वाचनम्
भागसूचना
- रावणका अपने मन्त्रियोंको बुलाकर शत्रुवधविषयक अपना उत्साह प्रकट करना और सबके साथ रणभूमिमें आकर पराक्रम दिखाना
विश्वास-प्रस्तुतिः
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले ।
रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥ १ ॥
मूलम्
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले ।
रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥ १ ॥
अनुवाद (हिन्दी)
रावणने लङ्काके घर-घरमें शोकमग्न राक्षसियोंका करुणाजनक विलाप सुना ॥ १ ॥
विश्वास-प्रस्तुतिः
स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः ।
बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ २ ॥
मूलम्
स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः ।
बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ २ ॥
अनुवाद (हिन्दी)
वह लम्बी साँस खींचकर दो घड़ीतक ध्यानमग्न हो कुछ सोचता रहा; तत्पश्चात् रावण अत्यन्त कुपित हो बड़ा भयानक दिखायी देने लगा ॥ २ ॥
विश्वास-प्रस्तुतिः
सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ।
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान् ॥ ३ ॥
मूलम्
सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ।
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान् ॥ ३ ॥
अनुवाद (हिन्दी)
उसने दाँतोंसे ओठ दबा लिया । उसकी आँखें रोषसे लाल हो गयीं । वह मूर्तिमान् प्रलयाग्निके समान दिखायी देने लगा । राक्षसोंके लिये भी उसकी ओर देखना कठिन हो गया ॥ ३ ॥
विश्वास-प्रस्तुतिः
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः ।
क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥ ४ ॥
मूलम्
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः ।
क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥ ४ ॥
अनुवाद (हिन्दी)
उस राक्षसराजने अपने पास खड़े हुए राक्षसोंसे अस्पष्ट शब्दोंमें वार्तालाप आरम्भ किया । उस समय वहाँ वह इस तरह देख रहा था, मानो अपने नेत्रोंसे दग्ध कर डालेगा ॥ ४ ॥
विश्वास-प्रस्तुतिः
महोदरं महापार्श्वं विरूपाक्षं च राक्षसम् ।
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥ ५ ॥
मूलम्
महोदरं महापार्श्वं विरूपाक्षं च राक्षसम् ।
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥ ५ ॥
अनुवाद (हिन्दी)
उसने कहा—‘निशाचरो! महोदर, महापार्श्व तथा राक्षस विरूपाक्षसे शीघ्र जाकर कहो—‘तुमलोग मेरी आज्ञासे शीघ्र ही सेनाओंको कूच करनेका आदेश दो’ ॥ ५ ॥
विश्वास-प्रस्तुतिः
तस्य तद् वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ।
चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ॥ ६ ॥
मूलम्
तस्य तद् वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ।
चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ॥ ६ ॥
अनुवाद (हिन्दी)
रावणकी यह बात सुनकर भयसे पीड़ित हुए उन राक्षसोंने राजाकी आज्ञाके अनुसार उन निर्भीक निशाचरोंको पूर्वोक्त कार्य करनेके लिये प्रेरित किया ॥ ६ ॥
विश्वास-प्रस्तुतिः
ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः ।
कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः ॥ ७ ॥
मूलम्
ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः ।
कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः ॥ ७ ॥
अनुवाद (हिन्दी)
तब ‘तथास्तु’ कहकर भयानक दीखनेवाले उन सभी राक्षसोंने अपने लिये स्वस्तिवाचन करवाया और युद्धके लिये प्रस्थान किया ॥ ७ ॥
