वाचनम्
भागसूचना
- लङ्कापर वानरोंकी चढ़ाई तथा राक्षसोंके साथ उनका घोर युद्ध
विश्वास-प्रस्तुतिः
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।
न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥
मूलम्
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।
न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥
अनुवाद (हिन्दी)
तदनन्तर उन राक्षसोंने रावणके महलमें जाकर यह निवेदन किया कि ‘वानरोंके साथ श्रीरामने लङ्कापुरीको चारों ओरसे घेर लिया है’ ॥ १ ॥
विश्वास-प्रस्तुतिः
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।
विधानं द्विगुणं कृत्वा प्रासादं चाप्यरोहत ॥ २ ॥
मूलम्
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।
विधानं द्विगुणं कृत्वा प्रासादं चाप्यरोहत ॥ २ ॥
अनुवाद (हिन्दी)
लङ्काके घेरे जानेकी बात सुनकर रावणको बड़ा क्रोध हुआ और वह नगरकी रक्षाका पहलेसे भी दुगुना प्रबन्ध करके महलकी अटारीपर चढ़ गया ॥ २ ॥
विश्वास-प्रस्तुतिः
स ददर्श वृतां लङ्कां सशैलवनकाननाम् ।
असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ ३ ॥
मूलम्
स ददर्श वृतां लङ्कां सशैलवनकाननाम् ।
असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ ३ ॥
अनुवाद (हिन्दी)
वहींसे उसने देखा कि पर्वत, वन और काननोंसहित सारी लङ्का सब ओरसे असंख्य युद्धाभिलाषी वानरोंद्वारा घिरी हुई है ॥ ३ ॥
विश्वास-प्रस्तुतिः
स दृष्ट्वा वानरैः सर्वैर्वसुधां कपिलीकृताम् ।
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥
मूलम्
स दृष्ट्वा वानरैः सर्वैर्वसुधां कपिलीकृताम् ।
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥
अनुवाद (हिन्दी)
इस प्रकार समस्त वानरोंसे आच्छादित वसुधाको कपिल वर्णकी हुई देख वह इस चिन्तामें पड़ गया कि इन सबका विनाश कैसे होगा? ॥ ४ ॥
विश्वास-प्रस्तुतिः
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।
राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥
मूलम्
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।
राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥
अनुवाद (हिन्दी)
बहुत देरतक चिन्ता करनेके पश्चात् धैर्य धारण करके विशाल नेत्रोंवाले रावणने श्रीराम और वानर-सेनाओंकी ओर पुनः देखा ॥ ५ ॥
विश्वास-प्रस्तुतिः
राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ ६ ॥
मूलम्
राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ ६ ॥
अनुवाद (हिन्दी)
इधर श्रीरामचन्द्रजी अपनी सेनाके साथ प्रसन्नतापूर्वक आगे बढ़े । उन्होंने देखा, लङ्का सब ओरसे राक्षसोंद्वारा आवृत और सुरक्षित है ॥ ६ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम सहसा सीतां दूयमानेन चेतसा ॥ ७ ॥
मूलम्
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम सहसा सीतां दूयमानेन चेतसा ॥ ७ ॥
अनुवाद (हिन्दी)
विचित्र ध्वजा-पताकाओंसे अलंकृत लङ्कापुरीको देखकर दशरथनन्दन श्रीराम व्यथित चित्तसे मन-ही-मन सीताका स्मरण करने लगे— ॥ ७ ॥
विश्वास-प्रस्तुतिः
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ।
पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ॥ ८ ॥
मूलम्
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ।
पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ॥ ८ ॥
अनुवाद (हिन्दी)
