वाचनम्
भागसूचना
- रावणकी आज्ञासे अकम्पन आदि राक्षसोंका युद्धमें आना और वानरोंके साथ उनका घोर युद्ध
विश्वास-प्रस्तुतिः
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।
बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ॥ १ ॥
मूलम्
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।
बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ॥ १ ॥
अनुवाद (हिन्दी)
वालिपुत्र अङ्गदके हाथसे वज्रदंष्ट्रके मारे जानेका समाचार सुनकर रावणने हाथ जोड़कर अपने पास खड़े हुए सेनापति प्रहस्तसे कहा— ॥ १ ॥
विश्वास-प्रस्तुतिः
शीघ्रं निर्यान्तुदुर्धर्षा राक्षसा भीमविक्रमाः ।
अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम् ॥ २ ॥
मूलम्
शीघ्रं निर्यान्तुदुर्धर्षा राक्षसा भीमविक्रमाः ।
अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम् ॥ २ ॥
अनुवाद (हिन्दी)
‘अकम्पन सम्पूर्ण अस्त्र-शस्त्रोंके ज्ञाता हैं, अतः उन्हींको आगे करके भयंकर पराक्रमी दुर्धर्ष राक्षस शीघ्र यहाँसे युद्धके लिये जायँ ॥ २ ॥
विश्वास-प्रस्तुतिः
एष शास्ता च गोप्ता च नेता च युधि सत्तमः ।
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ॥ ३ ॥
मूलम्
एष शास्ता च गोप्ता च नेता च युधि सत्तमः ।
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ॥ ३ ॥
अनुवाद (हिन्दी)
‘अकम्पनको युद्ध सदा ही प्रिय है । ये सर्वदा मेरी उन्नति चाहते हैं । इन्हें युद्धमें एक श्रेष्ठ योद्धा माना गया है । ये शत्रुओंको दण्ड देने, अपने सैनिकोंकी रक्षा करने तथा रणभूमिमें सेनाका संचालन करनेमें समर्थ हैं ॥ ३ ॥
विश्वास-प्रस्तुतिः
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।
वानरांश्चापरान् घोरान् हनिष्यति न संशयः ॥ ४ ॥
मूलम्
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।
वानरांश्चापरान् घोरान् हनिष्यति न संशयः ॥ ४ ॥
अनुवाद (हिन्दी)
‘अकम्पन दोनों भाई श्रीराम और लक्ष्मणको तथा महाबली सुग्रीवको भी परास्त कर देंगे और दूसरे-दूसरे भयानक वानरोंका भी संहार कर डालेंगे, इसमें संशय नहीं है’ ॥ ४ ॥
विश्वास-प्रस्तुतिः
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।
बलं सम्प्रेरयामास तदा लघुपराक्रमः ॥ ५ ॥
मूलम्
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।
बलं सम्प्रेरयामास तदा लघुपराक्रमः ॥ ५ ॥
अनुवाद (हिन्दी)
रावणकी उस आज्ञाको शिरोधार्य करके शीघ्र-पराक्रमी महाबली सेनाध्यक्षने उस समय युद्धके लिये सेना भेजी ॥ ५ ॥
विश्वास-प्रस्तुतिः
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।
निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ॥ ६ ॥
मूलम्
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।
निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ॥ ६ ॥
अनुवाद (हिन्दी)
सेनापतिसे प्रेरित हो भयानक नेत्रोंवाले मुख्य-मुख्य भयंकर राक्षस नाना प्रकारके अस्त्र-शस्त्र लिये नगरसे बाहर निकले ॥ ६ ॥
विश्वास-प्रस्तुतिः
रथमास्थाय विपुलं तप्तकाञ्चनभूषणम् ।
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ॥ ७ ॥
राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः ।
मूलम्
रथमास्थाय विपुलं तप्तकाञ्चनभूषणम् ।
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ॥ ७ ॥
राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः ।
अनुवाद (हिन्दी)
उसी समय तपे हुए सोनेसे विभूषित विशाल रथपर आरूढ़ हो घोर राक्षसोंसे घिरा हुआ अकम्पन भी निकला । वह मेघके समान विशाल था, मेघके समान ही उसका रंग था और मेघके ही तुल्य उसकी गर्जना थी ॥ ७ १/२ ॥
विश्वास-प्रस्तुतिः
नहि कम्पयितुं शक्यः सुरैरपि महामृधे ॥ ८ ॥