विश्वास-प्रस्तुतिः
प्रतिपूज्य यथान्यायं रावणं ते महारथाः ।
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥ ८ ॥
मूलम्
प्रतिपूज्य यथान्यायं रावणं ते महारथाः ।
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥ ८ ॥
अनुवाद (हिन्दी)
स्वामीकी विजय चाहनेवाले वे सभी महारथी वीर यथोचित रीतिसे रावणका आदर-सम्मान करके उसके सामने हाथ जोड़े खड़े हो गये ॥ ८ ॥
विश्वास-प्रस्तुतिः
ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः ।
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ॥ ९ ॥
मूलम्
ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः ।
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ॥ ९ ॥
अनुवाद (हिन्दी)
तत्पश्चात् रावण क्रोधसे मूर्च्छित-सा होकर बड़े जोरसे हँस पड़ा और महोदर, महापार्श्व तथा राक्षस विरूपाक्षसे कहा— ॥ ९ ॥
विश्वास-प्रस्तुतिः
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः ।
राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥ १० ॥
मूलम्
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः ।
राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥ १० ॥
अनुवाद (हिन्दी)
‘आज अपने धनुषसे छूटे हुए तीखे बाणोंद्वारा, जो प्रलयकालके सूर्य-सदृश तेजस्वी हैं, मैं राम और लक्ष्मणको भी यमलोक पहुँचा दूँगा ॥ १० ॥
विश्वास-प्रस्तुतिः
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ।
करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥ ११ ॥
मूलम्
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ।
करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥ ११ ॥
अनुवाद (हिन्दी)
‘आज शत्रुका वध करके खर, कुम्भकर्ण, प्रहस्त तथा इन्द्रजित् के मारे जानेका भरपूर बदला चुकाऊँगा ॥
विश्वास-प्रस्तुतिः
नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः ।
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥ १२ ॥
मूलम्
नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः ।
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥ १२ ॥
अनुवाद (हिन्दी)
‘मेरे बाण मेघोंकी घटाके समान सब ओर छा जायँगे; अतः अन्तरिक्ष, दिशाएँ, आकाश तथा समुद्र—कुछ भी दिखायी न देगा ॥ १२ ॥
विश्वास-प्रस्तुतिः
अद्य वानरमुख्यानां तानि यूथानि भागशः ।
धनुषा शरजालेन वधिष्यामि पतत्त्रिणा ॥ १३ ॥
मूलम्
अद्य वानरमुख्यानां तानि यूथानि भागशः ।
धनुषा शरजालेन वधिष्यामि पतत्त्रिणा ॥ १३ ॥
अनुवाद (हिन्दी)
‘आज अपने धनुषसे पङ्खवाले बाणोंका जाल-सा बिछा दूँगा और वानरोंके मुख्य-मुख्य यूथोंका पृथक्-पृथक् वध करूँगा ॥ १३ ॥
विश्वास-प्रस्तुतिः
अद्य वानरसैन्यानि रथेन पवनौजसा ।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥ १४ ॥
मूलम्
अद्य वानरसैन्यानि रथेन पवनौजसा ।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥ १४ ॥
अनुवाद (हिन्दी)
‘आज वायुके समान वेगशाली रथपर आरूढ़ हो मैं अपने धनुषरूपी समुद्रसे उठी हुई बाणमयी तरङ्गोंसे वानर-सेनाओंको मथ डालूँगा ॥ १४ ॥
विश्वास-प्रस्तुतिः
व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम् ।
अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ॥ १५ ॥
मूलम्
व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम् ।
अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ॥ १५ ॥
अनुवाद (हिन्दी)