‘हाय! वह मृगशावकनयनी जनकनन्दिनी सीता यहीं मेरे लिये शोकसंतप्त हो पीड़ा सहन करती है और पृथ्वीकी वेदीपर सोती है । सुनता हूँ, बहुत दुर्बल हो गयी है’ ॥
विश्वास-प्रस्तुतिः
निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयद् रामो वानरान् द्विषतां वधे ॥ ९ ॥
मूलम्
निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयद् रामो वानरान् द्विषतां वधे ॥ ९ ॥
अनुवाद (हिन्दी)
इस प्रकार राक्षसियोंद्वारा पीड़ित विदेहनन्दिनीका बारम्बार चिन्तन करते हुए धर्मात्मा श्रीरामने तत्काल वानरोंको शत्रुभूत राक्षसोंका वध करनेके लिये आज्ञा दी ॥ ९ ॥
विश्वास-प्रस्तुतिः
एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा ।
सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ॥ १० ॥
मूलम्
एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा ।
सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ॥ १० ॥
अनुवाद (हिन्दी)
अक्लिष्टकर्मा श्रीरामके इस प्रकार आज्ञा देते ही आगे बढ़नेके लिये परस्पर होड़-सी लगानेवाले वानरोंने अपने सिंहनादसे वहाँकी धरती और आकाशको गुँजा दिया ॥ १० ॥
विश्वास-प्रस्तुतिः
शिखरैर्विकिरामैतां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥ ११ ॥
मूलम्
शिखरैर्विकिरामैतां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥ ११ ॥
अनुवाद (हिन्दी)
वे समस्त वानर-यूथपति अपने मनमें यह निश्चय किये खड़े थे कि हमलोग पर्वत-शिखरोंकी वर्षा करके लङ्काके महलोंको चूर-चूर कर देंगे अथवा मुक्कोंसे ही मार-मारकर ढहा देंगे ॥ ११ ॥
विश्वास-प्रस्तुतिः
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च ।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥ १२ ॥
मूलम्
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च ।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥ १२ ॥
अनुवाद (हिन्दी)
वे वानरसेनापति पर्वतोंके बड़े-बड़े शिखर उठाकर और नाना प्रकारके वृक्षोंको उखाड़कर प्रहार करनेके लिये खड़े थे ॥ १२ ॥
विश्वास-प्रस्तुतिः
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ १३ ॥
मूलम्
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ १३ ॥
अनुवाद (हिन्दी)
राक्षसराज रावणके देखते-देखते विभिन्न भागोंमें बँटे हुए वे वानर-सैनिक श्रीरघुनाथजीका प्रिय करनेकी इच्छासे तत्काल लङ्काके परकोटोंपर चढ़ गये ॥ १३ ॥
विश्वास-प्रस्तुतिः
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्त सालभूधरयोधिनः ॥ १४ ॥
मूलम्
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्त सालभूधरयोधिनः ॥ १४ ॥
अनुवाद (हिन्दी)
ताँबे-जैसे लाल मुँह और सुवर्णकी-सी कान्तिवाले वे वानर श्रीरामचन्द्रजीके लिये प्राण निछावर करनेको तैयार थे । वे सब-के-सब सालवृक्ष और शैल-शिखरोंसे युद्ध करनेवाले थे; इसलिये उन्होंने लङ्कापर ही आक्रमण किया ॥ १४ ॥
विश्वास-प्रस्तुतिः
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।
प्राकाराग्राण्यसङ्ख्यानि ममन्थुस्तोरणानि च ॥ १५ ॥
मूलम्
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।
प्राकाराग्राण्यसङ्ख्यानि ममन्थुस्तोरणानि च ॥ १५ ॥
अनुवाद (हिन्दी)
वे सभी वानर वृक्षों, पर्वत-शिखरों और मुक्कोंसे असंख्य परकोटों और दरवाजोंको तोड़ने लगे ॥ १५ ॥
विश्वास-प्रस्तुतिः
