वाचनम्
भागसूचना
- अंगदके द्वारा महापार्श्वका वध
विश्वास-प्रस्तुतिः
महोदरे तु निहते महापार्श्वो महाबलः ।
सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः ॥ १ ॥
मूलम्
महोदरे तु निहते महापार्श्वो महाबलः ।
सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः ॥ १ ॥
अनुवाद (हिन्दी)
सुग्रीवके द्वारा महोदरके मारे जानेपर उनकी ओर देखकर महाबली महापार्श्वके नेत्र क्रोधसे लाल हो गये ॥
विश्वास-प्रस्तुतिः
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः ।
स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः ॥ २ ॥
पातयामास कायेभ्यः फलं वृन्तादिवानिलः ।
मूलम्
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः ।
स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः ॥ २ ॥
पातयामास कायेभ्यः फलं वृन्तादिवानिलः ।
अनुवाद (हिन्दी)
उसने अपने बाणोंद्वारा अंगदकी भयंकर सेनामें हलचल मचा दी । वह राक्षस मुख्य-मुख्य वानरोंके मस्तक धड़से काट-काटकर गिराने लगा, मानो वायु वृन्त या डंठलसे फल गिरा रही हो ॥ २ ॥
विश्वास-प्रस्तुतिः
केषाञ्चिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः ॥ ३ ॥
वानराणां सुसंरब्धः पार्श्वं केषाञ्चिदाक्षिपत् ।
मूलम्
केषाञ्चिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः ॥ ३ ॥
वानराणां सुसंरब्धः पार्श्वं केषाञ्चिदाक्षिपत् ।
अनुवाद (हिन्दी)
क्रोधसे भरे हुए महापार्श्वने अपने बाणोंसे कितनोंकी बाँहें काट दीं और कितने ही वानरोंकी पसलियाँ उड़ा दीं ॥ ३ १/२ ॥
विश्वास-प्रस्तुतिः
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ॥ ४ ॥
विषादविमुखाः सर्वे बभूवुर्गतचेतसः ।
मूलम्
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ॥ ४ ॥
विषादविमुखाः सर्वे बभूवुर्गतचेतसः ।
अनुवाद (हिन्दी)
महापार्श्वकी बाणवर्षासे पीड़ित हो बहुत-से वानर युद्धसे विमुख हो गये । सबकी चेतना जाती रही ॥ ४ १/२ ॥
विश्वास-प्रस्तुतिः
निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ॥ ५ ॥
वेगं चक्रे महावेगः समुद्र इव पर्वसु ।
मूलम्
निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ॥ ५ ॥
वेगं चक्रे महावेगः समुद्र इव पर्वसु ।
अनुवाद (हिन्दी)
उस राक्षससे पीड़ित वानर-सेनाको उद्विग्न हुई देख महान् वेगशाली अङ्गदने पूर्णिमाके दिन समुद्रकी भाँति अपना भारी वेग प्रकट किया ॥ ५ १/२ ॥
विश्वास-प्रस्तुतिः
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ॥ ६ ॥
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ।
मूलम्
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ॥ ६ ॥
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ।
अनुवाद (हिन्दी)
उन वानरशिरोमणिने सूर्यकी किरणोंके समान दमकनेवाला एक लोहेका परिघ उठाकर महापार्श्वपर दे मारा ॥ ६ १/२ ॥
विश्वास-प्रस्तुतिः
स तु तेन प्रहारेण महापार्श्वो विचेतनः ॥ ७ ॥
ससूतः स्यन्दनात् तस्माद् विसञ्ज्ञश्चापतद् भुवि ।
मूलम्
स तु तेन प्रहारेण महापार्श्वो विचेतनः ॥ ७ ॥
ससूतः स्यन्दनात् तस्माद् विसञ्ज्ञश्चापतद् भुवि ।
अनुवाद (हिन्दी)
उस प्रहारसे महापार्श्वकी सुध-बुध जाती रही और वह मूर्च्छित हो सारथिसहित रथसे नीचे जा पड़ा ॥
विश्वास-प्रस्तुतिः
तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः ॥ ८ ॥
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसन्निभात् ।
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् ॥ ९ ॥
अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम् ।
मूलम्
तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः ॥ ८ ॥
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसन्निभात् ।
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् ॥ ९ ॥
अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम् ।
अनुवाद (हिन्दी)
