वाचनम्
भागसूचना
- विभीषणका राज्याभिषेक और श्रीरघुनाथजीका हनुमान् जी के द्वारा सीताके पास संदेश भेजना
विश्वास-प्रस्तुतिः
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।
जग्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥ १ ॥
मूलम्
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।
जग्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥ १ ॥
अनुवाद (हिन्दी)
देवता, गन्धर्व और दानवगण रावण-वधका दृश्य देखकर उसीकी शुभ चर्चा करते हुए अपने-अपने विमानसे यथास्थान लौट गये ॥ १ ॥
विश्वास-प्रस्तुतिः
रावणस्य वधं घोरं राघवस्य पराक्रमम् ।
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥ २ ॥
अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च ।
पतिव्रतात्वं सीताया हनूमति पराक्रमम् ॥ ३ ॥
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ।

रावणके भयंकर वध, श्रीरघुनाथजीके पराक्रम, वानरोंके उत्तम युद्ध, सुग्रीवकी मन्त्रणा, लक्ष्मण और हनुमान् जी की श्रीरामके प्रति भक्ति, उन दोनोंके पराक्रम, सीताके पातिव्रत्य तथा हनुमान् जी के पुरुषार्थकी बातें कहते हुए वे महाभाग देवता आदि जैसे आये थे, उसी तरह प्रसन्नतापूर्वक चले गये ॥ २-३ १/२ ॥
विश्वास-प्रस्तुतिः
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ॥ ४ ॥
अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत् ।
मूलम्
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ॥ ४ ॥
अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत् ।
अनुवाद (हिन्दी)
इसके बाद महाबाहु भगवान् श्रीरामने इन्द्रके दिये हुए दिव्य रथको, जो अग्निके समान देदीप्यमान था, ले जानेकी आज्ञा देकर मातलिका बड़ा सम्मान किया ॥ ४ १/२ ॥
विश्वास-प्रस्तुतिः
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ॥ ५ ॥
दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह ।
मूलम्
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ॥ ५ ॥
दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह ।
अनुवाद (हिन्दी)
तब इन्द्रसारथि मातलि श्रीरामचन्द्रजीकी आज्ञासे उस दिव्य रथपर बैठकर पुनः दिव्य लोकको ही चले गये ॥ ५ १/२ ॥
विश्वास-प्रस्तुतिः
तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः ॥ ६ ॥
राघवः परमप्रीतः सुग्रीवं परिषस्वजे ।
मूलम्
तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः ॥ ६ ॥
राघवः परमप्रीतः सुग्रीवं परिषस्वजे ।
अनुवाद (हिन्दी)
मातलिके रथसहित देवलोकको चले जानेपर रथियोंमें श्रेष्ठ श्रीरामने बड़ी प्रसन्नताके साथ सुग्रीवको हृदयसे लगा लिया ॥ ६ १/२ ॥
विश्वास-प्रस्तुतिः
परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः ॥ ७ ॥
पूज्यमानो हरिगणैराजगाम बलालयम् ।
मूलम्
परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः ॥ ७ ॥
पूज्यमानो हरिगणैराजगाम बलालयम् ।
अनुवाद (हिन्दी)
सुग्रीवका आलिङ्गन करनेके पश्चात् जब उन्होंने लक्ष्मणकी ओर दृष्टि डाली, तब लक्ष्मणने उनके चरणोंमें प्रणाम किया । फिर वानरसैनिकोंसे सम्मानित हो वे सेनाकी छावनीपर लौट आये ॥ ७ १/२ ॥
विश्वास-प्रस्तुतिः
अथोवाच स काकुत्स्थः समीपपरिवर्तिनम् ॥ ८ ॥
सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम् ।
विभीषणमिमं सौम्य लङ्कायामभिषेचय ॥ ९ ॥
अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम् ।
मूलम्
अथोवाच स काकुत्स्थः समीपपरिवर्तिनम् ॥ ८ ॥
सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम् ।