परिखान् पूरयन्तश्च प्रसन्नसलिलाशयान् ।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ १६ ॥
मूलम्
परिखान् पूरयन्तश्च प्रसन्नसलिलाशयान् ।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ १६ ॥
अनुवाद (हिन्दी)
उन वानरोंने स्वच्छ जलसे भरी हुई खाइयोंको धूल, पर्वत-शिखर, घास-फूस और काठोंसे पाट दिया ॥
विश्वास-प्रस्तुतिः
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ।
कोटियूथशताश्चान्ये लङ्कामारुरुहुस्तदा ॥ १७ ॥
मूलम्
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ।
कोटियूथशताश्चान्ये लङ्कामारुरुहुस्तदा ॥ १७ ॥
अनुवाद (हिन्दी)
फिर तो सहस्र यूथ, कोटि यूथ और सौ कोटि यूथोंको साथ लिये अनेक यूथपति उस समय लङ्काके किलेपर चढ़ गये ॥ १७ ॥
विश्वास-प्रस्तुतिः
काञ्चनानि प्रमर्दन्तस्तोरणानि प्लवङ्गमाः ।
कैलासशिखराग्राणि गोपुराणि प्रमथ्य च ॥ १८ ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
लङ्कां तामभिधावन्ति महावारणसन्निभाः ॥ १९ ॥
मूलम्
काञ्चनानि प्रमर्दन्तस्तोरणानि प्लवङ्गमाः ।
कैलासशिखराग्राणि गोपुराणि प्रमथ्य च ॥ १८ ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
लङ्कां तामभिधावन्ति महावारणसन्निभाः ॥ १९ ॥
अनुवाद (हिन्दी)
बड़े-बड़े गजराजोंके समान विशालकाय वानर सोनेके बने हुए दरवाजोंको धूलमें मिलाते, कैलास-शिखरके समान ऊँचे-ऊँचे गोपुरोंको भी ढहाते, उछलते-कूदते एवं गर्जते हुए लङ्कापर धावा बोलने लगे ॥ १८-१९ ॥
विश्वास-प्रस्तुतिः
जयत्युरुबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २० ॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ २१ ॥
मूलम्
जयत्युरुबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २० ॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ २१ ॥
अनुवाद (हिन्दी)
‘अत्यन्त बलशाली श्रीरामचन्द्रजीकी जय हो, महाबली लक्ष्मणकी जय हो और श्रीरघुनाथजीके द्वारा सुरक्षित राजा सुग्रीवकी भी जय हो’ ऐसी घोषणा करते और गर्जते हुए इच्छानुसार रूप धारण करनेवाले वानर लङ्काके परकोटेपर टूट पड़े ॥ २०-२१ ॥
विश्वास-प्रस्तुतिः
वीरबाहुः सुबाहुश्च नलश्च पनसस्तथा ।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ २२ ॥
मूलम्
वीरबाहुः सुबाहुश्च नलश्च पनसस्तथा ।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ २२ ॥
अनुवाद (हिन्दी)
इसी समय वीरबाहु, सुबाहु, नल और पनस—ये वानरयूथपति लङ्काके परकोटेपर चढ़कर बैठ गये और उसी बीचमें उन्होंने वहाँ अपनी सेनाका पड़ाव डाल दिया ॥ २२ ॥
विश्वास-प्रस्तुतिः
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः ।
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ २३ ॥
मूलम्
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः ।
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ २३ ॥
अनुवाद (हिन्दी)
बलवान् कुमुद विजयश्रीसे सुशोभित होनेवाले दस करोड़ वानरोंके साथ (ईशानकोणमें रहकर) लङ्काके पूर्व१ द्वारको घेरकर खड़ा हो गया ॥ २३ ॥
विश्वास-प्रस्तुतिः
सहायार्थे तु तस्यैव निविष्टः प्रघसो हरिः ।
पनसश्च महाबाहुर्वानरैरभिसंवृतः ॥ २४ ॥
मूलम्
सहायार्थे तु तस्यैव निविष्टः प्रघसो हरिः ।
पनसश्च महाबाहुर्वानरैरभिसंवृतः ॥ २४ ॥
अनुवाद (हिन्दी)
उसीकी सहायताके लिये अन्य वानरोंके साथ महाबाहु पनस और प्रघस भी आकर डट गये ॥ २४ ॥
विश्वास-प्रस्तुतिः
