः ॥ २ ॥

अनुवाद (हिन्दी)

भरतकी आज्ञासे श्रीरामचन्द्रजीकी सहायताके लिये वहाँ कई अक्षौहिणी सेनाएँ युद्धके लिये उद्यत होकर आयी थीं । उन सबके सैनिक और वाहन हर्ष एवं उत्साहसे भरे हुए थे ॥ २ ॥

विश्वास-प्रस्तुतिः

ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न राम रावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ३ ॥

मूलम्

ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न राम रावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ३ ॥

अनुवाद (हिन्दी)

वे सभी भूपाल बलके घमंडमें भरकर आपसमें इस तरहकी बातें करने लगे—‘हमलोगोंने युद्धमें श्रीराम और रावणको आमने-सामने खड़ा नहीं देखा ॥ ३ ॥

विश्वास-प्रस्तुतिः

भरतेन वयं पश्चात् समानीता निरर्थकम् ।
हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥ ४ ॥

मूलम्

भरतेन वयं पश्चात् समानीता निरर्थकम् ।
हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥ ४ ॥

अनुवाद (हिन्दी)

‘भरतने (पहले तो सूचना नहीं दी) पीछे युद्ध समाप्त हो जानेपर हमें व्यर्थ ही बुला लिया । यदि सब राजा गये होते तो उनके द्वारा समस्त राक्षसोंका संहार बहुत जल्दी हो गया होता, इसमें संशय नहीं है ॥ ४ ॥

विश्वास-प्रस्तुतिः

रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।
सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥ ५ ॥

मूलम्

रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।
सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥ ५ ॥

अनुवाद (हिन्दी)

‘श्रीराम और लक्ष्मणके बाहुबलसे सुरक्षित एवं निश्चिन्त हो हमलोग समुद्रके उस पार सुखपूर्वक युद्ध कर सकते थे’ ॥ ५ ॥

विश्वास-प्रस्तुतिः

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ६ ॥

मूलम्

एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ६ ॥

अनुवाद (हिन्दी)

ये तथा और भी बहुत-सी बातें कहते हुए वे सहस्रों नरेश बड़े हर्षके साथ अपने-अपने राज्यको गये ॥

विश्वास-प्रस्तुतिः

स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।
समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ ७ ॥
यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।
रामस्य प्रियकामार्थमुपहारं नृपा ददुः ॥ ८ ॥
अश्वान् यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।
चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥ ९ ॥
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।
अजाविकं च विविधं रथांस्तु विविधान् बहून् ॥ १० ॥

उनके अपने-अपने प्रसिद्ध राज्य समृद्धिशाली, सुख और आनन्दसे परिपूर्ण, धन-धान्यसे सम्पन्न तथा रत्न आदिसे भरे-पूरे थे । उन राज्यों तथा नगरोंमें जाकर उन नरेशोंने श्रीरामचन्द्रजीका प्रिय करनेकी इच्छासे नाना प्रकारके रत्न और उपहार भेजे । घोड़े, सवारियाँ, रत्न, मतवाले हाथी, उत्तम चन्दन, दिव्य आभूषण, मणि, मोती, मूँगे, रूपवती दासियाँ, नाना प्रकारकी बकरियाँ और भेड़ें तथा तरह-तरहके बहुत-से रथ भेंट किये ॥ ७—१० ॥

विश्वास-प्रस्तुतिः

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।
आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥ ११ ॥
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।
तानि रत्नानि चित्राणि रामाय समुपानयन् ॥ १२ ॥

मूलम्

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।
आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥ ११ ॥
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।
तानि रत्नानि चित्राणि रामाय समुपानयन् ॥ १२ ॥

अनुवाद (हिन्दी)

महाबली भरत, लक्ष्मण और शत्रुघ्न उन रत्नोंको लेकर पुनः अपनी पुरीमें लौट आये । रमणीय पुरी अयोध्यामें आकर उन तीनों पुरुषप्रवर बन्धुओंने ये विचित्र रत्न श्रीरामको समर्पित कर दिये ॥ ११-१२ ॥

विश्वास-प्रस्तुतिः

प्रतिगृह्य च तत् सर्वं रामः प्रीतिसमन्वितः ।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ ॥
विभीषणाय च ददौ तथान्येभ्योऽपि राघवः ।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ १४ ॥

मूलम्

प्रतिगृह्य च तत् सर्वं रामः प्रीतिसमन्वितः ।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ ॥
विभीषणाय च ददौ तथान्येभ्योऽपि राघवः ।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ १४ ॥

अनुवाद (हिन्दी)

उन सबको ग्रहण करके महात्मा श्रीरामने बड़ी प्रसन्नताके साथ उपकारी वानरराज सुग्रीव और विभीषणको तथा अन्य राक्षसों और वानरोंको भी बाँट दिया; क्योंकि उन्हींसे घिरे रहकर भगवान् श्रीरामने युद्धमें विजय प्राप्त की थी ॥ १३-१४ ॥

विश्वास-प्रस्तुतिः

ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।
शिरोभिर्धारयामासुर्भुजेषु च महाबलाः ॥ १५ ॥

मूलम्

ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।
शिरोभिर्धारयामासुर्भुजेषु च महाबलाः ॥ १५ ॥

अनुवाद (हिन्दी)