इसी समय काले कोयलेके ढेरके समान कृष्ण वर्णवाले, महान् पराक्रमी और तेजस्वी ऋक्षराज जाम्बवान् ने मेघोंकी घटाके सदृश अपने यूथसे बाहर निकलकर कुपित हो एक पर्वत-शिखरके समान विशाल शिला हाथमें ले ली और उसके द्वारा उस राक्षसके घोड़ोंको मार डाला तथा उसके रथको भी चूर्ण कर दिया ॥
विश्वास-प्रस्तुतिः
मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः ॥ १० ॥
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ।
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ ११ ॥
मूलम्
मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः ॥ १० ॥
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ।
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ ११ ॥
अनुवाद (हिन्दी)
दो घड़ीके बाद होशमें आनेपर महाबली महापार्श्वने बहुत-से बाणोंद्वारा पुनः अङ्गदको घायल कर दिया और जाम्बवान् की छातीमें भी तीन बाण मारे ॥ १०-११ ॥
विश्वास-प्रस्तुतिः
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ।
गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ ॥ १२ ॥
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः ।
मूलम्
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ।
गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ ॥ १२ ॥
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः ।
अनुवाद (हिन्दी)
इतना ही नहीं, उसने रीछोंके राजा गवाक्षको भी बहुत-से बाणोंद्वारा क्षत-विक्षत कर दिया । गवाक्ष और जाम्बवान् को बाणोंसे पीड़ित देख अङ्गदके क्रोधकी सीमा न रही । उन्होंने भयंकर परिघ हाथमें ले लिया ॥ १२ १/२ ॥
विश्वास-प्रस्तुतिः
तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम् ॥ १३ ॥
दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ।
द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवत् ॥ १४ ॥
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ।

उनका वह परिघ सूर्यकी किरणोंके समान अपनी प्रभा बिखेर रहा था । वालिपुत्र अङ्गदके नेत्र क्रोधसे लाल हो उठे थे । उन्होंने उस लोहमय परिघको दोनों हाथोंसे पकड़कर घुमाया और दूर खड़े हुए महापार्श्वके वधके लिये वेगपूर्वक चला दिया ॥ १३-१४ १/२ ॥
विश्वास-प्रस्तुतिः
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ॥ १५ ॥
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत् ।
मूलम्
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ॥ १५ ॥
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत् ।
अनुवाद (हिन्दी)
बलवान् वीर अङ्गदके चलाये हुए उस परिघने राक्षस महापार्श्वके हाथसे बाणसहित धनुष और मस्तकसे टोप गिरा दिये ॥ १५ १/२ ॥
विश्वास-प्रस्तुतिः
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ॥ १६ ॥
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले ।
मूलम्
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ॥ १६ ॥
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले ।
अनुवाद (हिन्दी)
फिर प्रतापी वालिपुत्र अङ्गद बड़े वेगसे उसके पास जा पहुँचे और कुपित होकर उन्होंने उसके कुण्डलयुक्त कानके पास गालपर एक थप्पड़ मारा ॥ १६ १/२ ॥
विश्वास-प्रस्तुतिः
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ॥ १७ ॥
करेणैकेन जग्राह सुमहान्तं परश्वधम् ।
मूलम्
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ॥ १७ ॥
करेणैकेन जग्राह सुमहान्तं परश्वधम् ।
अनुवाद (हिन्दी)
तब महान् वेगशाली महातेजस्वी महापार्श्वने कुपित होकर एक हाथमें बहुत बड़ा फरसा ले लिया ॥ १७ १/२ ॥
विश्वास-प्रस्तुतिः
तं तैलधौतं विमलं शैलसारमयं दृढम् ॥ १८ ॥
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ।
मूलम्
तं तैलधौतं विमलं शैलसारमयं दृढम् ॥ १८ ॥
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ।
अनुवाद (हिन्दी)