दक्षिणद्वारमासाद्य वीरः शतबलिः कपिः ।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ २५ ॥
मूलम्
दक्षिणद्वारमासाद्य वीरः शतबलिः कपिः ।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ २५ ॥
अनुवाद (हिन्दी)
वीर शतबलिने (आग्नेयकोणमें स्थित हो) दक्षिण२ द्वारपर आकर बीस करोड़ वानरोंके साथ उसे घेर लिया और वहीं पड़ाव डाल दिया ॥ २५ ॥
विश्वास-प्रस्तुतिः
सुषेणः पश्चिमद्वारं गत्वा तारापिता बली ।
आवृत्य बलवांस्तस्थौ कोटिकोटिभिरावृतः ॥ २६ ॥
मूलम्
सुषेणः पश्चिमद्वारं गत्वा तारापिता बली ।
आवृत्य बलवांस्तस्थौ कोटिकोटिभिरावृतः ॥ २६ ॥
अनुवाद (हिन्दी)
ताराके बलवान् पिता सुषेण (नैर्ऋत्यकोणमें स्थित हो) कोटि-कोटि वानरोंके साथ पश्चिम३ द्वारपर आक्रमण करके उसे घेरकर खड़े हो गये ॥ २६ ॥
विश्वास-प्रस्तुतिः
उत्तरद्वारमागम्य रामः सौमित्रिणा सह ।
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ २७ ॥
मूलम्
उत्तरद्वारमागम्य रामः सौमित्रिणा सह ।
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ २७ ॥
अनुवाद (हिन्दी)
सुमित्राकुमार लक्ष्मणसहित महाबलवान् श्रीराम तथा वानरराज सुग्रीव उत्तर४ द्वारको घेरकर खड़े हुए (सुग्रीव पूर्ववर्णनके अनुसार वायव्यकोणमें स्थित हो उत्तर द्वारवर्ती श्रीरामकी सहायता करते थे ।) ॥ २७ ॥
पादटिप्पनी
१, २, ३, ४—यहाँ जो पूर्व, दक्षिण, पश्चिम और उत्तर शब्द आये हैं, वे क्रमशः ईशान, अग्नि, नैर्ऋत्य और वायव्यकोणका लक्ष्य करानेवाले हैं; क्योंकि पहले (४१ वें सर्गमें) पूर्व आदि दरवाजोंपर नील आदि यूथपतियोंके आक्रमणकी बात कह दी गयी है वे कुमुद आदि वानर निकटवर्ती ईशान आदि कोणोंमें रहकर पूर्वादि द्वारोंपर आक्रमण करके नील आदिकी सहायता करते थे ।
विश्वास-प्रस्तुतिः
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शना ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २८ ॥
मूलम्
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शना ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २८ ॥
अनुवाद (हिन्दी)
लंगूर जातिके विशालकाय महापराक्रमी वानर गवाक्ष, जो देखनेमें बड़े भयंकर थे, एक करोड़ वानरोंके साथ श्रीरामचन्द्रजीके एक बगलमें खड़े हो गये ॥ २८ ॥
विश्वास-प्रस्तुतिः
ऋक्षाणां भीमकोपानां धूम्रः शत्रुनिबर्हणः ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २९ ॥
मूलम्
ऋक्षाणां भीमकोपानां धूम्रः शत्रुनिबर्हणः ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २९ ॥
अनुवाद (हिन्दी)
इसी तरह महाबली शत्रुसूदन ऋक्षराज धूम्र एक करोड़ भयानक क्रोधी रीछोंको साथ लेकर श्रीरामचन्द्रजीके दूसरी ओर खड़े हुए ॥ २९ ॥
विश्वास-प्रस्तुतिः
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।
वृतो यत्तैस्तु सचिवैस्तस्थौ यत्र महाबलः ॥ ३० ॥
मूलम्
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।
वृतो यत्तैस्तु सचिवैस्तस्थौ यत्र महाबलः ॥ ३० ॥
अनुवाद (हिन्दी)
कवच आदिसे सुसज्जित महान् पराक्रमी विभीषण हाथमें गदा लिये अपने सावधान मन्त्रियोंके साथ वहीं आकर डट गये, जहाँ महाबली श्रीराम विद्यमान थे ॥
विश्वास-प्रस्तुतिः
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥ ३१ ॥
मूलम्
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥ ३१ ॥
अनुवाद (हिन्दी)
गज, गवाक्ष, गवय, शरभ और गन्धमादन—सब ओर घूम-घूमकर वानर-सेनाकी रक्षा करने लगे ॥ ३१ ॥
विश्वास-प्रस्तुतिः
