वाचनम्
भागसूचना
- हनुमान् जी के द्वारा अकम्पनका वध
विश्वास-प्रस्तुतिः
तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः ।
क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥
मूलम्
तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः ।
क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥
अनुवाद (हिन्दी)
उन वानरशिरोमणियोंद्वारा किये गये उस महान् पराक्रमको देखकर युद्धस्थलमें अकम्पनको बड़ा भारी एवं दुःसह क्रोध हुआ ॥ १ ॥
विश्वास-प्रस्तुतिः
क्रोधमूिर्च्छत तरूपस्तु धुन्वन् परमकार्मुकम् ।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ २ ॥
मूलम्
क्रोधमूिर्च्छत तरूपस्तु धुन्वन् परमकार्मुकम् ।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ २ ॥
अनुवाद (हिन्दी)
शत्रुओंका कर्म देख रोषसे उसका सारा शरीर व्याप्त हो गया और अपने उत्तम धनुषको हिलाते हुए उसने सारथिसे कहा— ॥ २ ॥
विश्वास-प्रस्तुतिः
तत्रैव तावत् त्वरितो रथं प्रापय सारथे ।
एते च बलिनो घ्नन्ति सुबहून् राक्षसान् रणे ॥ ३ ॥
मूलम्
तत्रैव तावत् त्वरितो रथं प्रापय सारथे ।
एते च बलिनो घ्नन्ति सुबहून् राक्षसान् रणे ॥ ३ ॥
अनुवाद (हिन्दी)
‘सारथे! ये बलवान् वानर युद्धमें बहुतेरे राक्षसोंका वध कर रहे हैं, अतः पहले वहीं शीघ्रतापूर्वक मेरा रथ पहुँचाओ ॥ ३ ॥
विश्वास-प्रस्तुतिः
एते च बलवन्तो वा भीमकोपाश्च वानराः ।
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥
मूलम्
एते च बलवन्तो वा भीमकोपाश्च वानराः ।
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥
अनुवाद (हिन्दी)
‘ये वानर बलवान् तो हैं ही, इनका क्रोध भी बड़ा भयानक है । ये वृक्षों और शिलाओंका प्रहार करते हुए मेरे सामने खड़े हैं ॥ ४ ॥
विश्वास-प्रस्तुतिः
एतान् निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।
एतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम् ॥ ५ ॥
मूलम्
एतान् निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।
एतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम् ॥ ५ ॥
अनुवाद (हिन्दी)
‘ये युद्धकी स्पृहा रखनेवाले हैं; अतः मैं इन सबका वध करना चाहता हूँ । इन्होंने सारी राक्षससेनाको मथ डाला है । यह साफ दिखायी देता है’ ॥ ५ ॥
विश्वास-प्रस्तुतिः
ततः प्रचलिताश्वेन रथेन रथिनां वरः ।
हरीनभ्यपतद् दूराच्छरजालैरकम्पनः ॥ ६ ॥
मूलम्
ततः प्रचलिताश्वेन रथेन रथिनां वरः ।
हरीनभ्यपतद् दूराच्छरजालैरकम्पनः ॥ ६ ॥
अनुवाद (हिन्दी)
तदनन्तर तेज चलनेवाले घोड़ोंसे जुते हुए रथके द्वारा रथियोंमें श्रेष्ठ अकम्पन दूरसे ही बाणसमूहोंकी वर्षा करता हुआ उन वानरोंपर टूट पड़ा ॥ ६ ॥
विश्वास-प्रस्तुतिः
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।
अकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः ॥ ७ ॥
मूलम्
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।
अकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः ॥ ७ ॥
अनुवाद (हिन्दी)
अकम्पनके बाणोंसे घायल हो सभी वानर भाग चले । वे युद्धस्थलमें खड़े भी न रह सके; फिर युद्ध करनेकी तो बात ही क्या है? ॥ ७ ॥
विश्वास-प्रस्तुतिः
तान् मृत्युवशमापन्नानकम्पनशरानुगान् ।
समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥
मूलम्
तान् मृत्युवशमापन्नानकम्पनशरानुगान् ।
समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥
अनुवाद (हिन्दी)