अकम्पनस्ततस्तेषामादित्य इव तेजसा ।
मूलम्
नहि कम्पयितुं शक्यः सुरैरपि महामृधे ॥ ८ ॥
अकम्पनस्ततस्तेषामादित्य इव तेजसा ।
अनुवाद (हिन्दी)
महासमरमें देवता भी उसे कम्पित नहीं कर सकते थे, इसीलिये वह अकम्पन नामसे विख्यात था और राक्षसोंमें सूर्यके समान तेजस्वी था ॥ ८ १/२ ॥
विश्वास-प्रस्तुतिः
तस्य निर्धावमानस्य संरब्धस्य युयुत्सया ॥ ९ ॥
अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम् ।
मूलम्
तस्य निर्धावमानस्य संरब्धस्य युयुत्सया ॥ ९ ॥
अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम् ।
अनुवाद (हिन्दी)
रोषावेशसे भरकर युद्धकी इच्छासे धावा करनेवाले अकम्पनके रथमें जुते हुए घोड़ोंका मन अकस्मात् दीनभावको प्राप्त हो गया ॥ ९ १/२ ॥
विश्वास-प्रस्तुतिः
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ॥ १० ॥
विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ।
मूलम्
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ॥ १० ॥
विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ।
अनुवाद (हिन्दी)
यद्यपि अकम्पन युद्धका अभिनन्दन करनेवाला था, तथापि उस समय उसकी बायीं आँख फड़कने लगी । मुखकी कान्ति फीकी पड़ गयी और वाणी गद्गद हो गयी ॥
विश्वास-प्रस्तुतिः
अभवत् सुदिने काले दुर्दिनं रूक्षमारुतम् ॥ ११ ॥
ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः ।
मूलम्
अभवत् सुदिने काले दुर्दिनं रूक्षमारुतम् ॥ ११ ॥
ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः ।
अनुवाद (हिन्दी)
यद्यपि वह समय सुदिनका था, तथापि सहसा रूखी हवासे युक्त दुर्दिन छा गया । सभी पशु और पक्षी क्रूर एवं भयदायक बोली बोलने लगे ॥ ११ १/२ ॥
विश्वास-प्रस्तुतिः
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ॥ १२ ॥
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ।
मूलम्
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ॥ १२ ॥
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ।
अनुवाद (हिन्दी)
अकम्पनके कन्धे सिंहके समान पुष्ट थे । उसका पराक्रम व्याघ्रके समान था । वह पूर्वोक्त उत्पातोंकी कोई परवा न करके रणभूमिकी ओर चला ॥ १२ १/२ ॥
विश्वास-प्रस्तुतिः
तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ॥ १३ ॥
बभूव सुमहान् नादः क्षोभयन्निव सागरम् ।
मूलम्
तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ॥ १३ ॥
बभूव सुमहान् नादः क्षोभयन्निव सागरम् ।
अनुवाद (हिन्दी)
जिस समय वह राक्षस दूसरे राक्षसोंके साथ लङ्कासे निकला, उस समय ऐसा महान् कोलाहल हुआ कि समुद्रमें भी हलचल-सी मच गयी ॥ १३ १/२ ॥
विश्वास-प्रस्तुतिः
तेन शब्देन वित्रस्ता वानराणां महाचमूः ॥ १४ ॥
द्रुमशैलप्रहाराणां योद्धुं समुपतिष्ठताम् ।
तेषां युद्धं महारौद्रं सञ्जज्ञे कपिरक्षसाम् ॥ १५ ॥
मूलम्
तेन शब्देन वित्रस्ता वानराणां महाचमूः ॥ १४ ॥
द्रुमशैलप्रहाराणां योद्धुं समुपतिष्ठताम् ।
तेषां युद्धं महारौद्रं सञ्जज्ञे कपिरक्षसाम् ॥ १५ ॥
अनुवाद (हिन्दी)
उस महान् कोलाहलसे वानरोंकी वह विशाल सेना भयभीत हो गयी । युद्धके लिये उपस्थित हो वृक्षों और शैल-शिखरोंका प्रहार करनेवाले उन वानरों और राक्षसोंमें महाभयंकर युद्ध होने लगा ॥ १४-१५ ॥
विश्वास-प्रस्तुतिः
रामरावणयोरर्थे समभित्यक्तदेहिनः ।
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसन्निभाः ॥ १६ ॥
मूलम्
रामरावणयोरर्थे समभित्यक्तदेहिनः ।
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसन्निभाः ॥ १६ ॥
अनुवाद (हिन्दी)
श्रीराम और रावणके निमित्त आत्मत्यागके लिये उद्यत हुए वे समस्त शूरवीर अत्यन्त बलशाली और पर्वतके समान विशालकाय थे ॥ १६ ॥