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत् तदा ॥ ३२ ॥
मूलम्
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत् तदा ॥ ३२ ॥
अनुवाद (हिन्दी)
इसी समय अत्यन्त क्रोधसे भरे हुए राक्षसराज रावणने अपनी सारी सेनाको तुरंत ही बाहर निकलनेकी आज्ञा दी ॥ ३२ ॥
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखेरितम् ।
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ॥ ३३ ॥
मूलम्
एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखेरितम् ।
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ॥ ३३ ॥
अनुवाद (हिन्दी)
रावणके मुखसे बाहर निकलनेका आदेश सुनते ही राक्षसोंने सहसा बड़ी भयानक गर्जना की ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ततः प्रबोधिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ।
हेमकोणैरभिहता राक्षसानां समन्ततः ॥ ३४ ॥
मूलम्
ततः प्रबोधिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ।
हेमकोणैरभिहता राक्षसानां समन्ततः ॥ ३४ ॥
अनुवाद (हिन्दी)
फिर तो राक्षसोंके यहाँ जिनके मुखभाग चन्द्रमाके समान उज्ज्वल थे और जो सोनेके डंडेसे बजाये या पीटे जाते थे, वे बहुत-से धौंसे एक साथ बज उठे ॥
विश्वास-प्रस्तुतिः
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।
राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ ३५ ॥
मूलम्
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।
राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ ३५ ॥
अनुवाद (हिन्दी)
साथ ही भयानक राक्षसोंके मुखकी वायुसे पूरित हो लाखों गम्भीर घोषवाले शङ्ख बजने लगे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः ।
विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ॥ ३६ ॥
मूलम्
ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः ।
विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ॥ ३६ ॥
अनुवाद (हिन्दी)
आभूषणोंकी प्रभासे सुशोभित काले शरीरवाले वे निशाचर शङ्ख बजाते समय विद्युत्प्रभासे उद्भासित तथा वकपंक्तियोंसे युक्त नील मेघोंके समान जान पड़ते थे ॥
विश्वास-प्रस्तुतिः
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।
समये पूर्यमाणस्य वेगा इव महोदधेः ॥ ३७ ॥
मूलम्
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।
समये पूर्यमाणस्य वेगा इव महोदधेः ॥ ३७ ॥
अनुवाद (हिन्दी)
तदनन्तर रावणकी प्रेरणासे उसके सैनिक बड़े हर्षके साथ युद्धके लिये निकलने लगे, मानो प्रलयकालमें महान् मेघोंके जलसे भरे जाते हुए समुद्रके वेग आगे बढ़ रहे हों ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ततो वानरसैन्येन मुक्तो नादः समन्ततः ।
मलयः पूरितो येन ससानुप्रस्थकन्दरः ॥ ३८ ॥
मूलम्
ततो वानरसैन्येन मुक्तो नादः समन्ततः ।
मलयः पूरितो येन ससानुप्रस्थकन्दरः ॥ ३८ ॥
अनुवाद (हिन्दी)
तत्पश्चात् वानर सैनिकोंने सब ओर बड़े जोरसे सिंहनाद किया, जिससे छोटे-बड़े शिखरों और कन्दराओंसहित मलयपर्वत गूँज उठा ॥ ३८ ॥
विश्वास-प्रस्तुतिः
शङ्खदुन्दुभिनिर्घोषः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरं चाभ्यनादयत् ॥ ३९ ॥
गजानां बृंहितैः सार्धं हयानां ह्रेषितैरपि ।
रथानां नेमिनिर्घोषै रक्षसां वदनस्वनैः ॥ ४० ॥
मूलम्
शङ्खदुन्दुभिनिर्घोषः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरं चाभ्यनादयत् ॥ ३९ ॥