‘कमल-केसरकी-सी कान्तिवाले वानरोंके यूथ सरोवरोंके समान हैं । उनके मुख ही उन सरोवरोंके भीतर प्रफुल्ल कमलके समान सुशोभित होते हैं । आज मैं हाथीके समान उनमें प्रवेश करके उन वानर-यूथरूपी सरोवरोंको मथ डालूँगा ॥ १५ ॥
विश्वास-प्रस्तुतिः
सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः ।
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥ १६ ॥
मूलम्
सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः ।
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥ १६ ॥
अनुवाद (हिन्दी)
‘आज युद्धस्थलमें गिरे हुए वानर-यूथपति अपने बाणविद्ध मुखोंद्वारा नालयुक्त कमलोंका भ्रम उत्पन्न करते हुए रणभूमिकी शोभा बढ़ायेंगे ॥ १६ ॥
विश्वास-प्रस्तुतिः
अद्य यूथप्रचण्डानां हरीणां द्रुमयोधिनाम् ।
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥ १७ ॥
मूलम्
अद्य यूथप्रचण्डानां हरीणां द्रुमयोधिनाम् ।
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥ १७ ॥
अनुवाद (हिन्दी)
‘आज युद्धभूमिमें धनुषसे छूटे हुए एक-एक बाणसे मैं वृक्ष लेकर जूझनेवाले सौ-सौ प्रचण्ड वानरोंको विदीर्ण करूँगा ॥ १७ ॥
विश्वास-प्रस्तुतिः
हतो भ्राता च येषां वै येषां च तनयो हतः ।
वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम् ॥ १८ ॥
मूलम्
हतो भ्राता च येषां वै येषां च तनयो हतः ।
वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम् ॥ १८ ॥
अनुवाद (हिन्दी)
‘आज शत्रुका वध करके मैं उन सब निशाचरोंके आँसू पोछूँगा, जिनके भाई और पुत्र इस युद्धमें मारे गये हैं ॥ १८ ॥
विश्वास-प्रस्तुतिः
अद्य मद्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः ।
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ॥ १९ ॥
मूलम्
अद्य मद्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः ।
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ॥ १९ ॥
अनुवाद (हिन्दी)
आज युद्धमें मेरे बाणोंसे विदीर्ण तथा निर्जीव हुए वानर इस तरह बिछ जायँगे कि वहाँकी भूमि बड़े यत्नसे दीख सकेगी ॥ १९ ॥
विश्वास-प्रस्तुतिः
अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे ।
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः ॥ २० ॥
मूलम्
अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे ।
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः ॥ २० ॥
अनुवाद (हिन्दी)
‘आज अपने बाणोंद्वारा मारे गये शत्रुओंके मांसोंसे मैं कौओं, गीधों तथा जो दूसरे मांसभक्षी जन्तु हैं, उन सबको भी तृप्त करूँगा ॥ २० ॥
विश्वास-प्रस्तुतिः
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः ।
अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः ॥ २१ ॥
मूलम्
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः ।
अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः ॥ २१ ॥
अनुवाद (हिन्दी)
‘जल्दी मेरा रथ तैयार किया जाय, शीघ्र धनुष लाया जाय तथा मरनेसे बचे हुए निशाचर युद्धमें मेरे पीछे-पीछे चलें’ ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः ।
बलाध्यक्षान् स्थितांस्तत्र बलं सन्त्वर्यतामिति ॥ २२ ॥
मूलम्
तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः ।
बलाध्यक्षान् स्थितांस्तत्र बलं सन्त्वर्यतामिति ॥ २२ ॥
अनुवाद (हिन्दी)
रावणका वह वचन सुनकर महापार्श्वने वहाँ खड़े हुए सेनापतियोंसे कहा—‘सेनाको शीघ्र ही कूच करनेकी आज्ञा दो’ ॥ २२ ॥
विश्वास-प्रस्तुतिः
बलाध्यक्षास्तु संयुक्ता राक्षसांस्तान् गृहे गृहे ।
चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः ॥ २३ ॥
मूलम्
बलाध्यक्षास्तु संयुक्ता राक्षसांस्तान् गृहे गृहे ।
चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः ॥ २३ ॥
अनुवाद (हिन्दी)
यह आज्ञा पाकर वे शीघ्रपराक्रमी सेनाध्यक्ष घर-घर जाकर उन राक्षसोंको तैयार होनेका आदेश देते हुए सारी लङ्कामें घूमते फिरे ॥ २३ ॥
विश्वास-प्रस्तुतिः
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः ।
नदन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥ २४ ॥
मूलम्
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः ।
नदन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥ २४ ॥
अनुवाद (हिन्दी)
थोड़ी ही देरमें भयंकर मुख एवं आकारवाले राक्षस गर्जना करते हुए वहाँ आ पहुँचे । उनके हाथोंमें नाना प्रकारके अस्त्र-शस्त्र थे ॥ २४ ॥
विश्वास-प्रस्तुतिः
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हलैः ।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥ २५ ॥
यष्टिभिर्विविधैश्चक्रैर्निशितैश्च परश्वधैः ।
भिन्दिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥ २६ ॥

तलवार, पट्टिश, शूल, गदा, मूसल, हल, तीखी धारवाली शक्ति, बड़े-बड़े कूटमुद्गर, डंडे, भाँति-भाँतिके चक्र, तीखे फरसे, भिन्दिपाल, शतघ्नी तथा अन्य प्रकारके उत्तमोत्तम अस्त्र-शस्त्रोंसे वे सम्पन्न थे ॥
विश्वास-प्रस्तुतिः
अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया ।
रथानां नियुतं साग्रं नागानां नियुतत्रयम् ॥ २७ ॥
अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च ।
पदातयस्त्वसङ्ख्याता जग्मुस्ते राजशासनात् ॥ २८ ॥
मूलम्
अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया ।
रथानां नियुतं साग्रं नागानां नियुतत्रयम् ॥ २७ ॥
अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च ।
पदातयस्त्वसङ्ख्याता जग्मुस्ते राजशासनात् ॥ २८ ॥
अनुवाद (हिन्दी)
रावणकी आज्ञासे चार सेनापति एक लाखसे कुछ अधिक रथ, तीन लाख हाथी, साठ करोड़ घोड़े, उतने ही गदहे तथा ऊँट और असंख्य पैदल योद्धा लेकर आ पहुँचे । वे सब सैनिक राजाके आदेशसे वहाँ गये ॥ २७-२८ ॥
विश्वास-प्रस्तुतिः
बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरःस्थिताम् ।
एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम् ॥ २९ ॥
मूलम्
बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरःस्थिताम् ।
एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम् ॥ २९ ॥
अनुवाद (हिन्दी)
इस प्रकार विशाल सेना लाकर सेनाध्यक्षोंने राक्षसराज रावणके सामने खड़ी कर दी । इसी बीचमें सारथिने एक रथ लाकर उपस्थित कर दिया ॥ २९ ॥
विश्वास-प्रस्तुतिः
दिव्यास्त्रवरसम्पन्नं नानालङ्कारभूषितम् ।
नानायुधसमाकीर्णं किङ्किणीजालसंयुतम् ॥ ३० ॥
मूलम्
दिव्यास्त्रवरसम्पन्नं नानालङ्कारभूषितम् ।
नानायुधसमाकीर्णं किङ्किणीजालसंयुतम् ॥ ३० ॥
अनुवाद (हिन्दी)
उसमें उत्तम दिव्यास्त्र रखे थे, अनेक प्रकारके अलंकारोंसे उस रथको सजाया गया था । उसमें भाँति-भाँतिके हथियार थे और वह रथ घुँघुरूदार झालरोंसे सुशोभित था ॥ ३० ॥
विश्वास-प्रस्तुतिः
नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम् ।
जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम् ॥ ३१ ॥
मूलम्
नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम् ।
जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम् ॥ ३१ ॥
अनुवाद (हिन्दी)