अकम्पनके बाण वानरोंके पीछे लगे थे और वे मृत्युके अधीन होते जाते थे । अपने जाति-भाइयोंकी यह दशा देखकर महाबली हनुमान् जी अकम्पनके पास आये ॥
विश्वास-प्रस्तुतिः
तं महाप्लवगं दृष्ट्वा सर्वे ते प्लवगर्षभाः ।
समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ ९ ॥
मूलम्
तं महाप्लवगं दृष्ट्वा सर्वे ते प्लवगर्षभाः ।
समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ ९ ॥
अनुवाद (हिन्दी)
महाकपि हनुमान् जी को आया देख वे समस्त वीर वानरशिरोमणि एकत्र हो हर्षपूर्वक उन्हें चारों ओरसे घेरकर खड़े हो गये ॥ ९ ॥
विश्वास-प्रस्तुतिः
व्यवस्थितं हनूमन्तं ते दृष्ट्वा प्लवगर्षभाः ।
बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥ १० ॥
मूलम्
व्यवस्थितं हनूमन्तं ते दृष्ट्वा प्लवगर्षभाः ।
बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥ १० ॥
अनुवाद (हिन्दी)
हनुमान् जी को युद्धके लिये डटा हुआ देख वे सभी श्रेष्ठ वानर उन बलवान् वीरका आश्रय ले स्वयं भी बलवान् हो गये ॥ १० ॥
विश्वास-प्रस्तुतिः
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।
महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ११ ॥
मूलम्
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।
महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ११ ॥
अनुवाद (हिन्दी)
पर्वतके समान विशालकाय हनुमान् जी को अपने सामने उपस्थित देख अकम्पन उनपर बाणोंकी फिर वर्षा करने लगा, मानो देवराज इन्द्र जलकी धारा बरसा रहे हों ॥
विश्वास-प्रस्तुतिः
अचिन्तयित्वा बाणौघान् शरीरे पातितान् कपिः ।
अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ १२ ॥
मूलम्
अचिन्तयित्वा बाणौघान् शरीरे पातितान् कपिः ।
अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ १२ ॥
अनुवाद (हिन्दी)
अपने शरीरपर गिराये गये उन बाण-समूहोंकी परवा न करके महाबली हनुमान् ने अकम्पनको मार डालनेका विचार किया ॥ १२ ॥
विश्वास-प्रस्तुतिः
स प्रहस्य महातेजा हनूमान् मारुतात्मजः ।
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥
मूलम्
स प्रहस्य महातेजा हनूमान् मारुतात्मजः ।
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥
अनुवाद (हिन्दी)
फिर तो महातेजस्वी पवनकुमार हनुमान् महान् अट्टहास करके पृथ्वीको कँपाते हुए-से उस राक्षसकी ओर दौड़े ॥ १३ ॥
विश्वास-प्रस्तुतिः
तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा ।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १४ ॥
मूलम्
तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा ।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १४ ॥
अनुवाद (हिन्दी)
उस समय वहाँ गर्जते और तेजसे देदीप्यमान होते हुए हनुमान् जी का रूप प्रज्वलित अग्निके समान दुर्धर्ष हो गया था ॥ १४ ॥
विश्वास-प्रस्तुतिः
आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥
मूलम्
आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥
अनुवाद (हिन्दी)
अपने हाथमें कोई हथियार नहीं है, यह जानकर क्रोधसे भरे हुए वानरशिरोमणि हनुमान् ने बड़े वेगसे पर्वत उखाड़ लिया ॥ १५ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः ।
स विनद्य महानादं भ्रामयामास वीर्यवान् ॥ १६ ॥
मूलम्
गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः ।
स विनद्य महानादं भ्रामयामास वीर्यवान् ॥ १६ ॥
अनुवाद (हिन्दी)
उस महान् पर्वतको एक ही हाथसे लेकर पराक्रमी पवनकुमार बड़े जोर-जोरसे गर्जना करते हुए उसे घुमाने लगे ॥ १६ ॥
विश्वास-प्रस्तुतिः