गजानां बृंहितैः सार्धं हयानां ह्रेषितैरपि ।
रथानां नेमिनिर्घोषै रक्षसां वदनस्वनैः ॥ ४० ॥
अनुवाद (हिन्दी)
इस प्रकार हाथियोंके चिग्घाड़ने, घोड़ोंके हिनहिनाने, रथोंके पहियोंकी घर्घराहट एवं राक्षसोंके मुखसे प्रकट हुई आवाजके साथ ही शङ्ख और दुन्दुभियोंके शब्द तथा वेगवान् वानरोंके निनादसे पृथ्वी, आकाश और समुद्र निनादित हो उठे ॥ ३९-४० ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समपद्यत ।
रक्षसां वानराणां च यथा देवासुरे पुरा ॥ ४१ ॥
मूलम्
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समपद्यत ।
रक्षसां वानराणां च यथा देवासुरे पुरा ॥ ४१ ॥
अनुवाद (हिन्दी)
इतनेहीमें पूर्वकालमें घटित हुए देवासुर-संग्रामकी भाँति राक्षसों और वानरोंमें घोर युद्ध होने लगा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।
निजघ्नुर्वानरान् सर्वान् कथयन्तः स्वविक्रमान् ॥ ४२ ॥
मूलम्
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।
निजघ्नुर्वानरान् सर्वान् कथयन्तः स्वविक्रमान् ॥ ४२ ॥
अनुवाद (हिन्दी)
वे राक्षस दमकती हुई गदाओं तथा शक्ति, शूल और फरसोंसे समस्त वानरोंको मारने एवं अपने पराक्रमकी घोषणा करने लगे ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिनः ॥ ४३ ॥
मूलम्
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिनः ॥ ४३ ॥
अनुवाद (हिन्दी)
उसी प्रकार वेगशाली विशालकाय वानर भी राक्षसोंपर बड़े-बड़े वृक्षों, पर्वत-शिखरों, नखों और दाँतोंसे चोट करने लगे ॥ ४३ ॥
विश्वास-प्रस्तुतिः
राजा जयति सुग्रीव इति शब्दो महानभूत् ।
राजञ्जयजयेत्युक्त्वा स्वस्वनामकथां ततः ॥ ४४ ॥
मूलम्
राजा जयति सुग्रीव इति शब्दो महानभूत् ।
राजञ्जयजयेत्युक्त्वा स्वस्वनामकथां ततः ॥ ४४ ॥
अनुवाद (हिन्दी)
वानरसेनामें ‘वानरराज सुग्रीवकी जय हो’ यह महान् शब्द होने लगा । उधर राक्षसलोग भी ‘महाराज रावणकी जय हो’ ऐसा कहकर अपने-अपने नामका उल्लेख करने लगे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
राक्षसास्त्वपरे भीमाः प्राकारस्था महीं गतान् ।
वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन् ॥ ४५ ॥
मूलम्
राक्षसास्त्वपरे भीमाः प्राकारस्था महीं गतान् ।
वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन् ॥ ४५ ॥
अनुवाद (हिन्दी)
दूसरे बहुत-से भयानक राक्षस जो परकोटेपर चढ़े हुए थे, पृथ्वीपर खड़े हुए वानरोंको भिन्दिपालों और शूलोंसे विदीर्ण करने लगे ॥ ४५ ॥
विश्वास-प्रस्तुतिः
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीं गताः ।
राक्षसान् पातयामासुः खमाप्लुत्य स्वबाहुभिः ॥ ४६ ॥
मूलम्
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीं गताः ।
राक्षसान् पातयामासुः खमाप्लुत्य स्वबाहुभिः ॥ ४६ ॥
अनुवाद (हिन्दी)
तब पृथ्वीपर खड़े हुए वानर भी अत्यन्त कुपित हो उठे और आकाशमें उछलकर परकोटेपर बैठे हुए राक्षसोंको अपनी बाँहोंसे पकड़-पकड़कर गिराने लगे ॥
विश्वास-प्रस्तुतिः
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ ४७ ॥
मूलम्
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ ४७ ॥
अनुवाद (हिन्दी)
इस प्रकार राक्षसों और वानरोंमें बड़ा ही अद्भुत घमासान युद्ध हुआ, जिससे वहाँ रक्त और मांसकी कीच जम गयी ॥
समाप्तिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें बयालीसवाँ सर्ग पूरा हुआ ॥ ४२ ॥