विश्वास-प्रस्तुतिः
हरयो राक्षसाश्चैव परस्परजिघांसया ।
तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम् ॥ १७ ॥
शुश्रुवे सुमहान् कोपादन्योन्यमभिगर्जताम् ।
मूलम्
हरयो राक्षसाश्चैव परस्परजिघांसया ।
तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम् ॥ १७ ॥
शुश्रुवे सुमहान् कोपादन्योन्यमभिगर्जताम् ।
अनुवाद (हिन्दी)
वानर तथा राक्षस एक-दूसरेके वधकी इच्छासे वहाँ एकत्र हुए थे । वे युद्धस्थलमें अत्यन्त वेगशाली थे । कोलाहल करते और एक-दूसरेको लक्ष्य करके क्रोधपूर्वक गर्जते थे । उनका महान् शब्द सुदूरतक सुनायी देता था ॥ १७ १/२ ॥
विश्वास-प्रस्तुतिः
रजश्चारुणवर्णाभं सुभीममभवद् भृशम् ॥ १८ ॥
उद्धृतं हरिरक्षोभिः संरुरोध दिशो दश ।
मूलम्
रजश्चारुणवर्णाभं सुभीममभवद् भृशम् ॥ १८ ॥
उद्धृतं हरिरक्षोभिः संरुरोध दिशो दश ।
अनुवाद (हिन्दी)
वानरों और राक्षसोंद्वारा उड़ायी गयी लाल रंगकी धूल बड़ी भयंकर जान पड़ती थी । उसने दसों दिशाओंको आच्छादित कर लिया था ॥ १८ १/२ ॥
विश्वास-प्रस्तुतिः
अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना ॥ १९ ॥
संवृतानि च भूतानि ददृशुर्न रणाजिरे ।
मूलम्
अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना ॥ १९ ॥
संवृतानि च भूतानि ददृशुर्न रणाजिरे ।
अनुवाद (हिन्दी)
परस्पर उड़ायी हुई वह धूल हिलते हुए रेशमी वस्त्रके समान पाण्डुवर्णकी दिखायी देती थी । उसके द्वारा समराङ्गणमें समस्त प्राणी ढक गये थे । अतः वानर और राक्षस उन्हें देख नहीं पाते थे ॥ १९ १/२ ॥
विश्वास-प्रस्तुतिः
न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा ॥ २० ॥
आयुधं स्यन्दनो वापि ददृशे तेन रेणुना ।
मूलम्
न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा ॥ २० ॥
आयुधं स्यन्दनो वापि ददृशे तेन रेणुना ।
अनुवाद (हिन्दी)
उस धूलसे आच्छादित होनेके कारण ध्वज, पताका, ढाल, घोड़ा, अस्त्र-शस्त्र अथवा रथ कोई भी वस्तु दिखायी नहीं देती थी ॥ २० १/२ ॥
विश्वास-प्रस्तुतिः
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ॥ २१ ॥
श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे ।
मूलम्
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ॥ २१ ॥
श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे ।
अनुवाद (हिन्दी)
उन गर्जते और दौड़ते हुए प्राणियोंका महाभयंकर शब्द युद्धस्थलमें सबको सुनायी पड़ता था, परंतु उनके रूप नहीं दिखायी देते थे ॥ २१ १/२ ॥
विश्वास-प्रस्तुतिः
हरीनेव सुसंरुष्टा हरयो जघ्नुराहवे ॥ २२ ॥
राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरे तदा ।
मूलम्
हरीनेव सुसंरुष्टा हरयो जघ्नुराहवे ॥ २२ ॥
राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरे तदा ।
अनुवाद (हिन्दी)
अन्धकारसे आच्छादित युद्धस्थलमें अत्यन्त कुपित हुए वानर वानरोंपर ही प्रहार कर बैठते थे तथा राक्षस राक्षसोंको ही मारने लगते थे ॥ २२ १/२ ॥
विश्वास-प्रस्तुतिः
ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः ॥ २३ ॥
रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ।
मूलम्
ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः ॥ २३ ॥
रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ।
अनुवाद (हिन्दी)
अपने तथा शत्रुपक्षके योद्धाओंको मारते हुए वानरों तथा राक्षसोंने उस रणभूमिको रक्तकी धारासे भिगो दिया और वहाँ कीच मचा दी ॥ २३ १/२ ॥
विश्वास-प्रस्तुतिः
ततस्तु रुधिरौघेण सिक्तं ह्यपगतं रजः ॥ २४ ॥
शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ।
मूलम्
ततस्तु रुधिरौघेण सिक्तं ह्यपगतं रजः ॥ २४ ॥
शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ।