उसमें नाना प्रकारके रत्न जड़े हुए थे । रत्नमय खम्भे उसकी शोभा बढ़ाते थे और सोनेके बने हुए सहस्रों कलशोंसे वह अलंकृत था ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं गताः ।
तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः ॥ ३२ ॥
कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम् ।
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ।
आरुरोह तदा भीमं दीप्यमानं स्वतेजसा ॥ ३३ ॥

उस रथको देखकर सब राक्षस अत्यन्त आश्चर्यसे चकित हो उठे । उसपर दृष्टि पड़ते ही राक्षसराज रावण सहसा उठकर खड़ा हो गया । वह रथ करोड़ों सूर्योंके समान तेजस्वी तथा प्रज्वलित अग्निके सदृश दीप्तिमान् था । उसमें आठ घोड़े जुते हुए थे । उसपर सारथि बैठा था । वह रथ अपने तेजसे प्रकाशित होता था । रावण तुरंत उस भयंकर रथपर आरूढ़ हो गया ॥ ३२-३३ ॥
विश्वास-प्रस्तुतिः
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः ।
रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम् ॥ ३४ ॥
मूलम्
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः ।
रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम् ॥ ३४ ॥
अनुवाद (हिन्दी)
तदनन्तर बहुत-से राक्षसोंसे घिरा हुआ रावण सहसा युद्धके लिये प्रस्थित हुआ । वह अपने बलकी अधिकतासे पृथ्वीको विदीर्ण-सा करता हुआ जा रहा था ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ततश्चासीन्महानादस्तूर्याणां च ततस्ततः ।
मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम् ॥ ३५ ॥
मूलम्
ततश्चासीन्महानादस्तूर्याणां च ततस्ततः ।
मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम् ॥ ३५ ॥
अनुवाद (हिन्दी)
फिर तो जहाँ-तहाँ सब ओर वाद्योंका महानाद गूँज उठा । मृदङ्ग, पटह, शङ्ख तथा राक्षसोंके कलहकी ध्वनि भी उसमें मिली हुई थी ॥ ३५ ॥
विश्वास-प्रस्तुतिः
आगतो रक्षसां राजा छत्रचामरसंयुतः ।
सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः ।
योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः ॥ ३६ ॥
मूलम्
आगतो रक्षसां राजा छत्रचामरसंयुतः ।
सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः ।
योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः ॥ ३६ ॥
अनुवाद (हिन्दी)
‘सीताको चुरानेवाला, दुराचारी, ब्रह्महत्यारा तथा देवताओंके लिये कण्टकरूप राक्षसराज रावण छत्र एवं चँवर लगाये श्रीरघुनाथजीके साथ युद्ध करनेके लिये आ रहा है; इस प्रकारकी कलह-ध्वनि कानोंमें पड़ रही थी ॥
विश्वास-प्रस्तुतिः
तेन नादेन महता पृथिवी समकम्पत ।
तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात् ॥ ३७ ॥
मूलम्
तेन नादेन महता पृथिवी समकम्पत ।
तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात् ॥ ३७ ॥
अनुवाद (हिन्दी)
उस महानादसे पृथ्वी काँप उठी । उस भयानक शब्दको सुनकर सब वानर सहसा भयसे भाग चले ॥ ३७ ॥
विश्वास-प्रस्तुतिः
रावणस्तु महाबाहुः सचिवैः परिवारितः ।
आजगाम महातेजा जयाय विजयं प्रति ॥ ३८ ॥
मूलम्
रावणस्तु महाबाहुः सचिवैः परिवारितः ।
आजगाम महातेजा जयाय विजयं प्रति ॥ ३८ ॥
अनुवाद (हिन्दी)
मन्त्रियोंसे घिरा हुआ महातेजस्वी महाबाहु रावण युद्धमें विजयकी प्राप्तिका उद्देश्य लेकर वहाँ आया ॥ ३८ ॥
विश्वास-प्रस्तुतिः
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ ।
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥ ३९ ॥
मूलम्
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ ।
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥ ३९ ॥
अनुवाद (हिन्दी)