उन सभी महाबली वानरों और राक्षसोंने श्रीरामचन्द्रजीके दिये हुए वे रत्न अपने मस्तक और भुजाओंमें धारण कर लिये ॥ १५ ॥

विश्वास-प्रस्तुतिः

हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।
अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ॥ १६ ॥
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।
अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः ॥ १७ ॥
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ ।
अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ १८ ॥

तत्पश्चात् इक्ष्वाकुनरेश महापराक्रमी महारथी कमलनयन श्रीरामने महाबाहु हनुमान् और अङ्गदको गोदमें बैठाकर सुग्रीवसे इस प्रकार कहा—‘सुग्रीव! अङ्गद तुम्हारे सुपुत्र हैं और पवनकुमार हनुमान् मन्त्री । वानरराज! ये दोनों मेरे लिये मन्त्रीका भी काम देते थे और सदा मेरे हितसाधनमें लगे रहते थे । इसलिये और विशेषतः तुम्हारे नाते ये मेरी ओरसे विविध आदर-सत्कार एवं भेंट पानेके योग्य हैं’ ॥ १६—१८ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा व्यवमुच्याङ्गाद् भूषणानि महायशाः ।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १९ ॥

मूलम्

इत्युक्त्वा व्यवमुच्याङ्गाद् भूषणानि महायशाः ।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १९ ॥

अनुवाद (हिन्दी)

ऐसा कहकर महायशस्वी श्रीरामने अपने शरीरसे बहुमूल्य आभूषण उतारकर उन्हें अङ्गद तथा हनुमान् के अङ्गोंमें बाँध दिया ॥ १९ ॥

विश्वास-प्रस्तुतिः

आभाष्य च महावीर्यान् राघवो यूथपर्षभान् ।
नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ २० ॥
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।
जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ २१ ॥
बलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।
दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ २२ ॥
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।
सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ॥ २३ ॥
युष्माभिरुद‍्धृतश्चाहं व्यसनात् काननौकसः ।
धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ २४ ॥

इसके बाद श्रीरघुनाथजीने महापराक्रमी वानरयूथपतियों—नील, नल, केसरी, कुमुद, गन्धमादन, सुषेण, पनस, वीर मैन्द, द्विविद, जाम्बवान्, गवाक्ष, विनत, धूम्र, बलीमुख, प्रजङ्घ, महाबली संनाद, दरीमुख, दधिमुख और यूथप इन्द्रजानुको बुलाकर उनकी ओर दोनों नेत्रोंसे इस प्रकार देखा, मानो वे उन्हें नेत्रपुटोंद्वारा पी रहे हों । उन्होंने स्नेहयुक्त मधुर वाणीमें उनसे कहा—‘वानरवीरो! आपलोग मेरे सुहृद्, शरीर और भाई हैं । आपने ही मुझे संकटसे उबारा है । आप-जैसे श्रेष्ठ सुहृदोंको पाकर राजा सुग्रीव धन्य हैं’ ॥ २०—२४ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ २५ ॥

मूलम्

एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ २५ ॥

अनुवाद (हिन्दी)

ऐसा कहकर नरश्रेष्ठ श्रीरघुनाथजीने उन्हें यथायोग्य आभूषण और बहुमूल्य हीरे दिये तथा उनका आलिङ्गन किया ॥ २५ ॥

विश्वास-प्रस्तुतिः

ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ २६ ॥

मूलम्

ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ २६ ॥

अनुवाद (हिन्दी)

मधुके समान पिङ्गल वर्णवाले वे वानर वहाँ सुगन्धित मधु पीते, राजभोग वस्तुओंका उपभोग करते और स्वादिष्ट फल-मूल खाते थे ॥ २६ ॥

विश्वास-प्रस्तुतिः

एवं तेषां निवसतां मासः साग्रो ययौ तदा ।
मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥ २७ ॥

मूलम्

एवं तेषां निवसतां मासः साग्रो ययौ तदा ।
मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥ २७ ॥

अनुवाद (हिन्दी)

इस प्रकार निवास करते हुए उन वानरोंका वहाँ एक महीनेसे अधिक समय बीत गया; परंतु श्रीरघुनाथजीके प्रति भक्तिके कारण उन्हें वह समय एक मुहूर्तके समान ही जान पड़ा ॥ २७ ॥

विश्वास-प्रस्तुतिः

रामोऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।
राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥ २८ ॥

मूलम्

रामोऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।
राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥ २८ ॥

अनुवाद (हिन्दी)

श्रीराम भी इच्छानुसार रूप धारण करनेवाले उन वानरों, महापराक्रमी राक्षसों तथा महाबली रीछोंके साथ बड़े आनन्दसे समय बिताते थे ॥ २८ ॥

विश्वास-प्रस्तुतिः

एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ २९ ॥
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ ३० ॥

मूलम्

एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ २९ ॥
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ ३० ॥

अनुवाद (हिन्दी)

इस तरह उनका शिशिर-ऋतुका दूसरा महीना भी सुखपूर्वक बीत गया । इक्ष्वाकुवंशी नरेशोंकी उस सुरम्य राजधानीमें वे वानर और राक्षस बड़े हर्ष और प्रेमसे रहते थे । श्रीरामके प्रेमपूर्वक सत्कारसे उनका वह समय सुखपूर्वक बीत रहा था ॥ २९-३० ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें उनतालीसवाँ सर्ग पूरा हुआ ॥ ३९ ॥