विभीषणमिमं सौम्य लङ्कायामभिषेचय ॥ ९ ॥
अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम् ।
अनुवाद (हिन्दी)
वहाँ आकर रघुनाथजीने अपने समीप खड़े हुए बल एवं उद्दीप्त तेजसे सम्पन्न सुमित्रानन्दन लक्ष्मणसे कहा—‘सौम्य! अब तुम लङ्कामें जाकर इन विभीषणका राज्याभिषेक करो; क्योंकि ये मेरे प्रेमी, भक्त तथा पहले उपकार करनेवाले हैं ॥ ८-९ १/२ ॥
विश्वास-प्रस्तुतिः
एष मे परमः कामो यदिमं रावणानुजम् ॥ १० ॥
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ।
मूलम्
एष मे परमः कामो यदिमं रावणानुजम् ॥ १० ॥
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ।
अनुवाद (हिन्दी)
‘सौम्य! यह मेरी बड़ी इच्छा है कि रावणके छोटे भाई इन विभीषणको मैं लङ्काके राज्यपर अभिषिक्त देखूँ’ ॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तु सौमित्री राघवेण महात्मना ॥ ११ ॥
तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे ।
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ॥ १२ ॥
व्यादिदेश महासत्त्वान् समुद्रसलिलं तदा ।
मूलम्
एवमुक्तस्तु सौमित्री राघवेण महात्मना ॥ ११ ॥
तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे ।
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ॥ १२ ॥
व्यादिदेश महासत्त्वान् समुद्रसलिलं तदा ।
अनुवाद (हिन्दी)
महात्मा श्रीरघुनाथजीके ऐसा कहनेपर सुमित्राकुमार लक्ष्मणको बड़ी प्रसन्नता हुई । उन्होंने ‘बहुत अच्छा’ कहकर सोनेका घड़ा हाथमें लिया और उसे वानर-यूथपतियोंके हाथमें देकर उन महान् शक्तिशाली तथा मनके समान वेगवाले वानरोंको समुद्रका जल ले आनेकी आज्ञा दी ॥ ११-१२ १/२ ॥
विश्वास-प्रस्तुतिः
अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः ॥ १३ ॥
आगतास्तु जलं गृह्य समुद्राद् वानरोत्तमाः ।
मूलम्
अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः ॥ १३ ॥
आगतास्तु जलं गृह्य समुद्राद् वानरोत्तमाः ।
अनुवाद (हिन्दी)
वे मनके समान वेगशाली श्रेष्ठ वानर तुरंत ही गये और समुद्रसे जल लेकर लौट आये ॥ १३ १/२ ॥
विश्वास-प्रस्तुतिः
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ॥ १४ ॥
घटेन तेन सौमित्रिरभ्यषिञ्चद् विभीषणम् ।
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ॥ १५ ॥
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ।
अभ्यषिञ्चस्तदा सर्वे राक्षसा वानरास्तथा ॥ १६ ॥

तदनन्तर लक्ष्मणने एक घट जल लेकर उसे उत्तम आसनपर स्थापित कर दिया और उस घटके जलसे विभीषणका वेदोक्त विधिके अनुसार लङ्काके राजपदपर अभिषेक किया । यह अभिषेक श्रीरामचन्द्रजीकी आज्ञासे हुआ था । उस समय राक्षसोंके बीचमें सुहृदोंसे घिरे हुए विभीषण राजसिंहासनपर विराजमान थे । लक्ष्मणके बाद सभी राक्षसों और वानरोंने भी उनका अभिषेक किया ॥
विश्वास-प्रस्तुतिः
प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि ।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥ १७ ॥
दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।
राघवः परमां प्रीतिं जगाम सहलक्ष्मणः ॥ १८ ॥

वे अत्यन्त प्रसन्न होकर श्रीरामकी ही स्तुति करने लगे । राक्षसराज विभीषणको लङ्काके राज्यपर अभिषिक्त देख उनके मन्त्री और प्रेमी राक्षस बहुत प्रसन्न हुए । साथ ही लक्ष्मणसहित श्रीरघुनाथजीको भी बड़ी प्रसन्नता हुई ॥ १७-१८ ॥
विश्वास-प्रस्तुतिः
स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः ।
सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत् ॥ १९ ॥