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।
पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ॥ १७ ॥
मूलम्
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।
पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ॥ १७ ॥
अनुवाद (हिन्दी)
फिर उन्होंने राक्षसराज अकम्पनपर धावा किया, ठीक उसी तरह, जैसे पूर्वकालमें देवेन्द्रने वज्र लेकर युद्धस्थलमें नमुचिपर आक्रमण किया था ॥ १७ ॥
विश्वास-प्रस्तुतिः
अकम्पनस्तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ १८ ॥
मूलम्
अकम्पनस्तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ १८ ॥
अनुवाद (हिन्दी)
अकम्पनने उस उठे हुए पर्वतशिखरको देख अर्धचन्द्राकार विशाल बाणोंके द्वारा उसे दूरसे ही विदीर्ण कर दिया ॥ १८ ॥
विश्वास-प्रस्तुतिः
तं पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।
विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूिर्च्छतः ॥ १९ ॥
मूलम्
तं पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।
विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूिर्च्छतः ॥ १९ ॥
अनुवाद (हिन्दी)
उस राक्षसके बाणसे विदीर्ण हो वह पर्वतशिखर आकाशमें ही बिखरकर गिर पड़ा । यह देख हनुमान् जी के क्रोधकी सीमा न रही ॥ १९ ॥
विश्वास-प्रस्तुतिः
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ २० ॥
मूलम्
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ २० ॥
अनुवाद (हिन्दी)
फिर रोष और दर्पसे उन वानरवीरने महान् पर्वतके समान ऊँचे अश्वकर्ण नामक वृक्षके पास जाकर उसे शीघ्रतापूर्वक उखाड़ लिया ॥ २० ॥
विश्वास-प्रस्तुतिः
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः ।
प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥
मूलम्
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः ।
प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥
अनुवाद (हिन्दी)
विशाल तनेवाले उस अश्वकर्णको हाथमें लेकर महातेजस्वी हनुमान् ने बड़ी प्रसन्नताके साथ उसे युद्धभूमिमें घुमाना आरम्भ किया ॥ २१ ॥
विश्वास-प्रस्तुतिः
प्रधावन्नुरुवेगेन बभञ्ज तरसा द्रुमान् ।
हनूमान् परमक्रुद्धश्चरणैर्दारयन् महीम् ॥ २२ ॥
मूलम्
प्रधावन्नुरुवेगेन बभञ्ज तरसा द्रुमान् ।
हनूमान् परमक्रुद्धश्चरणैर्दारयन् महीम् ॥ २२ ॥
अनुवाद (हिन्दी)
प्रचण्ड क्रोधसे भरे हुए हनुमान् ने बड़े वेगसे दौड़कर कितने ही वृक्षोंको तोड़ डाला और पैरोंकी धमकसे वे पृथ्वीको भी विदीर्ण-सी करने लगे ॥ २२ ॥
विश्वास-प्रस्तुतिः
गजांश्च सगजारोहान् सरथान् रथिनस्तथा ।
जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ॥ २३ ॥
मूलम्
गजांश्च सगजारोहान् सरथान् रथिनस्तथा ।
जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ॥ २३ ॥
अनुवाद (हिन्दी)
सवारोंसहित हाथियों, रथोंसहित रथियों तथा पैदल राक्षसोंको भी बुद्धिमान् हनुमान् जी मौतके घाट उतारने लगे ॥ २३ ॥
विश्वास-प्रस्तुतिः
तमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम् ।
हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥
मूलम्
तमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम् ।
हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥
अनुवाद (हिन्दी)
क्रोधसे भरे हुए यमराजकी भाँति वृक्ष हाथमें लिये प्राणहारी हनुमान् को देख राक्षस भागने लगे ॥ २४ ॥
विश्वास-प्रस्तुतिः
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् ।