उस फरसेको तेलमें डुबोकर साफ किया गया था और वह अच्छे लोहेका बना हुआ एवं सुदृढ़ था । राक्षस महापार्श्वने अत्यन्त कुपित हो वह फरसा वालिपुत्र अङ्गदपर दे मारा ॥ १८ १/२ ॥
विश्वास-प्रस्तुतिः
तेन वामांसफलके भृशं प्रत्यवपातितम् ॥ १९ ॥
अङ्गदो मोक्षयामास सरोषः स परश्वधम् ।
मूलम्
तेन वामांसफलके भृशं प्रत्यवपातितम् ॥ १९ ॥
अङ्गदो मोक्षयामास सरोषः स परश्वधम् ।
अनुवाद (हिन्दी)
उसने अङ्गदके बायें कंधेपर बड़े वेगसे उस फरसेका प्रहार किया था, परंतु रोषसे भरे हुए अङ्गदने कतराकर अपनेको बचा लिया और उस फरसेको व्यर्थ कर दिया ॥ १९ १/२ ॥
विश्वास-प्रस्तुतिः
स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः ॥ २० ॥
संवर्तयत् सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः ।
मूलम्
स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः ॥ २० ॥
संवर्तयत् सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः ।
अनुवाद (हिन्दी)
तत्पश्चात् अत्यन्त क्रोधसे भरे हुए वीर अङ्गदने, जो अपने पिताके समान ही पराक्रमी थे, वज्रके समान मुट्ठी बाँधी ॥ २० १/२ ॥
विश्वास-प्रस्तुतिः
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ॥ २१ ॥
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ।
मूलम्
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ॥ २१ ॥
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ।
अनुवाद (हिन्दी)
वे हृदयके मर्मस्थानसे परिचित थे; अतः उन्होंने उस राक्षसके स्तनोंके निकट छातीमें बड़े वेगसे मुक्का मारा, जिसका स्पर्श इन्द्रके वज्रके समान असह्य था ॥
विश्वास-प्रस्तुतिः
तेन तस्य निपातेन राक्षसस्य महामृधे ॥ २२ ॥
पफाल हृदयं चास्य स पपात हतो भुवि ।
मूलम्
तेन तस्य निपातेन राक्षसस्य महामृधे ॥ २२ ॥
पफाल हृदयं चास्य स पपात हतो भुवि ।
अनुवाद (हिन्दी)
उनका वह घूँसा लगते ही उस महासमरमें राक्षस महापार्श्वका हृदय फट गया और वह मरकर पृथ्वीपर गिर पड़ा ॥ २२ १/२ ॥
विश्वास-प्रस्तुतिः
तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे ॥ २३ ॥
अभवच्च महान् क्रोधः समरे रावणस्य तु ।
मूलम्
तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे ॥ २३ ॥
अभवच्च महान् क्रोधः समरे रावणस्य तु ।
अनुवाद (हिन्दी)
उसके मरकर पृथ्वीपर गिर जानेके पश्चात् उसकी सेना विक्षुब्ध हो उठी तथा समरभूमिमें रावणको भी महान् क्रोध हुआ ॥ २३ १/२ ॥
विश्वास-प्रस्तुतिः
वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः ॥ २४ ॥
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ।
सहेन्द्रेणेव देवानां नादः समभवन्महान् ॥ २५ ॥
मूलम्
वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः ॥ २४ ॥
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ।
सहेन्द्रेणेव देवानां नादः समभवन्महान् ॥ २५ ॥
अनुवाद (हिन्दी)
उस समय हर्षसे भरे हुए वानरोंका महान् सिंहनाद होने लगा । वह अट्टालिकाओं तथा गोपुरोंसहित लङ्कापुरीको फोड़ता हुआ-सा प्रतीत हुआ । अङ्गदसहित वानरोंका वह महानाद इन्द्रसहित देवताओंके गम्भीर घोष-सा जान पड़ता था ॥ २४-२५ ॥
विश्वास-प्रस्तुतिः
अथेन्द्रशत्रुस्त्रिदशालयानां
वनौकसां चैव महाप्रणादम् ।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः
पुनश्च युद्धाभिमुखोऽवतस्थे ॥ २६ ॥
मूलम्
अथेन्द्रशत्रुस्त्रिदशालयानां
वनौकसां चैव महाप्रणादम् ।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः
पुनश्च युद्धाभिमुखोऽवतस्थे ॥ २६ ॥
अनुवाद (हिन्दी)
युद्धस्थलमें देवताओं और वानरोंकी वह बड़ी भारी गर्जना सुनकर इन्द्रद्रोही राक्षसराज रावण पुनः रोषपूर्वक युद्धके लिये उत्सुक हो वहाँ खड़ा हो गया ॥ २६ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डेऽष्टनवतितमः सर्गः ॥ ९८ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें अट्ठानबेवाँ सर्ग पूरा हुआ ॥ ९८ ॥