रावणकी आज्ञा पाकर उस समय महापार्श्व, महोदर तथा दुर्जय वीर विरूपाक्ष—तीनों ही रथोंपर आरूढ़ हुए ॥ ३९ ॥
विश्वास-प्रस्तुतिः
ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम् ।
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः ॥ ४० ॥
मूलम्
ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम् ।
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः ॥ ४० ॥
अनुवाद (हिन्दी)
वे हर्षपूर्वक जोर-जोरसे इस तरह दहाड़ रहे थे, मानो पृथिवीको विदीर्ण कर डालेंगे । वे विजयकी इच्छा मनमें लिये घोर सिंहनाद करते हुए पुरीसे बाहर निकले ॥
विश्वास-प्रस्तुतिः
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः ।
निर्ययावुद्यतधनुः कालान्तकयमोपमः ॥ ४१ ॥
मूलम्
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः ।
निर्ययावुद्यतधनुः कालान्तकयमोपमः ॥ ४१ ॥
अनुवाद (हिन्दी)
तदनन्तर काल, मृत्यु और यमराजके समान भयंकर तेजस्वी रावण धनुष हाथमें ले राक्षसोंकी सेनासे घिरकर युद्धके लिये आगे बढ़ा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
ततः प्रजविताश्वेन रथेन स महारथः ।
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥ ४२ ॥
मूलम्
ततः प्रजविताश्वेन रथेन स महारथः ।
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥ ४२ ॥
अनुवाद (हिन्दी)
उसके रथके घोड़े बहुत तेज चलनेवाले थे । उसके द्वारा वह महारथी वीर लङ्काके उसी द्वारसे बाहर निकला, जहाँ श्रीराम और लक्ष्मण मौजूद थे ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।
द्विजाश्च नेदुर्घोराश्च सञ्चचाल च मेदिनी ॥ ४३ ॥
मूलम्
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।
द्विजाश्च नेदुर्घोराश्च सञ्चचाल च मेदिनी ॥ ४३ ॥
अनुवाद (हिन्दी)
उस समय सूर्यकी प्रभा फीकी पड़ गयी । समस्त दिशाओंमें अन्धकार छा गया, भयंकर पक्षी अशुभ बोली बोलने लगे और धरती डोलने लगी ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ववर्ष रुधिरं देवश्चस्खलुश्च तुरङ्गमाः ।
ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः ॥ ४४ ॥
मूलम्
ववर्ष रुधिरं देवश्चस्खलुश्च तुरङ्गमाः ।
ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः ॥ ४४ ॥
अनुवाद (हिन्दी)
बादल रक्तकी वर्षा करने लगे । घोड़े लड़खड़ाकर गिर पड़े । ध्वजके अग्रभागपर गीध आकर बैठ गया और गीदड़ियाँ अमङ्गलसूचक बोली बोलने लगीं ॥ ४४ ॥
विश्वास-प्रस्तुतिः
नयनं चास्फुरद् वामं वामो बाहुरकम्पत ।
विवर्णवदनश्चासीत् किञ्चिदभ्रश्यत स्वनः ॥ ४५ ॥
मूलम्
नयनं चास्फुरद् वामं वामो बाहुरकम्पत ।
विवर्णवदनश्चासीत् किञ्चिदभ्रश्यत स्वनः ॥ ४५ ॥
अनुवाद (हिन्दी)
बाँयी आँख फड़कने लगी । बाँयीं भुजा सहसा काँप उठी । उसके चेहरेका रंग फीका पड़ गया और आवाज कुछ बदल गयी ॥ ४५ ॥
विश्वास-प्रस्तुतिः
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः ।
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥ ४६ ॥
मूलम्
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः ।
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥ ४६ ॥
अनुवाद (हिन्दी)
राक्षस दशग्रीव ज्यों ही युद्धके लिये निकला, त्यों ही रणभूमिमें उसकी मृत्युके सूचक लक्षण प्रकट होने लगे ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना ।
विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः ॥ ४७ ॥
मूलम्
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना ।
विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः ॥ ४७ ॥
अनुवाद (हिन्दी)
आकाशसे उल्कापात हुआ । उससे वज्रपातके समान गड़गड़ाहट पैदा हुई । अमङ्गलसूचक पक्षी गीध कौओंसे मिलकर अशुभ बोली बोलने लगे ॥ ४७ ॥
विश्वास-प्रस्तुतिः
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान् ।
निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः ॥ ४८ ॥
मूलम्
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान् ।
निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः ॥ ४८ ॥
अनुवाद (हिन्दी)
इन भयंकर उत्पातोंको सामने उपस्थित देखकर भी रावणने उनकी कोई परवा नहीं की । वह कालसे प्रेरित हो मोहवश अपने ही वधके लिये निकल पड़ा ॥
विश्वास-प्रस्तुतिः
तेषां तु रथघोषेण राक्षसानां महात्मनाम् ।
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥ ४९ ॥
मूलम्
तेषां तु रथघोषेण राक्षसानां महात्मनाम् ।
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥ ४९ ॥
अनुवाद (हिन्दी)
उन महाकाय राक्षसोंके रथका गम्भीर घोष सुनकर वानरोंकी सेना भी युद्धके लिये ही उनके सामने आकर डट गयी ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम् ।
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥ ५० ॥
मूलम्
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम् ।
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥ ५० ॥
अनुवाद (हिन्दी)
फिर तो अपनी-अपनी जीत चाहते हुए रोषपूर्वक एक-दूसरेको ललकारनेवाले वानरों और राक्षसोंमें तुमुल युद्ध छिड़ गया ॥ ५० ॥
विश्वास-प्रस्तुतिः
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ।
वानराणामनीकेषु चकार कदनं महत् ॥ ५१ ॥
मूलम्
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ।
वानराणामनीकेषु चकार कदनं महत् ॥ ५१ ॥
अनुवाद (हिन्दी)
उस समय दशमुख रावण अपने सुवर्णभूषित बाणोंद्वारा वानरोंकी सेनाओंमें रोषपूर्वक बड़ी भारी मार-काट मचाने लगा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
निकृत्तशिरसः केचिद् रावणेन वलीमुखाः ।
केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः ॥ ५२ ॥
मूलम्
निकृत्तशिरसः केचिद् रावणेन वलीमुखाः ।
केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः ॥ ५२ ॥
अनुवाद (हिन्दी)
रावणने कितने ही वानरोंके सिर काट लिये, कितनोंकी छाती छेद डाली और बहुतोंके कान उड़ा दिये ॥
विश्वास-प्रस्तुतिः
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः ।
केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः ॥ ५३ ॥
मूलम्
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः ।
केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः ॥ ५३ ॥
अनुवाद (हिन्दी)
कितनोंने घायल होकर प्राण त्याग दिये । रावणने कितने ही वानरोंकी पसलियाँ फाड़ डालीं, कितनोंके मस्तक कुचल डाले और कितनोंकी आँखें चौपट कर दीं ॥ ५३ ॥
विश्वास-प्रस्तुतिः
दशाननः क्रोधविवृत्तनेत्रो
यतो यतोऽभ्येति रथेन सङ्ख्ये ।
ततस्ततस्तस्य शरप्रवेगं
सोढुं न शेकुर्हरियूथपास्ते ॥ ५४ ॥
मूलम्
दशाननः क्रोधविवृत्तनेत्रो
यतो यतोऽभ्येति रथेन सङ्ख्ये ।
ततस्ततस्तस्य शरप्रवेगं
सोढुं न शेकुर्हरियूथपास्ते ॥ ५४ ॥
अनुवाद (हिन्दी)
दशमुख रावणके नेत्र क्रोधसे घूम रहे थे । वह अपने रथके द्वारा युद्धस्थलमें जहाँ-जहाँ गया, वहाँ-वहाँ वे वानरयूथपति उसके बाणोंका वेग न सह सके ॥ ५४ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें पञ्चानबेवाँ सर्ग पूरा हुआ ॥ ९५ ॥