ददर्शाकम्पनो वीरश्चुक्षोभ च ननाद च ॥ २५ ॥
मूलम्
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् ।
ददर्शाकम्पनो वीरश्चुक्षोभ च ननाद च ॥ २५ ॥
अनुवाद (हिन्दी)
राक्षसोंको भय देनेवाले हनुमान् अत्यन्त कुपित होकर शत्रुओंपर आक्रमण कर रहे थे । उस समय वीर अकम्पनने उन्हें देखा । देखते ही वह क्षोभसे भर गया और जोर-जोरसे गर्जना करने लगा ॥ २५ ॥
विश्वास-प्रस्तुतिः
स चतुर्दशभिर्बाणैर्निशितैर्देहदारणैः ।
निर्बिभेद महावीर्यं हनूमन्तमकम्पनः ॥ २६ ॥
मूलम्
स चतुर्दशभिर्बाणैर्निशितैर्देहदारणैः ।
निर्बिभेद महावीर्यं हनूमन्तमकम्पनः ॥ २६ ॥
अनुवाद (हिन्दी)
अकम्पनने देहको विदीर्ण कर देनेवाले चौदह पैने बाण मारकर महापराक्रमी हनुमान् को घायल कर दिया ॥ २६ ॥
विश्वास-प्रस्तुतिः
स तथा विप्रकीर्णस्तु नाराचैः शितशक्तिभिः ।
हनूमान् ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥
मूलम्
स तथा विप्रकीर्णस्तु नाराचैः शितशक्तिभिः ।
हनूमान् ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥
अनुवाद (हिन्दी)
इस प्रकार नाराचों और तीखी शक्तियोंसे छिदे हुए वीर हनुमान् उस समय वृक्षोंसे व्याप्त पर्वतके समान दिखायी देते थे ॥ २७ ॥
विश्वास-प्रस्तुतिः
विरराज महावीर्यो महाकायो महाबलः ।
पुष्पिताशोकसङ्काशो विधूम इव पावकः ॥ २८ ॥
मूलम्
विरराज महावीर्यो महाकायो महाबलः ।
पुष्पिताशोकसङ्काशो विधूम इव पावकः ॥ २८ ॥
अनुवाद (हिन्दी)
उनका सारा शरीर रक्तसे रँग गया था, इसलिये वे महापराक्रमी महाबली और महाकाय हनुमान् खिले हुए अशोक एवं धूमरहित अग्निके समान शोभा पा रहे थे ॥
विश्वास-प्रस्तुतिः
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् ।
शिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २९ ॥
मूलम्
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् ।
शिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २९ ॥
अनुवाद (हिन्दी)
तदनन्तर महान् वेग प्रकट करके हनुमान् जी ने एक दूसरा वृक्ष उखाड़ लिया और तुरंत ही उसे राक्षसराज अकम्पनके सिरपर दे मारा ॥ २९ ॥
विश्वास-प्रस्तुतिः
स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।
राक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥
मूलम्
स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।
राक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥
अनुवाद (हिन्दी)
क्रोधसे भरे वानरश्रेष्ठ महात्मा हनुमान् के चलाये हुए उस वृक्षकी गहरी चोट खाकर राक्षस अकम्पन पृथ्वीपर गिरा और मर गया ॥ ३० ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ३१ ॥
मूलम्
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ३१ ॥
अनुवाद (हिन्दी)
जैसे भूकम्प आनेपर सारे वृक्ष काँपने लगते हैं, उसी प्रकार राक्षसराज अकम्पनको रणभूमिमें मारा गया देख समस्त राक्षस व्यथित हो उठे ॥ ३१ ॥
विश्वास-प्रस्तुतिः
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।
लङ्कामभिययुस्त्रासाद् वानरैस्तैरभिद्रुताः ॥ ३२ ॥
मूलम्
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।
लङ्कामभिययुस्त्रासाद् वानरैस्तैरभिद्रुताः ॥ ३२ ॥
अनुवाद (हिन्दी)
वानरोंके खदेड़नेपर वहाँ परास्त हुए वे सब राक्षस अपने अस्त्र-शस्त्र फेंककर डरके मारे लङ्कामें भाग गये ॥
विश्वास-प्रस्तुतिः
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः ।
भयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः ॥ ३३ ॥
मूलम्
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः ।
भयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः ॥ ३३ ॥
अनुवाद (हिन्दी)
उनके केश खुले हुए थे । वे घबरा गये थे और पराजित होनेसे उनका घमंड चूर-चूर हो गया था । भयके कारण उनके अङ्गोंसे पसीने चू रहे थे और इसी अवस्थामें वे भाग रहे थे ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अन्योन्यं ये प्रमथ्नन्तो विविशुर्नगरं भयात् ।
पृष्ठतस्ते तु सम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥
मूलम्
अन्योन्यं ये प्रमथ्नन्तो विविशुर्नगरं भयात् ।
पृष्ठतस्ते तु सम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥
अनुवाद (हिन्दी)
भयके कारण एक-दूसरेको कुचलते हुए वे भागकर लङ्कापुरीमें घुस गये । भागते समय वे बारंबार पीछे घूम-घूमकर देखते रहते थे ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।
समेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥ ३५ ॥
मूलम्
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।
समेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥ ३५ ॥
अनुवाद (हिन्दी)
उन राक्षसोंके लङ्कामें घुस जानेपर समस्त महाबली वानरोंने एकत्र हो वहाँ हनुमान् जी का अभिनन्दन किया ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सोऽपि प्रवृद्धस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् ।
हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ ३६ ॥
मूलम्
सोऽपि प्रवृद्धस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् ।
हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ ३६ ॥
अनुवाद (हिन्दी)
उन शक्तिशाली हनुमान् जी ने भी उत्साहित हो यथायोग्य अनुकूल बर्ताव करते हुए उन समस्त वानरोंका समादर किया ॥ ३६ ॥
विश्वास-प्रस्तुतिः
विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।
चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥ ३७ ॥
मूलम्
विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।
चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥ ३७ ॥
अनुवाद (हिन्दी)
तत्पश्चात् विजयोल्लाससे सुशोभित होनेवाले वानरोंने पूरा बल लगाकर उच्च स्वरसे गर्जना की और वहाँ जीवित राक्षसोंको ही पकड़-पकड़कर घसीटना आरम्भ किया ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स वीरशोभामभजन्महाकपिः
समेत्य रक्षांसि निहत्य मारुतिः ।
महासुरं भीमममित्रनाशनं
विष्णुर्यथैवोरुबलं चमूमुखे ॥ ३८ ॥
मूलम्
स वीरशोभामभजन्महाकपिः
समेत्य रक्षांसि निहत्य मारुतिः ।
महासुरं भीमममित्रनाशनं
विष्णुर्यथैवोरुबलं चमूमुखे ॥ ३८ ॥
अनुवाद (हिन्दी)
जैसे भगवान् विष्णुने शत्रुनाशन, महाबली, भयंकर एवं महान् असुर मधुकैटभ आदिका वध करके वीर-शोभा (विजयलक्ष्मी)-का वरण किया था, उसी प्रकार महाकपि हनुमान् ने राक्षसोंके पास पहुँचकर उन्हें मौतके घाट उतार वीरोचित शोभाको धारण किया ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अपूजयन् देवगणास्तदाकपिं
स्वयं च रामोऽतिबलश्च लक्ष्मणः ।
तथैव सुग्रीवमुखाः प्लवङ्गमा
विभीषणश्चैव महाबलस्तदा ॥ ३९ ॥
मूलम्
अपूजयन् देवगणास्तदाकपिं
स्वयं च रामोऽतिबलश्च लक्ष्मणः ।
तथैव सुग्रीवमुखाः प्लवङ्गमा
विभीषणश्चैव महाबलस्तदा ॥ ३९ ॥
अनुवाद (हिन्दी)
उस समय देवता, महाबली श्रीराम, लक्ष्मण, सुग्रीव आदि वानर तथा अत्यन्त बलशाली विभीषणने भी कपिवर हनुमान् जी का यथोचित सत्कार किया ॥ ३९ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें छप्पनवाँ सर्ग पूरा हुआ ॥ ५६ ॥