मूलम्
स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः ।
सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत् ॥ १९ ॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीके दिये हुए उस विशाल राज्यको पाकर विभीषण अपनी प्रजाको सान्त्वना दे श्रीरामचन्द्रजीके पास आये ॥ १९ ॥
विश्वास-प्रस्तुतिः
दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा ।
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ॥ २० ॥
मूलम्
दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा ।
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ॥ २० ॥
अनुवाद (हिन्दी)
उस समय हर्षसे भरे हुए नगरनिवासी निशाचर विभीषणको अर्पित करनेके लिये दही, अक्षत, मिठाई, लावा और फूल लाये ॥ २० ॥
विश्वास-प्रस्तुतिः
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥ २१ ॥
मूलम्
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥ २१ ॥
अनुवाद (हिन्दी)
दुर्धर्ष पराक्रमी विभीषणने वे सब मङ्गलजनक माङ्गलिक वस्तुएँ लेकर श्रीराम और लक्ष्मणको भेंट की ॥ २१ ॥
विश्वास-प्रस्तुतिः
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।
प्रतिजग्राह तत् सर्वं तस्यैव प्रतिकाम्यया ॥ २२ ॥
मूलम्
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।
प्रतिजग्राह तत् सर्वं तस्यैव प्रतिकाम्यया ॥ २२ ॥
अनुवाद (हिन्दी)
श्रीरघुनाथजीने विभीषणको कृतकार्य एवं सफलमनोरथ देख उनकी प्रसन्नताके लिये ही उन सब माङ्गलिक वस्तुओंको ले लिया ॥ २२ ॥
विश्वास-प्रस्तुतिः
ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम् ।
उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम् ॥ २३ ॥
मूलम्
ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम् ।
उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम् ॥ २३ ॥
अनुवाद (हिन्दी)
तत्पश्चात् उन्होंने हाथ जोड़कर विनीतभावसे खड़े हुए पर्वताकार वीर वानर हनुमान् जी से कहा— ॥ २३ ॥
विश्वास-प्रस्तुतिः
अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम् ।
प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम् ॥ २४ ॥
मूलम्
अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम् ।
प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम् ॥ २४ ॥
अनुवाद (हिन्दी)
‘सौम्य! तुम इन महाराज विभीषणकी आज्ञा ले लङ्कानगरीमें प्रवेश करके मिथिलेशकुमारी सीतासे उनका कुशल-समाचार पूछो ॥ २४ ॥
विश्वास-प्रस्तुतिः
वैदेह्यै मां च कुशलं सुग्रीवं च सलक्ष्मणम् ।
आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे ॥ २५ ॥
प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर ।
प्रतिगृह्य तु सन्देशमुपावर्तितुमर्हसि ॥ २६ ॥
मूलम्
वैदेह्यै मां च कुशलं सुग्रीवं च सलक्ष्मणम् ।
आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे ॥ २५ ॥
प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर ।
प्रतिगृह्य तु सन्देशमुपावर्तितुमर्हसि ॥ २६ ॥
अनुवाद (हिन्दी)
‘साथ ही उन विदेहराजकुमारीसे सुग्रीव और लक्ष्मणसहित मेरा कुशल-समाचार निवेदन करो । वक्ताओंमें श्रेष्ठ हरीश्वर! तुम वैदेहीको यह प्रिय समाचार सुना दो कि रावण युद्धमें मारा गया । तत्पश्चात् उनका संदेश लेकर लौट आओ’ ॥ २५-२६ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशाधिकशततमः सर्गः ॥ ११२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें एक सौ बारहवाँ सर्ग पूरा हुआ ॥ ११२ ॥