अनुवाद (हिन्दी)
तदनन्तर रक्तके प्रवाहसे सिंच जानेके कारण वहाँकी धूल बैठ गयी और सारी युद्धभूमि लाशोंसे भर गयी ॥ २४ १/२ ॥
विश्वास-प्रस्तुतिः
द्रुमशक्तिगदाप्रासैः शिलापरिघतोमरैः ॥ २५ ॥
राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा ।
मूलम्
द्रुमशक्तिगदाप्रासैः शिलापरिघतोमरैः ॥ २५ ॥
राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा ।
अनुवाद (हिन्दी)
वानर और राक्षस एक-दूसरेपर वृक्ष, शक्ति, गदा, प्रास, शिला, परिघ और तोमर आदिसे बलपूर्वक जल्दी-जल्दी प्रहार करने लगे ॥ २५ १/२ ॥
विश्वास-प्रस्तुतिः
बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान् ॥ २६ ॥
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे ।
मूलम्
बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान् ॥ २६ ॥
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे ।
अनुवाद (हिन्दी)
भयंकर कर्म करनेवाले वानर अपनी परिघके समान भुजाओंद्वारा पर्वताकार राक्षसोंके साथ युद्ध करते हुए रणभूमिमें उन्हें मारने लगे ॥ २६ १/२ ॥
विश्वास-प्रस्तुतिः
राक्षसास्त्वभिसङ्क्रुद्धाः प्रासतोमरपाणयः ॥ २७ ॥
कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः ।
मूलम्
राक्षसास्त्वभिसङ्क्रुद्धाः प्रासतोमरपाणयः ॥ २७ ॥
कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः ।
अनुवाद (हिन्दी)
उधर राक्षसलोग भी अत्यन्त कुपित हो हाथोंमें प्रास और तोमर लिये अत्यन्त भयंकर शस्त्रोंद्वारा वानरोंका वध करने लगे ॥ २७ १/२ ॥
विश्वास-प्रस्तुतिः
अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः ॥ २८ ॥
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ।
मूलम्
अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः ॥ २८ ॥
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ।
अनुवाद (हिन्दी)
इस समय अधिक रोषसे भरा हुआ राक्षस-सेनापति अकम्पन भी भयानक पराक्रम प्रकट करनेवाले उन सभी राक्षसोंका हर्ष बढ़ाने लगा ॥ २८ १/२ ॥
विश्वास-प्रस्तुतिः
हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ॥ २९ ॥
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ।
मूलम्
हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ॥ २९ ॥
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ।
अनुवाद (हिन्दी)
वानर भी बलपूर्वक आक्रमण करके राक्षसोंके अस्त्र-शस्त्र छीनकर बड़े-बड़े वृक्षों और शिलाओंद्वारा उन्हें विदीर्ण करने लगे ॥ २९ १/२ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥ ३० ॥
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।
मूलम्
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥ ३० ॥
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।
अनुवाद (हिन्दी)
इसी समय वीर वानर कुमुद, नल, मैन्द और द्विविदने कुपित हो अपना परम उत्तम वेग प्रकट किया ॥ ३० १/२ ॥
विश्वास-प्रस्तुतिः
ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे ॥ ३१ ॥
कदनं सुमहच्चक्रुर्लीलया हरिपुङ्गवाः ।
ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम् ॥ ३२ ॥
मूलम्
ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे ॥ ३१ ॥
कदनं सुमहच्चक्रुर्लीलया हरिपुङ्गवाः ।
ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम् ॥ ३२ ॥
अनुवाद (हिन्दी)
उन महावीर वानरशिरोमणियोंने युद्धके मुहानेपर वृक्षोंद्वारा खेल-खेलमें ही राक्षसोंका बड़ा भारी संहार किया । उन सबने नाना प्रकारके अस्त्र-शस्त्रोंद्वारा राक्षसोंको भलीभाँति मथ डाला ॥ ३१-३२ ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें पचपनवाँ सर्ग पूरा हुआ ॥ ५५ ॥